अद्वैतमतेन व्याख्यातं जगन्नाथस्वरूपम् (बुद्धिवैशद्याय)
लेखकः – आचार्यः पङ्कजकुमारव्यासः
विभागाध्यक्षः, व्याकरणविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः
तिरुपतिः (आन्ध्रप्रदेशः) – 517507
नीलाचलनिवासाय नित्याय परमात्मने ।
बलभद्रसुभद्राभ्यां जगन्नाथाय ते नमः ।।
प्रकृतपद्ये श्रीजगन्नाथस्य यत्स्वरूपं वर्णितं तस्याद्वैतमतपरतया वर्णनं कर्तुं कश्चन प्रयासोऽत्र विधीयते। सर्वेषामपि वेदान्तानामद्वैते पर्यवसानमित्यस्य प्रायोऽनुभवसिद्धत्वात्, किञ्च निर्गुणब्रह्मोपासनायै सगुणब्रह्मोपासनैवाद्यः पन्था इत्यस्यापि तत्तत्तन्त्रे सिद्धान्तित्वात् प्रकृतपद्ये सगुणत्वेन स्तूयमानो जगन्नाथो वस्तुतः परब्रह्मैवेति वक्तव्यम्। सोऽयमेतादृक्स्वरूप इति सगुणतयैव वर्णयितुमुचितत्वात्। जनसामान्याय तादृक्स्वरूपस्यैवोपासनीयत्वेनोपयोगाच्च। अहं ब्रह्माऽस्मि, सोऽहमित्याद्यनुभवसिद्धस्य निर्गुणस्य सच्चिदानन्दरूपस्य प्रत्यक्-चैतन्यस्वरूपस्य तु तदाकाराकारितचित्तवृत्तिदशायामेव योगिनां तुरीयावस्थायां तादृगनुभवस्य दर्शनात् तेषामेव तत्स्वरूपस्योपयोगित्वाच्च, अस्मदादीनां लौकिकानां तु तदवस्थायामेव तत्स्वरूस्यानुभवः, न तु प्रकृतावस्थायामिति। अत एव श्रीसदानन्दप्रणीतवेदान्तसारे वेदान्ताधिकारिलक्षणे – “अधिकारि तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिञ्जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता”[1] इत्यत्र “उपासनानुष्ठानेन” इत्यादिदलनिवेशः। तत्त्वञ्चाग्रे प्रतिपादयति वेदान्तसारकारः – “उपासनानि सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि”[2] ।अत्रोपासना नाम उप = समीपे, आस्यते = स्थीयतेऽनयेति व्युत्पत्त्या उपासना हि तत्कर्म येनोपासक उपास्यसमीपेऽवस्थितो भवति। तदर्थस्तु उपास्यस्वरूप उपासकचित्तस्थैर्यलाभः। एवञ्च मनसः स व्यापारो येन मन उपास्ये सगुणे ब्रह्मणि स्थिरं भवति, तदेव शाण्डिल्यविद्यादीन्युपासनारूपाणीत्यर्थः।
अत्र प्रश्नः – पूर्वोक्तरीत्या निर्गुणब्रह्मण एव परमतत्त्वतया उपास्यत्वेन प्रतिष्ठापितत्वात् तस्यैव उपासनामार्ग आदौ सूचनीय आसीत् ? कुतो वा प्रथमं सगुणस्य विष्ण्वादिरूपस्य सङ्कीर्तनं विधाय परम्पराश्रयणमिति चेत्-
