[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]
उपपदमतिङित्यत्र अतिङ्ग्रहणपरामर्शः
Abstract –
शोधपत्रेऽस्मिन्उपपदमतिङितिसूत्रस्थानांभाष्यादिषुउक्तानांअतिङ्ग्रहणादिविचाराणांपरामर्शःव्यधायि । उपपदमित्येव सूत्रे कृतेऽपि सुप्सुपा इत्यस्यानुवर्तनात्समासस्यासिध्या किमर्थमतिङ्ग्रहणमितिसंशोधितोवर्तते। अतः उपपदमतिङ् इति सूत्रे अतिङ्ग्रहणस्य प्रयोजनं विचार्य, भाष्यादीनामवलोकनेन लब्धार्थः संक्षेपेणकथितमस्ति । सुप्सुपेत्यस्य उपपदमतिङिति सूत्रे सम्बन्धाभावज्ञापनंकृत्वा, तेन किं प्रयोजनमिति विचारे – “गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्वत्तेः” इत्येषा परिभाषा न कर्तव्या भवतिइति च सिद्धान्तःउपस्थापितः ।
लेखकः –
विद्वान् अरुणभट्टः
अध्यापकः, व्याकरणविभागः,
राजिवगानन्धीपरिसरः, शृङ्गेरी
Mob – 9449286828
Mail – arun.bharni@gmail.com
उपपदमतिङित्यत्र अतिङ्ग्रहणपरामर्शः
भगवता पाणिनिना संज्ञा,परिभाषादिरूपाणि षड्विधानि सूत्राणि रचितानि, तेन शब्दशास्त्रं नितरां सुशोभामगच्छत् । सम्पूर्णं शब्दराशिः साधुत्वासाधुत्वाभ्यां विभाक्तः नवतामवाप । उपचतुस्सहस्रसूत्रैर्निबद्धाष्टाध्यायी ज्ञानपिपासूनाममृतता, जिज्ञासूनां कामधेनुता, मुमुक्षुणां पथप्रदर्शकता चाभूदिति तु निश्चप्रचम् । शब्दशास्त्रं विरच्यता महर्शिणा ज्ञापकरूपेण बहवो हि विषयाः उद्धृताः । अष्टकेऽस्मिन् विद्यमानेषु बहुषु विशिष्टसूत्रेषु उपपदसमासविधायकमिदमुपदमतिङिति सूत्रं वैशिष्ट्येनातिरिच्यते । उपपदमित्येव सूत्रे कृतेऽपि सुप्सुपा इत्यस्यानुवर्तनात्समाससिध्या किमर्थमतिङ्ग्रहणमिति जिज्ञासा समुदेति । अतः उपपदमतिङ् इति सूत्रे अतिङ्ग्रहणस्य प्रयोजनं विचार्य, भाष्यादीनामवलोकनेन लब्धार्थः साररूपेण विमृश्यते ।
विमृष्टाः प्रमुखाः विचाराः –
सूत्रन्यासक्रमः
शुत्रार्थविचारः
अतिङिति किमर्थम्
अनुवृत्यभावः
परिभाषाज्ञपनम्
सूत्रन्यासक्रमः –
अष्टाधाय्यां द्वितीयाध्याये आदौ समर्थः पदविधिः इति पदविधिसाधारणपरिभाषा परिभाषिता । पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः इति तस्यार्थः। सुबामन्त्रिते पराङ्गवत्स्वरे इति द्वितीयसूत्रानन्तरं समासाधिकारः अरब्धः – प्राक्कडारात् समासः इति । कडाराः कर्मधारये इत्यतः प्राक् समास इत्यधिक्रियते। द्वितीयपादसमाप्त्यन्तमधिकारः । ततः सह सुपा – सुबन्तं सुबन्तेन सह समस्यते, इत्यनुवर्तते ।इत्थञ्च समर्थःपदविधिः, सुबामन्त्रितेपराङ्गवत्स्वरे, प्राक्कडारात्समासः,सहसुपा इति सूत्रन्यासक्रमो वर्तते । ततः अव्ययीभावाधिकारः, ततः तत्पुरुषाधिकारः । तत्पुरुषाधिकारे विद्यमानं द्विपदात्मकम् उपपदसमासविधायकं सूत्रम् “उपपदमतिङ्” इति ।
शुत्रार्थविचारः –
सुबामन्त्रिते इत्यतः सुबित्यस्य अनुवर्तनात् , तदन्तग्रहणेन च उपपदं सुबन्तमित्यर्थः लभ्यते । नित्यं क्रीडाजीविकयोः इत्यतः नित्यमिति वर्तते । अनुवर्तमानं समर्थग्रहणं तृतीयान्ततया विपरिणम्यते । समस इत्यधिकरः । अतिङिति तदन्तग्रहणम् । एवं च – “उपपदं सुबन्तं समर्थेन नित्यं समस्यते, अतिङन्तश्चायं समासः” इति सूत्रार्थः पर्यवस्यति । उपपदमिति संज्ञा – तत्रोपपदं सप्तमीस्थम् इत्यनेन, सप्तम्यन्ते पदे कर्मणीत्यादौ वच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञकं भवति । कुम्भकार इत्याद्युदाहरणानि – कुम्भं करोतीत्यर्थे कर्मीभूतकुम्भवाचके उपपदे कृञ् धातोः कर्मण्यण् इति सूत्रेण कर्तरि अण् प्रत्यये, वृद्धौ, रपरत्वे, कार इति जाते तेन कुम्भशब्दस्य उपपदमतिङित्यनेन सूत्रेण समासे कुम्भकार इति सिध्यति ।
अतिङिति किमर्थम् ?
