अद्वैतवेदान्ते कर्मप्रभेदः

बाभ्रवी घोषः
शोधच्छात्रा, संस्कृतविभागः,
पाण्डिच्चेरी विश्वविद्यालयः
ई-मेइल- torshaghosh6464@gmail.com
दूरभाषः- 7718693317

शोधसारः

 वेदस्य कर्मकाण्ड-ज्ञानकाण्डभेदेन भागद्वयं वर्तते। कर्मकाण्डं पूर्वमीमांसादर्शनस्य आधारभूतं यत्र यज्ञकर्मणः प्रधानता दरीदृश्यते, तथा ज्ञानकाण्डं वेदान्तदर्शनस्य मूलं यत्र ब्रह्मज्ञानस्य मोक्षहेतुत्वं प्रतिपाद्यते। पूर्वमीमांसायां यज्ञादीनाम् अनुष्ठानैः स्वर्गप्राप्तिश्च निर्दिश्यते। अन्यस्मिन् पक्षे, श्रीमद्भगवत्पादशङ्कराचार्येण मोक्षाय कर्मणः अनपेक्षत्वं प्रतिपाद्यते। यद्यपि श्रीमद्रामानुजाचार्येण तस्य श्रीभाष्ये कर्मब्रह्ममीमांसयोर्पौर्वापर्यत्वमैकशास्त्रत्वञ्च प्रतिपाद्यते। किन्तु शङ्कराचार्येण एतन्मतं न स्वीक्रियते तथापि तेन कर्मणः महत्वं स्वीक्रियते तथा चित्तशुद्धेः उपायरुपेण कर्मण: आवश्यकतापि उपदिश्यते। प्रश्नः जायते, अद्वैतवेदान्ते केषां कर्मणामुल्लेखं क्रियते? किञ्च तेषां स्वरुपम्? कानि त्याज्यकर्माणि कानि च कर्तव्यकर्माणि?   

                अद्वैतवेदान्तशास्त्रे अधिकारिणः लक्षणे काम्यादिकर्मणामुल्लेखं प्राप्यते। शोधपत्रेऽस्मिन् तेषां कर्मणां स्वरूपं विशदतया आलोच्यते। शास्त्रान्तरेषु कर्मणः भेदाश्च संक्षेपेण आलोच्यन्ते। अद्वैतवेदान्तस्य कर्मप्रभेदप्रसङ्गे दृष्टान्तत्वेन ज्योतिष्टोमयागः चान्द्रायणयागादीनां स्वरुपमपि संक्षेपेण वर्ण्यते। उपासनाकर्मणः वर्णनप्रसङ्गे तेन ज्ञानं तथा निदिध्यासनं कथं भिद्यते सोऽपि पत्रेऽस्मिन् प्रदर्श्यते। ततः एतेषां कर्माणां फलं तथा निष्कर्षत्वेन कर्मविषये शाङ्करमतं प्रस्तूयते। कर्मज्ञानसम्बन्धः सम्यक् परिगण्यते। अस्याः चर्चायाः परिणामस्वरूपं कर्ममीमांसा-वेदान्तयोः परस्परसम्बन्धः स्पष्टं प्रकाश्यते तथा अद्वैतवेदान्ते कर्मणः स्थानं सुदृढतया प्रतिस्थाप्यते।           

कूटशब्दाः – काम्यादीनि कर्माणि, अद्वैतमतं, कर्माणां फलं, उपासना, कर्मज्ञानसम्बन्धः इत्यादयः।

प्रस्तावना

               अद्वैत‌वेदान्तदर्शनं भारतीयतत्त्वज्ञानपरम्परायामद्वितीयं स्थानमधिकरोति। वेदस्य ज्ञानकाण्डमाधारीकृत्य दर्शनस्यास्य सिद्धान्ताः प्रतिपाद्यते। जीवब्रह्मैक्यमेव दर्शनस्यास्य प्रतिपाद्यविषयः। दर्शनमिदं उपनिषत् ब्रह्मसूत्रं तथा श्रीमद्भगवद्‌‌गीतेति प्रस्थानत्रय्योपरि सुप्रतिस्थापितम्। वेदान्तस्य लक्षणप्रसङ्गे सदानन्दयोगीन्द्रेनोक्तं – ‘वेदान्तो नाम उपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च।’ महर्षिबादरायनविरचितं ब्रह्मसूत्रं शारीरकसूत्रमिति नाम्ना सुपरिचितम्। यतः तत्र शारीरकस्य अर्थात् आत्मनः ब्रह्मणः चर्चा क्रियते। आदिपदेनात्र शारीरकसूत्रमुपरि लिखिताः भाष्यादय: श्रीमद्भगवद्गीता इत्यादीनि अद्वैताधारितानि शास्त्राणि सूच्यन्ते। शारीरकसूत्रमुपरि सर्वप्रथमं तथा सर्वप्रमुखं भाष्यं श्रीमद्भगवत्पादशङ्कराचार्येण विरचितम्। तद्भाष्यं शारीरकमीमांसकभाष्यं शाङ्करभाष्यं वा नाम्ना सुप्रसिद्धम्। शङ्कराचार्येण यद्यपि मुख्यतया ज्ञानमार्गेण ब्रह्मसाक्षात्कारं प्रतिपाद्यते तथापि चित्तशुद्धौ कर्मणां महत्त्वं न निषेध्यते।  

