मम्मटजगन्नाथयोः काव्यभेदविमर्शः

आचार्यः के. राजगोपालन्
साहित्यविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, अन्ध्रप्रदेशः

विषयसारः–    आलङ्कारिकेष्वन्यतममुख्यविषयः काव्यभेदः। काव्यभेदान्समाश्रित्य नैकैराचार्यैः स्वस्वग्रन्थाः निरमायिषत। परन्तु प्रसिद्धानि तु मम्मटजगन्नाथादिमतानि। अतोऽस्मिन्प्रबन्धे काव्यप्र-काशकारस्य तथा रसगङ्गाधरकारस्य मतमाश्रित्य पाठकानां सुबोधायोभयोर्मतयोर्विमर्शः  समासेनो-पस्थाप्यते।

          काव्यप्रकाशे मम्मटाचार्येण प्रथमोल्लासे काव्यलक्षणं प्रतिपाद्य काव्यभेदाः प्रत्यपातिषत। वस्तुतस्तु भेदशब्दोऽयं भेदनं भेद इति भावव्युत्पत्त्या विभागपरः, भिद्यतेऽनेनेति करणव्युत्पत्त्या विशेषलक्षणपरः। विभागश्चोत्तममध्यमावरत्वेन, तत्समनियतध्वनिगुणीभूतव्यङ्ग्यचित्रत्वेन च। इत्थममुत्तमकाव्यस्य विशेषलक्षणमुच्यते काव्यप्रकाशे-

                             इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः।[1]

          पार्यन्तिकव्यङ्ग्यापेक्षया न्यूनचमत्कारकारिण्यान्तरालिकव्यङ्ग्येऽव्याप्तिवारणाय वाच्यादिति। यथा- “निश्शेषच्युतचन्दनम्” इत्यादौ आन्तरालिके व्यङ्ग्यं “तदन्तिकमेव रन्तुं गतासी “ति। तदपेक्षया पार्यन्तिकव्यङ्ग्यो विप्रलम्भशृङ्गारः। तत्रान्तरालिकव्यङ्ग्यमादायास्योत्तमकाव्यत्वाभावनिरासायाह वाच्यादिति। वाच्यपदञ्च लक्ष्यस्याप्युलक्षणम्, इत्थञ्च वाच्यलक्ष्यापेक्षयातिशयिव्यञ्जकत्वं ध्वनित्वमिति। वाच्यातिशयित्वं नाम वाच्यापेक्षयाऽधिकचमत्कारित्वम्, अधिकचमत्कारजनकत्वं वा। रसस्य चमत्काररूपत्वेन, वस्त्वलङ्कारयोश्चमत्कारजनकत्वेन ग्रहणात्।

          अत्र ध्वनिशब्दव्यवहारे तु- अथवा प्रतीतिपदार्थको लोके ध्वनिः शब्द घट इत्येके इत्युच्यते[2] इति महाभाष्यमेव मूलम्। भावोऽयं विद्यते- घट इत्येकं पदम्, तस्माद्घटरूपोऽर्थो बुध्यते इति लोकव्यवहारः। तच्च नोपपद्यते वर्णाभिव्यक्तेः क्रमिकत्वात्। वर्णानां चाशुविनाशित्वादर्थप्रत्यायनास-म्भवात्। अतो मध्यमाया वाचो वाचकत्वं निश्चीयते।

          अभिसन्धिस्त्वत्र मूलाधारे स्थितायाः पराया वाचो विवर्तो नाभिदेशे पश्यन्तीवागित्युच्यते। ततो हृद्देशे विवर्तो मध्यमावागित्युच्यते। सा च श्रोत्रग्रहणायोग्यान्तबुद्धिनिर्गाह्या, अखण्डा, एका, स्फोटरूपा, अर्थप्रत्यायिका च। ततस्तस्याः कण्ठदेशे विवर्तो वैखरीवाग्, सा च ध्वनिरूपा। तया स्वरूपरूषितत्वेन मध्यमा वागभिव्यज्यते, अभिव्यक्ता सा अर्थं प्रत्याययति। तस्याश्चैकत्वेनार्थप्रत्या-यकत्वेन च घट इत्येकं पदम्। तस्माद्घटरूपोऽर्थो बुद्ध इति व्यवहारस्सम्पद्यते।