भाष्ये तावत् सूत्रेऽस्मिन् अतिङ्ग्रहणं कुमर्थम् इति विचारः प्रस्तुतः – “अतिङिति किमर्थम्” इति । अस्य अयमाशयः – उपपदमतिङित्यत्र सुबामन्त्रिते इत्यतः सुबित्यस्य, सह सुपा इति सूत्रस्य अनुवर्तमाने उपपदं सुबन्तं सुबन्तेन सह समस्यते इत्यर्थलाभे अतिङिति प्रतिषेधस्तु अनर्थक एव स्यात् । अतः कारको व्रजति, हारको व्रजति इत्यादौ सुप्सुपा इत्यस्य अनुवर्तनादेव समासाभावे सिद्धे अतिङिति प्रतिषेधः अनर्थक इति चेत् अत उत्तरं पठति – “उपपदमतिङिति तदर्थप्रतिषेधः” इति । तदर्थस्य नाम तिङर्थस्य प्रतिषेधार्थं अतिङ्वचनम् । कः पुनः तिङर्थः ? क्रिया । अनेकार्थसंभवेऽपि साध्यवान् क्रिया प्रधानम् । प्रधानं च अर्थः तिङ्ग्रहणेन लक्ष्यते इत्यर्थः । एवं च तिङन्तार्थवाचिनः शब्दस्य समासप्रतिषेधार्थं वचनमित्यर्थः ।
यदि तिङ्ग्रहणेन क्रिया लक्षणीया स्तात् तर्हि प्रतिपत्तिलाघवाय उपपदमक्रिया इत्येव सूत्रं पठेत् । किञ्च प्रत्युदाहरणत्वेन कारको गतः, कारको यातः इति यद्दतं तदपि न युज्यते । तथा हि – गतशब्दः क्रियावाच्युपपदं तत्र तुमुण्वुलाविति ण्वुल् । अतः कर्तुं गत् इत्यर्थः । अत्र गतशब्दस्य क्रियावाचित्वमिति कृत्वा ण्वुल् । अतिङ्ग्रणात् क्रियायाः सत्वेऽपि गतशब्देन न समासः । अन्यथा गतकारक इति स्यादिति चेत् – न चात्र सुबन्तं क्रियावाचि, किन्तु द्रव्यवाचि । अतः क्रियावाचित्वाभावादेवात्र समासप्रतिषेधः सिध्यति, अतः अक्रियेत्यनावश्यकम् । एवं तर्हि कारकस्य गतिः इत्यादौ गमनं गतिरिति भावे प्रत्ययविधानात् क्रियावचित्वमस्तीति तन्निषेधार्थं अतिङ्ग्रहणमिति चेत्”कृदभिहितो भावो द्रव्यवत्प्रकाशते” इत्यतः एतदपि द्रव्यवाचि एव । धातुरत्र साध्यभूतां क्रियां प्रत्याययति, प्रत्ययस्तु सत्वरूपतामाह ।
अतः उक्तं –
साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ।
सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ इति ।
प्रत्ययार्थस्य प्राधान्यात् न क्रियावाचि । यथा घटादिद्रव्यस्य लिङ्गसंख्यासाधनसम्बन्धः तथा कृदभिहितस्यापि । अतः क्रियात्वाभावेन क्रियाप्रतिषेधेऽपि न किञ्चित्प्रयोजनम् ।
अनुवृत्यभावः –
एवं च सुप्सुपा इत्यस्यानुवर्तनेन कुम्भकार, नगरकार इत्यादिषु सर्वत्र निर्वाहे अतिङिति ग्रहणं व्यर्थम् । सिद्धे सति यत् अतिङिति प्रतिषेधं शास्ति तज्ञापयत्याचार्यः सुप्सुपेत्यस्य अनुवृत्तिरत्र नास्तीति । अग्रिमसूत्रेषु अनुवृत्तमपि इह न सम्बध्यत इत्यार्थः । सुप्सुपेत्यस्य अनुवृत्यभावेन तिङन्तेनापि समासे प्राप्ते प्रतिषेधार्थं उपपदमतिङिति सूत्रे अतिङ्ग्रहणम् ।
परिभाषाज्ञपनम् –