शास्त्रान्तरेषु कर्मस्वरुपम्

               डुकृञ्करणे इति धातोः मनिन् प्रत्यययोगात् कर्मन्निति शब्दः निष्पद्यते। तस्य प्रथमायाः एकवचने कर्म इति पदं भवति। शास्त्रान्तरेषु कर्मणः बह्व्यः परिभाषाः बहवः भेदाः सिद्धान्ताश्च परिलक्ष्यन्ते। भारतीयदर्शनशास्त्रेषु कर्म तथा कार्यमिति शब्दद्वयं विद्येते। प्रश्नः जायते, किं तयोर्मध्ये भेदः वर्तते तौ समार्थकौ वा स्तः? वक्तुं शक्यते यत्, कर्म भवति क्रियमाणं कार्यं (action), कार्यन्तु कर्मणः फलम्(outcome)। दार्शनिकदृष्ट्या सञ्चित-प्रारब्ध-सञ्चीयमानभेदेन कर्म मुख्यतया त्रिविधम्। सञ्चितकर्म भवति पूर्वजन्मनि कृतकर्म यत् अस्मिन् जन्मनि परिणामरूपेण फलं प्रददाति। प्रारब्धकर्म अस्मिन् जन्मनि कृतकर्म यत् अस्मिन् जन्मन्येव परिणामरूपेण फलं प्रददाति। सञ्चीयमानकर्म वर्तमान-जन्मनि क्रियमाणं कर्म यत् भविष्यते फलं प्रदास्यति। एतैः त्रिविधैः कर्मैः तेषां कर्मफलैश्च मनुष्याणां भाग्यं निर्धार्यते। यः भारतीयदर्शनेषु कर्मसिद्धान्तेति सुप्रसिद्धः। कार्यकारणप्रसङ्गे दर्शनभेदेषु विविधाः सिद्धान्ताः सन्ति, यथा-  सत्कार्यवादः असत्कार्यवादः, परिणामवादः, प्रतीत्यसमुत्पादवादः इत्यादयः।

               व्याकरणशास्त्रे कर्मणः स्वरूपं पाणिनेः कर्तुरीप्सिततमं कर्म इति सूत्रे प्रतिपादितम्। अर्थात् कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं भवति। यथा माषेष्वश्वं बध्नाति। अत्र बन्धनक्रियया अश्वः कर्तुः इष्टतमम्। वेदे कर्मकाण्डे उक्तं – यज्ञ वै श्रेष्ठतमं कर्म। अर्थात् यज्ञकर्म भवति श्रेष्ठकर्म। ज्योतिष्टोमं दर्शपौर्णमासः सोमयागः पञ्चमहायज्ञादयः विविधकर्माणि विधीयन्ते।

              श्रीमद्भगवद्गीतायां कर्मणः प्रकाराः दीयन्तेऽनेन यथा-  निष्कामकर्म सकामकर्म अकर्म विकर्म चेति। यस्य कर्मणः काऽपि कामना नास्ति, अर्थात् कामना-वासनारहितं कर्म निष्कामकर्मेति। यस्य उपदेश: गीतायां भगवता श्रीकृष्णेन प्रदीयते। एतत् कर्म मोक्षमार्गत्वेन कर्मयोगे उपदिश्यते। भगवतोक्तं – ‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’॥[i] सकामकर्म भवति कामनावासनयुक्तं स्वार्थयुक्तं कर्म यस्य फलम‌स्ति। शुभकर्मणः शुभफलम् अशुभ कर्मणः अशुभफलम्। भगवता उक्तं यत् एतत् कर्म सर्वथा त्याज्यं यतः एतन्मनुष्यान् फलैः बध्नाति। अकर्म भवति साः स्थिति: यत्र व्यक्तिः बाह्यरूपेण कर्म करोति परन्तु तस्य मनः बुद्धिस्तु फलेन आसक्तः भवति। गीतायामुत्तं ‘कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः’।[ii] यत्कर्म अधर्मेण युक्तं निषिद्धञ्च भवति तद्विकर्म। विकर्मेण कल्मषः जायते। गीतायामुक्तं- ‘यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।’[iii] अर्थात् यः शास्त्रविधिमुत्सृज्य कर्म करोति तस्य सुखं सिद्धिस्तथा परमगतिः न सम्भवन्ति। आसक्तिरहितं कर्तव्यकर्म भवति गीतादृष्ट्या श्रेष्ठकर्म।