अत्रोत्तरम् – अभावज्ञानं प्रति भेदज्ञानं प्रति वा प्रतियोगिज्ञानस्य कारणत्वात्[3] प्रथमं गुणसङ्कीर्तनेनैव तदभावनिरूपणस्य उपपादयितुं शक्यत्वादिति। गुणसङ्कीर्तनेन गुणिनोऽपि सङ्कीर्तनमिति तु सिद्धमेव गुणगुणिनोः समवेतत्वात्। यतो घटाभावस्तदैव सिद्धो भवति यदा तस्य अभावस्य प्रतियोगिनो घटस्य ज्ञानं भवति। एवमेव घटभिन्न इत्यादावपि भेदस्य प्रतियोगिनो घटज्ञानमपेक्षितम्। इदमत्र तत्त्वम् – अगुण-निर्गुणशब्दनिर्वचनं ह्यत्र पूर्वोक्ते तात्पर्यग्राहकम्। तथा हि – अविद्यमाना गुणा यस्य अगुणम् अथवा निर्गता गुणा यस्मात् तद् निर्गुणमिति वेत्युक्ते गुणानामभावो भेदो वाऽत्र गुणिनि प्रतिपाद्यते। गुणाभाववदगुणमुत सगुणभिन्नं निर्गुणमित्यत्र अभावो भेदो वा नञर्थः (नञर्थस्य षड्विधत्वमिति भूषणसारे नञर्थनिर्णये कौण्डभट्टेन व्याख्यातम्।)[4]। गुणशब्दोऽत्र विशेषणपरः।[5] एवञ्च गुणाभाववदिति अभावज्ञानं प्रति सगुणभिन्नमिति भेदज्ञानं प्रति वा प्रतियोगिज्ञानस्य साकाङ्क्षत्वात् प्रथमं सगुणब्रह्मण एव उपासनामार्गः समुपदिष्टः । यदा तु सगुणे ब्रह्मणि चित्तैकाग्र्यं तादात्म्यं वा सम्पद्यते तदुत्तरं निर्गुणस्य ब्रह्मण उपासनां प्रति प्रवृत्तिसम्भव इति क्रमिकी अवस्थोपासनायाः।
इत्येतावता प्रबन्धेन “नीलाचलनिवासाय….” इत्यादिपद्येन सगुणं ब्रह्मैव उपासितमित्यादि संसूच्य सम्प्रति “नीलाचलनिवासाय….” इत्यादिपद्यमेवात्रागुणब्रह्मण उपासनामपि अभिव्यनक्तीति प्रतिपाद्यते। तथा हि – नीलशब्देन तम उच्यते, तच्च अज्ञानपरम् । नीलशब्दः तमस्यपि प्रसिद्धः नीलं तमश्चलतीत्यादिप्रतीत्या।[6] तमश्चान्धकारः अज्ञानमिति तात्पर्यम्।[7] अज्ञानरूपान्धकारवशादेव परमार्थस्य ब्रह्मणः प्रतिभासमानसंसाराद् भिन्नत्वेन प्रतीतिः। अत एव अज्ञानोपहितचैतन्येन संसारस्य प्रातिभासिकीं सत्तामादाय पारमार्थिकी सत्ता नाङ्गीक्रियते। यदा तु अज्ञाननाशस्तदा परब्रह्मणः साक्षात्कार इति। यथाऽन्धकारे रज्ज्वां सर्पावभासः, अन्धकारनाशे तत्त्वज्ञानमिति तथा। एवमेव अचलशब्देन तदभावः उपपाद्यते। संसरतीति संसारः, गच्छतीति जगदिति व्युत्पतिवत् तत्पर्यायतया चलतीति चल इति व्युत्पत्तेरपि स्वीकारस्य संभवात्। संसारो हि नित्यसंसरणशीलः। एवञ्च न चलः (संसारः) अचलः इत्युक्ते अभावर्थकनञा संसाराभाव उच्यते। संसाराभावः यस्य इति तात्पर्यम्। संसारसत्त्वं तु मर्त्यानां न तु परब्रह्मणः। अत एव तस्य उपादानकारणत्वमपि सिध्यति।[8] यदि तु ब्रह्म संसारस्य निमित्तकारणमिति विवक्षा तदा तद्भेदः नञर्थ इति वक्तव्यम्। संसारात् भिन्नमिति यावत्। ब्रह्मण उपादाननिमित्तकारणता तु लूतातन्तुदृष्टान्तेन सिद्धा।