तद्विष्णोः परमं पदम्
डा. चक्रवर्तिराघवन्, आचार्यः, विशिष्टाद्वैतवेदान्तविभागः, तिरुपतिः
पुराणे ‘समस्तहेयरहितं विष्णवाख्यं परमं पदम् (विष्णुपुराणम् १.२२.५३) इत्यारब्धम् । विष्ण्वाख्यम् इति विशेषेणेन परमं पदमिति साक्षात् ब्रह्मैवोच्यते न तु स्थानम् । तच्च परब्रह्मासाधारणधर्मैरेव तदुपरि अनूद्यते । यतो हि- तदेव विष्ण्वाख्यं परमं पदं यत्तदव्यक्तं अपरं अचिन्त्यंमडमव्ययम् अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम्, विभुं सर्वगतं नित्यं भूतयोनिमकारणं व्याप्यं, व्याप्तं यतः सर्व तद्वैपश्यन्ति सूरयः इति। अत्र च ऊहदृश्यत्वादिकरणविषयभूत मुण्डकोपनिषद्वाक्यैन निखिलदोषप्रत्यनीकं यत् ब्रह्मस्वरूपं वर्णितम्। ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोचरमवर्णमचतुश्श्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः ।’ इति । तथा बृहदारण्यके वाजसनेयके गार्गिप्रश्ने च ‘स होवाच एतद्वै तदक्षरं गर्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वमदीर्घ- मलोहितमस्नेहमच्छायम् (बृहदारण्यकोपनिषत् ५.८.८) इत्यादि । इति च तस्य उपदर्शितं पुराणवचनं प्रत्यभिज्ञापकं उपब्रह्मणं भवति ।
नित्यविभूतिः – लीलाविभूतिः
विशिष्टाद्वैतसिद्धान्ते भगवतः द्वे विभूतीस्तः इत्युच्यते । तत्र मुक्ताः अर्चिरादिमार्गेण यं देशविशेषं गत्वा परिपूर्ण ब्रह्म अनुभवन्ति सा नित्यविभूतिः । तस्याः नित्यत्वं च सृष्टिप्रलयाद्यभावः । कालकृतपरिणाम अभावः । सदा एकरूपता । रजस्तमस्सम्बन्धाभावश्च साधयन्ति । संकल्पवशात् पदार्थानां सृष्टौ अवगम्यमानायामपि कालकृतपरिणामाभावात् भगवन्नित्यसंकल्पायत्तानां वैकुण्ठलोकानां सद्भावाच्च तस्याःनित्यविभूतित्वोक्तौ न कोऽपि विरोधः । प्रकृतिमण्डले ब्रह्माण्डादि सृष्टि- स्थिति-प्रलयानां प्रमाणेषु उक्तत्वात् सर्वेषां पदार्थानां कालकृत परिणामभावत्वात् चतुर्विशतितत्त्वानां क्रमशः सृष्टेः क्रमशः संहारस्य च उपनिषत्सु बोधनात् लीलाविभूतेः सविकारत्वमेव न तु नित्यत्वम् । भगवल्लीलोपकरणत्वाच्च लीलाविभूतित्वम् । ब्रह्मादिस्तम्बपर्यन्त क्षेत्रज्ञ तद्भोगोपकरण-पदार्थान् सृजन्, संहरन्, क्रीडोपकरणैः बालाः इव भगवान् लीलारसम् अनुभवतीति श्रुति-स्मृति-सूत्रेषु अभिवर्णितत्वात् लीलाविभूतिरिति संज्ञा अन्वर्थैव। इत्थं नित्यविभूति-लीलाविभूति विभागः तत्संज्ञा च समञ्जसेति उपपाद्यते ।
परमपदशब्दगम्यार्थाः
