वैदिककालीनभारतस्य प्रमुखाः उपलब्धयः

आचार्यः चक्रवर्तिरङ्गनाथन्
साहित्यविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः,
तिरुपति:

प्रस्तावना

विश्वेऽस्मिन् भारतस्य विशिष्टं स्थानं वर्तते। कर्मभूमिः, धर्मभूमिः, ज्ञानभूमिः इत्यादिना अस्य भारतस्य व्यवहारः दृश्यते । जगति उच्चैर्गतिः धर्मतः एव सिद्ध्यति तदुक्तं भोजेन[1]“धर्मेण हीनाः पशुभिः समानाः”[2] इति खलु आर्योक्तिः। अतः मानवजीवने धर्माचरणमत्यन्तं मुख्यं भवति । तर्हि धर्ममूलं किमिति विचार्यमाणे “वेदोऽखिलो धर्ममूलम्” इति सिद्धान्तितम्। भारते धर्मव्यवस्था वेदायत्तैव । न केवलं धर्ममूलतया एव वेदाः समादृताः, अपि च विश्वेऽस्मिन् सर्वप्राचीनग्रन्थतयापि वेदाः आदृताः स्वतन्त्रप्रमाणत्वेन अभ्युपगताश्च । प्राचीनानि धर्म-समाज-व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते। अतः तद्विषये अर्थात् वैदिककालीनभारतस्य प्रमुखाः उपलब्धयः इत्यस्मिन् विषये किञ्चित् पश्यामः ।

विद्यन्ते धर्मादयः पुरुषार्थाः यैस्ते वेदाः। इष्टप्राप्त्यनिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति स वेदः” इति भाष्यभूमिकायामुक्तम्।[3] भारतीयानां समस्तं साहित्यं वेदैरेव परिवृंहितम् अस्ति । वेदेषु सदाचार-धर्म-संस्कृति-राजनैतिक-सामाजिकप्रभृतीनां जीवनोपयोगिविषयाणां सन्निवेशः दृश्यते। वेदे मानवजीवनोद्देश्यभूताः धर्मार्थकाममोक्षाख्याः चत्वारोऽपि पुरुषार्थाः विवेचिताः। वेदः विश्वविज्ञानकोशः, मानवधर्मप्रतिपादकोत्तमोत्तमवाङ्मयं भवति वेदवाङ्मयम् ।[4]

चतुर्वेदानां परिचयः

चतुर्वेदेषु प्रथमे ऋग्वेदे सृष्ट्याविर्भावः, जीवानामुत्पत्तिविचारः, प्रकृतिविचारः, आश्रमव्यवस्था, आयुर्वेदः, गगनयानमित्यादि नैके वैज्ञानिकाः अंशाः अस्मिन् ज्ञानकाण्डे दृश्यन्ते ।

द्वितीये यजुर्वेदे मानवधर्माः, राज्याङ्गप्रक्रिया, गणितविद्या, शरीरकविद्या दृश्यन्ते, अपि च यज्ञकर्मसम्बन्धीनि नानाविधानि कर्माणि अस्मिन् कर्मकाण्डे उपलभ्यन्ते ।

तृतीये सामवेदे परमेश्वरस्तुतिः, तथा गानविद्या अत्र विशेषेण उपलभ्यते, अत एव अस्य उपासनाकाण्ड इति नाम वर्तते ।

चतुर्थे अथर्ववेदे ब्रह्मविद्या, भगवद्भक्तिः, राज्यपालनाविधानम्, तथा पञ्चमहायज्ञस्वरूपं विशेषेण निरूपितम्। अत एव अस्य मोक्षकाण्ड इति व्यवहारः । एवं च विश्वश्रेयः प्रेयश्च वेदादेव भवतीति निर्विवादः विषयः। स्थालीपुलाकन्यायेन उदाहरणानि कानिचन पश्यामः ।

१. सृष्ट्याविर्भावः

सृष्टेः पूर्वं कीदृशी स्थितिः आसीदिति वर्णयति ऋग्वेदस्थ नासदीयमूक्तम्:

नासदासीन्नोसदासीत्तदीनीं नासीद्रजो नो व्योमो परो यत्।

किमावरीव कुह कस्य शर्मन्नम्भ किमासीद्गहनं गभीरम् ।।

न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः।

आनीदवातं स्वधया तदेकं तस्माद्धान्न परः किं चनास ।। [5]

