पक्षधरमिश्रकृतस्य तत्वचिन्तामण्यालोकस्य वैशिष्ट्यम्

Dr. L Sudheendra  
Poornaprajna Vidyapeetha
Kathriguppe Main Rd, Vidyapeeta Layout,
Banashankari 3rd Stage, Bengaluru, Karnataka – 560028

पक्षधरमिश्रकृतस्य तत्वचिन्तामण्यालोकस्य वैशिष्ट्यम्

शास्त्रेषु न्यायशास्त्रं कठिनम्। तत्रापि नव्यन्यायशास्त्रम् कठिनतरम्। तत्रापि गङ्गेशोपाध्यायकृतः प्रौढसङ्क्षिप्तशैलीभूषितः तत्वचिन्तामणिः कठिनतमः। तत्राप्यनुमानखण्डे कतिचनभागा एव अध्ययनाध्यापनाभ्यां प्रचलन्तो वर्तन्ते। प्रत्यक्षखण्डस्तु प्रायः अप्रत्यक्षतां गतः। अतः आलोडनपूर्वकं प्रबन्धलेखनं यद्यपि साहसमेव। चिन्तामणिवाक्यानामर्थः आलोकव्याख्यानेन किञ्चिदेव अवगन्तुं शक्यते। न तु पूर्णतया। अध्ययनपरम्पराया इदानीमभावात्। अत एवास्मिन् चिन्तामणौ आलोके च प्रत्यक्षखण्डे विद्यमानैः वादैः वाक्यैश्च प्रतिपादितानि यानि प्रमेयानि तान्यत्र सङ्ग्रहेण निरूप्यन्ते ॥

मङ्गलवादः

सर्वेऽपि ग्रन्थकारा ग्रन्थारम्भे मङ्गलमाचरन्तीति[1] सर्वसम्पन्नम्। तत्र मङ्गलाचरणे किं प्रमाणम्[2]? किं वा प्रयोजनम्? इत्ययं विषयः मङ्गलवादे सुनिपुणं निरूप्यते मणिकारैः तद्व्याख्याकारैश्च। एतन्मङ्गलाचरणमधिकृत्य यो यावान् विषयः यथा मणौ विवेचितः न तथा शास्त्रान्तरग्रन्थेषु विचारितः[3] इति निश्चप्रचं वक्तुं शक्नुमः। अस्मिंश्च मङ्गलवादे मङ्गलस्य समाप्तिकारणत्वं प्रतिज्ञाय ततः अन्वयव्यतिरेकव्यभिचाराभ्यां[4] मङ्गलस्य समाप्तिकारणत्वं न सम्भवतीति आक्षिप्य शिष्टाचारानुमितश्रुतेरेव[5] मङ्गलस्य अभिमतहेतुत्वे प्रामाण्यं सुष्ठु प्रतिपादितम्। तथा च श्रुतिप्रमितस्य समाप्तिकारणत्वस्य संरक्षणाय जन्मान्तरीयमङ्गलकल्पनादिना व्यभिचारः परिहरणीय इति समाधानम् प्राब्रवीत्। ततः प्रारब्धकर्मनिष्पत्त्युद्देशेन क्रियमाणत्वात् मङ्गलं आरब्धकर्माङ्गमिति न्यरूपयत् ॥

पक्षधरमिश्रश्च अस्मिन् प्रकरणे क्वचिच्छब्दस्यार्थं वदति, क्वचिच्च मणिवाक्ये प्रयुक्तस्य शब्दस्य वैय्यर्थ्यमाशङ्क्य तस्य पदस्य सार्थक्यञ्च समर्थयति। तत्रैकमुदाहरणम् – पूर्वपक्षप्रकरणे चिन्तामाणेर्वाक्यमस्ति ‘यद्यपि मङ्गलस्य कारणता नान्वयव्यतिरेकगम्या, विनापि मङ्गलं प्रमत्तानुष्ठितसमाप्तेः’ इति। अत्र आलोककार आक्षिपति ‘अत्र यद्यपि अन्वयपदं व्यर्थम्; अलं व्यतिरेकगम्या इति। यतो हि कारणताशरीरप्रविष्टव्याप्तेः अन्वयव्याप्तितया कारणतानिश्चयार्थं व्यतिरेकसहचारज्ञानस्यापेक्षा नास्ति’ इति। स्वयञ्च समाधत्ते ‘तथापि सति व्यतिरेके हेतोः कार्याभाववति सत्त्वशङ्कया अन्वयव्याप्तेरपि व्यभिचारशङ्काग्रस्ततया न कारणत्वनिश्चयो भवति। तदर्थं अपेक्षित एव व्यतिरेकसाहचर्यग्रहः। अत एव मूले द्वयमप्युपात्तम्’ इति।

क्वचिच्च दुरूहार्थं पदं व्याख्याति। यथा – ‘इन्द्रबाहुः’ इति मूलस्थं वैदिकं पदम्। तद्व्याख्याति ‘इन्द्रबाहुः = आयसवायसः’ इति।

