॥ आयुर्वेदस्य गरिमा ॥
डा. मञ्जुनाथ हेगडे
सहायकप्राध्यापकः
एस् के एस् वि ए महाविद्यालयः
श्री आदिचुञ्चनगिरि क्षेत्रम् 571811
दूरवाणी – 9886958585
E Mail – mshegdevanalli@gmail.com
लेखसारः –
अथास्मिल्लोके सकलजीवजन्तवस्तावत् सुखं मे भूयात्; दुःखं किञ्चिदपि माभूत् इत्येतदर्थं नितरां प्रयतन्ते । सुखसोपानन्तावत् आरोग्यमेव इत्यत्र नास्ति विदुषां विप्रतिपत्तिः । तदुक्तं तत्वज्ञैः -‘आरोग्यमेव भाग्यम्’ इति । जगज्जीविनां कैवल्यसम्पादनसोपानानां धर्मार्थकामाख्यानां त्रिविधपुरुषार्थानां संसाधनार्थं स्वस्थजीवनसंरक्षणार्थञ्च आयुर्वेदशास्त्रं प्रवृत्तमिति पण्डिताः प्रवदन्ति । जीवलोकेsस्मिन् सुखैषिणां प्राणिनाम् स्वास्थ्यसंरक्षणस्य मूलनिदानन्तावत् आयुर्वेदे निहितमिति नीतिनिपुणानां निर्णयः । तस्मादेव “आयुषो वेदः आयुर्वेदः” इति विपश्चिदो वदन्ति । आयुरस्मिन् विद्यते अनेन वा इति आयुर्वेदः । आयुर्विन्दन्ति वेत्ति वा इत्यपि आयुर्वेद: । ’आयुर्जीवितमुच्यते’ इत्युक्तिदिशा जीवनं यस्य ज्ञानेन विन्द्यते; लभ्यते वा स आयुर्वेदेति गीयते । यत् शास्त्रम् आयुषः ज्ञानं कारयति तत् शास्त्रम् आयुर्वेदशास्त्रम् इति प्रथितम् । शास्त्रेsस्मिन् प्रधानतया स्वस्थजीवनसोपानानि सन्दर्शितानि । तस्मादेव कारणात् अस्य शास्त्रस्य गरिमा महिमा च अनन्यसादृश्यं भजते । प्रधानेषु कृतो यत्नः फलवान्भवतीति भाष्यानुरोधेन सुखार्थिभिरस्माभिः स्वास्थ्यसुखसम्पादनार्थं संरक्षणार्थञ्च चिकित्साप्रधानम् आयुर्वेदशास्त्रमेव शरणीकरणीयम् इति नीतिनिष्णातानां निर्णयः ।
आयुः कामयमानेन धर्मार्थसुखसाधनम् ।
आयुर्वेदोपदेशेषु विधेयः परमादरः ॥[1]
अथास्मिल्लोके सकलजीवजन्तवस्तावत् सुखं मे भूयात्; दुःखं किञ्चिदपि माभूत् इत्येतदर्थं नितरां प्रयतन्ते। सुखसोपानन्तावत् आरोग्यमेव इत्यत्र नास्ति विदुषां विप्रतिपत्तिः । तदुक्तं तत्वज्ञैः तल्लक्षणम्- ’आरोग्यमेव भाग्यम्’ इति । कैवल्यसम्पादनसोपानानां धर्मार्थकामाख्यानां त्रिविधपुरुषार्थानां संसाधनार्थं स्वस्थजीवनसंरक्षणार्थञ्च आयुर्वेदशास्त्रं संप्रवृत्तमिति पण्डिताः प्रवदन्ति । तदुक्तं चरकेन –
सर्वमन्यत् परित्यज्य शरीरमनुपालयेत् ।
तदभावे हि भावानां सर्वाभावः शरीरिणाम् ॥[2] इति
जीवलोकेsस्मिन् सुखैषिणां मानवानां प्राणिनाञ्च स्वास्थ्यसंरक्षणस्य मूलनिदानन्तावत् आयुर्वेदे निहितमिति नीतिनिपुणानां निर्णयः । तस्मादेव “आयुषो वेदः आयुर्वेदः” इति विपश्चिदो वदन्ति ।
