श्रीगणेशाय नमः
अनुबन्धानामनेकान्तत्वैकान्तत्वसाधनाय न्यायानुमानप्रक्रियासंचारः
लेखकः – आचार्यः पङ्कजकुमारव्यासः
विभागाध्यक्षः, व्याकरणविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः
तिरुपतिः (आन्ध्रप्रदेशः) – 517507
तत्र परिभाषेन्दुशेखरे यथोद्देशकार्यकालपरिभाषयोर्विषये विचार्य संज्ञा प्रसङ्गेन संज्ञासु इत्संज्ञाया प्रथमोपन्यासेन तथा इत्संज्ञोत्तरं प्रत्याहारा इति भाष्यवचनात् व्याकरणशास्त्रीयप्रवृत्तिप्रयोजकत्वात् इत्संज्ञासम्बद्धां परिभाषाम् उपक्रम्य लिखति नागेशः – इत्संज्ञका अनुबन्धास्तेषु अवयवानवयत्वसन्देह आह – “अनेकान्ता अनुबन्धा इति”[1] । अत्र अनुबन्धा नाम इत्संज्ञायोग्या इत्यर्थः। अनुबध्यन्ते इति अनुबन्धाः। अनुपूर्वाद् बध्नातेः कर्मणि घञि निष्पन्नोऽयं शब्दः। अनुरप्रधानवाची, बध्नातिरुच्चारणार्थः। एवञ्चानुबन्धपदस्यावयवशक्त्या आचार्यकर्तृकाप्रधानीभूतोच्चारणविषया इत्यर्थः। अप्राधान्यं च लक्ष्यसमावायातिरिक्तकार्यसमर्पकत्वम्। तथा चाचार्यकर्तृकलक्ष्यसमावायातिरिक्तकार्यसमर्पकोच्चारणविषयत्व-मनुबन्धत्वमिति फलितम्। एवञ्च अनुबन्धशब्दो योगरुढ्या इत्संज्ञकवर्णं बोधयति। अवयवशक्तिस्वीकारे तु उच्चारणार्थकवर्णेषु अतिप्रसङ्गः स्यात्। स्पष्टमिदं नागेशगूढार्थदीपिकायाम्।[2]
तेषु इत्संज्ञकवर्णेषु अवयवत्वानवयवत्वसंदेहः। तत्कथमिति चेत् उपस्थापके उपलभ्यमानस्य अनुबन्धस्य वृक्षे उपलभ्यमानयोः शाखाबलाकयोरिव दर्शनात्। अस्यायं भावः – यथा आटश्च इत्यादिनिर्देशात् समुदायात् विभक्तिदर्शनात् तस्यावयवत्वम्। अन्यथा समुदायस्य अनर्थकत्वेन अप्रातिपदिकत्वात् समुदायात् विभक्तेः दुर्लभत्वेन आटश्च इति निर्देशानुपपत्तिः। एवमेव तेषाम् अनवयवत्वादेव उदीचां माङ इति निर्देशसङ्गतिः। यदि तेषामवयवत्वं स्यात् तर्हि मेङः उपदेशे एजन्तत्वाभावेन आत्व-अप्राप्त्या उदीचां माङो व्यतिहार इति निर्देशः असङ्गतः। एवमुभयोपरि दर्शनात् सन्देह इति। एवं सन्देहादाह – अनेकान्ता इति। अनेकान्ता नाम अनवयवा इत्यर्थः। एकान्तशब्दस्य अवयववाचित्वाद् अयमर्थो लब्धः।
अत्र ग्रन्थकारेण अनुबन्धानाम् अनवयवत्वं साधयितुम् अनुमानप्रक्रिया आश्रिता। अत्र प्रश्नः यत्सनः नकारः सनः अवयवो न वा ? अथवा स इत्यस्य ? यद्यपि एतत् तु श्रवणेनैवोपपद्यते यत् सन् शब्दे स्-अ-न् इति वर्णत्रयं, स इत्यत्र तु स्-अ इति। एवं तर्हि सन् एवं स इत्यनयोः अवयवानां स्पष्टप्रतिपत्त्या तद्विषयकसन्हेद कुतः? वस्तुतः अत्र सन्देहः नकारस्य अवयवत्वानवयवत्वविषये न, परं सन्-शब्दे बोधकत्वमुत स-शब्दे। तत् कुत इति चेत् जुगुप्सते इत्यादौ सकारः लक्ष्ये दृश्यते, गुप्तिज्किद्भ्यः सन् इति सूत्रे तु सन् इति पाणिनिना प्रयुज्यते। तदा संशय यत् यदि सनि बोधकता तर्हि नकारे अवयवत्वं, यदा तु सकारमात्रे तदा नकारे अनवयवत्वमिति। एवञ्च बोधतकत्वप्रयुक्त-अवयवत्वानवयवत्वसन्देहः श्रवणमात्रेण न निवर्तते। तस्मात् अनुमानेन साधयितुं ग्रन्थकारः कथयति –