          आदौ वैयाकरणैरेव मध्यात्मकस्य स्फोटरूपस्य शब्दस्य व्यञ्जकतया वैखर्या वाचो ध्वनतीति ध्वनिरिति व्यवहारः कृतः। ध्वन्यालोके ततस्तन्मतमनुसरद्भिरानन्दवर्धनाचार्यप्रभृतिभिरालङ्कारि-कैरपि व्यङ्ग्यव्यञ्जकत्वसाधर्म्याद्वाच्योपसर्जन(गुणीभूतवाच्य)कारिणो व्यङ्ग्यस्य व्यञ्जने क्षमस्य शब्दार्थयुगलस्य ध्वनिरिति व्यवहारः कृतः। अत उत्तमकाव्यस्यापि शब्दार्थमयत्वाद्ध्वनिसंज्ञेति।

          पण्डितराजेनोत्तमकाव्यमुत्तमोत्तमपदेन व्यवहरता लक्षणं प्रत्यपादि-

                   शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्क्तस्तदाद्यम्।[3]

          अत्र “कमपि” इत्यस्य चमत्काराधायकमित्यर्थः, तदुपादानादगूढास्फुटासुन्दरेषु गुणीभूत-व्यङ्ग्यप्रभेदेषु नातिप्रसक्तिः। अगूढस्य वाच्यायमानतया सर्वजनवेद्यत्वात्, अस्फुटस्य विदग्धैरपि झटित्यनाकलनात्, चमत्काराधायकत्वाभावात्। असुन्दरस्य चमत्काररहितत्वात् शब्दार्थयोर्गुणी-भावितात्मानाविति विशेषणेन च अपराङ्गवाच्यसिद्ध्यङ्गसन्दिग्धप्राधान्यतुल्यप्राधान्यकाक्वाक्षिप्तेषु च व्यङ्ग्येषु नातिव्याप्तिः। एषु चमत्कारिणो व्यङ्ग्यस्य सद्भावेऽपि शब्दार्थयोर्वस्तुतोऽर्थस्य गुणीभावा-भावात्। उदाहरणत्वेनोच्यते-

                             शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्।

                        दयिता दायिताननाम्बुजं दरमीलन्नयना निरीक्षते॥[4]

          अत्र नायक आलम्बनम्, सविधशयनाभिव्यक्तं रहःस्थानमुद्दीपनम्, दरमीलन्नयनात्वविशिष्ट-निरीक्षणमनुभावः, नयनस्य दरमीलनेनाभिव्यक्ता लज्जा निरीक्षणेनाभिव्यक्तमौत्सुक्यं च व्यभिचारि-भावौ, एतेषां संयोगान्नायिकानिष्ठा रतिरभिव्यज्यते। निरीक्षणे प्रवृत्या सहृदयैरत्र सम्भोगशृङ्गाररस आस्वाद्यते।

          उत्तमोत्तमं ध्वनिकाव्यमेव। अमुमेव च प्रभेदं ध्वनिमामनन्ति[5] इति तदुक्तेः।

          अत्र विमृश्यते चेद्दृश्येत- उभावप्यानन्दवर्धनमाश्रित्यैव लक्षयाञ्चक्रतुः। तथा हि ध्वन्यालोके-

                             यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ।

                        व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः॥[6]

          स्वञ्चार्थश्च स्वार्थौ तौ उपसर्जनीकृतौ याभ्यां तौ। यत्र काव्येऽर्थो गुणीकृतात्मा, गुणीकृता-भिधेयश्च शब्दस्तमर्थं स्वादुतदर्थवस्तु व्यङ्ग्यमर्थमभिव्यङ्क्तः स काव्यविशेषो ध्वनिरिति सूरिभिः कथितः। एतदेव मम्मटो वृत्तौ स्पष्टयति- न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य ध्वनिरिति व्यवहारः कृतः[7] पण्डितराजेनाऽप्येतदेवाभिधीयते-  “शब्दार्थो यत्रेत्यादिनेति दिक्।” मध्यमकाव्यस्य गुणीभूतव्यङ्ग्यस्य वा लक्षणमुच्यते काव्यप्रकाशे-

                             अतादृशि गुणीभूतव्यङग्यं व्यङ्ग्ये तु मध्यमम्।[8]