अपि च क्वचित् अनुमाने साध्यहेत्वोर्दलकृत्यं विस्तरेण चिन्तयति; तत्र स्वाभिप्रायञ्च सयुक्तिकमुद्घाटयति। तत्रोदाहरणम् – ‘मङ्गलं सफलम्, अविगीतशिष्टाचारविषयत्वात्’ इति मणौ सफलं बलवदनिष्टाननुबन्धीष्टसाधनं; न त्विष्टसाधनमात्रम्। तथा सति अविगीतपदवैय्यर्थ्यापत्तेः। अत्र शिष्टपदं अभ्रान्तपरम्। निष्फले चैत्यवन्दनजलताडनादौ वैधरागप्रसङ्गयोरभावेन वेदाद्यनिषिद्धतया अविगीतेति व्यभिचारवारकम्[6]। भ्रमश्च फलसाधनतांशे विवक्षितः। अतो न बलवदनिष्टाननुबन्धित्वांशभ्रममूलके परदाराभिगमनादौ व्यभिचारवारणाय उपात्तमविगीतपदम् अनर्थकमापाद्यते। अभ्रान्तत्वञ्च सर्वैकवाक्यतया सुग्रहम्। तदर्थमेव प्राक् तदुत्कीर्तनम्। आचारश्च यद्यपि क्रियैव; तथापि विषयत्वश्रुतेः कृतिरेवात्र विवक्षिता। तद्विषयत्वञ्च यद्यपि भोगेऽपि गतमित्यनैकान्तः। तथापि साधनत्वेन तद्विषयत्वं हेतुः भोगस्तु उद्देश्यतया कृतिविषय इति तत्त्वम्। यद्वा तद्विषयक्रियात्वादित्यर्थः। वस्तुतः शिष्टाचारविषयत्वात् अविगीताचारविषयत्वात् इति हेतुद्वयम्। अविगीतत्वञ्च बलवदनिष्टाननुबन्धित्वम्। तेन विषसम्पृक्तान्ने न व्यभिचारः इत्येवं रीत्या विस्तरेण व्याख्यातम् ॥

प्रामाण्यवादः

विद्वन्मूर्धन्यः मणिकारः ग्रन्थारम्भे मङ्गलमारचय्य स्वकृतस्य मङ्गलस्य अन्वयव्यतिरेकाभ्यां वैफल्यं मा शङ्कीति तस्य समाप्तिहेतुत्वं विघ्नध्वंसहेतुत्वञ्च व्यवस्थापयितुं मङ्गलवादाख्यं प्रकरणं विधाय ततः स्वचिकीर्षिते ग्रन्थे प्रेक्षावतां प्रवृत्तिसिद्ध्यर्थं निश्रेयसफलवदान्वीक्षिकीसम्बन्धात् स्वग्रन्थस्यापि परमप्रयोजनत्वं विवक्षुः तादृशान्वीक्षिकीसम्बन्धश्च आन्वीक्षिकीप्रतिपाद्यपदार्थप्रतिपादकत्वरूपः स्वग्रन्थे सकलेतर-पदार्थसिद्धिहेतुभूतप्रमाणाख्यपदार्थविवेचकत्वादस्तीति सूचनार्थम् आदौ तेष्वपि प्रमाणाधीना अस्त्येषां व्यवस्थितिरिति प्रमाणतत्वमत्र विविच्यत इति प्रतिज्ञां कृतवान्।

ततः प्रमाणादीनां तत्वं प्रतिपादयच्छास्त्रं तत्त्वज्ञानादिपरम्परया निःश्रेयसेन सम्बध्यत इति न युज्यते। प्रमाणतत्वस्य अवधारयितुमशक्यत्वात्। तद्धि प्रमातत्वावधारणाधीनम्। प्रमाकरणस्यैव प्रमाणत्वात्। प्रमात्वञ्च स्वतः परतो वा न सम्भवति; पक्षद्वयेऽपि दाषसत्त्वात् इत्याक्षेपसमाधानव्याजेन प्रामाण्यवाद उपक्रान्तः। अयञ्च प्रामाण्यवादो मतिमतामपि दुरूहैः बहुभिर्विषयैर्गर्भित इति तत्रत्यविषयानां तुलनात्मदृष्ट्या अनुसन्धानसौकर्यार्थम् आदौ तत्र वादे प्रतिपाद्यानां विषयाणां सङ्ग्रहः कृतः।

मणिकारीयं प्रामाण्यज्ञप्तिपरतस्त्वोपपादनम् :-

मणिकारस्तावत् वक्ष्यमाणप्रकारेण प्रामाण्यं परतो ज्ञायत इति निरूपयति। तत्र अनुमानान्यपि प्रदर्शितानि –

प्रामाण्यस्य स्वतो ग्रहे अनभ्यासदशोत्पन्नज्ञाने प्रामाण्यसंशयो न स्यात्। ज्ञानग्रहे सति तद्गतप्रामाण्यस्यापि तेन गृहीतत्वात्। अन्यथा स्वतः प्रामाण्यग्रहो न स्यात्। ज्ञानग्रहे च ज्ञानरूपस्य धर्मिणः ज्ञानाभावात् ज्ञानधर्मिकप्रामाण्यसंशयो न घटते। अतः प्रामाण्यं परत एव ज्ञायते। युक्तिरियं ‘कुसुमाञ्जलौ’[7] अप्युक्ता। तथा च ‘अनभ्यासदशापन्नज्ञानप्रामाण्यं परतो ज्ञायते; सांशयिकत्वात्’ इत्यनुमानेन प्रामाण्यपरतस्त्वं प्रतिपादितं ग्रन्थकारैः।

अत्र च परतो ज्ञायते इत्यस्य न स्वाश्रयग्राह्यम् इति वा स्वाश्रयातिरिक्तमात्रग्राह्यमिति वा अर्थः। सांशयिकत्वादित्यस्य च स्वाश्रयाधिकरणक्षणावधिकतृतीयक्षणवृत्तिसंशयविषयत्वात् इत्यर्थो व्याख्याकारैः कृतः। स्वं = प्रामाण्यं; तदाश्रयः यत् जलज्ञानं; तदुत्पत्त्यधिकरणद्वितीयक्षणे जलज्ञानरूपधर्मिविषयकं ज्ञानं; ततः प्रामाण्याप्रामाण्यरूपकोटिस्मृतिः। ततः जलज्ञानं प्रमा वा न वा इति संशयक्रमः। तथा च प्रामाण्याश्रयजलज्ञानाधिकरणद्वितीयक्षणावधिक तृतीयक्षणवृत्तिसंशयविषयत्त्वं प्रामाण्येऽस्तीति हेतोः पक्षवृत्तित्वमस्तीति निरूपितम्।