’आयुर्वेद’ इत्यत्र तु पदद्वयं श्रूयते आयुः, वेदश्चेति । तत्र आयुर्नाम एति गच्छति जीवितव्याप्यकालः[3] इति जटाधरः । छन्दसीणः इत्युणादिना सिद्धमिदं आयुरिति पदं जीवनपरं वर्तते । “हृदस्य पुत्रो ह्यायुर्वै शिवः कालस्तथैव च”[4] इति हरिवंशव्याख्यानेन आयुरित्यस्य जीवितावधिरिति ज्ञायते । ऋग्वेदस्य “ता अस्य वर्ण्णमायुवोनेष्टुः सचन्त धेनवः” इति विवरणेन आयुः पदस्य गमनशीलो जीवितकाल इति वक्तुं शक्यते । एतेन आयुः पदस्य जन्तूनां जीवनकाल इत्यर्थः निश्चितः । तत्र च अपरस्तु विद्यते ’वेद’ शब्दः । स तावत् ’विद्’ धातोः ’घञ्’ प्रत्ययेन निष्पन्नः ज्ञानार्थपरः । विद सत्तायाम्, विदविचारणे, विदलृ लाभे, विद चेतनाख्याननिवासेषु इति धातुभ्योsपि घञि वेदशब्दः विख्यातः । ऋग्यजुस्सामाथर्वनामभिः विराजमाना वेदास्तावत् सुज्ञाननिधयः, ज्ञान-विज्ञानप्रबोधकाः, शाश्वतस्थायिनः, मानवहितसंरक्षकाः, जन्तूनां कर्तव्यप्रेरेपकाः संस्कृतेराधारभूताः, विवेकविवर्धकाः, शुभाशुभनिदर्शकाः, सुखशान्तिसंसाधकाः, जीविनां जीवनस्योन्नायकाः, विश्वहितसम्पादकाः, चतुर्वर्गफलावाप्तिप्रदायकाश्चेति विविधधात्वर्थग्रहणात् विज्ञायन्ते । आयुरित्यस्य वेदस्य च पदार्थे ज्ञाते ’आयुर्वेद’ पदस्य जिज्ञासा सहजा । ’आयुषो वेदः’ आयुर्वेदः आयुरस्मिन् विद्यते अनेन वा इत्यायुर्वेदः इति तस्य व्युत्पत्तिः प्रदर्शिता । तदुक्तम् चरकेन –
हिताहित सुखं दुःखम् आयुस्तस्य हिताहितम् ।
मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते ॥[5] इति
आयुर्विन्दन्ति वेत्ति वा इत्यायुर्वेद: । आयुर्जीवितमुच्यते इत्युक्तिदिशा जीवनं येन ज्ञानेन विन्द्यते; लभ्यते वा स आयुर्वेद इति गीयते । यत् शास्त्रम् आयुषः ज्ञानं कारयति तत् शास्त्रम् आयुर्वेदशास्त्रम् इति प्रथितम् । शास्त्रेsस्मिन् प्रधानतया स्वस्थजीवनसोपानानि सन्दर्शितानि । अस्य शास्त्रस्य गरिमा तु अनन्यसदृशी अनुपमा च वर्तते इत्यत्र लौकिक, वैदिक निदर्शनानि एव साक्षीभूतानि भवन्ति । तद्यथा –
आयुर्हिताहितंव्याधि-निदानं शमनं तथा ।
विद्यन्ते यत्र विद्वद्भिः स आयुर्वेद उच्यते ॥[6]
अनेन पुरुषो यस्मात् आयुर्विन्दति वेत्ति च ।
तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः ॥[7]
तदिदमायुर्वेदशास्त्रम् उपाङ्गमथर्ववेदस्य इत्येकः पक्षः । ऋग्वेदस्योपाङ्गम् इत्यपरः पक्षः । पक्षद्वयेsपि वेदाङ्गत्वम् उपगम्यते एव अस्य आयुर्वेदस्य । शल्यम्, शालाक्यम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम्, रसायनतन्त्रम्, वाजीकरणतन्त्रादिभिः चिकित्सा दीयतेति सुतरां स्वीकृता भवन्ति आयुर्वेदस्य मूलभूताः सिद्धान्ताः । वेदेषु यत्र तत्र गर्भीभूता अनुसन्धेया एवेति निश्चप्रचम् । वेदेषु तत्र तत्र आयुर्वेदस्य वैद्यकविषयाश्च विपुला उपलभ्यन्ते ।