          वाच्यार्थापेक्षयाऽतिशयिचमत्कारानाधायके व्यङ्ग्ये तु मध्यमकाव्यं, तदेव गुणीभूतव्यङ्ग्यमिति बुधैर्निगद्यते। व्यङ्ग्यस्य वाच्यानतिशयश्च न्यूनत्वेन तुल्यत्वेन च द्विविधः।

          ननु लक्षणमिदमयुक्तमवरकाव्येऽतिव्याप्तित्वात्। न चावरकाव्यमव्यङ्ग्यम्, मध्यमकाव्यञ्च वाच्यानतिशयिव्यङ्ग्यमिति नातिव्याप्तिरिति वाच्यम्, अव्यङ्ग्यस्य काव्यत्वासम्भवात्तत्राव्यङ्ग्यपदेनास्फु-टव्यङ्ग्यस्य स‌द्भावाङ्गीकारादतिव्याप्तित्वात्। “वाच्यानतिशयिस्फुटव्यञ्जकत्वं मध्यमत्वम्” इति लक्षण-स्वीकारेऽस्फुटव्यङ्ग्याख्यमध्यमकाव्येऽव्याप्तिस्स्यादिति न वाच्यम्, उपधेयसङ्करेऽप्युपाधेरसङ्करात्। अथवा वाच्यानतिशयित्वं नाम-

                        अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम्।

                        सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम्।

                        व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः॥

          इत्याद्युक्तागूढाद्यन्यतमत्वम्[9] इति नावरकाव्ये प्रसक्तिः । उदाहरणं यथा-

                             ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम्।

                        पश्यन्त्या मुहुर्भवति नितरां मलिना मुखच्छाया॥[10]

          पद्येऽस्मिन्दत्तसङ्केता नागतेति व्यङ्ग्यापेक्षया वाच्यस्य मुखमालिन्यस्य रतेरनुभावतया विप्रलम्भाभासपोषकतयाधिकचमत्कारित्वमिति व्यङ्ग्यस्य वाच्यापेक्षया न्यूनत्वे उदाहरणम्। तुल्यत्वेनोदाहरणं यथा-

                             ब्राह्मणातिक्रमत्यागो भवतामेव भूतये।

                        जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते॥

          अत्र परशुरामः क्षत्रियाणामिव रक्षसां क्षणात् क्षयं करिष्यतीति व्यङ्ग्यं “दुर्मनायते” इति गभीरोक्त्या विग्रहवत्सन्धेरपि विवक्षितत्वेन वाच्यस्यापि चमत्कारित्वाद्वाच्यतुल्यचमत्कारि।

          पण्डितराजेन च द्वितीयस्योत्तमकाव्यस्य लक्षणं प्रतिपादयतोच्यते-

                             यत्र व्यङ्ग्यमप्रधानमेव सच्चमत्कारकारणं तद्द्वितीयम्।[11]

          अर्थाद्यत्र काव्ये व्य‌ङ्ग्योऽर्थो वाच्यापेक्षया व्यङ्ग्यान्तरापेक्षया च गुणीभूत एव (न कथमपि प्रधानीभूतः) तद्द्वितीयमुत्तमं काव्यमिति। अत्र एवकारस्यावधारणमर्थः। अर्थात्सर्वथाऽप्रधानमेवातो वाच्यापेक्षया प्रधानीभूते, व्यङ्ग्यान्तरमादाय गुणीभूते व्यङ्ग्ये न द्वितीयकाव्यलक्षणातिप्रसक्तिः। वाच्यापेक्षया प्रधानव्यङ्ग्यस्य (व्यङ्ग्यान्तरमादाय गुणीभूतेऽपि) ध्वनित्वमेव। लीनव्यङ्ग्यवाच्यचित्रे उपमारूपकादावतिव्याप्तिनिरासाय चमत्कारकारणमिति।

          अत्रेत्थं वक्तुं शक्यते लक्षणमिदं मम्मटानुसार्येव यतो हि वाच्यापेक्षया प्रधानीभूतस्य व्यङ्ग्यस्योत्तमत्वमप्रधानीभूतस्य मध्यमत्वम्। अत्राप्राधान्यञ्च तुल्यत्वेन न्यूनचमत्कारत्वेन च।

