भारते अध्यापकशिक्षा साधनानि च
                                                                              

            प्रो. रजनीकान्तशुक्लः, शिक्षासङ्कायः

                                   राष्ट्रियसंस्कृतविद्यापीठम्

                                    (मानितविश्वविद्यालयः)

                                                                 तिरुपतिः

वैदिककाले भारतीयशिक्षा अति उज्ज्वलरूपेण प्रचलिता आसीत्। भारतीयशिक्षायां शिक्षकशिक्षायाः महत्त्वपूर्णं स्थानमासीत्। तस्मिन् काले छात्रः स्वपरिवारे एव मातृपितृभिरभिभावकैः गुरुभिश्च शिक्षां प्राप्नोति स्म। एषा प्रक्रिया वंशानुक्रमेण प्रसिद्धा आसीत् । अस्मिन् विषये वैयाकरणेन भट्टोजिदीक्षितेन प्रकटितं मतं- ‘वंशो द्विधा’ विद्यया जन्मना च इति सूत्रवृत्तौ । अत एव शिक्षकाः शिक्षणकलायां नैपुण्यं स्वपरम्परामाध्यमेन प्राप्नुवन्ति स्म । तदानीं शिक्षकप्रशिक्षणस्य काऽपि औपचारिकी व्यवस्था नैव आसीत् ।

शनैः शनैः कालक्रमपरिवर्तनेन बौद्धमुस्लिमकालयोर्मध्ये क्रमेण बौद्धभिक्षुकाणां मौलवीजनानां च अध्यापनक्षेत्रे प्रसिद्धिरासीत्, परन्तु औपचारिकरूपेण शिक्षाव्यवस्था ब्रिटिशशासकैः प्रारब्धा। तेषां काले डैनिशमिशनरीद्वारा ‘शेरामपुर’ इत्यस्मिन् स्थाने बङ्गप्रदेशे औपचारिकप्रशिक्षणकेन्द्रस्य स्थापनायाः प्रथमः प्रयासः कृतः ।

प्रायशः अस्माकं भारतदेशे स्वतन्त्रताप्राप्त्यनन्तरं शिक्षाविषये बहवः प्रयासाः जाताः । अस्मिन् सन्दर्भे एवं शिक्षकशिक्षा इत्यस्य शब्दस्य प्रयोगोऽपि एकः नूतनप्रयासः वर्तते । वर्तमानसमये छात्राणां व्यक्तित्वविकासे व्यावहारिकसमायोजनस्य कृते च शिक्षकशिक्षायाः महती आवश्यकता अनुभूयते। शिक्षायाः प्रमुखोद्देश्यस्य प्राप्तिरेव अस्माकं चिन्तनमस्ति जान् ड्यूवी महोदयैः प्रतिपादितं यत् ‘शिक्षा भावी जीवनस्य प्रयासः एव नास्ति अपि च सा जीवनयापनस्य एका विशिष्टा प्रक्रिया भवति’। अत एव शिक्षकाः विविधशिक्षणयोजनानां क्रियान्वयने प्रमुखाः भवन्ति ।

एवं सम्पूर्णशिक्षणोद्देश्यानां प्राप्तिरेव शिक्षकशिक्षायाः लक्ष्यं वर्तते। शिक्षकशिक्षोद्देश्यानि- आदौ द्विधा विभज्यते

१. सामान्योद्देश्यानि

२. विशिष्टोद्देश्यानि

१. सामान्योद्देश्यानि- निम्नोक्ताः सन्ति –

क. विद्यालयसमाजयोर्मध्ये समन्वयः ।

ख. अधिगमे मानवसिद्धान्तानां विकासः ।

ग. नूतन- प्रवृत्तिशिक्षणप्रविधि- विषये ज्ञानम्।

घ. वैयक्तिकविभिन्नतानामवबोधनम्

ङ. मानवनिर्माणप्रक्रियायाः निश्चयः ।

च. बालकस्य विविधवातावरणेषु मार्गदर्शनम्।

छ. बालकेषु मनोवैज्ञानिकप्रवृत्तीनां विकासः ।

ज. शिक्षायाः दार्शनिकसामाजिकपक्षाणां विस्तृतिः ।

२. विशिष्टोदेश्यानि- त्रिधा उच्यन्ते

क. बोधात्मकमुद्देश्यम्,

ख. कौशलात्मकमुद्देश्यम्,

ग. अभिवृत्त्यात्मकमुद्देश्यम् ।

एतेषामुद्देश्यानां माध्यमेन साहाय्येन च शिक्षकाः सम्यग्रीत्या शिक्षणकार्ये निरताः भवन्ति ।