अनेकान्ता अनवयवा इत्यर्थः। यो ह्यवयवः स कदाचित् तत्रोपलभ्यत एव। अयं तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात् इति।[3] तत्र नाम विधेये, तदर्थभूतशब्दे तद् शब्दस्यार्थः बोधकः इति। यथा जुगुप्सते इत्यत्र सकारस्य बोधकःगुप्तिज्किद्भ्यः सन् इत्यस्य सन् इति। अतः सूत्रघटकीभूत सनः विधेयः लक्ष्यस्थः सकारः। तस्ममात् स तदर्थभूतविधेय इति। सनः नकारः तस्य विधेयसकारेण सह न कदापि दृश्यते अतः स न सनः अवयव इति।
अत्रैषा अनुमान प्रक्रिया – अनुबन्धा अनेकान्ता इति प्रतिज्ञावाक्यम्। यो ह्यवयवः स कदाचित् तत्रोपलभ्यत एव इति उदाहरणवाक्यम्। अनेनात्र व्यतिरेकव्याप्तिः सूचिता। अन्वयव्याप्तौ साधनं नाम हेतुः व्याप्यो भवति साध्यश्च व्यापको भवति यथा यत्र यत्र धूमः तत्र तत्र वह्निः। व्यतिरेकव्याप्तौ तु साध्याभावः व्याप्यो भवति, साधनाभावश्च व्यापकः इति। यथा यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः।[4] तद्वत् प्रकृते अनवयवत्वं साध्यम्, तदर्थभूते विधेये कदाप्यदर्शनात् इति हेतुः। अतः अनवयवत्वाभावः (अवयवत्वम्) व्याप्यः, तदर्थभूते विधेये कदाप्यदर्शनात् इत्यस्य अभावो नाम तदर्थभूते विधेये कदाप्यदर्शनाभावः व्यापकः इति। एवञ्च व्यतिरेकव्याप्तिस्वरूपं एवं फलति – यत्र यत्र अवयवत्वं तत्र तत्र विधेये दर्शनत्वम्।
अनेन प्रकारेण ग्रन्थकारेण यो ह्यवयवः स कदाचित् तत्रोपलभ्यत एव इति वाक्येन व्यतिरेकव्याप्तिं प्रदर्श्य ततः अयं तु न तथा इति उपनयवाक्यम् उल्लिखितम्। अनेन अनुबन्धा अवयव इव विधेये न दृश्यन्ते अतः अनुबन्धाः अनेकान्ता इति निगमनम् भवति।
अत्र प्रश्नः भवति – अनुमितौ साध्यसंशयरूपपक्षता कारणम्।[5] संशयो नाम एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानमिति।[6] प्रकृते च एकस्मिन् धर्मिणि अनुबन्धे अवयवत्व-अनवयवत्व-इत्येतत् विरुद्धधर्मद्वयभानं(वैशिष्यावगाहिज्ञानम्)। अनेकान्ता अनुबन्धा इत्यत्र अनुमितौ अनेकान्तत्वं साध्यम्। अनेकान्तत्वं नाम अनवयवत्वम्। एतद्विषयकः संशयः – अनुबन्धविशेष्यकः अनवयवत्वप्रकारकः तथा अनवयवत्वाभावप्रकारकः इति। (अनवयवत्वाभावो नाम अवयत्वाभावाभावः = अवयवत्वमित्येव।) तदेवं वक्तुं