स्थानिवदादेशोऽनल्विधौ इति सूत्राङ्गीकारे प्राप्तादोषानां  निवारणविचारः

Dr. Santosh majhi
Asst. Prof. Dept. of Vyakarana
National Sanskrit University Tirupati  
Email Id- santoshhemalata@gmail.com  

स्थानिवदादेशोऽनल्विधौ[1] इति सूत्रेण स्थानिवद्भावो विधीयते। यथा आङो यमहनः[2] इति विधीयमानमानं पदं हन् धातोरिव वधादेशेऽपि सिध्यति ।

किन्त्वस्य सूत्रस्याङ्गीकारे काञ्चित् दोषान् प्रदर्य तद्वारणमपि कृतं भाष्ये। तथा हि –

१) आक्षेपतयादेशे उभयप्रतिषेधः उभये देवमनुष्या इत्यत्र उभयशब्दस्य स्थानिवत्वेन तयनन्ततया ततो जमि “प्रथमचरम”[3] इत्यादिना सर्वनामसंज्ञा वा स्यात् – इति ।

समाधानम् – अत्र अयच् न तयप् स्थानिकः, किन्तु स्वतन्त्रः। तेन नास्ति दोषः। उभवी इत्यत्र ङीप् तु मात्रजन्तत्वेन सिध्यति। अत्र मात्राजिति ‘प्रमाणे द्वयसज्म्नमात्रचः’[4] इत्यत्र मात्र शब्दादारभ्य “द्वित्रिभ्यां तयस्यायज्वा”[5] इति अयच्पर्यन्तं प्रत्याहारः। न च तन्मध्ये इति प्रत्ययस्यापि सत्त्वे कति इत्यतोऽपि ङीबापत्तिरिति वाच्यम्। ‘अतः’ इत्यनुवृत्त्या अदन्तादेव ङीपः प्रवृत्तेः । तैलमात्रा इत्यादावपि न ङीप् प्रत्ययानुकरणं मात्रशब्द इति प्रातिपदिकस्याग्रहणात् ।

२) द्वितीयः आक्षेपः – “जात्याख्यायां वचनादेशे स्थानिवद्भावप्रतिषेधः”, “जात्यायामेकस्मिन् बहुवचनमन्यतरस्याम्[6] इति सूत्रेण बहुवचनस्य स्थाने एकवचनमादिश्यते। तथा च  बहुवचनमन्यतरस्याम्” इति सूत्रेण वहुवचनस्य स्थाने एकवचनमादिश्यते। तथा च बीहिश्च आगत इत्यादौ भ्यसः स्थानिवत्वेन ङित्वात् ‘घेर्डिति’[7] इति गुणापत्तिरिति ।

समाधानम् – एकत्वे वहुत्वमतिदिश्यतेऽत्र । न तु एकवचनस्य बहुवचनादेश इति दोषाभावः ।

३) ड्यान्ग्रहणेऽदीर्घः – निष्कौशाम्बिः इत्यादौ ह्रस्वस्य स्थानिवत्वेन ङीवन्तते ततः सोः हल्ब्यादिलोपः स्यात्। समा हल्ब्याप् सूत्रे ङी ई, आ आप इति ईकाराकारयोः प्रश्लेषेण ईकारान्तात् आकारान्तादेव च सोः लोपात् ।

४) आहि ध्रुवोरीदुप्रतिषेधः ब्रू, अस् धातुभ्यां लोटि मध्यमपुरुषैकवचने आहादेशे, भू आदेश च आत्थ, अभूडित्यत्र स्थानिवद्भावेन ब्रुव ईट्[8]   अस्तिसिचोऽपृक्ते[9] इति सूत्राभ्याम् ईडागमः प्राप्नोतीति ।

समाधानम् – आत्थ इत्यत्र नास्ति दोषः। ‘आहस्थः’[10] इति सूत्रे “झलो झलि”[11] इत्यतः अलीत्यनुवृत्या अलादावेव थत्वं विधीयते इति ज्ञापनात्। यङि च ईट् स्यात् झलातित्वाभावेन यत्वनापत्तिः। अभूत् इत्यत्रापि न दोषः। ‘अस्तिसिचोऽपृक्ते’ इति सूत्रे सकारान्तरं प्रश्चिष्य सकारान्तादेव ईडिति व्याख्यात।

५) आक्षेपः – ‘वध्यादेशे वृद्धितत्त्वप्रतिषेधः’ वधकमित्यत्र हन्तेः ण्बुलि, अकादेशे, ‘बहुलं सञ्ज्ञा छन्दसोरिति वक्तव्य’मिति वधादेशे च वधकमित्यत्र धातुप्रत्यययोः स्थानिवत्वेन ‘अत उपधायाः[12] इति वृद्धिः, ‘हनस्तोऽचिण्णलोः[13] इति तकारादेशय स्यातामिति ।

समाधानम् – नायं ण्वुलन्त किन्तु ‘हनो वध च’ इति उणादिसूत्रेण कुन्प्रत्ययान्तः।

६) आक्षेपः – इविधिश्च’ आवधि षीष्ट इत्यत्र हन् धातोः बधादेशे, स्थानिवत्वेन अनुदात्तत्वात् ‘एकाच उपदेशेऽनुदात्तात्[14] इति निषेधेन इडागमो न स्यादिति ।