अद्वैतवेदान्ते कर्मप्रभेदः

               अद्वैतवेदान्ते कर्म मोक्षसाधनत्वेन न प्रतिपादितं, तत्तु चित्तशु‌द्धेः माध्यमम्। शंकराचार्येणोक्तं – कर्म केवलं चित्तशुद्धये, न तु वस्तुलाभाय। शास्त्रप्रवृत्तावनुबन्धचतुष्टयानां ज्ञानमावश्यकम्। अनुबन्धचतुष्टयस्त्वधिकारीविषयसम्बन्धप्रयोजनान्यिति। अधिकारिणः लक्षणप्रसङ्गे उच्यते – अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेन-आपाततोऽधिगताखिल-वेदार्थोऽस्मिन्जन्मनि जन्मान्तरे वा काम्य-निषिद्ध-वर्जनपुरःसरं नित्य-नैमित्तिक-प्रायश्चित्त-उपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्त-निर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता। अत्राधिकारिणः लक्षणे षट् कर्माण्युल्लिख्यते, यथा- काम्यकर्म निषिद्धकर्म नित्यकर्म नैमित्तिककर्म प्रायश्चित्तकर्म उपासनाकर्म चेति।

              काम्य-निषिद्धकर्मणि तु विधिवत्त्याज्यकर्मणि। तयोः स्वरुपे निम्नोल्लिख्येते –

काम्यकर्म

              फलोद्देश्येन शास्त्रमनुसृत्य विधीयमानानि कर्माणि काम्यानि। कामाय विहितानि काम्यान्यिति व्युत्पत्त्यापि उक्तमर्थं लभ्यते। उच्यते – काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि। काम्यकर्मणः दृष्टान्तरूपेण ज्योतिष्टोमयागस्य उल्लेखं क्रियते। वेदे उक्तं – ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’। प्रश्नः जायते, को नाम ज्योतिष्टोमयागः? ज्योतिष्टोमः भवति एकः सोमयागस्य प्रकारविशेषः। यत्र सोमलतायाः रसः हि प्रधानाहूत‌द्रव्यरूपेण व्यवह्रियते सः सोमयागः। यस्मिन् सोमयागे त्रिवृत् पञ्चदश सप्तदश एकविंश वा स्तोमाः भवन्ति तत्तु ज्योतिष्टोमम्। सोमयागे या स्तुतिः गीयते सा स्तुतिः स्तोममिति । यैः मन्त्रैः देवाः स्तूयन्ते ताः मन्त्रसमूहाः स्तोममि‌ति नाम्ना ज्ञायते – त्रिवृत् पञ्चदश सप्तदश एकविंश एतानि वाव ज्योतींषि ष एतस्य स्तोमाः’। अर्थात् ज्योति‌र्नामानि मन्त्रैः स्तोमानि यस्मिन् यागे पठ्यन्ते सः तु ज्योतिष्टोमयागः। ज्योतिष्टोमयागस्य सप्तसंस्थाः सन्ति यथा- अग्निष्टोमम्, उक्थ्यः, षोडशी, अतिरात्र, वाजपेयः, राजसूयः आप्तोर्यामश्च। सः हि ज्योतिष्टोमयागः स्वर्गप्राप्तेः उपायः इति वेद‌वाक्यम्। स्वर्गस्तु यत्र काङ्क्षितसुखमनायासेन लभ्यते। प्राचीनाचार्यै: कथितं-

यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्।

अभिलाषोपनीतञ्च तत् सुखं स्वर्गपदास्पदम्।।

भोगायतनमेव शरीरम्। वेदस्तु मरणोत्तर-सुखभोगानुकुल-दिव्यशरीरप्राप्तेः ज्ञापकः। परन्तु काम्यकर्मणः प्राप्तं सुखं क्षणिकं प्रेयञ्च न तु श्रेयम्। विवेकी पुरुषः एतदापातसुखं त्यक्त्वा शाश्वतमानन्दमयावस्थां प्राप्नोति। तर्हि वेदान्तमते एतत्तु त्याज्यकर्म यतः आपातसुखं वेदान्तमते न काङ्क्षितम् । ‘ज्योतिष्टोमादीनि’ इति शब्दे आदिपदेन अहीनसत्रप्रभृतयः सूच्यन्ते।

निषिद्धकर्म

            धर्माधर्मविषये शास्त्रैव प्रमाणम्[iv]। सदानन्दयोगीन्द्रेनोक्तं ‘निषिद्धानि नरकाद्यनिष्टसाधनानि ब्रह्महननादीनि’। शास्त्रप्रतिषिद्धं निन्दितं कर्म निषिद्ध कर्मेति अभिधीयते। निषिद्धकर्मानुष्ठानेन नरकादिदुःखमयलोकाः प्राप्यते। कर्मणः स्तरभेदेन दुःखस्य उत्कर्षापकर्षः भवति। इहलोके व्यधिप्रभृतिभिः कारणैः जीवः यद्दुःखभोगं करोति नरकादिलोकेषु अनुभूयमानं दुःखं तदपेक्षया तीव्रतरम्। एतद्नुमानसिद्धं शास्त्रसिद्धञ्चेति। दृष्टान्तत्वेन ब्रह्महननम् अर्थात् ब्राह्मणहत्या गोहत्या तथा आदिपदेन मिथ्याभाषणं परस्त्रीगमनं सुशपानं चौर्यवृत्तिरित्याद‌यः सूच्यन्ते। यः ब्रह्मघाती सुरापायी विमातृ‌गन्ता सः तु महापातकेति ज्ञायते इति शास्त्रस्य[v]। भगवता मनुना महापातकानां परिणामत्वेन नरकभोगरुपं दुःखप्राप्तिः तत्पश्चात् पुनः श्वादियोनिप्राप्तिर्भवतीति उल्लिख्यते। यथा-