          मतभेदस्त्वित्थं मम्मटाचार्यः पञ्चमोल्लासेऽपराङ्गगुणीभूतव्यङ्ग्यस्य “अपरस्य रसादेर्वाच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि अनुरणनरूपं वा”। इति व्युत्पत्तिं विधाय रसस्य रसाङ्गतायाम-पराङ्गगुणीभूतव्यङ्ग्यमुदाजहार-

                             अयं स रेशनोत्कर्षी पीनस्तनविमर्दनः।

                        नाभ्युरुजघनस्पर्शी नीवीविस्रंसनः करः॥[12]

          अत्रार्जुनेन कृत्तं समरभूमौ पतितं भूरिश्रवसो हस्तं वीक्ष्य तद्वध्वाः प्रलायो वर्णितः। अत्रालम्ब-नस्यात्यन्तिकविच्छेदात्करुणरसः प्रधानम्, श्रङ्गारानुगुणरशनोत्कर्षित्वादिविलासस्मरणमधिकं शोकावेगं जनयतीति शृङ्गारः करुणस्याङ्गमिति गुणीभूतः।

          परञ्च पण्डितराजो वाच्यापेक्षयाप्रधानीभूतस्य व्यङ्ग्यान्तरमादाय गुणीभूतस्य ध्वनित्वमेव मनुते। तत्र शृङ्गाररसो न वाच्यापेक्षयाऽप्रधानम्, व्यङ्ग्यप्राधान्ये हि ध्वनिः[13] इति ध्वनिकारोक्त्या रसध्वनिः प्रधानमेव। तन्मतेऽस्य ध्वनिकाव्यत्वमित्यनयोर्वैमत्यम्। एवञ्च मम्मटोक्तमध्यमकाव्यस्य सामान्यलक्षणमप्यत्र न सङ्घटते। श्रृङ्गाररसस्य वाच्यापेक्षयाऽतिशयित्वात्।

          वस्तुतस्तु पण्डितराजमते वाच्यापेक्षया प्रधानीभूतस्य व्यङ्ग्यस्य व्यङ्ग्यान्तरमादाय गुणीभूतत्वेऽपि ध्वनित्वमेव। अतः “अयं स रशनोत्कर्षी” इत्यादौ पण्डितराजमते ध्वनित्वम्। मम्मटमतेऽपराङ्गव्यङ्ग्यतया गुणीभूतत्वम्। परन्तत्र गुणीभूतव्यङ्ग्यसामान्यलक्षणं न सङ्घटते।

          विमृश्यते चेन्मम्मटजगन्नाथावुभावपि ध्वनिसम्प्रदायाचार्यावतस्तदनुसारमेव ग्रन्थग्रन्थिवि-मर्शो युक्तः। ध्वनिकारश्च पूर्वाचार्याभिमतरसवदाद्यलङ्कारेभ्यो रसध्वनेर्विभक्तविषयतां निरूपयन्नाह-

                             प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः।

                        काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः॥[14]

          अर्थाद्यस्मिन् काव्ये रसादयोऽङ्गभूताः, वाक्यार्थीभूतश्चान्योऽर्थस्तत्काव्यसम्बन्धिनोऽङ्गभूता रसादयो रसवदलङ्कारस्य विषयाः (येऽङ्गभूतास्त एवालङ्कारस्य विषयाः)।

          परमत्राशङ्क्यते- रसः किं कुर्वन् प्रकृतार्थमलङ्करोति? उपमादिरलङ्कारः किं कुर्वन् प्रकृतार्थमलङ्करोति? इति प्रतिवन्द्योवोत्तरम्। यद्युच्यते उपमा प्रकृतार्थमुपमाति, तदा रसोऽपि प्रधानीभूतं रसं सरसं करोति, अतोऽलङ्कारत्वम्। एतदनुसरन् प्रकाशकृदपि-

                             भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः[15]

इत्यूचे। परं वाच्यवाचकरूपाङ्गोपस्कारद्वाराऽङ्गीभूतरसमुपकुर्वाणा एव शास्त्रेऽलङ्कारतया व्यवहृताः। रसादयस्तु साक्षाद्रसमुपकर्वाणाः कथमलङ्काराः?-

                             उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित्।

                        हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः॥[16]