शक्यते अनुबन्धाः अनवयवाः अनवयवत्वाभाववन्तो वा। ततः अग्रिम परिभाषायाम् एकान्ता अनुबन्धा इत्यत्र संशयस्वरूपमेवं भवति – अनुबन्धाः अवयवाः अवयवत्वाभाववन्तो वा। अनेन ज्ञायते यत् यः अवयवत्वप्रकारकः अवयवत्वाभावप्रकारकः संशयः अनेकान्ता अनुबन्धा इत्यत्र अस्ति, स एव एकान्ता अनुबन्धा इत्यत्रापि। एवं तर्हि ग्रन्थकारेण अवतारिकायाम् अवयव-अनवयवत्वसंदेहे इति यल्लिखितं तत् कथं सङ्गच्छते ? यतः अवयवविषयक अथवा अनवयवविषयक उभयविधसंशयस्य स्वरूपमापाततः एकविधमेवायाति चेत् अन्यतरस्योपादानेन परिभाषाद्वयस्यापि पक्षतात्वसंभवे उभयविधसन्देहस्य उपादानं व्यर्थमिति चेद् उच्यते –
अनेकान्ता अनुबन्धाः इत्यनुमितौ अवयवत्वाभावप्रकारक तथा अवयवत्वाभावाभाव(अवयवत्व)-प्रकारकसंशयः, तथैव एकान्ता अनुबन्धा इत्यनुमितौ अवयवत्वप्रकारक तथा अवयवत्वाभावप्रकारकसंशय इति एतादृशसंशयकौटौ अवयवत्वाभावप्रकारकसंशयः यद्यपि समानः तथापि अवयवत्वप्रकारकः(एकान्ता इत्यत्र) अवयवत्वाभावाभावप्रकारकः (अनेकान्ता इत्यत्र) इत्येतद् द्वयं न समानम्। यथा घटद्रव्ययोः एकयारीत्या एकत्वेऽपि घटत्व-द्रव्यत्वरीत्या भिन्नत्वम्, तथैव अवयवत्वाभावाभावस्य तात्पर्यस्य अवयवत्वे पर्यवसितेऽपि अवयवत्व-अवयवत्वाभावाभाव इति उभयमपि भिन्नमेव। यतः अवयवत्वं भावपदार्थः, अवयवत्वाभावाभावस्तु अभावपदार्थः। तस्मात् ग्रन्थकारोक्तं परिभाषाद्वयस्य अवतरणं सङ्गतमेव।[7]
एवञ्च अनेन प्रकारेण अनुमानप्रक्रियया अनुबन्धानाम् अनवयवत्वं संसाध्य ततः अनुबन्धानामनवयवत्वे शित्कितित्यादौ अवयवावयविभावरूपसम्बन्धस्य षष्ठ्यर्थतायाः वक्तुमशक्यत्वात् सामीप्यस्य षष्ठ्यर्थत्वाभावाच्च शकारः अवयव इत् यस्य, ककारः अवयवः इत् यस्य इत्यादौ षष्ठ्यर्थबहुव्रीहिरेव नोत्पद्येत इत्येवंविधशङ्कां मनसि निधाय कथयति – शित्कित्यादौ समीपेऽवयवत्वारोपेण समासो बोध्यः।[8] तथा हि – स्वसमीपोच्चारिते अनुबन्धे स्वनिरूपितमवयवत्वम् आरोप्यते इति नियमेन शप्, क्नु इत्यादिस्थले शबादिनिरूपित-अवयवत्मारोप्यते। तेन विधेयसमीपवर्तिनि शकारे अवयवत्वारोपेण षष्ठ्यर्थबहुव्रीहिरुपपद्यते। एतादृशसामीप्यारोपे किं प्रमाणमिति चेत् उपदेशेऽजनुनासिक इत् इति सूत्रस्थोपदेशपदस्य अभ्र आँ अटित इति प्रयोजनप्रतिपादनपरं भाष्यमेवात्र प्रमाणम्। उपदेशग्रहणाभावे आँ अटित इत्यत्र आङोऽनुनासिकश्छन्दसि इति विहितस्य अनुनासिक-आकारस्य इत्संज्ञायाम् आदित्वेन आदितश्च इति इण्निषेधः स्यात्।