ऋग्वेदे विश्पलाया अश्विन्द्वयेन जङ्घासंयोजनम्, ऋजाशवस्य चक्षुषोरुन्मीलनं, श्रोणस्य जानुप्रगुणीकृतञ्च सर्वेषां कुतूहलमुत्पादयति । अन्यत्र तु ओषधीनां नामसङ्कीर्तनं प्रयोगश्चापि उपदिष्टोsवगम्यते । तथा च अथर्ववेदे रोगाणां संज्ञा तेषां निरसनोपायाश्च वैलक्षण्येन वर्णितास्सन्ति । मनोवैज्ञानिकचिकित्सापद्धत्या अपि रोगिणां रोगाणां निवारणं दरीदृश्यते । रोगविशेषाणां निरासाय मान्त्रिकी चिकित्सा अपि प्रचुरा आसीत् । व्याधितानां जलाभिषेचन-अभिमन्त्रणधूपनादिनाम् उपदेशा अपि विद्यन्ते । शल्यक्रिययापि विकृतानां शरीरावयवानां छेदन-भेदनादिना रोगाणाम् उपनिर्वहणं कृतमिति ज्ञायते । वेदेषु प्राचीनतमे ऋग्वेदे शल्यक्रियायाः उल्लेखः विपुलं दृश्यते । अश्विनाभ्यां मधुविद्याप्राप्त्यर्थं महर्षेः दध्यङृषेः शिरश्छित्वा वामश्वस्य शिरं स्थापितमिति श्रूयते । तद्यथा –
तद् वा नरा सनये दंस उग्रमाविष्क्रुणोमि सन्वतुर्न वृष्टिम् ।
दध्यङ् ह यन्मध्याथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥[8] इति
अथर्ववेदे शल्यक्रियया गर्भात् शिशोः निस्सारणञ्च उपदिष्टम् । यथा –
वि ते भिनद्धि मेहनं वि योनिं वि गवीनके ।
वि मातरं च पुत्रं च वि कुमारं जरायुणा व जरायु पद्यताम् ॥[9]
अत्र अतीव क्लिष्टरोगेषु गर्भिण्याः चिकित्सा शस्त्रक्रिया च उपदिष्टा ’भिनद्धि’ पदेन छेदनञ्चोपदिश्यते । क्लिष्टप्रसवकर्मणि यदा मातुर्वा पुत्रस्य वा जीवनं सङ्कटापन्नं तदा शल्यक्रिया तत्वज्ञः चिकित्सकः शल्यक्रियया जीवनं रक्षेदिति श्रूयते । मन्त्रविद्यामिव भैषजप्रयोगेन व्याधिप्रतीकारो यत्र तत्र बहुशः समाम्नातो मन्त्रलिङ्गतः । प्राणिनां हिताय भिषग्वरैः पण्डितैः नानौषधीनां प्रभूतः सङ्ग्रहः कर्तव्यः इत्युपदिष्टो वर्तते ऋग्वेदे –
यत्रौषधीनां समग्मत राजानः समिताविव ।
विप्र स उच्यते भिषग्रक्षोहामीवचानतः ॥[10] इति
एवमथर्ववेदेsपि –
शतम् ह्यस्य भिषजः सहस्रमुत वीरुधः ।[11] इति
अस्यायुर्वेदीयचिकित्साशास्त्रस्य मूलभूतः सिद्धान्तः त्रिदोषसमाह्वय इति चरकः । दूषयन्ति विकृतिम् आपादायान्ति शरीरं मनश्चेति यैः ते दोषाः । ते च दोषाः शरीर-मानसभेदात् द्विविधा दृश्यन्ते । तत्र वात-पित्त-कफश्चेति शारीरकाः दोषाः । रजस्तमश्चेति द्वौ पुनर्मानसौ । सत्वन्तु अविकारित्वात् दोषकोटिं नायाति । इदमत्र अवधेयं विकृता एव अमी वायुपित्तकफाः लभन्ते दोषसंज्ञां न पुनरविकृता इति । अमी च ते दोषाः मलिनीकरणात् मला इत्यप्युच्यन्ते । उक्तञ्च शार्ङधरे –
शरीरदूषणाद्दोषा धातवो देहधारणात् ।
वातपित्तकफा ज्ञेया मलिनीकरणान्मलाः ॥[12] इति