          इत्यलङ्कारलक्षणात्। अस्य विशदविवरणं प्रकाशकृदाभिरक्रियत तत्रैव द्रष्टव्यम्।

          प्रकृते च “अयं स रशनोत्कर्षी” इत्यादौ शृङ्गारोऽर्थाद्रतिः करुणस्याङ्गमित्यभिप्रायः। अत्र वाच्यरशनोत्कर्षादिः रतेरनुभावः, स्मर्यमाणतया स एव शोकोत्कर्षक इति प्रधानीभूतः। व्यङ्ग्यापि रतिर्वाच्यापेक्षया नातिशायिनी, आलम्बनविच्छेदात्। अतोऽत्र गुणीभूतस्य सामान्यलक्षणं समन्वेति। अत एव नागेशोऽपराङ्गोदाहरणे “अयं स रशनोत्कर्षी” इत्यत्रापि वाच्यापेक्षया शृङ्गारस्य न प्राधान्यं, शोकोत्कर्षकतया शृङ्गाररूपव्यङ्ग्यापेक्षया वाच्यस्यैव चमत्कारित्वादिति।[17]

          अथवा “वाच्यानतिशयित्वं नाम अगूढाद्यन्यतमत्वम्” इति स्वीकारेणादोषः। शृङ्गाररसस्य करुणाङ्गत्वेनापराङ्गता। ध्वनिकारादिसकलालङ्कारिकसम्मत्तत्वात्। किञ्च उपधेयसङ्करेऽप्युपाधेरस-ङ्करान्न दोष इति।

          पुनश्च पण्डितराजकृतौ प्रथमद्वितीयभेदौ ध्वनिगुणीभूतव्यङ्ग्यत्वाभिधे काव्ये एव। यदुक्तं स्वयं तेन अनयोर्भेदयोरनपह्नवनीयचमत्कारयोरपि प्राधान्याप्राधान्याभ्यामस्ति कश्चित्सहृदयसंवेद्यो विशेषः[18] अर्थात्प्रथमे भेदे व्यङ्ग्यस्य प्राधान्यम्, द्वितीये भेदे व्यङ्ग्यस्याप्राधान्यमर्थाद्गुणीभूतत्वम्। भेदद्वयेऽपि चमत्कारोऽनपह्नवनीय एवेति।

        अवरकाव्यस्य लक्षणं काव्यप्रकाशे-

                             शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्[19]

          अत्र चित्रमित्यध्याहार्यं तेन- अव्यङ्ग्यं काव्यमवरमधमं स्मृतं तदेव बुधैश्चित्रमिति गदितम्। तच्चित्रं द्विविधं शब्दचित्रमर्थचित्रञ्चेति।

          अव्यङ्ग्यमित्यत्रेषदर्थे नञ्, तस्य चास्फुटत्वे पर्यवसानादस्फुटव्यङ्ग्यमित्यर्थः। सर्वथा व्यङ्ग्यरहितस्य काव्यत्वासम्भवात्।

          यद्यप्यस्फुटव्यङ्ग्यमवरमित्युक्त्याऽस्फुटाख्ये गुणीभूतेऽवरकाव्यताया अतिप्रसक्तिस्स्यात्तथापि अत्रास्फुटत्वं कविविवक्षारहित्वं, तत्रास्फुटत्वं कविविवक्षितत्वे सति सहृदयैरप्यसंवेद्यत्वमिति न दोषः। प्रोक्तञ्च ध्वनिकारेण-

                             रसभावादिविषयविवक्षाविरहे सति।

                        अलङ्कारनिबन्धो यः स चित्रविषयो मतः॥[20]

          अत्र काव्यलक्षणे गुणपदं गुणव्यञ्जकवर्णमात्रपरम्। अन्यथा गुणानां रसधर्मत्वेन रससदभावे चित्रत्वानापत्तेः। उदाहरणञ्च “स्वच्छन्दोच्चच्छलदच्छ” इत्यादिशब्दचित्रस्य। “विनिर्गतं मानदमात्ममन्दिरात्” इत्याद्यर्थचित्रस्य।

