कुन्दमालायाः वस्तुसमीक्षणम्

प्रो. चक्रवर्ति-रङ्गनाथन्
साहित्यविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः
तिरुपतिः

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।

एकैकमक्षरं प्रोक्तं महापातकनाशनम्।।[1]

        इत्थं प्रकीर्त्यमाना रामकथा परमपावनी, मोक्षदायिनीत्यस्माकं विश्वास:। अत एव तां गाथामाधारीकृत्य बहूनि दृश्यश्रव्यकाव्यानि प्रादुरभूवन्। तत्रापि “काव्येषु नाटकं रम्यम्” इत्युक्त्या नाटकश्रैष्ठ्यं द्योत्यत एव। तादृशेषु नाटकेषु अवतारपुरुषस्य भगवत: श्रीरामचन्द्रस्य गाथा बहुभि: कविभि: उपनिबद्धा। रामकथामाश्रित्य विरचितेषु नाटकेष्वन्यतममतिप्राचीनञ्च भवतीदं कुन्दमाला नाम नाटकम्। वाल्मीके: श्रीमद्रामायणस्योत्तरकाण्डस्य इतिवृत्तमाश्रित्य कविना दिङ्नागेन षट्सु अङ्केषु ग्रथितेयं कुन्दमाला। कविवरस्य प्रतिभया नाटकमिदम् इतिवृत्तपरिवर्तनदृष्ट्या, रसभावभरितसामान्यजनसंवेदनापरसम्भाषणदृष्ट्या च संस्कृतनाटकजगति विशिष्टं स्थानमाप्नोत्।

        नाटकं ख्यातवृत्तं स्यादिति[2] निर्देशनात् कविवरोऽयं महापुरुषस्य श्रीरामचन्द्रस्य गाथामाश्रित्य नाटकमिदं व्यरचयत्। तत्र नाट्यवस्तु आधिकारिकं, प्रासङ्गिकञ्चेति द्विविधम् इति धनञ्जयेन उक्तं वर्तते। तद्यथा-

                        अधिकार:फलस्वाम्यमधिकारी च तत्प्रभु:।                                                 तन्निर्वृत्तमभिव्यापि, वृत्तं स्यादाधिकारिकम्।।[3]

        इति शास्त्रनिर्देशात्, मुख्यफलास्वामिनौ नायिकानायकौ एव अधिकारपदेनाभिधीयेते। अतः तत्सम्बन्धेतिवृत्तमाधिकारिकमिति स्पष्टम्। प्रस्तुतेऽस्मिन् नाटके नायकः श्रीरामः नायिका च सीतादेवी। अतः नायिकानायकयोः सीतारामयोः कथेयम् आधिकरिकमिति विषयः स्पष्ट एव।

वस्तुपरिवर्तनम्

         श्रीमद्रामायणाद् इतिवृत्तं स्वीकृत्य, सन्दर्भोचितैः विश्वासजनकैश्च परिवर्तनैः विनिर्मितेयं कुन्दमाला, सहृदयहृदयानि आह्लादयति। मूलकथाया अर्थात् श्रीमद्रामायणस्थकथाभागाः कविना स्वीयप्रतिभया कथं परिवर्तिताः इत्यत्र वैशद्येन विवेच्यते ।