तदनन्तरं प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च इति प्राभाकरमतं विस्तरेणानूद्य खण्डितम्। एवम्प्रकारेण ग्रन्थे अत्यन्तविस्तरेण निरूपितोऽयं वादः अत्र गौरवभिया सङ्क्षेपेण सङ्गृहीतः।

अन्यथाख्यातिवादः

मणिग्रन्थे तृतीयोऽस्ति प्रसिद्धः अन्यथाख्यातिवादः[8]। सोऽयं वाद अस्मिन् ग्रन्थे विस्तरेण निरूपितः। प्रथमत अन्यथाख्यातिपदनिर्वचनं पश्यामः। अन्यथाख्यातिरित्यत्र ख्यातिशब्दः ज्ञानपरः। प्रकारार्थे थाल्‌प्रत्ययः[9]। अन्यशब्दः प्रतियोग्याकाङ्क्षायां योग्यतया ज्ञानविषयीभूतानर्थान् अन्यं बोधयति। अन्यथात्वं ख्यातिविशेषणम्। एवञ्च अन्यदन्यात्मना अन्यप्रकारेण वा अवभासमानं ज्ञानं विषयवृत्तिधर्मप्रकारकज्ञानं वा अन्यथाख्यातिरिति यावत्। तत्र दृष्टान्तः – शुक्तिदर्शनेन दोषवशात् जायमानं ज्ञानं स्वविषयीभूतशुक्तौ अविद्यमानरजतत्वधर्मप्रकारेण शुक्तिं भासयति इति ‘इदं रजतम्’ इति ज्ञानमन्यथाख्यातिः। एवमेव रज्जुसर्पभ्रमस्थलेऽपि ज्ञेयम्। तत्र हि चक्षुःसंयुक्तो विषयः रज्जुः। स च तद्भिन्नप्रकारेण सर्पात्मना अवभासते इत्यतस्तदपि ज्ञानं भ्रमः, अन्यथाख्यातिरिति[10] व्यवह्रियते ॥

भ्रमलक्षणम् :-

भ्रमश्च ‘तदभाववति तत्प्रकारकोऽनुभवः’। अत्र तत्पदेन प्रकारीभूतः धर्मः धर्तव्यः। एवञ्च रजतभ्रमस्थले तत्पदेन रजतत्वं स्वीकार्यम्। तदभाववति = रजतत्वाभाववति शुक्तिरूपेऽर्थे; तत्प्रकारकः = रजतत्वप्रकारकः अनुभवोऽयमिति रजतत्वाभावच्छुक्तिविशेष्यकत्वे सति रजतत्वप्रकारकत्वात् लक्षणसमन्वयः ॥

पूर्वं प्रमालक्षणे ‘तद्वति तत्प्रकारकोऽनुभवः प्रमा[11]’ इति प्रमाया लक्षणमुक्तम्। तत्र अनुभवत्वमात्रं प्रमाया लक्षणमित्युक्ते अप्रमायामतिव्याप्तिः स्यादिति तद्वारणाय तद्वति तत्प्रकारकत्वविशेषणं दत्तम्। तन्न युक्तम्। सर्वेषामपि ज्ञानानां यथार्थत्वात्। अप्रमात्मकज्ञानस्यैवाभावात्। अतस्तद्वारकविशेषणवैय्यर्थ्यादिति प्राभाकरमतेनाशङ्क्य अन्यथाख्याति- पदवाच्यं भ्रमात्मकं ज्ञानं व्यवस्थाप्यतेऽत्र। अत्र अख्यातिवादिनां प्राभाकरणां मतं सम्यक् परिपोष्य अनूद्य खण्डयति ग्रन्थकारः। अत्र यया प्रक्रियया प्राभाकरमतमनूदितं सा प्रक्रिया प्रकरणपञ्चिकादावपि दुर्दर्शा। अनेनैव मणिकाराणां प्राभाकरमतज्ञत्वं स्पष्टीभविष्यति। ‘गुरुभिर्ज्ञात्वा गुरूणां मतम्’ इति मङ्गलश्लोके मणिकारोक्तमन्वर्थीकृतमत्रापि वादे।

प्राभाकरोक्तान्यथाख्यातिवादस्वरूपः :-

अस्मिन् वादे प्राभाकरोक्तान्यथाख्यातिलक्षणं विस्तरेण निरूपितमस्ति। प्राभाकरास्तु पुरोवर्तिविशेष्यकं रजतत्वप्रकारकमेकं विशिष्टज्ञानं न अभ्युपगच्छन्ति। अपि तु ‘इदम्’ इत्यनुभवरूपं; ‘रजतम्’ इति स्मरणात्मकञ्च ज्ञानद्वयमेव ‘इदं रजतम्’ इति। तत्र इदमिति पुरोवर्तिवस्तुमात्रस्य ग्रहणम्। दोषवशात् तद्गतं शुक्तित्वं न गृह्यते। तच्च वस्तु आपणादिस्थितपूर्वदृष्टरजतसदृशमिति तद्ग्रहणानन्तरं पूर्वरजतानुभवजन्यसंस्कारोद्बोधात् रजतस्मृतिर्जायते। तस्याञ्च स्मृतौ दोषवशात् तत्तांशो न भासते। तत्र ग्रहणस्मरणयोर्भेदो न ज्ञायते। तथा ग्रहणस्मरणविषययोः पुरोवर्तिरजतयोश्च भेदो न ज्ञायते। तथा च एतादृशभेदाग्रहसहकारेण भिन्नेऽपि ग्रहणस्मरणे ‘इदं रजतम्’ इत्यभेदव्यवहारं रजतार्थिनः प्रवृत्तिञ्च सम्पादयतः। तत्र नेदं रजतमिति पुरोवर्तिरजतयोर्भेदे बाधकज्ञानेन गृहीते सति भेदाग्रहः निवर्तते। तन्निवृत्या अभेदव्यवहारो बाध्यते। तथा च बाधितव्यवहारहेतुत्वमेव भ्रमत्वं; न बाधितविषयकत्वम्। ग्रहणस्मरणयोरुभयोरप्यबाधितविषयकत्वात् यथार्थत्वमेव। अतः सर्वमपि ज्ञानं यथार्थमिति तत्सिद्धान्तः ॥