अस्तु तर्हि। एवं रीत्या स्वसमीपोच्चारिते अनुबन्धे स्वनिरूपितमवयवत्वम् आरोप्यते इति नियमस्वीकारे अन्यत्र दोषो भवति। तथा हि – वुञ्छण्कठजिल… इत्यादिसूत्रे छण्-प्रत्ययस्य णकारानुबन्धः कप्रत्ययसमीपे उच्चारितः तेन कप्रत्ययनिरूपित-अवयवत्व तत्र आरोप्यते चेत् क-प्रत्यये णित्वप्रयुक्तकार्यं स्यात्। तेन ऋश्यक इत्यत्र आदिवृद्ध्या आर्श्यक इति अनिष्टमापद्येत।
एतन्मनसि निधाय ग्रन्थकारः लिखति – वुञ्छणित्यादौ णित्त्वप्रयुक्तं कार्यं पूर्वस्यैवेत्यादि तु व्याख्यानतो निर्णेयम्।[9] अर्थात् वुञ्छणित्यादौ णित्त्वप्रयुक्तं कार्यं पूर्वस्यैव न परस्य इत्यादिनिर्णयस्तु व्याख्यानात् कर्तुं शक्यः। तेन नास्ति दोषः। यथा प्रमाणे द्वयसज्दध्नञ्मात्रचः इति सूत्रे द्वयसच् दध्नच् इति प्रत्यययोः चकारानुबन्धः कृतः। यदि स्वसमीपोच्चारिते अनुबन्धे स्वनिरूपितमवयवत्वम् आरोप्यते इति नियमः क्रियेत तर्हि द्वयसचः चकार एव दध्नचः अपि अवयवः स्यादेव। तर्हि दध्नचः चकारः व्यर्थ इति। अनेन व्याख्यातुं शक्यते यत् अनुबन्धेषु पूर्वस्थितविधेयप्रत्ययादेरेव अवयवत्वमारोप्यते। अतः द्वयसचः चकारः तस्यैव अवयवः न तु दध्नचोऽपि।
अत्र अन्या शङ्का – यत् हलन्त्यमिति सूत्रे अन्त्यशब्दस्य अवयववाचित्वेन उपदेशे अन्त्यावयवस्य हलः इत्संज्ञेत्यर्थलाभात् अनुबन्धानाम् उपस्थापकानवयवत्वपक्षे अइउण्, सन् इत्यादिषु णकार-नकारादीनाम् अन्त्यावयवत्वाभावात् इत्वं कथं स्यादिति चेत् – उच्यते –
हलन्त्यमित्यत्र अन्त्यशब्दः परसमीपबोधकः।[10] अनेन उपदेशस्य परसमीपवर्तिनो हलः इत्संज्ञा भवति। एतदुपलक्षणं तेन आदिर्ञिटुडवः चुटू इत्यादौ आदिशब्दस्य लक्षणया पूर्वसमीपबोधकत्वात् धात्वादिभ्यः पूर्वसमीपवर्तिनः इत्याद्यर्थेन निर्वाहः क्रियते।
यद्यपि एतत्परिभाषास्वीकारे नानुबन्धकृतमनेकाल्त्वमित्यादिपरिभाषात्रयं न कर्तव्यमित्यादिलाघवमस्ति चेदपि अन्यादृशगौरवात् भाष्यकारैः एकान्तत्वपक्षस्यैव अङ्गीकृतत्वात् एकान्ता इति पक्ष एव न्याय्यः। तदुक्तं सिद्धान्तत्वेन अग्रिम परिभाषायाम् – वस्तुतस्तु एकान्ता इत्येव न्याय्यमिति।[11]
गौरवं तु – शित् कित् इत्यादौ समासोपपत्तये स्वसमीपोच्चारिते अनुबन्धे स्वनिरूपितमवयवत्वम् आरोप्यते इति नियमस्वीकारः। ततः वुञ्छणित्यादिषु आपतितदोषवारणाय व्याख्यानकृतगौरवमपि सोढव्यम्।
एवमेव सन्, आट् इत्यादिषु अनुबन्धानाम् अवयत्वाभावात् अनर्थकत्वात् प्रातिपदिकत्वाभावे समुदायात् विभक्त्युत्पत्तिः न स्यात्। ततः सौत्रत्वात् विभक्तेः साधुत्वं कल्पनीयम्।
हलन्त्यमित्यादिषु अन्त्यादिशब्दानां परसमीपबोधके लक्षणाङ्गीकार इत्यादि।