बहून् वर्षगणान् घोरान् प्राप्य तत्क्षयात्।

संसारान् प्रतिपद्यन्ते महापात‌किनस्तु[vi]

यथा नित्यसुखस्य परं स्थानं ब्रह्मलोकः तथैव दुःखस्य चरमं स्थानं नरकादिलोकाः। ब्रह्मलोके शाश्वतं निरवच्छिन्नं सुखम् आनन्दमनुभूयते, स्वर्गे दुःखासंभिन्नं किन्तु अनित्यसुखमनुभूयते। इहलोके तु दुःखसंभिन्नं सुखनुभूयते। परन्तु नरके केवलमविमिश्रं तीव्रतमं दुःखमनुभूयते तत्तु निरवच्छिन्नम् अमानिशावत् घोरम्। एतैः दुःखैः जीवः कौत्स्येन संयुज्यते। अतः कभ्यते ‘कुत्सितो नरो यस्मात्’ तद्दुःखमिति। । जीवः स्वरूपतः सच्चिदानन्दः। स हि तस्य सुन्दरतमं रूपम्। किन्तु ब्रह्महननादिपापेन ग्रस्त्य कौत्स्यमाप्नोति। दुःखमेव कौत्स्यस्य कारणत्वेन नरकः, तदाश्रयोऽपि गौणार्थेण नरकेति कथ्यते। अतः ब्रह्महननादीनि निषिद्धकर्माणि अद्वैतदृष्ट्या सर्वथा त्याज्यानि।

             ततः नित्यनैमित्तिकप्रायश्चित्तोपासनाकर्माणि तु शास्त्रविहितानि कर्तव्यकर्माणि। तेषां स्वरूपाणि निम्नवत्-

नित्यकर्म

             ‘नित्यानि अकरणे प्रत्यवाय‌‌साधनानि सध्यावन्दनादीनि’[vii]। येषां कर्मणामनुष्ठानेन पुण्यं न प्राप्यते परन्तु अकरणे प्रत्यवायसाधनानि अर्थात् पापसाधनानि भवन्ति तानि नित्यकर्माणि। दृष्टान्तत्वेन सन्ध्यावन्दना महायज्ञादयः प्रदीयन्ते। श्रुतौ प्रत्यहः सन्ध्योपासनायाः कर्तव्यता विहिता – ‘अहरहः सध्यामुपासीत’। यः प्रत्यहः सन्ध्योपासनानुष्ठानं करोति सः तद्द्वारा किमपि न प्राप्नोति परन्तु यदि आलस्यादिवशान्न करोति तर्हि पापेन ग्रस्तं भवति। विषयेऽस्मिन् स्मृतिप्रमाणं यथा-

अकुर्वन् विहितं कर्म निन्दितं च समाचरन्।

प्रसञ्जन् च इन्द्रियार्थेषु नरः पतनम् ऋच्छति ।।

मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः।

नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासो।।

नैमित्तिककर्म

              नैमित्तिककर्मणाऽऽपि सञ्चितं दुरितं क्षीयते। उच्यते- ‘नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि’[viii]। किन्तु नित्यकर्म निर्निमित्तकं नैमित्तिककर्म तु सनिमित्तकम्। जातेष्टिः भवति एकं नैमित्तिककर्म। पुत्रस्य जन्मनः पश्चात् यागोऽयमनुष्ठीयते। इष्टिपशुसोमभेदेन याग: त्रिविधः। आपस्तम्बयज्ञपरिभाषायाः टीकाकारेण हरदत्तेनोक्तं- श्रुतद्रव्यदेवताका अप्राणिवाक्या क्रिया इष्टयः।’ अर्थात यस्मिन् यागे पशुप्रभृतिः द्रव्यं नास्ति, परन्तु यागस्य द्रव्यदेवतौ श्रुतिवाक्येन ज्ञायते सः इष्टियागेति कथ्यते। जातेष्टिः तद्रूपः एकः इष्टियागः। यागस्यास्य विधिवाक्यं ‘वैश्वानरं द्वाद‌शपालं निर्वपेत् पुत्रे जाते’। यस्यार्थः पुत्रस्य जन्मनः पश्चात् द्वादशक‌पालेषु पुरोडाशं नीत्वा वैश्वानरदेवं प्रददेत्। आदिपदेन ग्रहणादिनिमित्तकं स्नानादिकं बोद्ध्यम्।

