भागवतपुराणोक्तदिशा ब्रह्मचर्याश्रमवर्णनम्
सामवेदं वि.के.एल्.नरसिंहाचार्युलु
शोधच्छात्रः, पुराणेतिहासविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः. तिरुपतिः
svklncharyulu@gmail.com
Contact number: 7386780027
गुरुकुलनिवासी ब्रह्मचारी सर्वदा इन्द्रियसंयमेन दासः इवः स्वत्मानं तुच्छं मत्वा गुरुचरणे भक्तिप्रदर्शनपूर्वकं, गुरहितकार्यं कुर्यात्। सायंकाले एव प्रातःकाले गुरु-अग्निसूर्यश्रेष्ठदेवानां उपासनं कुर्यात्, मौनेन एकाग्रचित्ते गायत्रीमन्त्रस्य जपं पूर्वकं उभयकाले सन्ध्यावन्दनं कुर्यात्। भागवते एवं प्रोक्तं वर्तते यत् –
सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान्।
उबे सन्ध्ये च यतवाग् जपन्ब्रह्म समाहितः॥ अस्य श्लोकस्य व्याख्याने भावार्थदीपिकाप्रकाशे वंशीधरेण प्रोक्तं – “चकारान्मध्याह्नेऽपि संध्यामुपासीत।इत्यर्थ इति। मौननियमेन संध्यानिषेधो न शंक्य इति भावः।द्वयोरेव संध्ययो स्वीकारे “निशायां वा दिवा वापि यदज्ञानकृतं भवेत्। त्रिकालसंध्याकरणात्तत्सर्वं विप्रणश्यति।” इति याज्ञवल्क्येन कथमत्र त्रिकालसंध्येत्युक्तम्। छांदोगपिरिशिष्टे कात्यायनेनाप्युक्तम् – “एतत्संध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्टितम्। यस्य नास्तयादरस्तत्र न स ब्राह्मण उच्यते।”इति। किं च “संधौ संध्यामुपासीत नोदते नास्तगे रवौ संद्यात्रयं तु कर्त्तव्यं द्विजेनात्मविदा सदा।” इति याज्ञवल्क्य। अत एव शानातपेन मध्याह्नसंध्याकालोऽप्युकः “अध्यर्द्धयामादासायं संध्या माध्याह्णिकी मता” इति। यत्तु सन्धौ रात्रिदिनयोर्या ध्यायते सा संध्येति योगवलात्संध्याद्वयमेव लब्यते न तु मध्याह्णं किं तु सायं प्रायरिति द्वयमेवेति तन्न चतुररम्यं “रूढियोगमपहरति” इति न्यायात्। समुदायशक्ती रूढिः अवयवशक्तिर्योगः। संध्याशब्दस्य रूढित्वं तु “प्राह्णापराह्णमध्याह्णास्त्रिसंध्यम्” इत्यमरोक्तेः।”
याज्ञवल्क्यस्मृतावपि आचाराध्याये एवमेव प्रोक्तं –
स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः।
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः॥
गायत्रीं शिरसा सार्ध जपेत् व्याहृतिपूर्विकाम्।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः॥
तस्यैव मिताक्षरा टीकायां गायत्रीमन्त्रोच्चारणप्रसङ्गे एवं प्रोक्तं “ततः सूर्यस्योपस्थानं सौरमन्त्रेण गायत्र्याः। “तत्सवितुर्वरेण्यम्” इत्याद्यायाः प्रतिदिवसं जपः कार्यः।” अपि च “गायत्री पूर्वोक्ताम् आपोज्योतिः इत्यादिना शिरसा संयुक्तां उक्तव्याहृतिपूर्विकां प्रतिव्याहृति प्रणवेन संयुक्तां ओंभूः ओंभूव ओंस्वरिति त्रीन्वारान्मुख नासिकासंचारिवायुं निरुन्धन् मनसा जपेदित्ययं”
