भगवतः हार्दरूपत्वम् 

आचार्य चक्रवर्तिराघवन्   
 तिरुपतिः

 प्रस्तावना

         भगवान्नारायणः अनन्तशक्तिसम्पन्नः, सर्वव्यापकः, सर्वान्तर्यामी च अस्ति। तस्य स्वरूपं त्रिविधम् इति विद्वद्भिः उपदिश्यते—पररूपम्, व्यूहरूपम्, अवताररूपञ्च। एतेषु हार्दावतारः तस्य अन्तर्यामित्वं, परमसूक्ष्मत्वं, उपासकहृदयस्थितत्वं च सूचयति। उपनिषत्सु, ब्रह्मसूत्रेषु, पुराणेषु च हार्दावतारस्य महत्त्वं सविशेषं प्रतिपादितम्। अत्र अस्मिन्नेव विषयः विशदतया विवेच्यते।

 हार्दरूपस्य तात्पर्यम्

          ‘हृदयस्थितः इति हार्दः’ इति। सर्वेषां जनानां हृदयप्रदेशे अङ्गुष्ठमात्रपरिमाणेन विद्यमानः परमात्मा हार्दरूपेण निरुप्यते। एषः हार्दावतारः जीवस्य सह नित्यं साक्षित्वेन तिष्ठन् तस्य चेष्टाः पश्यति, तं अनुगृह्णाति, अन्ततः मोक्षमार्गं प्रकाशयति च।

         कठोपनिषदि, श्वेताश्वतरोपनिषदि, तैत्तिरीयोपनिषदि च अस्य प्रमाणानि दृश्यन्ते। यथा—

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।”[1]

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः।[2]

एतेन परमात्मा हृदयदेशे स्वाङ्गुष्ठप्रमितत्वेन अवतारितः इति हार्दावतारः उच्यते।

ब्रह्मसूत्रेषु प्रमाणम्

          भगवान् बादरायणः ब्रह्मसूत्रेषु हार्दावतारस्य विशेषत्वं प्रतिपादितवान्—

“तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया” (चतुर्थाध्याय, द्वितीयपादः, ३६ सूत्रम्)।

          अत्र ‘हार्दः’ इति स्पष्टः निर्देशः अस्ति—हृदयदेशे अवतारितं परमात्मरूपं मुमुक्षूणां मार्गप्रकाशकं भवति इति।

 उपनिषत्सु वर्णनम्

          कठोपनिषदि हार्दरूपं परमात्मानं अङ्गुष्ठमात्रपरिमाणेन हृदयस्थं इत्येव वर्णयति—

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्वः।”[3]

          एतस्मात् स्पष्यते यत् हार्दावतारः भूतभव्यनियन्ता, त्रिकालवर्ती, परम तेजस्वी च।

तैत्तिरीयोपनिषदि अपि हार्दरूपस्य विशेषमाह—

 “अङ्गुष्ठमात्रः पुरुषोऽगुष्ठं च समाश्रितः ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्।”[4]

अत्र ईश्वरः हृदयस्थितः सन्नपि सर्वजगतः नियन्ता इति प्रतिपाद्यते।

श्वेताश्वतरोपनिषदि

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः।”[5]

          एवमेव हृदा मनीषा मनसाभिक्लृप्तः य एनं विदुरमृतास्ते भवन्ति[6] इति हार्दरूपस्य उपासनायाः फलम् अमृतत्वं इति वर्ण्यते।

 हार्दावतारस्य विशेषलक्षणानि

१. अङ्गुष्ठमात्रपरिमाणत्वम् – हार्दरूपं उपासकहृदयस्य स्वाङ्गुष्ठपरिमितत्वात् तदन्तर्गतं परमात्मा अङ्गुष्ठमात्रः इति कीर्त्यते।