तत्र सुश्रुतः – एतैरेव मलैः व्याधयो उत्पद्यन्ते । ते च व्याधयः चतुर्विधः[13] – आगन्तवः, शारीराः, मानसाः, स्वाभाविकाश्चेति । तेष्वागन्तवो अभिघात निमित्तकाः । शारीरास्तु अन्नपानमूलाः त्रिधातुषॊणितसन्निपातवैषम्यनिमित्ताः । मानसस्तु क्रोधशोकभयहर्षविषाद-ईर्ष्याभ्यसूयाः दैन्यमात्सर्यकामलोभप्रभृतयो इच्छाद्वेषभेदैः आविर्भवन्ति । स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्राप्रभृतय इति विबुधा वदन्ति ।
एवं चरकसंहितायामपि –
वायुः पित्तं कफश्चेति शारीरो दोषसङ्ग्रहः ।
मानसः पुनरुद्दिष्टो रजश्च तम एव च ॥[14] इति
तात्विकदिशा तु अधिष्ठानभेदेन रोगा द्विविधाः शारीरा मानसाश्चेति । तत्र विकारमापन्न वातादयः तत्तद्रोगाणाम् आभ्यन्तरभूता रसरक्तादीनि दुष्याणि दूषयन्तः ये जनयन्ति शरीरभावान् रोगान् ते शारीराः । वैषम्यमापन्ने पुनः रजस्तमसी तत्तद्रोगाणाम् आभ्यन्तरकारणभूते कामक्रोधलोभमोहोन्मादविक्षेपविभ्रमादिरोगाधिष्ठानभूतं मनो दूषयन्ती उपजनयतः तांस्तान् रोगान् मनोभावान् ये ते मानसाः इति निगदिताः । तत्र सत्वस्य निर्मलत्वात् प्रकाशात्मकत्वाच्च गुणत्वमेव न तु दोषत्वमिति भावः । एषां त्रिदोषाणां गतिः क्षयोपचयस्वरूपावस्थानभेदात् त्रिधा । क्षये एषां ह्रासः उपचये एषां वृद्धिः प्रकोपो वा स्वरूपास्थाने च पुनः स्वाभाविकी स्थितिः प्रकृतिस्था समत्वरूपा भवति । तथा चोक्तं चरके – ’क्षयः स्थानं वृद्धिश्च विज्ञेया त्रिविधा गतिः’[15] इति । तत्र क्षयवृद्धी विकृतिरूपे स्थानञ्च समत्वरूपं प्रकृतिस्थं न विकारभूतं विकृतिस्तु स्वभावविपर्ययः स च क्षयवृद्धिरूप एव इति दिक् । तथा हि ऋग्वेदे –
तं युञ्जाथां मनसो यो जवीयान् त्रिबन्धुरो वृषणा यस्त्रिचक्रः ।
येनापयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥[16] इति
अत्र त्रिधातुरित्यनेन वातपित्तकफसमाख्याः एव परिसंख्याताः । एतेषां समतोलनेनैव आरोग्यभाग्यं सिध्यतीति सुधियः ।
विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम् ।
तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् ।।[17]
प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः ।
मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः ॥[18] इति चरकः