गुर्वाज्ञापालपूर्वकं गुरुः यदा वेदत् तदैव अनुशासनपूर्वक वेदाध्ययनं कुर्यात्। अतोच्यते अन्वितार्थप्रकाशिकायाम् – “गुरुणा चेत् यदि आहूतस्तदा सुयन्त्रितः सावदानः सन् गुरोः सकाशान्छान्दांसि वेदानधीयीत।” पाठस्य प्रारम्भे एवं अन्ते गुरोः चरणौ शिरसा नमेत्। शास्त्राज्ञानुसारेण मेखलामृगचर्मवस्त्रजटादण्डकमुण्ड-लुयज्ञोपवीतकुशधारणं कुर्यात्। अतोच्यते अन्वितार्थप्रकाशिकायाम् – “दर्भः पवित्रं पाणौ यस्य सः यथोदितं “पालाशो दण्डो ब्राह्मणस्य”इत्यादि नियममतिक्रम्य मेखलादीनि उपवीतं बिभृयात्। जटाधारणं तु केशप्रसाधनाभावमात्रम्।” सायंकाले एवं प्रातःकाले भिक्षाटनं कृत्वा गुरवे समर्पयेत्, गुरोः आज्ञानुसारेण भोजनं कुर्यात्, अन्यथा क्वचिदेकाश्यादावुपवासकाले गुरोरनुज्ञाभावो वा तदा उपवासम् आचरेत्।
ब्रह्मचारीभोजनप्रकारः याज्ञवल्क्यस्मृतौ आचाराध्यायेऽपि एवं निगदितम् –
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया।
आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन्॥
मिताक्षरायामपि एवमेव प्रोक्तं – “भिक्षामाहृत्य गुरवे निवेद्य तदनुज्ञया कृताग्निकार्यो वाग्यतो मौनी अन्नं सत्कृत्य संपूज्य अकुतसयन्ननिन्दन् आपोशानक्रियां ‘अमृतोपस्तरणसि’ इत्यादिकां पूर्वं कृत्वा भूञ्जीत। “
ब्रह्मचारी भवेत् सुशीलः, मितभुग् अर्थात् मितं भुङ्क्त इति तता मानं च उदरस्यार्द्धभागमन्नेन पूरयेत् तदर्थं जलेनेति ज्ञेयम्। कर्मणि दक्षः अनलसः श्रद्धावान् अर्थात् शास्त्रगुरूपदिष्टार्तेषु विश्वासवान्, जितेन्द्रियः भवेत्। स्त्री एवं स्त्रीनिर्जितजनः अर्थात् ये पुरुषास्तेषु च यावदर्थं यावत्प्रयोजनमेव भिक्षाग्रहणपर्यन्तं व्यवहरेन्नाधिकमित्यर्थः। उभयस्मात् यावदावश्यकं ताववदेव सम्बन्धः भवेत्। अगृहस्थो गृहस्थव्यतिरिक्तो वृहद्व्रतः ब्रह्मचर्यवांस्तु सर्वोऽपि प्रमदानां गाथामपि वर्जयेदित्यर्थः। ब्रह्मचर्यपालनकाले स्त्रीचर्चातः स्वात्मानं निवारयेत्। इन्द्रियः बहुवलवान् भवति, अतः प्रयत्नपूर्वकसाधकानामपि मनः क्षुब्धः भवति एवं नीचकर्मणि प्रवर्तयति। इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि बलवन्ति अतः यतेः संयतचित्तत्वापि मनः हरन्ति। प्रमदा गाथाश्रवणादिना स्ववशीकुर्वन्तीत्यर्थः। युवा ब्रह्मचारी गुरुस्त्रीभिः अन्याभिश्च युवतिभिः स्त्रीभिः आत्मनः केशप्रसाधनादिकं न कारयेत्। पुरुपत्न्यो हि शिष्यं पुत्रवद्वात्सल्येन पश्यन्त्यो यदि केशप्रसाधनादिकं स्वेच्छयैव कुर्वन्ति तदपि न कारयेदित्यर्थः।