प्रथमाङ्कः

प्रथमाङ्के तावत् सीतां विपिने परित्यक्तुं रामेणादिष्टेन लक्ष्मणेन नाटकमिदं आरभ्यते।[4] श्रीमद्रामयणे लोकापवादश्रवणेनैव प्रजानुरञ्जनमात्रस्वभावी रामः सीतां परित्यक्तुं भ्रातृभिस्सह परामृशति।[5] कुन्दमालायां लक्ष्मणः मयापि किल गन्तव्यं त्यक्त्वा त्वामहि कानने[6] इत्युक्त्वा सीतां श्वापदनिवासयोग्ये कानने परित्यजति। अत्र कविना वाल्मीकेराश्रमप्राप्तये गङ्गातरणसन्दर्भः न सूचितः। अभिनयार्थमेव एवं न कृतम् इति दृश्यते। यतो हि रामायणे तु लक्ष्मणः सीतां वाल्मीक्याश्रमप्रान्ते एव त्यजति। स च आश्रमः तमसातीरे चित्रितः। तमसातीरप्राप्तये गङ्गातरणमावश्यकम्। लक्ष्मणस्तु गङ्गां तीर्त्वा सीतां परित्यजति। एतेन् ज्ञायते यत् कविः श्रव्यकाव्यकथां दृश्यकाव्यत्वेन परिवर्तनाय आवश्यकसंशोधनानि अकरोदिति।

यथा रामायणे लक्ष्मणः सीतायाः प्रतिज्ञां स्वीकृत्यैव रामसन्देशं श्रावयति। अपि च तस्याः रक्षणाय दिक्पालकान् प्रार्थयते। तथैव कुन्दमालायामपि। किन्तु अत्र कविः अत्यन्तनिसर्गतया पात्रचित्रणमकरोदिति नाटकपरिशीलनेन ज्ञायते। यथा लक्ष्मणः “एवमेव रघुकुलसन्ततिः रक्षणीया” इति सम्प्रार्थ्य सन्देशकथनाय चिन्ताकुलो भवति। अथ च

               आर्यस्यादेश इत्येव वक्तुमिच्छामि यत्नतः।

              तथापि हृदयं गत्वा ग्रन्थिं बध्नाति भारती।।[7] इति सन्देशकथनायपर्याकुलचित्तो भवति। पुनः स्थिरचित्तेन

                त्यक्ता किल त्वमार्येण, चरित्रगुणशालिना।

              मयापि किल गन्तव्यं त्यक्त्वा त्वामिह कानने।।[8]

इति रामस्य कठोरसन्देशं श्रावयति। सन्देशश्रवणेनैव सीता-

हा तात! आर्यकोशलाधिप अद्योपरतोऽसि”[9]

इत्युक्त्वा मोहं गच्छति। सन्देशश्रवणसमनन्तरमेव सीता मूर्च्छिता भवतीति वाल्मीकिनाऽपि उपवर्णितम्। किन्तु आदेशश्रवण-मूर्च्छयोर्मध्यकाले सीताकृतस्य कस्यापि सम्बोधनस्योल्लेखो न दृश्यते रामायणे। यथा-

लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा।
परं विषादमागम्य वैदही निपपात ह।।[10]

किन्तु कुन्दमालायां  कविः महर्षिवाल्मीकिमुखात्

ऋषीणां लोकपालानामार्यस्य मम चाग्रतः।
                  
अग्नौ शुद्धिं गता देवी किन्तु लोको निरङ्कुशः।।[11]

इति सीतायाः शुद्धत्वं स्मारयति। एतेन कवेः पात्रचित्रणनैपुण्यं यथासन्दर्भं कथापरिवर्तनवैलक्षण्यञ्च दरीदृश्यते।

        कुन्दमालायां लक्ष्मणे निर्गते सति सीतायाः शोकावस्थामवलोक्य मुनिदारका महर्षिवाल्मीकये निवेदयन्ति। स च

                      धर्मेण जितसङ्ग्रामे रामे शासिति मेदेनीम् ।

                      कथ्यतां कथ्यतां वत्से! विपदेषाकुतस्तव ।।[12]

इति स्वदिव्यचक्षुषा वृत्तान्तं  ज्ञात्वा तामाश्रममनीनयत्।

        परं रामायणे वाल्मीकिः सीतायाः परित्यागानन्तरं कथं देव्याः प्रसादतलादधोऽवतारः इति वनागमकारणं पृच्छति, तदा लज्जया सीता मौनमालम्बते । ततः महर्षिरेव स्वदिव्यदृष्ट्या सर्वं विज्ञाय वत्से! जनापवादभीरुणा रामेण केवलं परित्यक्ता, सीता न तु हृदयेन इत्यनुनय्य स्वाश्रमपदं नीतवान् ।  इदं हि दिङ्नागस्य मौलिकोद्भावनायाः वैशिष्ट्यम् ।