प्रायश्चित्तकर्म

              भ्रमप्रमादेन परिपूर्णः मनुष्यः। लोभमोहक्रोधभयेर्षालस्यादिभिः सः बहुलतया स्वाभाविकं कर्तव्यकर्म त्यक्त्वा पापमार्गेण भ्रमितः जायते गर्हितकर्मणामनुष्ठानञ्च करोति। कालक्रमेण सः तस्य कृतकर्मणां कृते अनुतप्तस्सन् पापान्मुक्तिः कथं भवति तत्‌कृते सर्वथा चेष्टयति। ईदृशं व्यक्तिमुद्दिश्य शास्त्राणि पापमुक्तेरुपायत्वेन प्रायश्चित्तानां विधानं कृतवन्तः।

              प्रायश्चित्तस्य लक्षणप्रसङ्गे वेदान्तसारे उक्तं- ‘प्रायश्चित्तानि पापक्षयमात्रसाधनानि चान्द्रायणादीनि’। तत्र पापस्य लघुता गुरुता विचार्य्य जीवस्य सामर्थ्यस्य न्यूनाधिक्यञ्च ज्ञात्वा शास्त्रेषु गुरुः लघुः इति विविधप्रकाराणां प्रायश्चित्तमुपदिष्ठम्। ‘प्रायः तुष्टं चित्तं यत्र तत् प्रायश्चित्तम्।’ प्रायेति शब्दस्यार्थः प्रकृष्टम् अयः अर्थात् लौहवत् कठोरं तपः। यस्मिन् व्रते लौहवत् कठिनैन तपसा चित्तं सन्तुष्यति तदेव प्रायश्चित्तम्। यः अनुतापः पापकर्ममहरहः दग्धं करोति प्रायश्चित्तं तमनुतापं दूरीकृत्य चित्तं प्रसादयति। मनुनोक्तं-

यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम्।

सर्वन्तु तपसा साध्यं तपो हि दुरतिक्रमम्।।

  • मनु. १९/२३९

               अस्य दृष्टान्तत्वेन चान्द्रायणादि व्रतमुल्लिखितम्। चन्द्रसमानगतिः अर्थात् यस्य व्रतस्य क्रिया चन्द्रवत् ह्रासवृद्धिशीला तच्चान्द्रायणव्रतम्। चान्द्रायणं माससाध्यं गुरुपापशोधकञ्च। अस्य स्वरुपप्रसङ्गे मनुनोक्तं-

एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्द्धयेत्।

उपस्पृशन् त्रिषवणमेतत् चान्द्रायणं स्मृतम् ॥

  • मनु. १२/२१७

त्रिसन्ध्यायां स्नात्वा वा पौर्णमास्यां पञ्चदशनिगलनैः भोजनं कुर्यात् तत्पश्चात् कृ‌ष्णप्रतिपदात् कृ‌ष्णचतुर्दशीयावत् प्रत्यह एकेन निगलनेन भोजनस्य सेवनं न्यूनीकुर्यात् ततः अमावस्यायाम् उपवासं कृत्वा पुनः शुक्लप्रतिपदात्‌‌ पौर्णमासयावत् प्रत्यहः एकेन निगलनेन सेवनं वर्द्धयेत् तथा पौर्णमास्यां पुनः पञ्चदशनिगलनैः भोजनं ग्रहणीयमिति चान्द्रायणव्रतम्। इदं पिपीलिका-चान्द्रायणम्। एतद्विहाय यवमध्यचान्द्रायणं यतिचान्द्रायणं शिशुचान्द्रायण‌ञ्चेति अन्यानि त्रिविधानि चान्द्रायणानि शास्त्रेषु विहितानि। आदिपदेन कृच्छ्रादिकं बोध्यम्। कष्टसाध्यं व्रतमेव कृच्छ्रव्रतम्। प्राजापत्य-सान्तपन-अति-तप्र-पराक्कृच्छ्रति भेदेन एतत् पञ्चविधमिति।

उपासनाकर्म

               कृतप्रायश्चित्तः प्रसन्नचित्तः व्यक्तिः चित्तैकाग्रतां सम्पादनार्थमुपासनां करोति। सदानन्द‌योगीन्द्रेणोक्तं – ‘उपासनानि सगुणब्रह्मविषय‌कमान‌सव्यापाररूपाणि शाण्डिल्यविद्यादीनि।’ परन्तु लक्षणेऽस्मिन् मानसक्रियायाः स्वरूपं नोल्लिखितम्। उप-समीपे आस्यते स्थीयते अनेन इति व्युत्पत्त्यानुसारमुपासना शब्देन तदेव कर्म बोध्यते येन उपासकः उपास्यसमीपे अवतिष्ठते। अर्थात् उपास्यस्य स्वरूपे उपासकस्य चित्तस्य स्थैर्यमिति बोध्यम्। उपासना भवति सैव मान‌सव्यापारः येन मनः उपास्ये ब्रह्मणि स्थैर्यं प्राप्नोति। शास्त्रबोधिते सगुणब्रह्मणि तु दीर्घकालयावत् समादरेण चित्तस्य स्थैर्यं सम्पादनमेव उपासना। उपासना भवति एका विद्या या शाण्डिल्यादिभिः ऋषिभिः उपदिष्टा। अस्याः शाण्डिल्यविद्यायाः वर्णनं छान्दोग्योपनिषदि प्राप्यते। यथा – ‘सर्वं खल्विदं ब्रह्म तज्जलानीति शान्त उपासीत। अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत’[ix]। अस्यार्थः – इदमखिलं जगत् ब्रह्मस्वरुपं यतः जगत् तज्जलान्– तज्ज, तल्ल तथा तदन् । ‘तत्’ इति ब्रह्म। जगदिदं ब्रह्मणस्सृष्टं ब्रह्मणि अवस्थितं तथा ब्रह्मण्येव लयं प्राप्यते। अनेन भूतादित्रिकालेषु जगत् ब्रह्माभिन्नम्। जगतः इदं ब्रह्माभिन्नत्वं ज्ञात्वा जागतिकपदार्थेषु रागद्वेषं त्यज्य शान्तभावेन ब्रह्मण: उपासना कर्तव्या। उपासनेयं क्रतोः ब्रह्मणः निश्चयादेव सम्भवति। यतः पुरुषः क्रतुमयः निश्चयप्रधानः। लोकेऽस्मिन् यः यादृशी क्रतुं करोति मृत्योः परं तदेव रुपमेव प्राप्नोति अतः उपासकेन फलप्राप्यर्थं यथाविहिता क्रतुः कर्तव्या।

