स्मृतिपुराणयोः निरूपितं ज्ञानप्राप्तिविधानम्
Dr. Vadiraja K S
Assistant Professor
Dayananda Sagar College of
Arts, Science & Commerce,
Bengaluru – 560111 , Phone :
पुराणेषु शिक्षणम्
भारतीयसंस्कृतेः ज्ञानविज्ञानयोः च मूलभूतानां वेदानां यथार्थावगमाय पुराणानां रचना जाता । पुराणं सरलभाषया शैल्या च रचितमस्ति । वेदानां रूपान्तराणि एव पुराणानि सन्ति । पौराणिकज्ञानस्य अभावे वैदिकसाहित्यस्य अर्थावबोधः सर्वथा असम्भवः भवति । अतः वेदानामनन्तरं पुराणानामेव सर्वमान्यता अस्ति भारतीयधार्मिकपरम्परायाम् ।
सा विद्या या विमुक्तये इति वाक्यं विष्णुपुराणे श्रूयते[1] । एतद्वाक्यं विद्यायाः महत्त्वं प्रतिपादयति । अत्र विद्या नाम आत्मनः मोक्षप्राप्तये या साधनभूता भवति सा निगद्यते । विमुक्तये नाम मोक्षार्थमिति यावत् । इदं वाक्यं किमर्थमुक्तम्? भूमौ प्राप्तजन्मा प्रत्येकमपि आत्मा अस्मात् संसारबन्धनात् मोचनं प्राप्नुयात् । एवं मोचनार्थं यत् सहकरोति तत् विद्या इति पदेन निगद्यते । सा एव विद्या भवति । अन्यत् सर्वम् अविद्या भवति ।
यः मानवः जीवने यशः प्राप्तुम् इच्छति सः नियमान् पालयेदेव । नियमाः जीवने औन्नत्यं नयन्ति । नियमाः जीवनं सुव्यवस्थितं कुर्वन्ति । शैशवावस्थायां कथंचिद् वर्तिष्यते चेदपि न कापि हानिः । किन्तु छात्रावस्थायां न तथा भवितुं शक्यते । यतः छात्रावस्था जीवनस्य अग्रिमावस्थायाः आधारभूता भवति । अतः सम्यक् नियमपालनेन जीवनस्य उत्तरार्धः भागः समीचीनः भवति । अतः विद्यार्जनकाले अनेके नियमाः भवन्ति । पुराणेषु छात्रस्य नियमाः उल्लिखिताः वर्तन्ते ।
छात्रस्य नियमाः एवं भवन्ति । छात्रः गुरोः गृहे वासं कुर्यात् । वेदाध्ययनं, यागनिर्वहणाय काष्ठचयनं तथा यागे उपस्थितिः, आहारार्थं भिक्षाटनम् । आहारस्वीकारात् प्राक् सः गुरुम् उक्त्वा तस्य अनुमतिं स्वीकृत्य आहारसेवनं कुर्यात् । गुरोः कार्याणि श्रद्धया कुर्यात् । यदा अध्ययनार्थम् आहूयते तदा मनःपूर्वकं अध्ययनरतः भवेत् । यदा गुरुमुखात् अध्ययनं समापयति तदा गुरुदक्षिणां स्तवनपूर्वकं दद्यात् । इत्येवं सामन्यतया नियमाः उच्यन्ते[2] ।
गुरुणा सह छात्रव्यवहारः
यदा गुरुः भवति तदा गुरोः कृते स्थानं कल्पयेत् छात्रः । गुरोः आगमनकाले छात्रः उत्थाय गौरवं समर्पयेत् तदनुकूलव्यापारयुक्तः सन् । गुरुः यत्र यत्र गच्छति गुरुणा सह गच्छेत् । गुरुणा सह सम्भाषणकाले सगौरवं सविनयं सम्भाषणं कुर्यात् । गुरोः यद्दुश्चरितं भवति तद्विषये न सम्भाषेत । यदि अन्ये जनाः गुरुविषये निन्दनं कुर्वन्ति तर्हि छात्रः तेषां वचः न श्रुणुयात्[3] ।
सामर्थ्याधारितं शिक्षणम्
छात्रस्य सामर्थ्यानुसारं शिक्षणं दातव्यम् । कश्चन छात्रः एकस्य विषयस्य अभ्यासं दिनचतुष्टये कुर्यात् । कश्चन छात्रः एकस्य विषयस्य अभ्यासं दिनद्वये एव कुर्यात् । अतः सामर्थ्यं भिद्यते । अतः उदाहरणं दृष्टं यत् बलरामकृष्णौ बहुशीघ्रं विद्यां प्राप्तवन्तः इति । परन्तु अस्मिन्काले सामर्थं यावद्वा भवतु यथा वा भवतु निर्दिष्टे समये निर्दिष्टप्रकारेण छात्रः ज्ञानं प्राप्नुयात् । अनेन विधानेन तु यस्य अधिकं सामर्थ्यं भवति तस्य सामर्थ्यस्य उपयोगः न भवति । उपयुक्ते हि सामर्थ्ये इतोपि सामर्थ्यवर्धनं भवति । यस्य निर्दिष्टे समये अपि ज्ञानं प्राप्तुं सामर्थ्यं नास्ति तस्य अपि ज्ञानमार्गे गमनं दुष्करं भवति । अतः सामर्थ्यानुसारं शिक्षणप्रदानं भवेत् । विद्या व्यापारार्थं नास्ति इति भावः समाजे आगच्छेत् । छात्रेषु शिक्षकविषये कृतज्ञतापूर्वकादरभावना जागृता भवेत् । शिक्षकः पाठनसामर्थ्येन सह अपेक्षितगुणानाम् आधानं कुर्यात् ।