याज्ञवल्क्यसंहितायामपि ब्रह्मचारीकृते निषिद्धिकर्माणि प्रोक्तानि वर्तते –
मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम्।
भास्करालोकनाश्लीलपरिवादादि वर्जयेत्॥
युवकब्रह्मचारी युवतीगुरुपत्नीद्वारा केशप्रसाधनोन्मर्दस्नपनाभ्यञ्जनादिकं न कारयेत्। स्त्रियः अग्निसमानाः, पुरुषः घृतकुम्भ इव। एकान्ते स्वकन्यया साकं न अपि न भवेत्। यदा एकान्ते न भवति तदा एव आवश्यकतानुसारेण कन्यायाः पार्श्वे भवेत्। अतोच्यते –
ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम्।
आचरन्दासवन्नीचो गुरौ सुदृढसौहृदः॥
सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान्।
उबे सन्ध्ये च यतवाग् जपन्ब्रह्म समाहितः॥
छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रितः।
उपक्रमेऽवसाने च चरणौ शिरसा नमेत्॥
मेखलाजिनवासांसि जटादण्डकमण्डलून्।
बिभृयादुपवीतं च दर्भपाणिर्यथोदितम्॥
सायं प्रातश्चरेद्भैक्षं गुरवे तन्निवेदयेत्।
भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित्॥
सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः।
यवादर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च॥
वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः।
इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः॥
केशप्रसाधनोन्मर्दस्नपनाभ्यञ्जनादिकम्।
गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा॥
नन्वग्निः प्रमदा नाम गृतकुम्भसमः पुमान्।
सुतामपि रहो जह्यादन्यदा यावदर्थकृत्॥[1]
यावत्पर्यन्तं जीवः आत्मसाक्षात्कारेण देहेन्द्रियप्रतीतिनिश्चयेण स्वतन्त्रः न भवति अर्थात् यावत् पर्यन्तं अहं पुरुषः, सा नारी इति द्वैतभावः न गच्छति तावत्पर्यन्तं एतत् निश्चितं यत् यदि एवं पुरुषः स्त्रीसंसर्गे भवति तर्हि तस्य भोग्यबुद्धिः अवश्यं भवति। वंशीधरकृतो भावार्थदीपिकायां “ईश्वरो ज्ञानसमार्थोपीदं देहदैहिकविपयामिमानादिकं बाधितानुवृत्तिन्यायेनाभासं कल्पयित्वा तत्त्वज्ञानेन विजितं नाममात्रेणैव स्थितमकिञ्चित्करं कृत्वापि यावदात्मना मनसा सह वर्तते तावद्वैतमहं पुमानियं स्त्रीः इदं मे प्रियमिति भेदबुद्धिर्न विरमेत् ततश्च विपर्यः पूर्ववत्संसारावृत्तिः। यद्वा – ननु त्यक्तसुताभगिन्यादिबंधुवर्गस्य जितेन्द्रियस्य किमस्माद्भयं तत्राह – कल्पयित्येति। व्यवहारं व्यावहारिकं वस्तु च त्यक्त्वापि आत्मना मनसा यावत् यत्प्रमाणमिदमाभासमियं मे भगिन्येवेयं मातेयं सुतेत्यादिसंबन्धभासं किल्पयित्वेश्वरस्तत्ततकृतस्थेहोत्थसुखेनशितत्तवत्तत्प्रमाणकं द्वैतं बेदो न विरमेत्। नन्वस्य स्तोकत्वात्कल्पितत्वाच्च न काचिच्चिन्ता..।” अतोच्यते भागगतपुराणे –