इत्थञ्च वेदायुर्वेदचिकित्साभिः, व्यायामायामादिभिः, प्राणायाम-ध्यान-योगादिभिश्च दैहिक-मानसिक स्वास्थ्यसंरक्षणं संवर्धनञ्च कर्तव्यमिति कोविदाः कथयन्ति । चरकसुश्रुतादिग्रन्थेषु वेदानाम् अनेकासु ऋचासु च चिकित्साविज्ञानविषयकाः तथ्या दरीदृश्यन्ते । तस्मादेव कारणात् अस्य शास्त्रस्य गरिमा महिमा च सार्वकालिकम् अनन्यसादृश्यं भजते । प्रधानेषु कृतो यत्नः फलवान्भवतीति भाष्यानुरोधेन सुखार्थिभिरस्माभिः स्वास्थ्यसुखसम्पादनार्थं संरक्षणार्थञ्च चिकित्साप्रधानम् आयुर्वेदशास्त्रमेव शरणीकरणीयमिति नीतिनिपुणानां निर्णयः । वेदोपाङ्गस्य आयुर्वेदशास्त्रस्य अनुसन्धानेन सर्वेषामपि जीविनां सुखसंसिद्धिरिति संसुधीनां सिद्धान्तः ।
॥ शुभम् ॥
॥ ग्रन्थऋणम् ॥
१) ऋग्वेदसंहिता – लेखकः – लक्ष्मीकान्त हेगडे (अनुवादकः) संपादकः – र वि जहगीरदार्
प्रकाशनम् – इन्स्ट्युत्यूट् आफ़् वैदिक् कल्चर् – २०२३ , ऐ एस् बि एन् – ९७८८१७०८४११०४
२) वैदिकेतिहासः – लेखकः – जयदेववेदालग्ङ्कारः प्रकाशनम् – न्यु भारतीय बुक् कर्परेषन् – २०१८ , ऐ एस् बि एन् – ९७८८१८३१५३१७१
३) सुश्रुतसंहिता – लेखकः – आचार्यत्रिविक्रमात्मज यादवशर्मा , प्रकाशनम् – चौखंबा कृष्णदास अकाडमि – २०१७ ऐ एस् बि एन् – ९७८८१२१८००११०
४) चरकसंहिता – लेखकः – विद्याजादव् जि त्रिकामा जि आचार्य प्रकाशनम् – चौखंबा कृष्णदास अकाडमि – २०१५ ऐ एस् बि एन् -९७८८१२१८००६२५
५) वाचस्पत्यम् – लेखकः – तारानाथ् तर्कवाचस्पति भट्टाचार्य प्रकाशनम् – एन् ए जि पब्लिकेषन् – २०१८
६) आयुर्वेदीया आहारपद्धतिः – संपादकः – पद्मश्री चमूकृष्णशास्त्री , डा. चांदकिरणसलूजा… प्रकाशनम् – संस्कृतसंवर्धनप्रतिष्ठानम् – २०२० ऐ एस् बि एन् – ९७८८१९४५६३९२१
७) शब्दार्थकल्पद्रुमः – लेखकः – राजा राधाकान्त् देव् बहद्दूर्
प्रकाशनम् – विद्याविलस् प्रेस् वारणासि – २०२३
८) भावप्रकाशः – लेखकः – के आर् श्रीकण्ठमूर्ति , प्रकाशनम् – चौखंबा कृष्णदास अकाडमि – २०२१ , ऐ एस् बि एन् – ९७८८१२१८००००२
९) विष्णुपुराणम् – लेखकः – एन् रंगनाथ शर्मा प्रकाशनम् – श्री रामक्रिष्णमठ् बेग्ङलूरु – २०१९
१०) मनुस्मृतिः – लेखकः – प्रभाकरशास्त्री , प्रकाशनम् – प्रगति पब्लिकेशन् बेङ्गलूरु – २०१९ , ऐ एस् बि एन् – ९७८८१७०८४११०४
११) आयुर्वेददीपिका – संपादकः – कविराज श्री नरेन्दनाथ सेनागुप्त , प्रकाशनम् – चौखंबा कृष्णदास अकाडमि – २०१५
१२) आयुर्वेदीया जीवनपद्धतिः – लेखकः – वै रघुराम् भट्टः – उमाकान्त तिवारी , प्रकाशनम् – संस्कृतसंवर्धनप्रतिष्ठानम् – २०२० , ऐ एस् बि एन् – ९७८८१९४८३८२२७
[1] अ. हृ. सू. १/२
[2] च. सं. नि. ६/८
[3] जटाधरः
[4] हरिवंशे
[5] चरकसंहिता १/४१
[6] भावप्रकाशे
[7] भावप्रकाशः
[8] ऋग्वेदसम्हिता
[9] अथर्ववेदः
[10] ऋग्वेदसम्हिता
[11] अथर्ववेदः
[12] शार्ङधरपद्धतिः
[13] सुश्रुतसंहिता १/२४
[14] चरकसंहिता १/५७
[15] चरकसम्हिता १/२७
[16] ऋग्वेदसंहिता
[17] सुश्रुतसम्हिता- १/०६
[18] चरकसम्हिता