समाधानम् – वधादेशे आद्युदात्तत्वस्य निपातनं करिष्यते। तेन दोषो वार्यते।

७) “आकारान्तान्नुक्षुक्प्रतिषेधः” विलापयते, भापयते इत्यत्र च लीधातोः, भीधातोश्च ईकारस्य स्थाने ‘विभाषालीयतेः इत्येनेन ‘बिभेतेर्हेतुभये’[15] इत्यनेन च आत्वे कृते स्थानिवत्वेन ली भी ग्रहणेन ग्रहणात् “लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने”[16] इत्यनेन नुगागमस्य, ‘भियो हेतुभये षुक्[17] इत्यनेन षुगागमस्य चापत्तिरिति ।

समाधानम् –नुग्विधायके, पुग्विधायके च सूत्रे ईकारप्रश्लेषेण ईकारान्तयोरेव लीभियोः नुक्षुकोर्विधानेन दोषाभावात् ।

८) “लोडादेशे शाभावजभावधित्वहिलोपैत्वप्रतिषेधः” शिष्टात, हतात, भिन्तात, कुरुतात, स्तात् इत्यादौ लोटिमध्यमपुरुषैकवचने सिपि, हि आदेशे तस्य स्थाने ‘तुह्योस्तातङ् इत्यादिना तातङादेशे च स्थानिवत्वेन हित्वात् क्रमशः शा हौ, हन्तेर्जः, हुझल्भ्यो हेर्थिः, उतश्च प्रत्ययादसंयोगपूर्वात्, “ध्वसोरेद्धावभ्यासलोपश्च”[18] इति सूत्रविहितानां तत्तत्कार्याणां प्रवृत्तिरिति ।

समाधानम् –अत्र सर्वत्र एतेषां कार्याणामपेक्षया परत्वात् लोडादेशः [ताताङादेशः। एव क्रियते। तेन सकृद्गति न्यायमाश्रित्य पुनरेतेषां प्रवृत्तिः नास्त्येव ।

९) “त्रयादेशे स्रन्तस्य प्रतिषेधः” त्रिशब्दात् आमि, त्रयादेशे, स्थानिवत्वेन त्रिशब्दत्वमादाय त्रिस्त्रादेशे च तिसृणामिति रूपम्। तत्र स्थानिवत्वेन त्रिशब्दत्वमादाय पुनः त्रयादेशापत्तिः -इति ।

समाधानम् – अत्र त्रयादेशापेक्षया परत्वात् तिस्रादेशे कृते सकृद्गतिन्यायेन न पुनः त्रयादेशः प्रवर्तते ।

१०) ‘आम्विधौ च’ चतस्रः इत्यत्र स्थानिवत्वेन चतुर् शब्दत्वमादाय ‘चतुरनडुहोरामुदात्तः’[19] इति अमागमः स्यादिति।

समाधानम् – चतुर् + जस् इत्यत्र आमागमात् परत्वेन चतसृ आदेशे कृते सकृद्गतिन्यायेन न पुनस्तत्र आम् प्रवर्तते ।

११) ‘करोतिपिवत्योः प्रतिषेधः’ कुरु इत्यत्र ‘अत उत्सार्वधातुके’ इति अकारस्य स्थाने उकारादेशे, पिब इत्यत्र ‘पाघ्राध्मा’[20] इत्यादिना पाधातोः स्थाने पिवादेशे च स्थानिवत्वेन अङ्गसञ्ज्ञामादाय ‘पुगन्तलघूपधस्य च[21] इति गुणापत्तिरिति ।

समाधानम् –“अत उत्सार्वधातुके” इत्यत्र उदिति तपरकरणात् कुरु इत्यत्र न गुणः। पिब इत्यत्र तु अकारान्तः ‘पिव’ आदेशः इति लघूपधत्वाभावात् न गुणः ।

एवं रीत्या स्थानिवत्सूत्रस्याङ्गीकारे प्राप्तान् दोषान् प्रदर्श्य तेषां वारणं कृतं भाष्ये ।

परिशीलितग्रन्थसूची

1.     वैयाकरणसिद्धान्तकौमुदी – चौकम्बा सुरभारती प्रकाशन , वारणासी

2.     लघुसिद्धान्तकौमुदी – चौकम्बा सुरभारती प्रकाशन, वारणासी

3.     व्याकरण- महाभाष्यम् – चौखम्बा कृष्णदास अकादमी ,वारणासी

4.     लघुशब्देन्दुशेखरः – चौखम्बा संस्कृत भवन  वारणासी

5.     परिभाषेन्दुशेखरः – चौकम्बा सुरभारती प्रकाशन, वारणासी

6.     पाणिनीयः अष्टाध्यायी सूत्रपाठः – चौखम्बा संस्कृत भवन वारणासी

7.     प्रौढमनोरमा –  चौखम्बा कृष्णदास अकादमी ,वारणासी


[1] . अष्टा.- 1-1-56

[2] अष्टा- 1-3-28

[3] अष्टा-1-1-33

[4] अष्टा-5-2-38

[5] अष्टा-5-2-43

[6] अष्टा-1-2-58

[7]अष्टा-7-3-111

[8] अष्टा-7-3-93

[9] अष्टा- 7-3-96

[10] अष्टा-8-2-35

[11] अष्टा-8-2-26

[12] अष्टा-7-2-116

[13] अष्टा-7-3-32

[14] अष्टा-7-2-10

[15] अष्टा-6-1-56

[16] अष्टा- 7-3-39

[17] अष्टा-7-3-40

[18] अष्टा-6-4-119

[19] अष्टा-7-1-98

[20] अष्टा-7-3-78

[21] अष्टा-7-3-86