कल्पयित्वाऽत्मना यावदाभासमिदमीश्वरः।
द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः॥[2]
न केवलम् एषः शीलः ब्रह्मचारिणां कृते अपि तु गृहस्थाश्रमवासिनां तथा सन्न्यासिनां कृतेपि। इतोऽपि केचन निषेधाः सन्ति। यथा ये ब्रह्मचारिनः ते अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषमधुस्रग्गन्धलेपालंकाराणां व्यवहारः न कुर्युः। किं च ये धृतव्रताः गृहस्थास्तेऽपि अञ्जनादीनि स्रग्गन्धादींश्च त्यजेयुः। अञ्जनादीनामामीषान्तानां द्वन्द्वैक्यम्। अञ्जनं तैलादिना शरीरस्य अभ्यञ्जनं शिरशः। अञ्जनं कज्जलादिना नेत्रयोः अभ्यञ्जनं तैलोद्वर्त्तनादिना शरीरस्य उन्मर्द हस्तादिना शरीरस्य स्त्रीणां कुड्यादाववलेखो निरीक्षणं वा। स्त्रियं च अवलेखं चित्रकर्म चेति आमिषं मांसं मधु पुष्परसः क्षित्रियाद्यभिप्रायेण मद्यं वा ब्राह्मणस्य प्राप्त्याभावात् अत्रञ्जनाब्यङ्गादिस्वरूपतो निषिध्यते। केशप्रसाधनादि पूर्वं तु कथंचिदापदि प्राप्तमपि स्त्रीकर्तृकं निषिध्यत इति। भावार्थदीकापिप्रकाशे आमिषविषये प्रोक्तं – “आमिषं तु – “प्राण्यङ्गचूर्ण चर्माबु जंवीरं बीजपूरकम्। अयज्ञशिष्टमाषादि यद्विष्णोरनिवेदितम्। दग्धमन्नं मसूरं च मांसं चेत्यष्टधामिषम्। गोछागीमहिषीदुग्धादन्यदुग्धं तु चामिषम्। द्विजक्रीततरसाः सर्वे लवणं भूमिजं तथा ताम्रपात्रस्थितं गव्यं जलं लल्वलसंस्थितं। आत्मार्तं पाचितं चान्नं तथा पर्युषितं च यत्। प्रेतान्नं शूद्रशेषान्नं कन्यावित्तं तथैव च। पतितान्नं चामिषं स्यात्तत्त्यज्यं सर्वदा बुधैः। ” इति पाद्मादौ वर्णितम्।” अतोच्यते भागवतपुराणे –
अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु।
स्रग्गन्धलेपालंकारांस्त्यजेयुर्ये धृतव्रताः॥[3]
द्विजस्त्रैवर्णिकः एवमुक्तप्रकारेण गुरुकुले उषित्वा अङ्गैः शिक्षादिबिः उपनिषद्भिश्च सहितां वेदत्रयीं यथाबलं यावदर्थं स्वाधिकारानुसारेण चाधीत्य अबबुध्य तदर्थं च विचार्य यदि ईश्वरः समर्थस्तर्हि गुरोः काममपेक्षितं वरं दत्त्वा तदनुज्ञातः सन् गृहं प्रविशेत् गार्हस्थ्यं स्वीकुर्यात्। वनं वा प्रविशेत्, वानप्रस्थं वा स्वीकुर्यात् प्रवजेद्वा सन्न्यासाश्रमं वा स्वीकुर्यात्। तत्र ब्रह्मचर्याश्रमे वा वसेत् नैष्ठिको वा भवेत्। एवंविध सर्वत्र भगवद्दर्शी ब्रह्मचार्यद्यन्यतमः चरन् स्वाश्रमधर्मानाचरन् विदितं विज्ञानं विज्ञेयं येन स तथाविधः सन् परं ब्रह्माधिगच्छति प्राप्नोति।
[1] भा.पु.स.स्क.द्वा.अ.श्लो. – 1-9
[2] भा.पु.स.स्क.द्वा.अ.श्लो. – 10
[3] भा.पु.स.स्क.द्वा.अ.श्लो. – 12
