वाक्यपदीयस्य परिप्रेक्ष्ये व्याकरणस्य मोक्षोपायता

डा. यशस्वी
सहायकाचार्यः, व्याकरणविभागः,
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
E Mail – yashaswee4@gmail.com

कूटशब्दाः- शब्दब्रह्म। व्याकरणम्। मोक्षः। मोक्षोपायः।

लेखस्य सारः- दुःखस्य मूलं बन्धः, बन्धस्य मूलमविद्या। न कश्चिज्जनो दुःखं कामयते। अतः साक्षात् परम्परया वा सर्वोऽपि बन्धात् मुमुक्षति। अत एव पुरुषार्थचतुष्टये मोक्षः परमपुरुषार्थत्वेन परिगण्यते। सर्वदुःखराहित्यं मोक्षोऽपि यद्यतिदुःखेन प्राप्यते, तर्हि तत्र कथङ्कारं प्रवृत्तिः स्याद् दुःखाम्भोधिनिमग्नस्य जनस्य। तस्मात् सरलः कश्चिन्मोक्षोपायो भर्तृहरिणा वाक्यपदीय उक्तः; स च व्याकरणमिति। किञ्च शब्दविद्या व्याकरणं न केवलं मोक्षोपायः अपि तु शब्दतत्वं (वाक्तत्त्वम्) साक्षात् ब्रह्मैव इत्यपि तेन वाक्यपदीये प्रत्यपाद्यत। सोऽयं विषयोऽत्र लेखे समासेन वाक्यपदीयमनु दिङ्मात्रं परिचाय्यते।

शोधलेखः

 ‘द्वे विद्ये वेदितव्ये परा चैवापरा च’1 इति उपनिषत्प्रामाण्यात् यथा विद्यायाः परत्वमपरत्वञ्च कीर्त्त्यते, तद्वत् प्रणवस्यापि परत्वमपरत्वं प्रत्यपादि शब्दतत्त्वविद्भिर्महद्भिः। परः प्रणवो ब्रह्मात्मकः, अपरश्च शब्दात्मकः। तदुक्तं2– ‘परः परतरं ब्रह्म ज्ञानानन्दादिलक्षणम्। प्रकर्षेण नवं यस्मात् परं ब्रह्म स्वभावतः। अपरः प्रणवः साक्षात् शब्दरूपः सुनिर्मलः। प्रकर्षेण नवत्वस्य हेतुत्वात्प्रणवः स्मृतः’ इति।

प्रणवस्य परापरब्रह्मत्वे प्रमाणान्तराण्यपि वरीवृत्त्यन्ते। तद्यथा- ‘ओमित्येकाक्षरं ब्रह्म’3 ‘ओमित्येतदक्षरम् इदं सर्वं तस्योपव्याख्यानम्’4 ‘भूतं भवद् भविष्यदिति सर्वमोङ्कार एव’5 इत्येवमादिभिः प्रणवस्य परब्रह्मत्वमुक्तम्। न चात्र प्रणवपदेन वैखरीशब्दमात्रं ग्राह्यं, ‘यच्चान्यत् त्रिकालातीतं तदप्योंकार एव’6 ‘अयमात्मा ब्रह्म’7 इत्येवमादीनां वचसां तत्रैव माण्डूक्योपनिषदि पाठात् प्रणवस्य प्रत्यगात्मत्वं सुस्पष्टम्। प्रणवस्य शब्दात्मकत्वञ्च ‘तेन (प्रणवेन) इयं त्रयी विद्या वर्त्तते’8 ‘प्रणव एवैकस्त्रेधा व्यभज्यत’9 इत्येवमादिभिः प्रतिपन्नम्। सर्वमिदमभिसमीक्ष्य पदवाक्यप्रमाणज्ञेन भर्तृहरिणा वाक्यपदीये शब्दब्रह्मणः प्रत्यगात्मत्वमित्थं प्राकाश्यत10

‘अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।

विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥ इति

शब्दब्रह्मेदं परावाग्रूपमस्ति, न पश्यन्ती, नापि मध्यमा, न वा वैखरी। तदिदम् एकमेवाद्वितीयं  शब्दब्रह्म घटपटादिविचित्रकार्यजननयोग्यतारूपाणां शक्तीनामाश्रयणात् भिन्नमिवाभाति। यथा घटमठाद्युपाधिषु सत्स्वपि आकाश एकोऽखण्डः, तद्वत् शब्दब्रह्माप्येकमस्ति। तदुक्तं11