सुप्सुपेत्यस्य उपपदमतिङिति सूत्रे सम्बन्धाभावज्ञापनेन किं प्रयोजनमिति जिज्ञासायां – “गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्वत्तेः” इत्येषा परिभाषा न कर्तव्या भवति । तथा हि, गतिकारकोपपदानां कृदन्तेन समासः उत्तरपदात् सुबुत्पत्तेः पूर्वमेव भवति इति वाचनिकी परिभाषा अनेनअतिङ्ग्रहणेन सिद्धा भवति । सूत्रेऽस्मिन्नतिङ्ग्रहणे, न कुगतिप्रादयः इत्यत्र अस्यैव अपकर्षणेन कर्तृकरणे कृता बहुलमित्यत्र कृद्ग्रहणेन, एकदेशानुमत्या वा कारकांशे अपि परिभाषा सिद्धा भवति ।
सुबुत्पत्तेः पूर्वमेव कृद्भिस्सह समासवचनमित्यत एव व्याघ्री, कच्छपी, अश्वक्रीतीत्यादयस्सिध्यन्ति । तथा हि – वि,आङ्पूर्वात् घ्राधातो: “आतश्चोपसर्गे” इति सूत्रेण कप्रत्यये, आतः लोपे निष्पन्नेन घ्रशब्देनाङो गति समासे, तेन वेः समासे च ततो जातेरस्त्रीविषयादिति स्त्रियां ङीषि व्याघ्रीति रूपं सिध्यति । कच्छे पिबतीत्यर्थे सुपि स्थः इति सूत्रे सुपीति योगविभागेन पाधातोः कप्रत्यये, आकारलोपे उपपदमतिङित्यनेन उपपदसमासे, जातिलक्षणङीषि कच्छपीति रूपं भवति । अश्वेन क्रीता इति समासे अश्वक्रीत इति जाते क्रीतात् करणपूर्वात् इति ङीषि कृते अश्वकीतीति सिध्यति । कुगतिप्रादयःइति सूत्रेउपपदमतिङिति सूत्रे च यदि सुप्सुपेत्यनुवर्तेत तदा सुबन्तेन समास इत्यर्थलाभात् स्वार्थद्रव्यलिङ्गसंख्याकारकाणां क्रमिकोत्पत्त्या सुबुत्पत्तिप्रयोजककारकसंज्ञाया: पूर्वमेव लिङ्गोपस्थित्या घ्र-पशब्दयोः जतित्वाभावान्ङीषोऽभावेन, अदन्तत्वेन टापि, ततः सुपि तेन समासे, इदानीमदन्तत्वाभावाजातिलक्षणङीषोऽप्रवृत्तौ व्याघ्रीत्यादिकमिष्टं न सिध्यन्ति । टाबुत्पत्तिप्रयोजकस्य स्त्रीत्वस्य पूर्वमुपस्थित्या पर्वोपस्थितिनिमित्तकत्वरूपान्तरङ्गत्वमपि तस्यास्तीत्यतः सुपोऽपि पूर्वं टापि ततस्सुपि ङीषोऽभावः । अतः ज्ञापितयां परिभाषयां सत्यामुत्तरपदे सुबुत्पत्तेः पूर्वमेव गत्यादीनां कृदन्तैरेव सह समासे, ततः जातिलक्षणङीषि व्याघ्रीत्यादयः सिध्यन्ति । अतः परिभाषाज्ञापनेने सूत्रेऽस्मिन् अतिङ्ग्रहणं चरितार्थम् ।
उपसंहारः –
गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्वत्तेरिति परिभाषाज्ञापनेन चरितार्थमतिङ्ग्रहणमित्यतः तदर्थप्रतिषेधार्थं, क्रियाप्रतिषेधार्थं वा नैव भवति । अत्रेदानीम् अतिङित्युक्तत्वात् शब्देन उत्तरपदस्यानुपादानात् केन समासः भवति इत्याकाकाङ्क्षायां समर्थेन समासो भवतीति ज्ञातव्यम् । अत एव सूत्रार्थः “उपपदं सुबन्तं समर्थेन नित्यं समस्यते, अतिङन्तश्चायं समासः” इति पर्यवस्यति इत्यलमतिविस्तरेण ।
अनुशीलितग्रन्थाः –
- अष्टाध्यायी – ईश्वरचन्द्रः चौखम्बाविद्याभवन २००४
- वैयाकरणसिद्धान्तकौमुदी – मोतीलाल बनारसीदास, नई दिल्ली २००४
- व्याकरणमहाभाष्यम् – चौकाम्बा संस्कृत प्रकाशन, वारानसी २००७
- परिभाशेन्दुशेखरः – विश्वनाथ मिश्रः, चौखम्बासुरभारती, १९९९
- वैयाकरणभूषणसारः –चन्द्रिकाप्रसादद्विवेदी, चौखम्बा संस्कृतप्रकाशन, २००१
- लघुशब्देन्दुशेखरः- ब्रह्मदत्तद्विवेदी,सुशील प्रकाशन, १९८८
[/vc_column_text][/vc_column][/vc_row]