मण्युक्ता अन्यथाख्यातिसाधकयुक्तयः :-

१. सत्यस्थले प्रवृतिं प्रति विशिष्टज्ञानस्य हेतुत्वात् असत्यस्थले विशिष्टज्ञानमेव प्रवर्तकं वाच्यम्। तथा च ‘विसंवादिप्रवृत्तिः विशिष्टज्ञानजन्या, प्रवृत्तित्वात्; सत्यप्रवृत्तिवत्’ इत्यनुमानादन्यथाख्यातिः सिद्ध्यति। तथा ‘रजतेच्छाजन्यशुक्तिविषयकप्रवृत्तिजनकरजतत्वप्रकारकं ज्ञानं शुक्तिविषयकं, शुक्तिप्रवृत्तिप्रयोजकज्ञानत्वात्; शुक्तौ शुक्त्यर्थिप्रवृत्तिप्रयोजकज्ञानवत्’ इत्यनुमानात्। ‘विवादास्पदं शुक्तिविशेष्यकं ज्ञानं रजतत्वप्रकारकं, रजतेच्छाजन्यप्रवृत्तिहेतुज्ञानत्वात्; सत्यरजतज्ञानवत्’ इत्यनुमानाच्च अन्यथाख्यातिः सिद्ध्यति। एवमनुव्यवसायात्मकप्रत्यक्षमप्यन्यथाख्यातौ मानम्। तथा हि शुक्तौ ‘इदं रजतम्’ इति भ्रमानन्तरं ‘इदं रजततया जानामि’ इत्यनुव्यवसायो भवति। इदंविशेष्यकरजतत्वप्रकारकज्ञानवानहम् इति हि तदर्थः। तथा च व्यवसायस्य इदं विशेष्यकरजतत्वप्रकारकत्वाभावे उक्तानुव्यवसायः कथं घटते?। ज्ञानद्वयपक्षे ‘इदं जानामि, रजतं जानामि’ इत्याकारको हि अनुव्यवसायः स्यात् नतु ‘इदं रजतं जानामि’ इति। एतत्प्रमाणद्वयमेव सारतया प्रदर्शितं मूले। भेदाग्रहेण असंसर्गाग्रहेण वा निर्वाहस्तु सविस्तरं दूषितः व्याख्याने ॥

सन्निकर्षवादः

‘इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम्’ इति न्यायसूत्रे प्रत्यक्षहेतुतया उक्तः इन्द्रियविषययोः सन्निकर्षः[12] षड्विधः[13]। संयोगः[14] संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवेतसमवायः, समवायः[15], समवेतसमवायः, विशेषणविशेष्यभावश्चेति। एवंरूपो विभागः न्यायवार्तिके प्रदर्शितः तदनन्तरकालिकेषु सर्वेषु न्यायग्रन्थेषु प्रस्तुतश्च। परन्तु न्यायसूत्रेषु वात्सायनभाष्ये वा तादृशो विभागः महता प्रयासेन अन्विष्यमाणोऽपि न दृष्टिपथमायाति ॥

सन्निकर्षविषये मणिकारमतम् :-

चिन्तामणौ आलोके च आदौ षड्विधान् सन्निकर्षान् प्रदर्श्य तत एकैकस्यापि सन्निकर्षस्य आवश्यकत्वं सयुक्तिकं निरूप्य समवायसन्निकर्षनिरूपणप्रस्तावे श्रोत्रं प्रति आगतः शब्दः श्रोत्रेन गृह्यत इति शब्दः अव्याप्यवृत्तिरिति च सविस्तरं निरूपितम्। तत्र विशेषणविशेष्यभावविषये विशेषणतया शब्दाभावस्य इन्द्रियसम्बद्धविशेषणतया समवायघटाभावादेर्ग्रहः इति सङ्क्षिप्य निवेदितम्। समवायस्यापि प्रत्यक्षत्वं तात्पर्यटीकाभूषणयोः निरूपितं मणिकारस्यापि संमतमित्यस्माद् ग्रन्थात् प्रतीमः। तत्रापि इन्द्रियसंयुक्तविशेषणतया इत्यनुक्त्वा इन्द्रियसम्बद्धविशेषणतया इति सामान्यशब्दम् प्रयुञ्जाना मणिकाराः संयुक्तविशेषणतया संयुक्तसमवेतविशेषणतया इत्यादयो भूषणकृदुक्तप्रभेदाः स्वस्यापि सम्मता इति ज्ञापयति। तदुक्तं रुचिदत्तोपाध्यायैः पक्षधरमिश्रप्रभृतिभिश्च ‘सम्बन्धविशेषणता च संयुक्तविशेषणता संयुक्तसमवेत-विशेषणतेत्येवं निर्वाच्या’ इति। किञ्च भूषणादिप्राचीनग्रन्थेषु केवलविशेषणतायाः सन्निकर्षत्वं न प्रदर्शितम्। मणिकारैस्तु शब्दाभावप्रत्यक्षोपपादनाय केवलविशेषणताऽपि सन्निकर्षत्वेन निर्दिष्टेति विशेषः। परन्तु, विशेषणताया एव बहुप्रकारत्वात् षोढा सन्निकर्षः कथमुपपद्यत इति शङ्कामनूद्योक्तं प्रकाशे। न चैवं षोढा परिगणनमसङ्गतमिति वाच्यम्। विशेषणतात्वेनैकीकृत्य विभजनात्।