[9] प्रकृते तन्निरूपणेन भिन्नप्रसङ्गापादनभिया अतीवोपयोगाभावाच्च तन्नोच्यते। एवञ्च अचलस्य = चलाभावस्य संसाराभावस्य निवासः = स्थितिर्यस्मिन्निति अचलनिवासः तस्मै अचलनिवासाय इत्यर्थः। अनेन मिथ्यात्मकस्य जगतः परब्रह्मणि लय इति तावत्पर्यन्तोऽर्थो ध्वन्यते। अथ तर्हि नीलशब्दवाच्याज्ञानस्य कुत्रान्वयः इति चेत् -तदुच्यते नीलपदार्थस्य अचलपदार्थैकदेशे चलपदार्थेऽन्वयः। नन्वेवं नीलपदार्थस्य अचलपदार्थैकदेशभूतचलपदार्थेनान्वयोऽसिद्धः, पदार्थः पदार्थेनान्वेति न तु तदैकदेशेन इति व्युत्पत्तिविरोधादिति चेद्, ब्रूमः – नीलपदार्थस्य अचलपदार्थैकदेशभूतचलपदार्थेन अन्वयस्तु असमर्थसमासेनाश्रयणीयः। नीलाचलस्य = अज्ञानोपहितसंसाराभावस्य निवासः = स्थितिर्यस्मिन् इति अर्थस्य सङ्गतत्वात्। यदि तु अनायत्या असमर्थसमासाश्रयणं दोषावहमिति चेत् आसमन्तात् चल आचलः समस्तचराचरजड़चेतनसहित संसार इत्यर्थः। अत्र अभिविधौ वर्तमानेन आङा प्रथमं चलशब्दस्य समासं विधाय ततो नीलेन युतः = उपहितः आचलः नीलाचल इति सर्वं समञ्जसम्। अज्ञानोपहितः संसार इत्यर्थः। ततो नीलाचलस्य अज्ञानोपहितसंसारस्य निवासः = आश्रयः नीलाचलनिवासः तस्मै नीलाचलनीवासाय इति पर्यवसितोऽर्थः। अनया रीत्या नीलाचलनिवासशब्दः परब्रह्मपर इत्यायातम्। एतदेव स्फोरयितुं परमात्मने इति शब्दोऽग्रे प्रयुज्यते।
एवं तर्हि परब्रह्मणः स्वतः नित्यत्वात् सकलजगदुपादानभूतत्वाच्च तत्र नित्याय इति विशेषणं व्यर्थमिति चेत्, न। परब्रह्मवाचकक्लीबब्रह्मशब्दप्रयोगाभावे हि कार्यब्रह्मणः व्यावृत्तये नित्यत्वस्य अपेक्षमाणत्वात्। यद्यपि परमात्मने इति शब्दप्रयोगेणैव तद्व्यावृत्तिसिद्धा तथापि परमात्मशब्दवाच्यब्रह्मणः कार्यब्रह्महिरण्यगर्भस्य च श्रुतिषु परस्परव्यवहारसाङ्कर्यदर्शनात् स्पष्टतरप्रतीतये तदावश्यकत्वात्। व्यवहारसाङ्कर्यं तु – “हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्” इत्यादि श्रुत्या तस्य कार्यत्वं बोध्यते। एवमेव “यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्मनामरूपमन्नञ्च जायते” इति श्रुतौ हिरण्यगर्भस्य ब्रह्मणः विषये क्लीबब्रह्मशब्दस्य प्रयोगो दृश्यते। अतः परब्रह्मणो नित्येति विशेषणदाने न कापि हानिः।