            अनेन ‘मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प:’ इत्यादि वाक्येषु तथा अन्यत्र दहरादिषु विद्यास्थानेषु सगुणब्रह्मणः उपासना उल्लिखिता। ये तत्त्वज्ञानाधिकारी न भवन्ति तेषां मन्दाधिकारीणां कृते श्रुतौ उपासना विहिता। मानसव्यापारः इति पदेन उपासनाबाह्यक्रिययोर्मध्ये भिन्नत्वं साधितम्। ज्ञानमपि मानसव्यापारः किन्तु तन्न क्रियात्मकं तर्हि ज्ञाने लक्षणस्यातिव्याप्तिर्न भवति। ज्ञानन्तु सत्तांशप्रधानस्य मनसः परिणामः। पक्षान्तरे उपासना खलु रजः अंशप्रधानस्य मनसः परिणामः। सत्त्वस्य वैशिष्ट्यं लघुप्रकाशकञ्च रजः तु क्रियाशीलं चलञ्च[x]। द्वितीयतः ज्ञानं वस्तुतन्त्रं प्रमाणसापेक्षञ्च, उपासना कर्तृतन्त्रं विधेरधीनस्था च। शङ्कराचार्यस्य मतेन या वस्तुस्वरूपं नापेक्ष्य पुरुषचित्तवृत्तेः अधीनतया विहिता सैव उपासना। ध्यानन्तु ज्ञानवत् मानसव्यापारः परन्तु तत् पुरुषस्य इच्छाधीनम्। किन्तु ज्ञानं प्रमाणसापेक्ष्यम्। प्रमाणं वस्तुनः स्वरूपमवलम्बनेन प्रवर्तयति अतः ज्ञानं वस्तुरधीनं न तु पुरुषाधीनम्। एतदपि लक्षणीयं यत् क्रियात्मकं उपासनाकर्म चित्तशुद्धिना परम्परया ज्ञाने सहायकं भवति, न तु साक्षात्ज्ञानस्वरुपम्। अतः ज्ञानं (यथाभूता ब्रह्मात्मविषयकाखण्डाकारवृत्तिः) यथा मुक्तेः साक्षात्कारणं, उपासना न तु ज्ञानवत् साक्षात्कारणं, सा केवलं ज्ञानोत्पत्तौ सहायका क्रिया।

            क्रियात्मकया विध्यधीनया उपासनया निदिध्यासनं भिद्यते यतः उपासना शास्त्रानुमोदितं किमपि आलम्बनम् अवलम्ब्य तस्मिन्नेव विषये निरन्तरमेकाकारं प्रत्ययप्रवाहमुत्पपादयति। तथा निदिध्यासनन्तु विषयाकृष्टस्य चित्तस्य विषय‌भिन्नम् आत्मविषयकं स्थैर्यानुकुलकरणरूपं मानसव्यापारः। अतः निदिध्यासनं फलम्, उपासना तस्य अन्यतमः उपायः। निदिध्यासनात्पूर्वं मननमावश्यकम्, उपासनायां केवलं गुरुवेदान्तवाक्येषु श्रद्धा आवश्यका। निदिध्यासनं ब्रह्मज्ञानस्य साक्षादुपायः, उपासना तु दूरस्थोपायः।