अत्र ग्रन्थे कश्चनापूर्व आक्षेपः कृतः परिहृतश्च – चन्दनं सुरभि इत्यत्र तावत् नैय्यायिकाः सौरभांशे ज्ञानलक्षणप्रत्यासत्तिम् अङ्गीकुर्वन्ति। परन्तु, तत्रापि संयुक्तसमवाय एव प्रत्यासत्तिर्भवतु; कुत अलौकिकसन्निकर्ष इति ‘नन्वेवं ‘सुरभि चन्दनम्’ इत्यत्र सौरभांशे संयुक्तसमवाय एव प्रत्यासत्तिरतो ज्ञानमिदं तदंशे लौकिकं स्यात् इति चेत्’ इति वाक्येन आक्षिप्य; ‘तत्र सतोऽपि संयुक्तसमवायस्य अग्राह्यत्वात्। स्वयोगगोचरस्यैव तस्य तथात्वात्। वक्ष्यति हि योग्यसन्निकर्षात् ग्रहः, न सन्निकर्षमात्रात्’ इत्यादिवाक्यैः विस्तृततया परिहारश्च दत्तः ॥

अथ ग्रन्थे मणिकारीयं पन्थानमवलम्ब्य षड्विधानां सन्निकर्षाणां प्रत्यक्षहेतुत्वं सयुक्तिकमेवं समर्थितम्।

समवायवादः

    चिन्तामणौ पूर्वस्मिन् सन्निकर्षवादे शब्दप्रत्यक्षं प्रति समवायाख्यः सन्निकर्षो हेतुः प्रतिपादितः। तत्र समवायस्यैव अप्रामाणिकत्वात् कथं तस्य सन्निकर्षत्वमिति प्रश्नमुपक्षिप्य विस्तरेण समवायाख्यः पदार्थः प्रसाध्यतेऽत्र वादे। एतं समवायपदार्थमधिकृत्य प्रायः शास्त्रान्तरेषु बहुधा दूषणानि प्रदर्शितानि। तेषां परिहारोऽस्ति न वा? मणिग्रन्थात् कियतां दूषणानां परिहारो लभ्यते? अवशिष्टानां कः परिहारोपाय इति विमृश्य यथाशक्ति न्यायसिद्धान्तः समर्थितः। तथा गुणक्रियादिविशिष्टबुद्धिनिर्वाहकतया समवायपदार्थस्वीकारे अभावविशिष्टबुद्धिनिर्वाहकतया वैशिष्ट्याख्यपदार्थान्तरमपि कल्प्यताम् इत्याक्षेपः विस्तरेण खण्ड्यतेऽत्र वादे। मीमांसकादयो गुणगुण्यादीनाम् अभेदं भेदाभेदं वा स्वीकृत्य तादात्म्यसम्बन्धेनैव गुणादिविशिष्टबुद्धिं निर्वहन्तः समवायं निराकुर्वन्ति। तन्मतखण्डनाय गुणगुण्यादीनां भेदोऽपि समर्थ्यते। ततः समवायस्वीकारोऽपि तस्य सन्निकर्षत्वं मास्तु इत्याक्षिप्य समाधीयतेऽस्मिन् वादे ॥

समवायपदार्थस्य प्रादुर्भावः :-

वैशेषिकदर्शने ‘इहेदमिति यतः कार्यकारणयोः स समवायः’ इति समवायविषयकं सूत्रम्। कार्यकारणयोः इहेदम् इति बुद्धिः यस्मात् सम्बन्धात् भवति स समवाय इति सूत्रार्थः। इति वैशेषिकसूत्रमपि विशिष्टबुद्धिहेतुत्वेन समवायसिद्धिम् अभिप्रैति। यतः स इति पदस्वारस्यात् ततश्च कारणत्वेन समवाये सिद्धे तत्र निरूपकभेदेन नानासम्बन्धत्व- कल्पनाप्रयुक्तगौरवमपि फलमुखत्वान्न क्षतिमावहतीति मणिकृतां टीकाकाराणाञ्चाशयः ॥

मणिकारप्रदर्शिताः समवायसाधनप्रकाराः :-

गङ्गेशोपाध्यायाः तत्वचिन्तामणौ चतुर्भिरनुमानैः समवायस्य अतिरिक्तपदार्थत्वे तस्य नित्यत्वञ्च समसाधयन्।

‘गुणक्रियाजातिविशिष्टबुद्धयः विशेषणविशेष्यसम्बन्धविषयाः, विशिष्टबुद्धित्वात्, दण्डीति बुद्धिवत्’। यथा ‘दण्डी पुरुषः’ इति विशिष्टबुद्धिः विशेषणस्य दण्डस्य संयोगाख्यं सम्बन्धं विषयीकरोति, तथा ‘शुक्लः पटः’ इत्यादिबुद्धिरपि विशेषणस्य शुक्लादेः सम्बन्धं विषयीकरोतीति वक्तव्यम्। स च सम्बन्धः समवायः। तथा च लाघवसहकृतपरामर्शादेकः समवाय अनेनानुमानेन सिद्ध्यतीति मणिकृतामाशयः ॥

‘गुणक्रियादिविशिष्टबुद्धिः विशेषणविशेष्यसम्बन्धनिमित्तका, सत्यविशिष्टबुद्धित्वात्’ इति द्वितीयमनुमानम्। ‘यथा दण्डी पुरुषः’ इति विशिष्टबुद्धिः विशेषणविशेष्यभूतदण्डसंयोगं निमित्तीकृत्य जायते, एवं ‘तन्तुषु पटः’ इत्यादिविशिष्टबुद्धेरपि विशेषणभूतपटादिसम्बन्धजन्यत्वमावश्यकम्। स एव समवाय इति समवायसिद्धिः ॥

