विभवः
डा. चक्रवर्तिराघवन्, आचार्यः, विशिष्टाद्वैतवेदान्तविभागः, तिरुपतिः
ब्रह्माण्डान्तर्गत भूलोकादि त्रिषु लोकेषु विविधाः भवन्तः अवताराः विभवभेदाः इत्युच्यन्ते । विभवावतार विषये भगवद्गीता प्रमाणम् । तत्र चतुर्थाध्याये अर्जुनमुद्दिश्य विभवावतार विषयकं प्रमाणं उदाह्रियते । भगवान् राजविद्याराजगुह्ययोगस्य उपदेशं पूर्व स्वेन आदित्याय कृतमिति वदति । तत्रार्जुनः पृच्छति-
‘अवरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ।।’
इति । तत्र भगवान् तस्मै विभवावतारवैशिष्ट्यम् पञ्चभिः श्लोकैः प्रतिपादयति ।
‘बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ।।’
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ।।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ।।
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ।। इति ।।
(भगवद्गीता ४.५)
एतेषां पञ्चानामपि श्लोकानां तात्पर्यार्थ मनसि निधाय श्रीवेदान्तदेशिकाः
‘अवतारस्य सत्यत्वं अजहत्स्वस्वभावता । शुद्धसत्वाक्यत्वं च स्वेच्छामात्र निदानता ।।
धर्मग्लानौ समुदयः साधु संरक्षणार्थता ।। इति ।’ षर्थान् अवताररहस्य भूतान् मुमुक्षुभिः चिन्तनीयतया अन्वगृह्णन् । अत्र ‘बहूनि मे व्यतीतानि इति वचनेन विभवावतारस्य अनन्तत्वं गम्यते । रहस्यत्रयसारे द्वात्रिंशत्वेन विभवावतारं पर्यगणयन्। किन्तु एकैकावतारस्यापि कार्यवशात् अनन्तरूपजनकत्वं ‘कृष्ण रूपाण्यनन्तानि इत्यादि वचोभिः अवगम्यते। महाभारते च कृष्णस्य षोडशसहस्रं रूपाणि नारदभगवान् द्वारकायां ददर्श इति वर्णितम्। प्राग्ज्योतिषपुरे मुरनरकाभ्यां बन्दीकृताः राजपुत्रीः षोडशसहस्रं श्रीकृष्णः परिणीय द्वारकायां षोडशसहस्रे गृहेषु आवासं कल्पयित्वा स्वयमपि षोडश रूपाण्यादाय ताभिस्साकं गार्हस्थ्यम् अन्वतिष्ठदिति कथा उपलभ्यते । अत्र ‘अजोऽपि सन् (भगवद्गीता ४.६) इति जीवात्मनः इव परमपुरुषस्य गर्भवासजन्मादिकं नास्तीति बोध्यते । ‘अव्ययात्मा’ इति जरामरणादिदोषाः तद्रूपे न सन्तीति गम्यते। ‘प्रकृतिं स्वाम् अधिष्ठाय इति स्वस्वभावं अजहन्नेव अवतरति इति बोध्यति । ‘माया वयुनं ज्ञानं’ इति निघण्टुः । तस्मात् आत्ममायया स्वसंकल्परूपज्ञानेन, न तु पुण्यपापादि निर्बन्धेन भगवतः जन्मभवति इत्युच्यते ।। ‘सम्भवः’ जन्म। ‘यदा यदा हि धर्मस्य (भगवद्गीता ४.७) इति श्लोकेन यदा धर्मस्य नाशः अधर्मस्य वृद्धिश्च भवति स कालः अवतारस्य समयः इत्युच्यते । ‘परित्राणाय’ (भगवद्गीता ४.८) इत्यादि श्लोकेन त्रीणि अवतार प्रयोजनानि उच्यन्ते । ‘जन्मकर्म’ (भगवद्गीता ४.९) इत्यनेन अवतारस्य एते षडर्थाः उक्ताः । तान् यः प्रतिदिनं अनुसन्धत्ते अवताररहस्य चिन्तयितुः तस्य पुनर्जन्म न विद्यते इति । विभवावतारमधिकृत्य विष्णुधर्मोतरे प्रमाणानिआयासनि परमपुरुषः विदुषः चेतनस्य प्रगा रूक्षः:
दर्शितानि-
पद्मानाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः । विध्यादिदेवः कविलो विश्वरूपो विहंगमः ।।
क्रोदात्मा बडवापत्रो धर्मो वागीश्वरस्तथा । देव एकार्वशयः कुर्मः पातालधारकाः ।।
वराहो नारसिंहश्चापि अमृतार्हरणस्तथा । श्रीपतिः दिव्यदेहोऽथ कान्तात्माऽमृतधारकः ।।
राहुजित् कालनेमिघ्नः पारिजातहरो महान् । लोकनाथस्तु शान्तात्मा दत्तात्रयो महाप्रभः ।।
न्यग्रोधशायी भगवान् एकश्रृंगतनुस्तथा । देवो वामन देहस्तु सर्वव्यापी त्रिविक्रमः ।।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च । ज्वलत्परशुधृक्रामो रामश्चान्यो धनुर्धरः ।।
वेदवित्भगवान् कल्की पातालशयनस्तथा । प्रादुर्भावगणाः मुख्याः इतीमे विभवाध्वयाः ।।
इति त्रिंशत् संख्याकाः विभवावताराः वर्णिताः। पाञ्चरात्रागमे शुद्धिपुण्याहवाचनकर्मणि एते विभवावताराः सर्वेऽपि तत्तन्नामभिः स्वस्तिवाचन पुरस्सरं अनुसन्धीयन्ते । कार्यविशेषं मुख्यत्वं च परिलक्ष्य दशावताराः –
‘मत्स्यकूर्मवराहश्च नारसिंहाऽथ वामनः । रामो रामश्च रामश्च कृष्णः कल्कीति ते दश ।।’
इत्यादि श्लोकैः महद्भिः अनुसन्धीयन्ते ।