‘एकमेव यदाम्नातं भिन्नं शक्तिव्यपाश्रयात्।

अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्त्तते॥ इति

शक्तिव्यपाश्रयात् भिन्नत्वेन विवर्तमानं शब्दब्रह्म भोक्तृरूपेण भोक्तव्यरूपेण भोगरूपेण चावतिष्ठते12

‘एकस्य सर्वबीजस्य यस्य चेयमनेकधा।

भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः॥इति

 प्रमाणितं चैतदुपनिषदा13-‘वागेवार्थं ब्रवीति, वागेवार्थं निहितं सन्तनोति। वाच्येव विश्वं बहुरूपं निबद्धं तदेतदेकं प्रविभज्योपभुङ्क्ते।’ इति ।

शब्दब्रह्मणोऽस्य कालशक्तिरस्ति स्वतन्त्रा शक्तिरस्ति, या कृत्स्नं जगदिदं चर्कर्ति बर्भर्ति जर्हति च। तदुक्तम्14

अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः।

जन्मादयो विकाराः षड् भावभेदस्य योनयः॥ इति

तन्त्रग्रन्थेषु संबन्धो यादृशः शिवशक्त्योः प्रत्यपादि, प्रायस्तादृश एव संबन्धोऽस्ति शब्दब्रह्मणः कालस्य च। इत्थं वाक्यपदीयदिशा शब्दब्रह्मणः स्वरूपमतिसंक्षिप्तं प्रतिपाद्य तत्प्राप्त्युपायो व्याकरणमिति प्रतिपादयामः।

सर्वोऽपि जनः अनन्तमखण्डं चानन्दं कामयते। बद्धस्य तु न सम्भवति सः, तस्यैकदेशित्वात्, अल्पज्ञत्वात्, परिमितसामर्थ्यवत्त्वाच्च। तस्मात् तत्प्राप्तये तेन परमपुरुषार्थस्य मोक्षस्योपायोऽन्वेषणीयः। ‘तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’15 इत्यादिश्रुतिभिः अनादिनिधनस्य शब्दब्रह्मणोऽक्षरस्य ज्ञानमेव मोक्षोपायः ‘ऋते ज्ञानान्न मुक्ति’रित्युक्तेश्च।

एवं स्थिते शब्दब्रह्मणः प्रतीकः कश्चिदाश्रयणीयः; यस्य श्रवणेन, मननेन, निदिध्यासनेन च आत्मानं शब्दब्रह्माप्नुयाज्जीवः। स चास्ति सर्ववेदानां मूलभूत एकः प्रणवः, यस्य व्याख्यानभूता एव सर्वे वेदा अङ्गोपाङ्गनिबन्धनाश्च सन्ति। तदुक्तं16– ‘सर्वे वेदा यत्पदमामनन्ति…..ओमित्येतत्’ इति। सर्वमिदं बुद्धौ कृत्वा ‘प्रणव एवैकस्त्रेधा व्यभज्यत’ इत्यार्षप्रमाणं च संलक्ष्य हरिणाभ्यधायि17

‘प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः।

एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक् पृथक्’ इति।

‘नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित् परमं प्रैति धाम’18 इत्येवमादीन्यूरीकृत्य प्रणवमूलिकायास्तस्या वेदत्रय्याः शब्दब्रह्मणः प्रतीकभूतायाः संविज्ञानाय व्याकरणाध्ययनरूपं तपसामुत्तमं तप आचरणीयम्। तदुक्तम्19

‘आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः।

प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः॥ इति

परावाग्रूपं यत् पुण्यतमं ज्योतिः, वाचश्च यः परमो रसः, तत्स्वरूपबोधाय, वाङ्मलानां चिकित्सायै च सर्वविद्यानां पवित्रं, मोक्षमाणानाम् ऋजुमार्गभूतं व्याकरणमध्येतव्यम्। तदुक्तं20