3. ‘गुणक्रियादिविशिष्टबुद्धिः सम्बन्धिभिन्नविशेषणसम्बन्धविषया, निर्विषयकाभाव-विशेषणकविशिष्टबुद्धित्वात्, इतरनिरूपणानिरूप्यविशेषणकविशिष्टबुद्धित्वाद्वा’ इति नव्यास्तु इत्यादिना मणौ तृतीयमनुमानम् अनूदितम्।

४. इन्द्रियप्रत्यासत्तित्वेनापि समवायः सिद्ध्यति। तथा हि ‘गुणक्रियादिसाक्षात्कारः इन्द्रियसम्बन्धसाध्यः, जन्यप्रत्यक्षत्वात्, दण्डिप्रत्यक्षवत्’ इत्यनुमनेन साक्षात्स-म्बन्धासम्भवात् इन्द्रियसंयुक्ते सम्बन्धः सिद्ध्यन् पक्षधर्मताबलाल्लाघवेनानुगतः समवायः सिद्ध्यति। अनुगतकार्यस्य अनुगतकारणजन्यत्वात्। न तु संयुक्तविशेषणतारूपसम्बन्धः। तस्य तत्तद्रूपादिरूपत्वेनाननुगतत्वादिति चतुर्थानुमानम्। विवृतञ्चैतत् आलोके ॥

अनुपलब्ध्यप्रामाण्यवादः

चिन्तामणौ सन्निकर्षविचारं समाप्य ‘यदुक्तं विशेषणताख्यसन्निकर्षेण प्रत्यक्षविषयोऽभाव इति; तन्न सङ्गच्छते। अभावस्य अनुपलब्ध्याख्य[16]प्रमाणगम्यत्वेन प्रत्यक्षवेद्यत्वाभावात्’ इत्याक्षेपम् उत्थाय अनुपलब्धेः प्रमाणान्तरत्वं सयुक्तिकं निराकृत्य प्रत्यक्षगम्यत्वमभावस्य समर्थितम् अनुपलब्ध्यप्रामाणवादे विस्तरेण।

मणिकारनिरूपणप्रकारः

तत्वचिन्तामणौ कुसुमाञ्जल्युक्तान् अभावधियः प्रत्यक्षत्वसाधकान् अष्टावपि हेतून् खण्डयित्वा अभावधीः अनुपलब्ध्याख्यप्रमाणान्तरजन्येति पूर्वपक्षं प्रापय्य सिद्धान्ते भावग्रहे क्लृप्तकारणभावेन्द्रियादेरेवाभावज्ञानोत्पत्तौ नानुपलब्धिर्मानान्तरम्। न च सन्निकर्षाभावात् नेन्द्रियजन्यत्वमिति वाच्यम्। विशेषणताया एव सन्निकर्षत्वात्। अत एव प्राङ्नास्तितास्थलेऽपि अनुमानेनैवान्यथासिद्धिरिति निरूपितम्। स्मरणाभावः तस्याप्यस्मरणान्तरेण अनुमितिरित्यनवस्थेति चोद्यम्। अस्मरणस्य मानसप्रत्यक्षेण ग्रहणमुपन्यस्य परिहृतं मणाविति विशेषः।

अपि च घटवति भूतले घटोपलम्भप्राक्‌काले घटानुपलब्धेः सत्वात् कुतो नाभावधीः। घटाभावाभावादिति चेत् तर्हि अभावरूपार्थजन्या अभावबुद्धिः अर्थजन्यत्वेन साक्षात्कारिणी इन्द्रियजन्या च स्यादित्यपि नूतना युक्तिः अभावधियः प्रत्यक्षत्वे आलोके उक्ता ॥

अभाववादः[17]

प्राभाकरा अभावाख्यस्यातिरिक्तस्य प्रमेयस्य अभावान्न तत्प्रमितिसाधनमनुपलब्ध्याख्यमन्वेषणीयम्। भावात्मकस्य अभावस्य भावग्राहकैरिन्द्रियादिभिरेव प्रमातुं शक्यत्वादिति न्यरूपयन्। तन्मतखण्डनपूर्वकं चिन्तामणौ अभावाख्यम् अतिरिक्तपदार्थं व्यवस्थाप्य तस्य प्रागभावादिभेदेन चातुर्विध्यमपि प्रदर्शितम्। अस्मिन् विषये प्राचीन-नैय्यायिकानां मतान्तराणाञ्च कीदृशो निष्कर्ष इत्यपि चिन्तामणौ आलोके च प्रदर्शितम् ॥

अभावविभागविषये ग्रन्थप्रणेतुः व्याख्यातुश्च मतम्

गङ्गेशोपाध्यायानाम् अभावचतुष्टयाभ्युपगम एव निर्भरः। ‘घटादिर्न पटः’ इत्यादिः समानाधिकरणनिषेधः अन्योन्याभावविषयः।

‘इदानीं घटो विनष्टः’ इत्यादिव्यवहारो ध्वंसविषयः। घटानुत्पाददशायां यः ‘कपालेषु घटो नास्ति’ इत्यादिव्यवहारः, सः प्रागभावविषय इति प्रतिपादितम्। एवं चत्वारोऽनुगतनिषेधव्यवहाराश्चतसृभिरेव व्यक्तिभिः क्रियन्ते इत्यालोकेऽभिहितम्।

 प्रागभावादीनां चतुर्ण्णामभावानां प्रत्येकं सयुक्तिकमतिरिक्तत्वं तु यद्यपि न चिन्तामणौ प्रसाधितम्; तथापि मुक्तावलीव्याख्यानभूतप्रभामञ्जूषादावतिविस्तरेण तत्प्रसाधितम्।

वायोः प्रत्यक्षत्वं वर्तते न वा?