             ग्रन्थकारः उपासना सगुणब्रह्मविषयकेति प्रतिपादितवान्। निर्गुणब्रह्मण: उपासना असिद्धः। परन्तु पञ्चदशीकारेण विद्यारण्यस्वामिना निर्गुणब्रह्मणः उपासनाऽऽपि स्वीक्रियते। ‘यत् सांख्यैः प्राप्यते स्थानं तद् योगैरपि गम्यते’[xi] इत्यादि गीतावचनाज्ज्ञायते यत् मननादि सहकृतः सांख्यः अर्थात् श्रवणादिनामधेयः वेदान्तविचारः यथा ब्रह्मप्राप्तेः एकः उपाय: तथैव योगनामधेय निर्गुणब्रह्मोपासनापि एकः उपायः। किन्तु उपासना किमपि अवलम्बनमाश्रयीकृत्यैव सम्भवति। अद्वैतवादे तदेव अवलम्बनमवश्यं कल्पितं ब्रह्मधर्मस्वरूपम्। शास्त्राणि उपासनार्थं निर्गुणं निरूपं ब्रह्म आनन्दमयं हिरण्यश्मश्रुः इत्यादिभिः शब्दैः सविशेषरूपेण प्रतिपादितवन्तः। ऋषिः शाण्डिल्यः ‘सर्वकर्मा सर्वकाम सर्वगन्ध सर्वरूप सर्वरस’ (छा. ३।१४।४) इत्यादि वाक्ये उपास्यब्रह्मण: स्वरूपमुल्लिखितवान्। वस्तुतः प्रतीकं विना इन्द्रियातीतस्य बस्तुनः ग्रहणं न शक्यते अतः एतस्य प्रतीकस्य सहायताग्रहणमेव उपासना इति कथ्यते।

नित्यादीनां कर्मणां फलम्

             काम्यनिषिद्धकर्मणोः फलं पूर्वमुल्लिखितम्। अधुना नित्यादीनां कर्मणां फलमालोचितव्यम्। वेदान्तसारकारेण सदानन्देन मुख्यगौणभेदेने एतेषां द्विविधं प्रयोजनं फलं वा प्रतिपदितम्। तत्रोक्तं नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनम्, उपासनानां तु चित्तैकाग्र्यम्। निष्कामोपासकमुद्दिश्य शास्त्रे नित्यादिकर्मभिः मुख्यं तथा अवान्तरं प्रयोजनं निर्दिश्येते। विषयेऽस्मिन् स्मृतौ उत्तम् ईश्वरे कर्मफलार्पणं कृत्वा कर्म साधयेत् तेन कर्तुः चित्तं ईदृशं निर्मलं जायते येन सः ब्रह्मलोकादावपि वैराग्यवान् भवति। यथा-

शोध्यमानं तु तच्चित्तम् ईश्वरार्पितकर्मभिः।

वैराग्यं ब्रह्मलोकादौ व्यनक्ति-आशु सुनिर्मलम्‌ ॥

बालबोधिनीकारेण नित्यादिकर्मानुष्ठानानां फलं त्रिविधप्रकारेण भवितुमर्हति यथा-वेदनोद्देश्ये संस्कारोद्देश्य तथा ईश्वरार्पणबुद्धौ। यदा ज्ञानोद्देश्ये कर्म विधीयते तदा कर्म पापक्षयरुपं चित्तशुद्धिं द्वारं कृत्वा ज्ञानस्य जनकं भवति। यदा कोऽपि संस्कारवशात् स्वकर्मबोधैव नित्यकर्मानुष्ठानं करोति तदाऽपि चित्तशुद्धिनैव प्रयोजनमिति तपसा कल्मषं हन्ति इति स्मृतिप्रमाणात् ज्ञायते। पुनः यदा ‘यत् करोषि यदाश्नासि’ इति स्मृत्यनु‌सारेण ईश्वरे कर्मफलमर्पणं कृत्वा पुरुषः नित्यकर्म अनुष्ठीयते तदा ईश्वरप्रसादनं फलम्। यतः अशुद्धचित्तव्यक्तेः ईश्वरानुग्रहलाभः असम्भवः। श्रीमादापोदेवेन चित्तशुद्धिः द्वारं तथा विविदिषा अर्थात् ब्रह्मजिज्ञासा नित्यादिकर्मणां मुख्यफलम्।

               अद्वैताचार्याणां भामतीकारः वाचस्पतिमिश्रः तहनु‌यायिणश्व ‘कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते, क्रियावानेष ब्रह्मविद्यां वरिष्ठः’, ‘पुण्य प्रज्ञां वर्धयति’ इत्यादि शास्त्राणि अवलम्ब्य विविदिषायां तथा ज्ञाने उभयत्र कर्मणः साधनता स्वीकुर्वन्ति। परन्तु विवरण‌कारेण प्रकाशात्मयत्या तदनुयायिभिश्च कर्म विवि‌दि‌षामात्रस्य साधनम्। ज्ञानप्रतिबन्धकं विषयानुरागं निवृत्त्य चित्तं निर्मलीकृत्य उत्कटवैराग्यस्य उत्पत्तियावत् कर्मणः उपयोगिता। तदनन्दरं स व्यक्तिः प्रव्रज्यां गृह्णाति। वाचस्पतिमतेन चित्तशुद्धेः तथा उत्कटवैराग्यस्य पश्चादपि असन्न्यासिनः अपि ज्ञानोत्पत्तियावत् कर्मानुष्ठानः निर्बाधः। अतः वक्तुं शक्यते, विवरणमतेन केवलमेव सन्न्यासिनः ब्रह्मविद्यायामधिकारस्ति, भामतीमतेन गृहस्थस्यापि ब्रह्मविद्यायामधिकारस्ति।