प्राप्तरूपविभागाया यो वाचः परमो रसः।

यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमाञ्जसः॥

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्।

तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते॥

तद् द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्।

पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकाशते॥

इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।

इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः॥

व्याकरणेऽत्र निवृत्तभ्रमः आत्मनः प्रपञ्चस्य च वेदप्रतिपाद्यं योनिं शब्दब्रह्माक्षरं पश्यति, येन वाचः वैखरी-मध्यमा-पश्यन्तीभेदास्तिरोभवन्ति। परावाक्छब्दब्रह्मविच्च ब्रह्मैव भवति। तदुक्तम्21

‘अत्रातीतविपर्यासः केवलामनुपश्यति।

छन्दस्यश्छन्दसां योनिमात्मा छन्दोमयीं तनुम्॥

प्रत्यस्तमितभेदाया यद्वाचो रूपमुत्तमम्।
यदस्मिन्नेव तमसि ज्योतिः शुद्धं विवर्तते॥

यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते।

तद्व्याकरणमागम्य परं ब्रह्माधिगम्यते।’ इति।

उपसंहारः-

‘तत्सृष्ट्वा तदेवानुप्राविशत्’22 ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’23 इत्यादिना परावाग्रूपं यच्छब्दब्रह्म कालशक्त्या सर्वमिदं चरीकर्ति बरीभर्ति जरीहर्ति च; तदेव जीवे प्रविष्टमस्ति; व्याकरणज्ञानमूलकेन वेदज्ञानेन तदाचरणेन च यल्लब्ध्वा जीवोऽमृतत्वमेति, मोक्षाख्यं परमानन्दं च विन्दति। तदुक्तं24

‘महो देवो मर्त्याँ आविवेश। महान् देवः शब्दः, मर्त्याः मरणधर्माणो मनुष्याः, तानाविवेश। महता देवेन नः साम्यं यथा स्यादित्यध्येयं व्याकरणम्।’

तदित्थं हरिणान्ववादि वाक्यपदीये25

‘वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम्।

अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम्॥ इति

इति शम्।

पादटिप्यण्यः-

  1. मुण्डकोपनिषद्- 1.4
  2. सूतसंहिता
  3. भगवद्गीता- 8.13
  4. माण्डूक्योपनिषद्- 1
  5. माण्डूक्योपनिषद्- 1
  6. माण्डूक्योपनिषद्- 1
  7. बृहदारण्यकोपनिषद्- 4.4.5
  8. छान्दोग्योपनिषद्- 1.1.9
  9.  द्र॰ वाक्यपदीयस्य द्वितीयकारिकाव्याख्या सूर्यनारायणकृता
  10. वाक्यपदीयम् ब्रह्मकाण्डम्, कारिका 1
  11.        वाक्यपदीयम् ब्रह्मकाण्डम्, कारिका 2
  12. वाक्यपदीयम् ब्रह्मकाण्डम्, कारिका 4
  13. द्र॰ वाक्यपदीयस्य- 1.122 व्याख्या सूर्यनारायणकृता
  14. वाक्यपदीयम् ब्रह्मकाण्डम्, कारिका 3
  15. यजुर्वेदः- 31.18
  16. कठोपनिषद्- 1.2.15
  17. वाक्यपदीयम् ब्रह्मकाण्डम्, कारिका 5
  18. शाट्यायनोपनिषद्- श्लोकः 4
  19. वाक्यपदीयम् ब्रह्मकाण्डम्, कारिका – 11
  20. वाक्यपदीयम् ब्रह्मकाण्डम्, कारिका – 12, 13, 14, 16
  21. वाक्यपदीयम् ब्रह्मकाण्डम्, कारिका – 17, 18, 22
  22. तैत्तिरीयोपनिषद्, ब्रह्मानन्दवल्ली – 2-6
  23. छान्दोग्योपनिषद् – 6.3.2
  24. महाभाष्यम्, पस्पशाह्निकम्
  25. वाक्यपदीयम् ब्रह्मकाण्डम्, कारिका – 143
  • परिशीलितः ग्रन्थः

वाक्यपदीयम्, ब्रह्मकाण्डम्, श्रीसूर्यनारायणशुक्ल-रामगोविन्दशुक्लव्याख्या – चौखम्बा संस्कृत संस्थान, वाराणसी- 2019