किञ्च बहिरिन्द्रियजन्यस्य द्रव्यप्रत्यक्षसामान्यं प्रति उद्भूतरूपं कारणम्। अत एव वायोरुद्भूतरूपविरहात् न प्रत्यक्षगोचरत्वम्; अपि तु अनुमानैकवेद्यता। तथा च वैशेषिकसूत्रम् – ‘स्पर्शाच्च वायोः’। च शब्देन शब्दधृतिकम्पा गृह्यन्ते। तथा च स्पर्शादिभिर्वायुरनुमेयः, न तु प्रत्यक्षः इति सूत्रार्थः। न तावद्वायोरस्तित्वे प्रत्यक्षं प्रमाणम् (वायुः प्रत्यक्षः, प्रत्यक्षशस्पर्शाश्रयत्वात्)। अस्य चानुमानस्य उद्भूतरूपवत्त्वमुपाधिः। उद्भूतरूपस्य साध्यप्रत्यक्षगतस्य व्यापकत्वात्, साधनीभूतप्रत्यक्षस्पर्शाश्रयत्वस्य च अव्यापकत्वादयं हेतुः सोपाधिको भवति। अतः ‘हेतुः साध्यव्यभिचारी साध्यव्यापकोपाधिव्यभिचारित्वात्; यः यद्व्यापकव्यभिचारी सः तद्व्यभिचारी’ इति व्याप्तेः यत्र यत्र स्पार्शनप्रत्यक्षविषयत्वं तत्र तत्र चाक्षुषप्रत्यक्षविषयत्वमिति व्याप्तेर्घटादौ दर्शनात् रूपाभावेन वायौ चाक्षुषत्वरूपस्य व्यापकस्य निवृत्तौ तद्व्याप्यं स्पार्शनत्वमपि निवर्तते। अतो वायुर्न प्रत्यक्षविषयः; अपि तु अनुमेय एवेति न्यरूपयन् ॥

सुवर्णवादः

चिन्तामणौ वायुप्रत्यक्षवादान्ते ‘वायुः बहिरिन्द्रियजन्यप्रत्यक्षाविषयः, नीरूपद्रव्यत्वात्, आकाशवत्’ इत्यनुमानेन वायोरप्रत्यक्षत्वञ्च साधितम्। तत्र च उद्भूत-स्पर्शानाश्रयत्वमुपाधिरित्याशङ्क्य; यदि हि बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे उद्भूतस्पर्शस्य हेतुत्वं स्यात् तदा उद्भूतस्पर्शानाश्रयत्वमुपाधिः स्यात्। तस्य तु तत्र हेतुत्वमेव न। तथा सति सुवर्णस्य प्रत्यक्षता न स्यात्। सुवर्णे हि तेजोद्रव्यं प्रभावदुद्भूतरूपयुक्तमपि उद्भूतस्पर्शाश्रयो न भवतीति समाधानमुक्त्वा; तत उपलभ्यमानपीतिमागुरुत्वयोराश्रयात् प्रत्यक्षं भवितुमर्हतीति शङ्कामुद्भाव्य, अनुमानेन पार्थिवभागातिरिक्तं तत्संयुक्तं तेजोरूपं द्रवद्रव्यं साध्यतेऽस्मिन् वादे ॥

मीमांसाका अपि सुवर्णस्य तैजसत्वमनुमन्यन्ते। तेजोनिरूपणावसरे मानमेयोदये अभिभूतरूपस्पर्शं तेजः सुवर्णम्। अभिभवस्तु पार्थिवरूपादिभिरित्यभिधानात्। इति सुवर्णवादः ॥

मनोऽणुत्ववादः

इन्द्रियजन्यं ज्ञानं प्रत्यक्षमिति प्रत्यक्षलक्षणपक्षे सुखादिसाक्षात्कारे चक्षुरादिप्रसिद्धेन्द्रियजन्यत्वाभावादव्याप्तिरिति शङ्कापरिहाराय अयं वादः चिन्तामणौ अवतारितः। ‘सुखादिसाक्षात्कारः इन्द्रियजन्यः, साक्षात्कारत्वात्, रूपसाक्षात्कारवत्’ इत्यनुमाने सुखादिसाक्षात्कारसाधनं किञ्चिदिन्द्रियं सिद्ध्यति। तत्र च चक्षुरादीनाम् सामार्थ्याभावात् तद्भिन्नं, लाघवान्निरवयवञ्च मनसंज्ञकमिन्द्रियं सिद्ध्यति। तच्च न विभु; अपि तु अणु इति अस्मिन् वादे प्रसाध्यते। न्यायकुसुमाञ्जलौ तृतीयस्तबके मनोवैभववादखण्डनप्रकरणे विद्यमाना एव विषयाः प्रायश्चिन्तामणावप्यत्र वादे विन्यस्ताः।

ग्रन्थप्रणेतुः सिद्धान्तः :-

मणिकारास्तु – व्यासङ्गदशायामिन्द्रियाणां स्वस्वविषयसन्निकर्षे सत्यपि एकस्मिन् ज्ञानं नान्यस्मादित्यनुभवसिद्धम्। अतो यस्यासम्बन्धान्न युगपज्ज्ञानानि तत् इन्द्रियाणां क्रमेण स्वस्वविषयप्रेरकं मनः सिध्यत् विभुत्वे सति सकलेन्द्रियैर्युगपत्सम्बन्धात् ज्ञानयौगपद्यप्रसङ्गात् अणुरूपं सिद्ध्यति। न च बुभुत्सावशात् ज्ञानक्रम इति वाच्यम्। बुभुत्सा हि न स्वविषयकज्ञानं प्रति हेतुः। अबुभुत्सितेऽपि विषये ज्ञानोदयात् इत्यादिभिः युक्तिभिः उदयनाचार्यैः परिशुद्धौ कुसुमाञ्जलौ च प्रदर्शितामेव सरणिमवलम्ब्य मनसः विभुत्वं खण्डयित्वा अणुत्वं साधयामासुः अस्मिन् मनोऽणुत्ववादे ॥ इति ॥