 द्वितीयाङ्कः

 नाटकेऽस्मिन् द्वितीयाङ्कस्तावत् सीताहृदयाविष्करणाय एव कविना प्रकल्पितः इति सीतावेदवत्योः सम्भाषणेन ज्ञायते। एतेन सीताया आदर्शता अवगम्यते। श्रीमद्रामायणे तु सीताहृदयविष्करणाय न कश्चन प्रत्येकसन्दर्भः दृश्यते। कुन्दमालायां अश्वमेधयागवर्णनं रामायणे यथा वर्तते तथैव संदृश्यते।

तृतीयाङ्कः

तृतीयाङ्कः रामविलापेन आरभ्यते। नाटकेऽस्मिन् रामस्य विलापः द्वित्राभिः श्लोकैरेव उपनिबद्धः। यत्र भावाधिक्यं भवति तत्र भाषा स्वल्पा भवतीति अभियुक्तेः निदर्शनोऽयं दिङ्नागः । अत एवायं धीरोदात्तनायकस्य श्रीरामस्य हृदयम् अत्यल्पश्लोकैरेव प्राकटयत् ।

नाटकेऽस्मिन् गोमतीनद्यां वहन्तीम् अभिनवविरचितकुन्दमालामवलोक्य रामः तद्ग्रथनकौशलं सीताया एवेति अभिजानाति। ततो गत्वा सैकते विद्यमाने पदचिह्नौ वीक्ष्य, तदनुसरतः रामलक्ष्मणौ। तौ श्रमापनयाय छायायामुपविशतः । अत्रान्तरे सीता आश्रमातिथिजनपूजनाय कुन्दपुष्पाणि अवचिनोति । तदा रामस्य लक्ष्मणं प्रति वत्स वत्स इति सम्बोधनं श्रुत्वा सीता को नु खल्वेष इति[13]। अत्र सीता रामलक्ष्मणौ अपश्यत्, परं न रामलक्ष्मणौ सीताम् । नाटकेऽस्मिन् अयमेव प्रधानवृत्तान्तः ।  अनया कुन्दमालायैव तौ मेलितौ भवतः इति धिया, कविना कुन्दमालेति स्वनाटकनामाकरि ।

        परं रामायणे सीतारामसमागमाय कुन्दमालेति नाम्ना कश्चन वृत्तान्त एव न विद्यते । किन्तु तत्र केवलं सीता कुन्दपुष्पचयनमेव करोति स्म । नाटकेऽस्मिन् तु अयमेव कुन्दमालावृत्तान्तः प्रधानः।

अङ्केऽस्मिन् रामं विलोक्य सीतया अनुभूताः विविधभावाः कविना वर्णिताः कवेः सूक्ष्मत्वम् औचित्यम् औन्नत्यञ्च प्रमाणयन्ति । तद्यथा –  अहो दृष्ट इति परितोषः, चिरप्रवास इति मन्युः, परिक्षाम इत्युद्वेगः, निरनुक्रोश इत्यभिमानः, चिरपरिचित इत्यनुरागः, दर्शनीय इत्युत्कण्ठा, स्वामीति बहुमानः, कुशलवयोस्तात इति  कुटुम्बिनीसद्भावः। अपराधं प्रवेशितास्मीति लज्जा, न जानामि आर्यपुत्रदर्शनेन कीदृशीमवस्थामनुभवामीति।[14]  अत्र दरीदृश्यते यत् सीतायाः हृदयस्थभावाः कविना नितान्तनिसर्गतया आविष्कृताः । अत्र पतिना परित्यक्तस्त्रीणां हृदयं कथं भवतीति प्रत्यपादयत् ।