          पण्डितराजेन च तृतीयभेदविषये उच्यते-

                   यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम्[21] इति।

          यस्मिन् काव्ये व्यङ्ग्यचमत्कारस्याऽसमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयं मध्यमं काव्यम्। परं व्यङ्ग्यस्य वाच्यस्य च चमत्कारस्य समानं हृदयमधिकरणमाश्रयः, तर्हि कथमसमानाधि-करणम्, इति न शङ्कनीयम्। अत्रासामानाधिकरण्यमस्फुटत्वम्। एवञ्च परिष्कृतं तृतीयकाव्यस्य लक्षणं शब्दविशिष्टशब्दत्वं तृतीय(मध्यम)काव्यत्वम्। वैशिष्ट्यञ्च स्वतादात्म्यस्वव्यङ्ग्यार्थविषय-शाब्दबोधजन्यचमत्कारविशिष्टान्यचमत्कारजनकबोधविषयार्थप्रतिपादकत्वैतदुभयसम्बन्धेन। सम्ब-न्धघटकवैशिष्ट्यञ्च स्वसमवायिसमवेतत्वस्याव्यवहितपूर्ववर्तित्वैतदुभयसम्बन्धेन। सम्बन्धघटकवै-शिष्ट्ये स्वपदेन वाच्यचमत्कारो ज्ञेयः। उदाहरणं यथा-

          तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी[22] इति। अत्र हिमगिरभुजायमानाया इत्यत्र वाच्योत्प्रेक्षालङ्कार एव चमत्कृतिं जनयति। जलधिजठरप्रविष्टहिमगिरिभुजवदित्यादिना प्रतीयमानशैत्यपातालतलचुम्बित्वयोश्चमत्कारलेशः अनुभवपथमवतरन्नप्युत्प्रेक्षाचमत्कारान्तर्भूततयाऽस्फुटः। स्वभावतो गौरवर्णया ग्राम्यनायिकया कृतकेशरानुलेपनेनाच्छादिततया स्वतःसुषमाधायकमपि स्वीयाङ्गगौरत्वं तिरोहितं स्फुटं न प्रतीयते तद्वत्।

          सर्वथा व्यङ्ग्याभावोऽत्र न विवक्षितः, व्यङ्ग्यसंस्पर्शमन्तरा वाच्यार्थस्य रमणीयतामाधातुमक्ष-मत्वात् काव्यत्वमेव न स्यात्। एवं पर्यायोक्तसमासोक्तिदीपकापह्नुति-आक्षेपाप्रस्तुतप्रशंसादीनां वाच्यस्य प्राधान्येन गुणीभूतस्यापि व्यङ्ग्यस्य चमत्कारितया द्वितीयप्रभेदेऽन्तर्भावः। अन्येषामुपमा-रूपकादीनां तृतीयभेदेऽन्तर्भावः। इत्थं सर्वेषामलङ्कारप्रधानकाव्यानामन्तर्भावो ज्ञेयः।

          इत्थं पण्डितराजो जागरूकाजागरूकगुणीभूतव्यङ्ग्ययोर्द्वितीयतृतीयप्रभेदयोरर्थालङ्कारप्रधान (अर्थचित्र)काव्यानामन्तर्भावमुपपाद्य शब्दालङ्काराणां कृते चतुर्थप्रकारं लक्षयति-

                   यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम्[23] इति।

          यत्र अर्थप्रतीतिजन्यचमत्कृतिपोषिता शब्दप्रतीतिजन्यचमत्कृतिः प्रधाना तदधमं काव्यम्। यथा-

                             मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे।

                        गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः॥[24]

          अत्र शब्दालङ्कारवृत्त्यनुप्रासजन्यचमत्कृतिरेव प्रधानभूता, कविसंरम्भगोचरत्वात्। अर्थप्रती-तिजन्यः कविनिष्ठविष्णुशिवविषयकरतिभावचमत्कारः शब्दचमत्कृतौ लीनः। तदुक्तम्-

                             यमकादिनिबन्धे तु पृथग्यत्नोऽस्य जायते।

                        शक्तस्यापि रसेऽङ्गत्वं तस्मादेषां न विद्यते॥[25]

          अर्थचमत्कृतिशून्यानां शब्दचमत्कृतिविशिष्टानामेकाक्षरपद्यार्थावृत्तियमकपद्मबन्धादीनां कृते पञ्चमो भेदोऽधमाधमाख्यो न गणितः। तेषामर्थचमत्कृतिशून्यतयाऽकाव्यत्वात्, रमणीयार्थप्रतिपा-दकशब्दस्यैव काव्यत्वात्।