तदित्थं अनेकेषु विषयविशेषेष्वप्रतिमं स्वप्रतिभाकौशलं निरूपयन् चिन्तामणिग्रन्थः तद्व्याख्यानम् आलोकश्च स्वाध्येतॄणां अभीप्सितमर्थं यच्छन् चिन्तामणिरिव महदुपकारं कुर्वन्नस्ति।

*****

॥ उपयुक्तग्रन्थसूची ॥

संग्रन्थनामकर्तारःप्रकाशनस्थानम्वर्षम्
तत्त्वचिन्तामणिप्रकाशःमथुरानाथःकेन्द्रियसंस्कृतविद्यापीठम्,तिरुपति१९७३
तत्त्वटीकावरदाचार्यःकाञ्ची१९४१
तर्कताण्डवम्श्रीव्यासतीर्थाःमैसूर् ओ. आर्. ऐ२९४३
जैमिनीसूत्रम्जैमिनिःआनन्दाश्रमः, पुणे१९८१
गौतमन्यायसूत्रम्गौतमःचौखाम्बा सीरीस्, काशी१९२५
किरणावलीउदयनाचार्यःबरोडा१९६४
तर्कभाषाकेशवमिश्रःआर्यभूषणप्रेस्, पुणे१९३७
तत्त्वप्रदीपिकाचित्सुखाचार्यःउदासीनसंस्कृतविश्वविद्यालयः, काशी१९५६
तत्त्वमुक्ताकलापःवेदान्तदेशिकःकाञ्ची१९३८
१४न्यायकन्दलीश्रीधराचार्यःकाशी१८९५
१५न्यायकुसुमाञ्जलिःउदयनाचार्यःकेन्द्रियसंस्कृतविद्यापीठम्, तिरुपति१९८०
१६न्यायकुसुमाञ्जलिप्रकाशःवर्धमानःचौखाम्बाप्रेस्१९४८
१७न्यायपरिशुद्धिःश्रीवेङ्कटनाथाचार्यःसुन्दरं अण्ड् सन्स् अडियार्, चेन्नै१९७४
४३सिद्धान्तमुक्तावलीविश्वनाथपञ्चाननःमद्रास्१९२३
४४सेश्वरमीमांसावेदान्तदेशिकःकाञ्ची१९४१
४५शाबरभाष्यम्शबरस्वामीनिर्णयसागर्, मुम्बै१९३८
४६दिनकरीयम्दिनकरभट्टःशङ्कररामशास्त्रि, चेन्नै१९२३
४७तर्कसङ्ग्रहःअन्नम्भट्टःभारतीयविद्यासंस्थानम्, काशी२००२
४८मध्वसिद्धान्तसारःवेदगर्भपद्मनाभसूरिःद्वैतवेदान्तफ़ौण्डेशन्, बेङ्गळूरु२००५

****


[1] तात्पर्यटीकापरिशुद्धौ उदयनाचार्यः-‘कार्यारम्भे अन्तरायविरहेण परिसमाप्तिं कामयमानाः अभीष्टदेवतानमस्कारपूर्वकं प्रेक्षावन्तः प्रवर्तन्ते’।

[2] श्रुतिप्रमाणम्- ‘प्रारब्धपरिसमाप्तिकामो देवतां नमस्कुर्यात्’- स्मृतिप्रमाणम्- मनुः- मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः। जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥

[3] मुक्तावळी- तर्कसङ्ग्रहादिषु

[4]  अन्वयव्यभिचारः – कारण-अव्यापककार्यकत्वम्। व्यतिरेकव्यभिचारः- कारणभावाव्यापककार्याभावकत्वम् ।-दीपिका-बालप्रियाव्याख्याने ताताचार्यः

[5] एवकारः अप्यर्थकः, अप्यर्थः समुच्चयः, श्रुतेरपि इत्यर्थः दिपिकायाम् अन्नं भट्टः

[6].‘हेतुघटकविशेषाणानां व्यभिचारवारकतयैव सार्थक्यम्’ इति नियमः सूचितः ।

[7] ज्ञप्तौ उत्पत्तौ च परतस्त्वं विस्तरेण उपपादितम्

[8] ‘दुःख-जन्म……इत्यादिद्वतीयसूत्रेण मिथ्याज्ञानं परम्परया संसारहेतुः’ इति प्रतिपादितम् ।

[9] ‘प्रकारवचने थाल् -पा.सू. 5.3.23

[10] वात्स्त्यायनः – अतस्मिन् तदितिज्ञानम् मिथ्याज्ञानम्
         वार्तिककारः – कः पुनरयं अतस्मिन् तदपि विपर्ययः

[11] तर्कसङ्ग्रहदीपिकायाम्  अन्नं भट्टवचनम्

[12] न्यायसूत्रभाष्यकारः- निकर्षशब्देन सम्बन्धः इत्यर्थे लब्धे सम्- इत्युपसर्गबलात् सम्भवी=सम्बन्धः सन्निकर्षशब्देन उच्यते ।
        सम्-नि- इत्युपसर्गद्वययुक्तः कृष-धातुः सम्बन्धमभिधत्ते ।

[13] प्रत्यक्षहेतुः सन्निकर्षः संयोगादिभेदेन षड्विधः तर्कदीपिकायाम्

[14] आत्ममनसोः संयोगात् आत्मप्रत्यक्षम्- वै.सूत्रम् -9.1.11

[15] आत्मसमवायादात्मगुणेषु -वै.सू – 9.1.15

[16] न्यायदर्शने- न चतुष्ट्वम्-ऐतिह्य-अर्थापत्ति-सम्भव-अभावप्रामाण्यात्- न्या.सू.2.2.01

[17] क्रिया-गुणव्यपदेशाभावात् प्रागसत् -वै.सू-9.1.1