कठवल्लीषु ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदं’ इत्यत्र ‘विष्ण्वाख्यं परमं पदं’ इत्येव व्याख्यातृभिः वर्ण्यते । अत्र ‘समीचन विज्ञान मनश्शाली संसाराध्वपारभूतं परमात्मस्वरूपं आप्नोति’ इत्यर्थः इति रङ्गरामानुजमुनिभिः (कठवल्यां) भाषितम्। तदुपरि परमं पदं इति नित्यविभूतिग्रहणे को दोषः इति पृष्ट्वा स्थूलशरीरविशिष्टस्यैव वशीकार्यत्ववचनात् ‘महतः परमव्यक्तम् (कठ.३.१.३.११) इत्यत्र ‘सूक्ष्मं तु तदर्हत्वात् (ब्र.सू.१.४.२) इति सूत्रेण कारणभूत भूतसूक्ष्मवाचिना अव्यक्तपदेन तत्कार्यभूतं शरीरमेव ग्राह्यमिति । उपासनवेलायां स्थल्यशरीरस्य भोग्यञ्च परमात्मस्वरूपमेवेति परमपदपदेन परमात्मस्वरूपमेव श्रुतितात्पर्यविषयः इति ‘परमं पदं’ इति पदं परमात्मानमेव निर्दिशतीदम् उत्तमूरूस्वामिभिः चर्चितम् । अतः परमपदशब्दस्य साक्षात् परब्रह्मैव अर्थः ।
लीलाविभूतौ पदार्थानां अनुकूलत्व-प्रतिकूलत्वे च पुण्य- पापरूपकर्मतारतम्यमेव प्रयोजनम्। सर्वबन्धविनिर्मोकपूर्वकं परमपदं प्राप्तस्यचेतनस्य सर्वमपि भोग्यं स्वभावत एव नित्यानुकूलत्वात् स्वयंप्रकाशत्वाच्च ज्ञानानन्दलक्षणं भवति । तथा च परमपद अनुभवस्य नित्यविभूतिः विषयः, आश्रयः अवच्छेदकश्च भवति।
वैकुण्ठपदनिर्वचनम्
नित्यविभूतेः शुद्धसत्त्वमयत्वात्, यथावस्थित, भगवत्स्वरूप, रूप, गुण, विभूति विषयक, यथार्थज्ञान जनकत्वं एतावत्पर्यन्तमुक्तम्। नित्यविभूतिवैभवे तादृशज्ञाननिरोधक धर्माभावश्च वैकुण्ठः इति नाम्ना अधिगम्यतेति प्रतिपादितम्। सः ग्रन्थसन्दर्भः उदाह्रियते ।
‘उक्तलोकस्य वैकुण्ठसमाख्ययापि यथावस्थित भगवत्स्वरूपरूपगुणविभूतिविषयकज्ञान विरोधकत्वाभावः सिद्ध्यति । ‘विण्ठानाम् अयं वैकुण्ठः इति व्युत्पादितः वैकुण्ठशब्दः । विकुण्ठाः नाम ज्ञानप्रसरनिरोधशून्याः । विगतः कुण्ठो येषां इति व्युत्पत्तेः । कुठि धातोर्हि गतिप्रतिधातोऽर्थः । कुठिगतिप्रतिधातेत्यनुशासनात् । गतिश्च इह ज्ञानम्। गत्यार्थाः ज्ञानार्थाः इत्युक्तेः । ततश्च प्रकृते कुण्ठशब्देन ज्ञानप्रसरनिरोधः विवक्षितः। ततश्च अप्रतिहतज्ञानानां मुक्तानां च आवासभूतोऽयं लोकः इति वैकुण्ठसमाख्या बलेन लाभात् उक्तार्थसिद्धिः इति ।
अत्र च नित्यविभूतिवैभवग्रन्थे विष्णुपुराण षष्ठंश सप्तमाध्याय
श्लोकाः उदाहृताः –
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा । अविद्या कर्म संज्ञान्या तृतीया शक्तिरिष्यते ।।
इति श्लोकैः पूर्वपूर्वजन्मापेक्षया उत्तरोत्तरजन्मनां विज्ञानाधिक्यं पुण्यकर्मरूप अविद्ययैव उत्पद्यते इति तात्पर्यम्।
***