एवमेव एकान्तत्वसाधनायापि ग्रन्थकारेण अनुमानप्रक्रियायां व्यतिरेकव्याप्तेरेवाश्रयणं विहितम्। तथा हि – वस्तुतस्तु एकान्ता इत्येव न्याय्यम्, शास्त्रे तत्रोपलम्भादन्यत्रानुपलम्भाच्च। अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते, नैवमयम्।[12] अत्रानुमानवाक्यप्रयोगो एवम् – अनुबन्धाः बोधकावयवाः (एकान्ताः) बोधके उपलम्भात्, अन्यत्रानुपलम्भाच्चेति। अत्र अनुबन्धाः एकान्ताः (बोधकावयवाः) इति प्रतिज्ञावाक्यम्, तत्र(बोधके) उपलम्भादन्यत्रानुपलम्भाच्चेति हेतुः। यतोऽत्रापि व्यतिरेकव्याप्त्याश्रयणं तस्मात् पूर्ववदेवं सङ्गमनीयम् – प्रकृते अवयवत्वं साध्यं, तत्र(बोधके)उपलम्भादन्यत्रा-नुपलम्भाच्चेति हेतुः। तेन अवयवत्वाभावः (अनवयवत्वम्) व्याप्यः, बोधके उपलम्भः तस्याभावः अनुपलम्भः तथैव बोधकादन्यत्र अनुपलम्भः तस्याभावः उपलम्भः व्यापक इति। एवञ्च व्यतिरेकव्याप्तिस्वरूपमेवं फलितं – यत्र यत्र अनवयवत्वं तत्र तत्र विधेये बोधके वाऽनुपलम्भत्वं बोधकादन्यत्रापि उपलम्भत्वञ्च। तदेव ग्रन्थकारेण काकाद्युदाहरणेन प्रादर्शि।[13] नैवमयमिति उपनयः। तेन अनुबन्धा एकजातीयसम्बन्धेन विधेये एव दृश्यन्ते, नान्यत्रेति एकान्तत्वं सिद्धमनुबन्धानामिति निगमनं भवति।
दृष्टान्तस्यायम्भावः – काकादय एकेन सम्बन्धविशेषेण गृहवृक्षादिषूपलभ्यन्ते, अनुबन्धास्तु एकजातीयसम्बन्धेन बोधकेन सह बोधकादन्यत्र च कदापि नैव दृश्यते। फलितार्थोऽयं यत् काकादयः कदाचिद् गृहे कदाचिद् वृक्षे कदाचिदन्यत्र संयोगसम्बन्धेन दृश्यन्ते। तेषां संयोगस्तत्र तात्कालिकः। अतः काकादयो गृहवृक्षादीनामवयवा न। सनादीनां नकारादयस्तु न तथा। ते सनादिभिः सह एव समवायेन भवन्ति नान्यत्र। एवञ्च यो येनैव सहैकजातीयसम्बन्धेन उपलभ्यते अन्यत्र तु नोपलभ्यते स तस्यावयवः। यस्तु येन सहैकजातीयसम्बन्धेन उपलभ्यते तथैवान्यत्राप्युपलभ्यते स तस्य अनवयव इति। अनेन स्पष्टमनुबन्धानामवयवत्वम्।
अनुबन्धानामवयवत्वस्वीकारदेव बहुव्रीहिरपि (शकारोऽवयव इत् यस्यासौ शित् इत्यादि) न्यायत एव उपपद्यते। पूर्वस्मिन् पक्ष इव अन्त्यादिशब्दे लक्षणास्वीकारोऽपि न कार्य इत्येतत्सर्वं पूर्वनिरूपितपक्षाश्रयणे गौरवलाघवचर्चायामुपपादितमेव।
इत्थं परिभाषेन्दुशेखरे, लघुशेखरे तट्टीकाग्रन्थेषु चानुबन्धानामनेकान्तत्व-एकान्तत्वपक्षनिरूपणाय न्यायानुमानप्रक्रियायाः समाश्रयणं यथामति सरलीकृत्य प्रदर्शितम्।
।। इति शम्।।
परिशीलिता ग्रन्थाः –
- पेरि वेङ्कटेश्वरशास्त्रि, नागेशगूढार्थदीपिका परिभाषेन्दुशेखरव्याख्या, आन्ध्रविश्वकलापरिषद्, राजमहेन्द्रीवरम्, 1955