चतुर्थाङ्कः

        चतुर्थाङ्के वेदवती यज्ञवती चेति द्वयोः तापसकन्ययोः सम्भाषणेन ज्ञायते यत् तिलोत्तमानाम्नी अप्सरा अद्य सीतावेषं धृत्वा रामस्य मनोभावं परीक्षिमिच्छतीति।[15] अत्रान्तरे शोकाकुलमनसा राम: लक्ष्मणेन सह आश्रमं प्रविशति । तत्रत्यदीर्घिकातीरे सीतापि चिन्ताकुलचित्तेन उपविशति स्म । तत्रागतः रामः दीर्घिकाया तटे सीतायाः प्रतिबिम्बं पश्यति। अत्र रामः केवलं सीतायाः प्रतिबिम्बमेव अद्राक्षीत् न तु निजबिम्बम्।[16]

        रामायणे हि तिलोत्तमायाः प्रतिबिम्बदर्शनं, मुनेः प्रभावादिवृत्तान्ताः न आसन्। तिलोत्तमादि-वृत्तान्तप्रकल्पनं केवलं कुन्दमालायामेव दृश्यते । अत्र कवेः तिलोत्तमावृत्तान्तप्रकल्पने महदौचित्यं वर्तते । यदि सीता रामं साक्षात् पश्यति चेत् तर्हि तद् रामाज्ञायाः उल्लङ्घनमेव भवति। एतद्विचिन्त्यैव कविवरोऽयं तिलोत्तमावृत्तान्तं प्राकल्पयत् । अनेन रामः शोकरहितो,  सीता च रामाज्ञापालिनी भविष्यतीति इति कार्यद्वयं विचिन्त्य कविना तिलोत्तमावृत्तान्तः आविष्कृतः । साक्षात् सीता यदि रामं पश्येत् तर्हि आज्ञाधिक्कारः अनौचित्यञ्च सम्भवति । अनौचित्यं तु रसभङ्गस्य कारणं भवतीति कविः तिलोत्तमावृत्तान्तं प्राकल्पयत् । अत्र मूर्छितः रामः सीतायाः पटान्तवायुना एव समाश्वासितो भवति । उत्तररामचरितादिषु तु हस्तस्पर्शेन एव । रामायणे तु वृत्तान्तोऽयं न दृश्यते । अङ्कोऽयं  पूर्णतया कविकल्पित एव ।

पञ्चमाङ्कः

पञ्चमाङ्के मुनिजनसमागमोत्सुको राम: सभामण्डपमध्य आस्ते  । इतो द्वौ सुन्दरबालकौ कुशलवौ प्रविशत: । रामः तौ महर्षिवाल्मीके: शिष्यौ  इति जानाति। अस्मिन् सन्दर्भे एव रामायणगानाय कुशलवौ आगतौ इति दिङ्नागेन परिकल्पितम् । परिवर्तनमेतत् नाटकोचितं भवति । रामायणे तु कुशलवौ अश्वमेधयागसमये रामकथागानाय यज्ञवाटिकां आगच्छतः ।[17]

दिङ्नाग: कुशलवप्रार्थनया गुरुभक्तिं श्लाघयामास। यदा कुशलवौ सीतायाः आदेशेन रामं नमस्कुरुतः तदा रामः तौ ब्राह्मणौ इति मत्वा, ब्राह्मणनमस्कार: तद्गुरूणामस्तु[18] इति ब्रवीति। अपि च तयोः परिष्वङ्गसमये पुत्रालिङ्गनसुखमनुभवति स्म। अत्र दिङ्नागः सर्वं वृत्तान्तं विज्ञाय, प्रेक्षकाणां कुतूहलसंवर्धनाय एवमकल्पयत् । यदा रामः तौ बालभावेन स्वस्य अङ्के उपवेशयति। तदैव विदूषकः यदि  कश्चन अराघव: इक्ष्वाकुवंशसिंहासनमारोहति तस्य मूर्धा शतधा विदलिष्यतीति उक्त्वा तपस्वितनयौ अवतरतु सिंहासनत: इति उद्घोषयति । अथापि तयोर्बालकयोः शिरसि क्वापि विकारो न भवति, अनेन तौ राघवावेव इति कविना परोक्षतया सूचितम्। नाटकेऽस्मिन् कुशलवयोः रामेण सह समागमः वाल्मीक्याश्रमप्रान्ते उपवर्णितः । रामायणे तु तेषां समागमः यज्ञवाटिकायामेव।