          मम्मटमतखण्डनमित्थं पण्डितराजश्चतुरः काव्यभेदान्निरूप्य काव्यस्य त्रिविधत्वमुपपादयतां मम्मटादीनां मतं निराकरोति- केचित्, उत्तममध्यमाधमभावेन त्रिविधमेव काव्यामचक्षते। तत्रार्थचित्रशब्दचित्रयोरविशेषेणाधमत्वं वक्तुमयुक्तम्। शब्दचित्रापेक्षया अर्थचित्रे चमत्काराधिक्यस्य स्फुटमनुभूयमानत्वात्। न हि कश्चन सचेताः- “विनिर्गतं मानदमात्मन्दिरात्” इति प्रकाशोदाहृता-र्थचित्रकाव्येन, “सच्छिन्नमूलः क्षतजेन रेणुः” इत्यप्पयदीक्षितोदाहृतार्थचित्रकाव्येन सह च पामरश्लाध्यस्य “स्वच्छन्दोच्छलदच्छकच्छे “त्यस्य शब्दचित्रस्याविशेषं वक्तुमिष्टे। (चमत्कारयोः न्यूनाधिकभावे सत्यपि यद्येकभेदत्वन्तर्हि स्वल्पान्तरयोर्ध्वनिगुणीभूतयोर्भेदे कथं दुराग्रहः। तयोरप्येकभेदत्वं स्वीकर्तव्यम्)।[26]

  • विमर्शः-

          मम्मटाचार्यो ध्वनिकारमतमनुसृत्य काव्यभेदं कृतवान्। ध्वनिकारोऽपि ध्वनिगुणीभूतव्यङ्ग्यचित्रभेदानङ्गीकरोति। चित्रभेदे शब्दचित्रार्थचित्रेऽविशेषणैव गृह्णाति। तथा हि-

                             प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते।

                        काव्ये उभे ततोऽन्यद् यत्तच्चित्रमभिधीयते॥

                        चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम्।

                        तत्र किञ्चिच्छब्दचित्रं वाच्यचित्रमतः परम्॥[27]

          अर्थाद्यत्र व्यङ्ग्यप्राधान्यं तत्र ध्वनिसंज्ञकं काव्यम्, यत्र गौणत्वन्तत्र गुणीभूतव्यङ्ग्यत्वम्, यत्र रसभावादितात्पर्यरहितं वाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धन्तदालेख्यप्रख्यं चित्रम्। परमेतन्मते दुष्करयमकादावपि चित्रत्वम्। यदुक्तं तत्रैव-

                             तत्र किञ्चिच्छब्दचित्रं यथा दुष्करयमकादि।[28]

          परञ्च पण्डितराजस्स्वप्रखरप्रतिभया चमत्कारयोरुत्कर्षापकर्षौ विचार्य विशेषं निर्धार्य पृथग्भेदत्वमुपपाद्य चतुर्विधत्वं कृतवान्।

          परन्तु विवेचनीयम्- दुष्करपद्यार्थावृत्तियमकैकाक्षरपद्यबन्धमुरजखङ्गबन्धादिचित्रकाव्यानां काव्ये गुणीभूतत्वन्तु मम्मटेनाऽप्यापादितम्। अस्य विशदविवेचनन्तु रसगङ्गाधरस्य रसचन्द्रिकादि-व्याख्यां सुष्ठूपपादितमत्र तु दिङ्मात्रन्दर्शितम्।