- तात्याशास्त्रिविरचितपरिभाषेन्दुशेखरभूतिः गणपतिशास्त्रिमोकाटे-विरचित-भूतितत्त्वप्रकाशिकायुक्तश्च परिभाषेन्दुशेखरः, चौखम्बा सुरभारती प्रकाशनम्, वाराणसी, संस्करणम् – 2021
- आचार्यविश्वनाथमिश्रः, सुबोधिनीहिन्दीटीका, परिभाषेन्दुशेखरः, चौखम्बा सुरभारती प्रकाशनम्, वाराणसी, चतुर्थसंस्करणम् – 2000
- आचार्यः श्रीपाद सत्यनारायणमूर्तिः, बालबोधिनीसहितपरिभाषेन्दुशेखरः(पण्डितदण्डिभट्लविश्वनाथ-शास्त्रिविरचितचन्द्रिकाव्याख्यासहितः), राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः -2004
- विश्वनाथपञ्चाननभट्टाचार्यः, न्यायसिद्धान्तमुक्तावली (किरणावलीव्याख्यासहिता), चौखम्बा संस्कृत संस्थानम्, वाराणसी, षष्ठसंस्करणम् – 2003
- अन्नम्भट्टः, तर्कसङ्ग्रहः(न्यायबोधिनी-पदकृत्य-दीपिका-किरणावलीव्याख्योपेतः), चौखम्बा विद्याभवनम्, वाराणसी, संस्करणम् – 2007
[1] परिभाषेन्दुशेखरे परिभाषा – 4
[2] पेरि वेङ्कटेश्वरशास्त्रिप्रणीतनागेशगूढार्थदीपिकायाम् – पृ.सं. 32
[3] पेरि वेङ्कटेश्वरशास्त्रिप्रणीतनागेशगूढार्थदीपिकासहितपरिभाषेन्दुशेखरे – पृ.सं. 33
[4] तर्कसङ्ग्रहन्यायबोधिन्यां अन्वयव्यतिरेकव्याप्तिस्वरूपप्रसङ्गे निरुपितमेतत् – पृ.सं. 102
[5] इदम्प्राचीनानां मतेन। यतः प्राचीनाः साध्यसंशयस्यैव पक्षतात्वमभ्युपगच्छन्ति। नव्यास्तु सिषाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षतेत्यङ्गीकुर्वते। सिषाधयिषामात्रं न पक्षता, विनापि सिषाधयिषां घनगर्जितेन मेघानुमानात्। अत एव साध्यसन्देहोऽपि न पक्षता, विनापि सन्देहं तदनुमानादिति मुक्तावल्यां विश्वनाथपञ्चाननभट्टाचार्याः। प्राचीनमते तु साध्यसंशय इत्यस्य ‘साध्यप्रकारकः साध्याभावप्रकारको वा संशयः’ इत्यवार्थः, न तु साध्यप्रकारकत्वे सति साध्याभावप्रकारताकः संशय इति, ‘पर्वतो वह्न्यभाववान् वह्निव्याप्यवान् वा’ ‘पर्वतो वह्निमान् वह्न्यभावव्याप्यवान् वा’ इत्यादिसंशयानामपि तैः पक्षतात्वाङ्गीकारात्। स्पष्टमिदं भूतितत्त्वप्रकाशिकायाम् – पृ.सं. 20-21
[6] व्याख्याचतुष्टयोपेततर्कसङ्ग्रहे – पृ.सं. 157
[7] स्पष्टैषाऽनुमानप्रकिया नागेशगूढार्थदीपिकायाम् पृ.सं. – 32-33, भूतिटीकायाम्-भूतितत्त्वप्रकाशिकायाञ्च पृ.सं. 20-21
[8] नागेशगूढार्थदीपिकासहिते परिभाषेन्दुशेखरे पृ.सं. – 36
[9] नागेशगूढार्थदीपिकासहिते परिभाषेन्दुशेखरे पृ.सं. – 36
[10] नागेशगूढार्थदीपिकासहिते परिभाषेन्दुशेखरे पृ.सं. – 36
[11] नागेशगूढार्थदीपिकासहिते परिभाषेन्दुशेखरे पृ.सं. – 37
[12] नागेशगूढार्थदीपिकासहित परिभाषेन्दुशेखरे पृ.सं. – 38
[13] अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते, नैवमयम्।