        षष्ठाङ्के रामायणं गातुं कुशलवावास्थानमण्डपम् आगच्छतः । कुशलवौ तत्र  रामलक्ष्मणौ रामकथायाः नायकावित्येव जानीतः। न तु पितापितृव्यौ इति। तौ रामजन्मप्रभृति सीतापरित्यागपर्यन्तकथामेव गायतः। ततो वाल्मीकिशिष्यः कण्वः आगत्य तत्पूर्णतां  नयति। तदानीमेव तौ पुत्रौ इति ज्ञात्वा सर्वे श्रीरामम् आक्षिपन्ति। इतः सीताप्रार्थनया पृथ्वी स्वयमागत्य सीतायाः पातिव्रत्यम् उद्घोषयति । ततश्च वाल्मीकेरादेशात् समेषां समक्षे रामः सीतां स्वीकरोति । इत्थं तेषां सम्मेलनेन नाटकमिदं सुखान्तं भवति ।[19]        किन्तु रामायणे श्रीराम एव सीतापातिव्रत्यविषये सन्दिहानः सीतां परिषन्मध्ये शपथाय आदिशति । परमस्मिन्नाटके तु न तथा। रामः केवलात् महर्षेः वाल्मीकेर्वचनात् सीतां स्वीकरोति। अनेन कविः नाटके सीतारामयोः चारित्र्यस्य औन्नत्यम् उदात्ततया चित्रणमकरोदिति ज्ञायते।

        रामायणे तु वाल्मीकिरेव सीतया सहागत्य सभामध्ये तस्याः परिशुद्धिविषये प्रमाणं करोति[20]। तदनन्तरं सीतापातिव्रत्यनिरूपणाय पृथ्वी आगत्य सीतां गृहीत्वा पातालं गच्छति। तद्वारा रामायणं दुःखान्तं भवति । परम् अस्मिन् नाटके भूदेवी स्वयं सीतायाः पातिव्रत्यमुद्घोष्य वाल्मीकये समर्प्य तदनन्तरं पृथिव्याः अन्तर्धानं भवति। ततो वाल्मीकिः तां श्रीरामाय समर्पयति। सीतां परिगृह्य रामः मोदितो भवति। तेन नाटकमिदं सुखान्तमभूत् । यद्यपि रामायणे लवकुशमुखात् रामकथागायनं तेन स्वपुत्राविति रामाभिज्ञानं वर्णितम्, तदपेक्षया दिङ्नागेन कृतं परिवर्तनमतिसमीचीनतया विद्यते। कुशलवयोः स्वपुत्ररूपेण अभिज्ञानं सीतारामयोस्समागमः, कुशस्य राज्याभिषेकः, लवस्य यौवराज्याभिषेकः इत्यादिपरिवर्तनानि नाटकोचितरीत्या, औचित्यपूर्णानि च भवन्ति।