तदानीम् अर्थात् सृष्टेः पूर्वं सत्-असत् च नासीत्, रजः अपि नासीत्, नक्षत्राणि, लोकाश्च नासन्, व्योम अर्थात् शून्यं विना तदानीं अर्थात् सृष्टेः पूर्वं किमपि नासीत् । तदानीं मृत्युः नासीत्, अमरत्वमपि नासीत्, अह्नः-रात्रिरिति भेदः अपि नासीत्, ब्रह्मतत्त्वं विना अन्यत् किमपि नासीत् । सर्वत्र अन्धकारः, तत्र ऊहातीतः कश्चन ब्रह्मपदार्थः आसीत्, तस्मिन् मनसि प्रथमः कामः समवर्तत । तदानीं महर्षयः असत् द्वारा सत् पदार्थस्य ज्ञानं भवतीति ज्ञातवन्तः। तत्रादौ परब्रह्मणः मनसि कामः उद्भूतः, तदेव सृष्टेः प्रथमं बीजम् । ततः विश्वस्याविर्भावः जातः इति। एवं सृष्टेः आविर्भावविषये प्रप्रथमतया वेदे एव दृश्यते ।

२. नमस्कारपद्धतिः

भारतीयसंस्कृतौ नमस्कारपद्धतिः अनादिकालात् अस्ति। अस्य मूलं ऋग्वेदे लभ्यते। यथा-

नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः।

यजाम देवान् यदि शक्रवाम मा ज्यायसः शंसम् आ वृक्षि देवाः ।। [6]

ज्येष्ठानां, कनिष्ठानां, युवानां, वृद्धानां नमः। यज्ञादिना देवानां तृप्तये कदाचित् अलसाश्चेदपि, कदापि ज्येष्ठानां, महात्मनां गौरवप्रदानविषये अश्रद्धा न भवेम इति अस्य मन्त्रस्य अभिप्रायः। एवं च गौरवप्रदानविषये भारतस्य प्रथमगुरुः वेद एव ।

३. तत्त्वज्ञानप्राप्तये सर्वेषां स्वागतम्

वैदिकमार्गेण सर्वेऽपि ब्रह्मपदार्थं ज्ञातुं शक्नुवन्ति। ज्ञानसमुपार्जने सर्वेषां वेदः स्वागतं करोति। यथा-

सुगः पन्था अनृक्षर आदित्यास ऋतं यते।

नात्रावखादो अस्ति वः ।। [7]

ब्रह्मपदार्थं ज्ञातुं सुगमः मार्गः अस्ति वेदमार्गः। अतः हे गवेषकाः आगच्छन्तु वैदिकविज्ञानमार्गे इति अस्य मन्त्रस्य अभिप्राय।

४. सर्वेषां पिता परब्रह्म एव

युगे युगे मातापितृसहस्राणि, पुत्रदारशतानि च भवन्ति, का ते माता, कः तव पिता, कः भवान् इति भोजः चम्पूरामायणे कथयति ।[8] अतः सर्वेषामस्माकं जन्मजन्मान्तरतः पिता एकः एव, स एव ब्रह्मपदार्थः, स एव अस्माकं त्राता इति वेदे उक्तमस्ति। यथा-

उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् ।

उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ।। [9]

भूलोके द्युलोके च ये वसन्ति, तेषां सर्वेषां प्राणिनां पिता सर्वेश्वर एव, सः अस्मान् उद्धर्तुं हस्तमुद्धृत्य तिष्ठति, लोकपालनमेव तस्य प्रथमकर्तव्यमिति मन्त्रार्थः ।

५. कालचक्रम्

कालचक्रविषये अपि प्रथमतया वेदे उक्तमस्ति। यथा-

द्वादशारं नहि तज्जरायवर्वर्तिचक्रम् परिद्याम् ऋतस्य।

 आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ।।[10]

कालरूपनित्यचक्रस्य द्वादशपत्राणि सन्ति। ते निरन्तरं भ्रममाणाः सन्ति। तेषु एकस्य विंशत्यधिकसप्तशतकुमाराः (720) भवन्ति इति। अर्थात् 360 अहानि, 360 रजांसि अह्रात्य 720 विंशत्यधिकसप्तशतम्। एवं कालविषयेऽपि प्रथमोपदेशः वेदादेव लभ्यते ।

६. वृष्टिविज्ञानम्

वृष्टिविज्ञानमपि वयं वेदादेव प्राप्तवन्तः। यथा जलविषये वृष्टिविषये वेदे उक्तमस्ति। जलाधिपः भवति वरुणः सः जले स्थित्वा, जीवान् परिशीलयति, शुद्धीकरोति, आनन्दं ददाति च । पवमानसूक्तोऽयं शरीरस्य, मनसः, पर्यावरणस्य च शुद्धीकरणार्थमुपयुज्यते। यथा –

यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यं जनानाम्।

मधुश्श्रुतशुचयो याः पावकाः ता न आपशङ्गुस्योना भवन्तु।।

यासां देवा दिवि कृण्वन्ति भक्षम् या अन्तरिक्षे बहुधा भवन्ति।

या पृथ्वीं पयसा उदन्ति शुक्तः ता न आपः शग्गुस्योना भवन्तु ।।[11]

जलं देवानामाहारः भवति, इदं जलं भिन्नभिन्नपर्यावरणेषु दृश्यते। इदं निर्मलं जलं पृथ्वीं उन्दति (भिनत्ति/आर्द्रं करोति)। पुनः इदं जलं आनन्ददायकं भवतीति अस्य मन्त्रस्य अभिप्रायः। एवं जलविषये पुनः वृष्टिविषये च ऋग्वेदे पवमानसूक्ते[12] अपि उक्तमस्ति ।

७. सङ्घ शक्तिः

सर्वेऽपि ऐकमत्येन स्वजीवनं यापयन्तु, इति वेदः उपदिशति। यथा-

सङ्गच्छध्वं संवदध्वं संवो मनांसि जानताम्।

देवा भागं यथा पूर्वे संजनाना उपासते।।

समानो मन्त्रः समितिः समानी।

समानं मनः सह चित्तमेषाम् ।।[13]

सर्वे मिलित्वा कार्यं कुर्वन्तु, सर्वेऽपि सुष्ठु भाषणं कुर्वन्तु, एकाभिप्रायेण कार्याणि कुर्वन्तु, पुरा यथा देवाः ऐकमत्येन स्थित्वा यागफलं प्राप्तवन्तः, तथा भवन्तः अपि ऐकमत्येन स्थित्वा फलभागिनः भवन्तु। इति सर्वेषां हितं चिन्तयति वेदः ।

८. मानसिकविकासः

मानसिकविकासविषयेऽपि वेदे उक्तमस्ति। यथा शिवसङ्कल्पसूक्ते—

यज्जाग्रतो दूरमुदैति दैवं तदुसुप्तस्य तथैवैति ।

दूरं गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु।[14]

स्वप्नावस्थायां मनः नानादेशेषु अटति, पुनः गाढनिद्रावस्थायां स्वस्थानमुपैति। सत्कर्मकर्ता जितेन्द्रियः सन्, वेदविहितयज्ञकर्मसु निरतः भवेत्। सर्वेऽपि सुमनस्काः भवन्तु इति वेदः उपदिशति ।


उपसंहारः

एवं अखण्डज्ञानधारायां भरतभूमिः सिक्ता वर्तते। “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्” इति महाभारतोक्तिरेव अत्र प्रमाणम्। एवं वैदिककालीनभारतस्य प्रमुखाः उपलब्धयः बहवः सन्ति। केवलमत्र दिङ्मात्रं दर्शितम् ।

सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः।

सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्।।

परिशीलितग्रन्थसूची

  1. ऋग्वेदः – विश्वेश्वरानन्द-वैदिकशोध-संस्थानम् (ई पुस्तकालयः)
  2. यजुर्वेदः – मोहन् पब्लिकेशन् (ई पुस्तकालयः)
  3. सामवेदः – मोहन् पब्लिकेशन् (ई पुस्तकालयः)
  4. अथर्ववेदः – मोहन् पब्लिकेशन् (ई पुस्तकालयः)
  5. चम्पूरामायणम् – चौखाम्बाविद्याभवन (वाराणसी)
  6. महाभारतम् – गीताप्रेस् (गोरखपुर)

[1] उच्चैर्गतिसिद्ध्यति धर्मतश्चेत् (चम्पूरामायणे बालकाण्डे)

[2] महाभारते शान्तिपर्वणि

[3] बहृक्प्रातिशाख्यम्

[4] ओं यथेमां वाचं कल्याणीमावदानि जनेभ्यः

[5] ऋग्वेदे 10-129

[6] ऋग्वेदे 1-27-13

[7] ऋग्वेदे 1-41-4

[8] मातापितृसहस्राणि पुत्रदारशतानि च। युगे युगे व्यतीतानि कस्य ते कस्य वा भवान् ।। (चम्पू-बाल-लोक सं 3)

[9] ऋग्वेदे 1-95-7 10.

[10] ऋग्वेदे 1-164-11

[11] पवमानसूक्तम् (तैत्तिरीयब्राह्मणम्)

[12] ऋग्वेदे नवममण्डले पवमानसूक्तम्

[13] ऋग्वेदे 8-49-3 14

[14] शुक्लयजुर्वेदे वाजसनेयि संहितायां 34 अध्यायः