[10] हिरण्यगर्भस्यापि जगदन्तःपातित्वेन तदुपादानत्वस्य परब्रह्मणि सत्त्वात्। न चैवमपि हिरण्यगर्भस्य चेतनरूपत्वात् तस्य च “नित्यं विज्ञानमानन्दं ब्रह्म” इति श्रुत्या नित्यत्वप्रतिपादनात् कथं कार्यत्वं ? कथञ्च नित्यत्वविशेषणेन कार्यब्रह्मणः परब्रह्मव्यावृत्तिः श्रुतिषु समानविशेषणोपादानात् इति शङ्क्यम्, अपञ्चीकृतसकलभूतसमष्टिसूक्ष्मशरीरोपहितो हिरण्यगर्भः, तदुपाधिभूततादृशशरीरस्य जन्यत्वात् हिरण्यगर्भस्य जन्यत्वव्यवहारः। अपि च लयात्परं सृष्टेः पुनःसृजनपालनादिव्यवहाराय तदा तदा युगभेदेन कार्यब्रह्मणो भेददर्शनात् परब्रह्मणस्तु त्रिकालाबाधितसत्तायाः सर्वदापि वर्तमानत्वात् परब्रह्मणः कार्यब्रह्मणश्च भेदः। एवञ्चैतावता अज्ञानोपहितसंसाराभावस्य निवासः = स्थितिः यस्मिन् इति अज्ञानोपहितसंसारस्य निवासः = आश्रय इति वा एतादृशो नित्यः परमात्मस्वरूपः एतत्सर्वं जगन्नाथस्य विशेषणम्, तस्मै जगन्नाथाय नमः’ इत्यन्वयः। इत्येतावता पूर्वार्द्धव्याख्यया जगन्नाथस्य परब्रह्मत्वमद्वैतमतरीत्योपपादितम्।
अथेदानीं श्लोकस्योत्तरार्द्धं व्याख्यायते। बलभद्रसुभद्राभ्यामिति। तत्र जगन्नाथसंस्कृतावियं प्रसिद्धिः – बलभद्रो हि श्रवणशक्तिरूपः, सुभद्रा तु इच्छाशक्तिः चिच्छक्तिर्वा, जगन्नाथो भवति पराशक्तिः। स तु स्वयं किञ्चिदकुर्वन्नेव कारयति कार्यं द्वाभ्यां शक्तिभ्याम्, न तु साक्षात् प्रवर्तत इत्यर्थः। जीवस्वरूपा भक्ताः परब्रह्मप्राप्तये बलभद्रं प्रार्थयन्ति, स तु श्रवणशक्तिरूपः तदनु चिच्छक्तिं सम्प्रेषयति तत्त्वम्। ततः चिच्छक्त्या निर्देशानुसारेण पराशक्तिः जगन्नाथः प्रापयति भक्तान् स्वकामानियमस्ति प्रक्रिया। अस्याः प्रक्रियायाः कथमद्वैतसिद्धान्तेन साम्यमिति किञ्चिद् मृशामः। तत्र अज्ञानस्य आवरणशक्तिर्विक्षेपशक्तिरिति द्विधोक्ता शक्तिर्वेदान्तशास्त्रे।[11] आवरणशक्तिस्तावत् सच्चिदानन्दस्वरूपमावृणोति। विक्षेपशक्तिस्तु ब्रह्मादिस्थावरान्तं जगत् जलबुद्बुद्वन्नामरूपात्मकं विक्षिपति। शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतयोपादानञ्च भवति, यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानञ्च भवति। तदत्र जीवस्वरूपा भक्ता अज्ञानवशात् बलभद्रसुभद्रयोरेव प्रवर्तन्ते परमतत्त्वं जगन्नाथं विहाय। स च जगन्नाथः स्वमायया एतान् जीवान् तच्छक्तिद्वयोपहितचैतन्यान् (जीवब्रह्मणोरैरक्यात्तथोक्तिः) प्रवर्तयति नाम सर्वं स एव कारयति, तस्यैव सर्वस्यापि कर्तृत्वभोक्तृत्वात्। अज्ञाननाशे केवलं ब्रह्मैव भवति, नान्यत्। तेन किमायातमिति चेत् बलभद्रसुभद्रे तु जगन्नाथस्य मायया भासन्ते। भेदोपाधिना भिन्नशक्तित्वेन प्रतिभासमानाभ्यां ताभ्यां जगन्नियन्त्रयति जगन्नाथ इति जगतो नियन्तृत्वात् सूक्ष्मतया परिशील्यमाने च जगन्नाथो ब्रह्मैव नापर इत्यलं विस्तरेण।