 २. औज्वल्यम् – अधूमकज्योतिरिव, परमप्रकाशमयः, सर्वज्ञानस्वरूपः।

 ३. त्रिकालवर्ती नियन्ता – भूतभव्यवर्तमानस्य नियन्त्रुत्वम्।

४. साक्षित्वम् – सर्वचेष्टानां साक्षी भवति।

 ५. मोक्षप्रदत्वम् – अन्ते मोक्षमार्गं दर्शयति, मुक्तिं प्रयच्छति।

 अन्तर्यामित्वम्

अन्तर्यामि इति हार्दरूपस्य विशेषः। परमात्मा हृदयप्रदेशे तिष्ठन् जीवस्य सर्वकर्माणि नियुनक्ति, फलानि ददाति च। भागवतेऽपि—

“एष एव अन्तर्यामि यः सर्वेषां जीवात्मनाम् अन्तरं प्रविश्य तेषां नियन्त्रुत्वेन स्थितः।” इत्युक्तम्।

 हार्दरूपस्य उपासनायाः अधिकारी

सात्वतसंहितायां निर्दिष्टम्—

 अष्टाङ्गयोगसिद्धानां हृद्यागनिरतात्मनाम्। योगिनामधिकारः स्यादेकस्मिन्हृदये शये।”[7]

यम, नियमाद्यष्टाङ्गयोगेन आत्मावलोकन सिद्धिमन्तः योगिनः एव हार्दरूपोपासने समर्थाः।

 विभवावतारेषु हार्दरूपस्य साम्यं

          यद्यपि हार्दावतारः अत्यल्पपरिमाणेन हृदयप्रदेशे अवतारितः, तथापि तस्य सर्वशक्तित्वं विभवावतारवत् एव। अघटितघटनासामर्थ्येन भगवतः हार्दावतारोऽपि जगत्सर्वस्य नियन्ता, सर्वज्ञः, सर्वशक्तिमान् अस्ति।

गीता तथा विष्णुपुराणवचनानि

          गीतायां अर्जुनस्य दृष्टं विश्वरूपं हार्दरूपादपि महत्तरम्। तथापि सर्वरूपेषु भगवतः लीलापरत्वम् एव प्रयोजनम्—

 “इहेकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्। मम देहे गुडाकेश”[8] इत्यनेन गीयते।

 विष्णुपुराणे

समस्ताः शक्तयश्चैताः नृप यत्र प्रतिष्ठिताः। तद्विश्वरूपवैरूप्यं रूपमन्यत् हरेर्महत्।”[9]

इत्यनेन हार्दरूपस्य अपि सर्वशक्तियुक्तत्वं अङ्गीकृतम्।

 हार्दरूपस्य सौशील्यवात्सल्यादि गुणाः

          हार्दावतारः साक्षात् उपासकस्य हृदयस्थः। अनेन परमात्मा जीवातिरिक्तः सन् अपि निकटतमः मित्रवत्, बन्धुवत्, गुरुवत् च व्यवहारं कुर्वन् सौशील्यं, वात्सल्यं च प्रकटीकरोति।

 निष्कर्षः

          हार्दावतारः भगवतः स्वरूपविचित्रत्वे अद्भुतं रूपम्। परमात्मा यः सर्वव्यापकः सः एव उपासकहृदयप्रदेशे अङ्गुष्ठमात्रपरिमाणेन निवसन्, तस्य मोक्षमार्गप्रदर्शकः, अनुग्राहकः, अन्तर्यामि च भवति। अनेन भगवतः हार्दस्वरूपे परमसौन्दर्यम्, परमकरुणा, परमशक्ति च द्रष्टव्यानि। एषः एव भगवतः हार्दस्वरूपत्वस्य सारः।


[1] कठोपनिषद् – 2.1.12

[2] कठोपनिषद् – 2.3.17

[3] कठोपनिषद् – 2.1.13

[4]  तैत्तिरीय आरण्यकम् – 6.71.1

[5] श्वेताश्वरतोपनिषद् – 3.13

[6] श्वेताश्वरतोपनिषद् – 3.14

[7] श्रीपाञ्चरात्ररक्षा – पृ.11

[8] भगवद्गीता.3.10

[9] विष्णुपुराणम् – 6.7.70