        इयं कुन्दमाला वाल्मीकेः उत्तररामायणमनुसृत्य निर्मितापि इतिवृत्तपरिवर्तने पात्रपोषणे वस्तुविस्तरणे रसपोषणे च उत्तररामचरिताद्युत्तरकाण्डाश्रितनाटकेभ्यो न न्यूनायते । यद्यपि उत्तरे रामचरिते भवभूतिर्विशिष्यते इत्यादीनि उत्तररामचरितस्य वैशिष्ट्यानि ख्यापयन्ति। अथापि पात्रचित्रण-सम्भाषण-वस्तुविस्तरणादिदृशा इदमेव नाटकं श्रेष्ठमिति प्रतीयते। उत्तररामचरितादीनि नाटकानि बहुकालात् पूर्वमेव प्रकाशितत्वात् बहुविश्रुतानि वर्तन्ते। परं तु इदं नाटकम् अस्यां एकविंशतिशताब्द्याम्, अर्थात् १९२३ तमे वत्सरे एव प्रथमतया प्रकाशितम्। अत एव अस्य नाटकस्य ख्यातिः स्वल्पमेवाभवत्। तथापि अस्य नाटकस्य विद्यमानदशादिकसंस्करणानि तद्वैशिष्ट्यं सुस्पष्टं प्रमाणयन्ति। 

नाटकेऽस्मिन् सीतायाः चारित्र्यवर्णनं प्रधानविषयः। अत्र सीता रामेण परित्यक्तापि उदात्तभावान् प्रकाशयन्ती आदर्शभारतीयनारीहृदयस्य उत्कर्षं दर्शयति। नाटकमिदं सुनिश्चितभावैः चमत्कारोपेतवर्णनैश्च समेषां हृदयमावर्जयतीति दिक् ।

उपयुक्तग्रन्थसूची

  1. उत्तररामचरितम्. भवभूतिः, चौखम्बा-संस्कृ-संस्थानम्, वाराणसी, 1967।
  2. कुन्दमाला, दिङ्नागः, चौखम्बा-संस्कृत-सीरीज् ऑफिस, वाराणसी, 1958।
  3. दशरूपकम्, धनञ्जयः, चौखम्बा-सुरभारती,  वाराणसी, 1982।
  4. नाट्यशास्त्रम्. भरतमुनिः, चौखम्बा-विद्याभवनम्, वाराणसी, 2006।
  5. रामायण-नाट्यपरम्परा, रामचन्द्रशर्मा, भारतीयज्ञानपीठम्, वाराणसी, 1989।
  6. श्रीमद्रामायणम्. वाल्मीकिः (उत्तरकाण्डः), गीताप्रेसः, गोरखपुर, 1955।
  7. साहित्यदर्पणः. विश्वनाथः, चौखम्बा-संस्कृत-सीरीज्, वाराणसी, 1991।
  8. संस्कृतनाटकविकासः, कृष्णचन्द्रमिश्रः, चौखम्बा-विद्याभवनम्, वाराणसी, 1974।
  9. A History of Sanskrit Literature. Dasgupta, S. N. Motilal Banarsidass, Delhi, 1962.
  10. History of Indian Literature. Winternitz, M. Vol. 2, University of Calcutta, Calcutta 1933.
  11. The Sanskrit Drama. Keith, A. B. Clarendon Press, Oxford, 1924.

[1] श्रीरामरक्षास्तोत्रम् – 1

[2] साहित्यदर्पणः – 6- 17

[3] दशरूपकम् – 1-12

[4] कुन्दमाला 1-3

[5] वाल्मीकिरामायणम् 7– 45- 2-3

[6] कुन्दमाला – 1-10

[7] कुन्दमाला – 1- 8

[8] कुन्दमाला 1-10

[9] कुन्दमाला – पृ 25

[10] वाल्मीकिरामायणम् 7– 49- 1

[11] कुन्दमाला – 1-13

[12] कुन्दमाला – 1-29

[13] कुन्दमाला – पृ 59

[14] कुन्दमाला – पृ 65

[15] कुन्दमाला पृ 84

[16] कुन्दमाला पृ 95

[17] वामीकिरामायणम् – 7 -95- 1-5

[18] कुन्दमाला – पृ 167

[19] कुन्दमाला – पृ 194

[20] वाल्मीकिरामायणम् – 7-95-15-23