विज्ञप्तिः – अत्रत्यः सर्वोऽपि विचारः केवलं बुद्धिवैशद्याय प्रवर्तितः। नात्र कस्यापि सिद्धान्तस्य खण्डनं मण्डनं वा मया क्रियते। कलियुगप्रत्यक्षदेवताया जगन्नाथस्य प्रेरणयैवेदं प्रपञ्चीकृतमिति सविनयं विज्ञाप्यते।
परिशीलितग्रन्थाः –
- श्रीसदानन्दप्रणीतवेदान्तसारः (श्रीनृसिंहसरस्वतीविरचित‘सुबोधिनी’आचार्य-आद्याप्रसादमिश्रकृतहिन्दी-टीकासंवलितः), अक्षयवटप्रकाशनम्, इलाहाबाद, प्रथमसंस्करणम्, 1999
- तत्त्वदर्शिनीसहितो वैयाकरणभूषणसारः, प्रकाशकः श्रीवेङ्कटेश्वरविश्वविद्यालयः, तिरुपतिः – 2016
- तर्कसङ्ग्रहो न्यायबोधिनी-पदकृत्य-दीपिका-किरणावलीभिः व्याख्याभिः सहितः, चौखम्बा-विद्याभवन, वाराणसी, 2007
- श्रीभट्टोजिदीक्षितप्रणीतप्रौढमनोरमा, शब्दरत्न-भैरवी-भावप्रकाश-सरलायुक्ता, चौखम्बा-संस्कृत-संस्थानम्, वाराणसी, तृतीयसंस्करणम् – 2003
- अन्नम्भट्टः, तर्कसङ्ग्रहः(न्यायबोधिनी-पदकृत्य-दीपिका-किरणावलीव्याख्योपेतः), चौखम्बा विद्याभवनम्, वाराणसी, संस्करणम् – 2007
- विद्वान् नवीनहोळ्ळः, तर्कप्रवेशः (नव्यसरणिः, काणादसरणिः, गौतमसरणिः)
[1] वेदान्तसारे पृ.सं. – 27
[2] तत्रैव पृ.सं. – 29
[3] अयं कार्यकारणभावः नैयायिकोक्तः प्रसिद्ध एव
[4] तत्त्वदर्शिनीसमुल्लसिते वैयाकरणभूषणसारे पृ.सं. – 535
[5] गुणशब्दो विशेषणपरतया कोशादिषु प्रसिद्धः
[6] तमः खलु चलं नीलं परापरविभागवत्। प्रसिद्धधर्मवैधर्म्यान्नवभ्यो भेत्तुमर्हति।। नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया इत्यादिपङ्क्तिः तर्कसङ्ग्रहदीपिकायाम् – पृ.सं. – 9
[7] एतद्धि वेदान्तशास्त्रे प्रसिद्धम्
[8] ब्रह्मणो जगदुपादानत्वं अद्वैतवेदान्तशास्त्रे प्रसिद्धम्
[9] वेदान्तसारे पृ.सं. – 55
[10] विषयोऽयं प्रौढमनोरमाया मङ्गलश्लोके ‘परं ब्रह्म’ इत्यत्र ब्रह्मणः परमिति विशेषणसार्थक्यप्रकटनवेलायां मनोरमाग्रन्थख्यातृभिः शब्दरत्न-भैरवी-भावप्रकाश-सरला-ज्योत्सनाकारादिभिः समालोचितः। सव्याख्यप्रौढमनोरमायाम् पृ.सं. – 1-3
[11] वेदान्तसारे पृ.सं. – 55