शिक्षकशिक्षाप्रकारकाणि-

शिक्षकशिक्षायाः पञ्चप्रकारकाणि अद्यत्वे शिक्षाविचारकैः स्वीक्रियन्ते –

क. पूर्वप्राथमिकशिक्षकशिक्षा,

ख. प्राथमिकशिक्षकशिक्षा,

ग. पूर्वमाध्यमिकशिक्षकशिक्षा,

घ. माध्यमिकशिक्षक शिक्षा,

ङ. महाविद्यालयशिक्षकशिक्षा ।

शिक्षकशिक्षासाधनानि

अस्माकं देशे स्वतन्त्रताप्राप्तिपर्यन्तं त्रीणिप्रकारकाणि प्रशिक्षणसंस्थानानि आसन् । येषु प्राथमिकशिक्षकाणां कृते ‘नार्मलस्कूल’ (दीक्षाविद्यालयः) अपि च पूर्वप्राथमिकस्तरे शिक्षकाणां कृते इयमेव व्यवस्था आसीत् । एतदतिरिच्य पूर्वमाध्यमिकशिक्षकाणां कृते माध्यमिकप्रशिक्षणविद्यालयः, माध्यमिकशिक्षकाणां कृते च प्रशिक्षणमहाविद्यालयस्य व्यवस्था अवलोक्यते।

तदनन्तरं शिक्षकशिक्षायाः उच्चस्तरे सर्वप्रथमं १९३६ ई. मध्ये एम्.एड्. (M.ed)शिक्षायै बम्बई – विश्वविद्यालये प्रशिक्षणं प्रारब्धम्, शिक्षायां प्रथमा- पी. एच्.डी (Ph.d) उपाधिः १९४३ तमे वर्षे अनेनैव विश्वविद्यालयेन प्रदत्ता । १९७० तमे वर्षे एम. फिल्. पाठ्यक्रमस्यारम्भः चौधरीचरणसिंहविश्वविद्यालये अभवत्। भारतसर्वकारेण शिक्षकशिक्षाया विकासार्थं राष्ट्रियाध्यापक- शिक्षापरिषद् (N.C.T.E) इत्यस्याः संस्थायाः स्थापना १९७३ तमे वर्षे सञ्जाता अत्र शिक्षकशिक्षासाधनानां वर्गीकरणं द्विधा कर्तुं शक्यते –

१. राष्ट्रियसाधनानि २. राज्यस्तरे साधनानि,

१. राष्ट्रियसाधनानि –

क. विश्वविद्यालयानुदानयोग (U.G.C)

ख. राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषद् (NCERT)

ग. राष्ट्रियसामाजिकविज्ञानानुसन्धानपरिषद् (I.C.S.S.R)

घ. राष्ट्रिय- अध्यापक- शिक्षा- परिषद् (N.C.T.E)

ङ. उच्चाध्ययनशिक्षाकेन्द्रम् (I.A.S.E)

च. राष्ट्रियशिक्षानियोजन- प्रशासन- संस्थानम् (N.I.E.P.A)

२. राज्यस्तरे साधनानि-

शिक्षकशिक्षाया: राज्यस्तरे निम्नलिखितानि साधनानि सन्ति-

१. राज्य- अध्यापक- शिक्षाबोर्ड (S.B.T.E.).).

२. विश्वविद्यालयशिक्षाविभागः (U.D.T.E.)

३. अध्यापक- सततशिक्षाकेन्द्र (C.C.ET)

४. पत्राचारपाठ्यक्रमः (C.C.)

एतेषां सर्वेषां साधनानां शिक्षकशिक्षायां वैज्ञानिक महत्त्वं वर्तते । पूर्वं शिक्षकशिक्षायां शिक्षकप्रशिक्षणे च याः न्यूनताः आगताः तासां दूरीकरणे साधनानि स्वभूमिका निर्वहन्ति। अद्यापि शिक्षायाः विकासार्थं एतेषु परिवर्तनं परिवर्धनं च प्रचलति ।

वर्तमानवैज्ञानिकयुगे नूतनप्रविधिनामाविष्कारेण शिक्षणे बहुपरिवर्तनं जातम्। विविधसञ्चारप्रौद्योगिकीनां सहयोगेनच अधिगमपद्धतयः अतीव सरलाः सुव्यवस्थिताश्चअभवन् । शिक्षणे पाठ्यक्रमनवीनीकरणद्वारा अपि नैरन्तर्येण संशोधनं प्रचलदस्ति । शिक्षकाः विभिन्नज्ञानकौशलानाम् उन्नतस्तरस्य कृते सन्नद्धाः सन्ति । कुशलशिक्षकाः सफलबौद्धिकपरामर्शदातारः भवन्ति । राष्ट्रस्य शिक्षायाः उन्नतिस्तु तेषां सहयोगेन एव साफल्यानोति ।

एकविंशति- शताब्द्याम् अन्तर्राष्ट्रियशिक्षायोगस्य प्रतिवेदने (जैक्वस् डेलर्स रिपोर्ट) एवमुक्तम् – ‘शिक्षाज्ञानकौशलयोः संस्कारकरणे एका निरन्तरप्रचलमाना वर्तते यया अखिलविश्वस्तरे मानवः स्वविकासपथं प्राप्नोति ।’ एवमेव जैक्वस् डेलर्स समितेः प्रमुखोद्देश्यं विश्वकक्षाकक्षे प्रयासेन च प्रगतिः आवश्यकी यया राष्ट्रस्य समाजस्य च अन्तर्राष्ट्रियमार्गे शिक्षासन्दर्भे विकासो भविष्यति ।