            तदनन्तरमेतेषामवान्तरफलत्वेन सदानन्दयोगीन्द्रेणोक्तं- ‘नित्यनैमित्तिक प्रायश्चित्तोपासनानां तु अवान्तरफलं पितृलोक-सत्यलोकप्राप्तिः’। लोकः त्रिविधः मनुष्यलोकः पितृलोकः देवलोकश्चेति। मृत्योः पश्चात् पुत्रदेहरूपेण मनुष्यलोके तिष्ठति। शास्त्रोक्तकर्मणा पितृलोके तथा विद्यया तु देवलोके। देवलोकः श्रेष्ठतमः। यस्यापरं नाम सत्यलोकः। तर्हि देवलोकस्य साधनरूपेण विद्या विद्वद्भिः प्रशंसिता।

           उपासनाकर्मणः फलं सकामनिष्कामभेदेन द्विविधम् । शङ्कराचार्येण येषां विविधफलानामुल्लेखं क्रियते तेषां तु सकामोपासनाकर्मणः फलमिति बोध्यम्। निष्कामोपासनायाः फलं चित्तैकाग्र्यम्। ब्रह्मसूत्रस्य ‘अपि च संराधने प्रत्यक्षानुमानाभ्याम्’[xii] इति सूत्रेण उक्तं परमात्मा आराधनालभ्यः। अद्वैतमते उपासना कर्मवत् विद्यायाः आरादुपकारकः, न तु साक्षात्साधनमिति पूर्वमुल्लिखितम्। स्थिरे निर्मले जले यथा सूर्यः स्पष्टरुपेण प्रतिभाति तद्रूप: विशुद्ध-स्थिर-चित्ते ब्रह्म सम्यगतया प्रतिभाति। अतः चञ्चलचित्तानां जीवानां कृते उपासना अवश्यकर्तव्या। प्रसङ्गेऽस्मिन् पञ्चदशीकारेणोक्तः श्लोकः –

अत्यन्तबुद्धिमान्द्याद्वा सामग्र्या वाऽप्यसम्भवात्।

यो विचारं न लभते ब्रह्मोपासीत सोऽनिशम् ॥[xiii]

निष्कर्षः

आचार्यः शङ्करः कर्मविरोधी नास्तिकतुल्यः इति मतं सर्वथा असमीचीनम्। यतः, सः न कर्मविरोधी अपि तु चित्तशुद्धौ कर्मणः उपयोगित्वं स्वीकरोति, अतः सः कर्मवादी। ततः निष्कामरूपेण कर्मसम्पादनात्परं ज्ञानोदयेन कर्म स्वयमेव त्यजति। अनेन कर्मज्ञानसम्बन्धः अद्वैतवेदान्ते दरीदृश्यते।

सन्दर्भग्रन्थसूची

  • वेदान्तसार, राकेश शास्त्री, दिल्ली, परिमल पब्लिकेशन्स्।
  • अद्वैतवाद, कोकिलेश्वर शास्त्री, कलिकाताविश्वविद्यालयात् प्रकाशितः, १९२२ सन्।
  • वेदान्तसार, स्वामी अमृतत्त्वानन्द, कलकाता, उद्वोधनकार्यालय, २०१८ सन्।
  • वेदान्तसार, विपद्भञ्जन पाल, कलकाता, संस्कृतपुस्तकभण्डार, १४२० बङ्गाब्दः।
  • वेदान्तसार, लोकनाथ चक्रवर्ती, पश्चिमबङ्ग राज्य पुस्तक पर्षद्, २०१४ सन्।
  • विशुद्ध मनुस्मृति, ड. सुरेन्द्रकुमार, आर्ष साहित्य प्रचार ट्रस्ट, २०१७ सन्।
  • ब्रह्मसूत्रशाङ्करभाष्यम्, स्वामी सत्यानन्द सरस्वती, दिल्ली, चौखम्बा संस्कृत प्रतिष्ठान।
  • श्रीमद्भगवद्गीता, स्वामी रामसुखदासः, गोरक्षपुर, गीताप्रेस, २००९ सन्।
  • उपनिषद्-ग्रन्थावली(खण्ड-१,२,३), स्वामी गम्भीरानन्द, कलकाता, उद्वोधनकार्यालयः, २०१९ सन्।

___

इति शम्।।


[i] श्रीमद्भगवद्गीता २।४७

[ii] श्रीमद्भगवद्गीता ४।१८

[iii] श्रीमद्भगवद्गीता १६।२३

[iv] आचार्यमनुनोक्तं धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः । (१/१३ मनुसंहिता)

[v] ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।

[vi] मनुस्मृतिः १२-५४

[vii] वेदान्तसारः

[viii] वेदान्तसारः

[ix] छा. उ. ३/१४/१

[x]  ‘सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः।’

[xi] श्रीमद्भगवद्गीता ५।५

[xii] ब्रह्मसूत्रम् (३/२/२४)

[xiii] ध्यानदीपः, श्लोकः ५४