  • सन्दर्भग्रन्थसूची-
  • अल‌ङ्कारशास्त्र की परम्परा। डा. राजवंशसहायः ‘हीरा’। चौखम्बाप्रकाशनम्, वाराणसी
  • अष्टाध्यायी। पाणिनिः। व्याख्या. डा. नरेशझा। चौखम्बासुरभारतीप्रकाशनम्, वाराणसी, २०१७
  • काव्यप्रकाश (प्रदीपटीका)। मम्मटः। टीकाकारः-भट्ट वामनाचार्य, चौखम्बासंस्कृतप्रतिष्ठानम्, दिल्ली,      संस्करणम्-२०१३
  • काव्यप्रकाशः (ज्योतिष्मती टीका)। मम्मटः। व्याख्या. रामसागरत्रिपाठी। मोतीलालबनारसीदासः, वाराणसी             प्रथमसंस्करणम्- १९८२-भाग-१
  • काव्यप्रकाशः (ज्योतिष्मती टीका)। मम्मटः। व्याख्याकारः डा. रामसागरत्रिपाठी। मोतीलालबनारसीदासः,        वाराणसी प्रथमसंस्करणम्-१९८३ भाग-२
  • काव्यप्रकाशः(नागेश्वरीटीका)। मम्मटः। व्याख्या. श्रीहरिशंकरशर्मा, चौखम्बासुरभारतीप्रकाशनम्, वाराणसी,             संस्करणम्,पुनर्मुद्रणम्-वि०सं०-२०७०
  • ध्वन्यालोकः। आनन्दवर्धनः। व्याख्या. रामसागरत्रिपाठी। मोतीलालबनारसीदासः, दिल्ली, संस्करणम्-२०१७
  • महाभाष्यम् (पस्पशाह्निकम्)। पतञ्जलिः। व्याख्या. जयशङ्करलालत्रिपाठी। चौखम्बा-कृष्णदास-अकादमी,           वाराणसी संस्करणम्- तृतीयम्-२००७
  • रसग‌ङ्गाधरः। जगन्नाथः। सम्पा. बद्रीनाथझा तथा मदनमोहनझा। चौखम्बाविद्याभवनम्, वाराणसी, पुनर्मुद्रितम्    संस्करणम्-२०१३ (द्वितीयभागः)
  • रसग‌ङ्गाधरः(चन्द्रिका)। जगन्नाथः। चौखम्बाविद्याभवनम्, वाराणसी, चतुर्थसंस्करणम्।
  • रसग‌ङ्गाधरः(रसचन्द्रिका)। जगन्नाथः। सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी, प्रथमसंस्करणम्।
  • श्रीमद्भगवद्गीता। सम्पा.- स्वामी राममुखदासः। साधक सञ्जीवनी, गीताप्रेस, गोरखपुर, २००४।
  • संस्कृतसाहित्यस्येतिहासः। आचार्यजगदीशचन्द्रमिश्रः। चौखम्बासुरभारतीप्रकाशनम्, वाराणसी, संस्करण-        २०१८
  • संस्कृतकाव्यस्योद्भवस्तथा विकासक्रमः। जाह्नवीचरणभौमिकः। कलिकाता, संस्कृत पुस्तक भाण्डार, १९९७
  • www.googlebook.com
  • www.sanskrit.nic.in
  • www.shodhganga.com

[1] काव्यप्रकाशः- १।४

[2] महाभाष्यम्, पश्पशाह्निकम्

[3] रसगङ्गाधरः, प्रथमाननम्, काव्यलक्षणप्रसङ्गे

[4] रसगङ्गाधरः, प्रथमाननम्, काव्यलक्षणप्रसङ्गे

[5] रसगङ्गाधरः, पुटसंख्या-४८

[6] ध्वन्यालोकः-१।१३

[7] काव्यप्रकाशः- १।३

[8] काव्यप्रकाशः- १।३

[9] काव्यादर्शः, पुटसंख्या-२३

[10] काव्यप्रकाशः, प्रथम उल्लासः

[11] रसङ्गाधरः- १/६६

[12] काव्यप्रकाशः- ५।११६

[13] ध्वन्यालोकः, पुटसंख्या-१०८

[14] ध्वन्यालोकः- २।५

[15] काव्यप्रकाशः-४।२६

[16] काव्यप्रकाशः-८।८८सूत्रम्

[17] काव्यप्रकाशः, गुरुमर्मप्रकाशः- १०।२९

[18] रसगङ्गाधरः, पुटसंख्या- ७२

[19] काव्यप्रकाशः-१।४

[20] ध्वन्योलोकः, पुटसंख्या- १०८

[21] रसगङ्गाधरः, प्रथमे आनने

[22] रसगङ्गाधरः, प्रथमे आनने

[23] रसगङ्गाधरः, प्रथममाननम्, पुटसंख्या- ७८

[24] रसगङ्गाधरः, प्रथममाननम्, पुटसंख्या- ७९

[25] ध्वन्योलोकः, द्वितीयः

[26] रसगङ्गाधरः, प्रथममाननम्, पुटसंख्या-७९-८१

[27] ध्वन्यालोकः- ३।४१-४२

[28] ध्वन्यालोकः, पुटसंख्या-४९५