किञ्च दोषे कृते दण्डनविधानानि अपि उल्लिखितानि सन्ति । गुरोः कृते दण्डनं, छात्रस्य दण्डनं, गुरुनिन्दनदण्डनं, गुरुत्यागदण्डनं, अध्ययनकालतिक्रमदण्डनं, शास्त्रनिन्दनदण्डनं, पितृनिन्दनदण्डनम् इत्येवं विविधानि दण्डनानि उल्लिखितानि ।
दण्डनविधानम्
यदा छात्रः दोषमाचरति तदा तस्य पृष्ठभागे ताडनीयं रज्वा अथवा काष्ठेन । शिरसः उपरि ताडनं न करणीयम् । यदि तथा ताडनं क्रियते तर्हि सः गुरुः चोरवद् मन्यते । यस्मात् शिरसः उपरि ताडनेन प्राणहानिः वा स्यात् । अतः एवं नियमः क्रियते । सम्प्रति क्वचित् दृश्यते यत् शिक्षकः स्वकोपशमनपर्यन्तमपि यथाकथाच ताडयति । कदाचित् दोषः अपि लघीयान् स्यात् । तथापि ताडनं भयंकरं भवति । दण्डनं तथा भवेत् येन छात्रः स्वदोषविषये जानीयात् । सः दोषः न मया पुनः करणीयः इति भावः उदीयात् । न तु केवलं दण्डनं विहितव्यमिति धिया ते न दण्ड्याः । दण्डनस्य उद्देश्यं केवलं गुणाधानं दोषापनयनं स्यात् । दण्डनमेव न प्रधानम् । यदि दण्डनमेव प्रधानं भवति तर्हि छात्रस्य मनसि संस्कारापेक्षया विकारः एव उदेति । तस्मात् परिणामः विकृतः भवति[4] ।
विद्याप्राप्तिक्रमः
प्राचीनकाले विद्याप्राप्त्यर्थं कश्चन क्रमः आदृतः आसीत् । विद्याप्राप्तेः आरभ्य विद्याप्राप्तेः समाप्तिपर्यन्तं विद्यमानः कालः ब्रह्मचर्याश्रमः इति उच्यते । बाल्यावस्थां समाप्य कौमारावस्थां यदा प्रविशति तदा ब्रह्मोपदेशः क्रियते । अर्थात् उपनयनसंस्कारः क्रियते । उपनयनसंस्कारः अध्ययनयोग्यतासिध्यर्थं क्रियते[5] । उपनयनसंस्कारं प्राप्य कस्यचन गुरोः निकटं गच्छेत् वटुः। आरम्भतः वेदानाम् अध्ययनं गुरोः अन्तिके सोत्साहं सश्रद्धं कुर्यात् । उत्साहः तथा श्रद्धा एतद्द्वयम् अत्यन्तं प्रमुखः अंशः । उत्साहं विना किमपि साधयितुं न शक्यते[6] । श्रद्धा अस्ति चेत् तदनुसृत्य एकाग्रताद्यध्यनसामग्र्यः भवन्ति । प्रतिदिनम् आहारार्थं भैक्षाचर्यं चरेत् । एवं क्रममादृत्य अध्ययनं समाप्य तत ऊर्ध्वं गृहस्थाश्रमप्रवेशार्थं सिद्धः भवति ।
मत्स्यपुराणे एका आख्यायिका दृश्यते । भृगुवंशस्य केचन बुद्धिमन्तः ब्राह्मणाः सुमतिं द्विजत्वप्राप्त्यर्थम् आदिष्टवन्तः । यथा तस्य उपनयनसंस्कारः समाप्यते तस्य पिता तं वदति ब्रह्मचर्याश्रमकर्तव्यानि कर्तुमादिदेश । सः वेदान् आरम्भतः सोत्साहं सविनयम् अध्येतुम् आदिदेश । सः प्रतिदिनस्य आहारार्थं भिक्षासंग्रहणाय अवोचत् । यदा सुमतिः अध्ययनं समापितवान् तदा गृहस्थाश्रमकर्तव्यानि निर्वोढुं जगाद[7] ।
स्मृतिषु शिक्षणम्
स्मर्यते इति स्मृतिः । स्मृतिः इति शब्दः सामान्यतः स्मरणरूपम् अर्थं बोधयति । शास्त्रे तावत् वेदार्थस्य स्मरणं यत् कारयति तत् शास्त्रं स्मृतिः इति वक्तुं शक्यते । श्रुतिः इति पदेन वेदः उच्यते । श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः[8] इति स्मृतिशब्देन धर्मशास्त्रं निगद्यते । स्मृतिषु विशेषेण छात्रस्य नियमाः उच्यन्ते ।
अध्ययनप्रणाली
अध्ययनं नाम ज्ञानस्य आरम्भतः अन्तपर्यन्तं विद्यमानस्य प्राप्तिः । न तु केवलम् एकस्य भागस्य । अथवा यः भागः जीविकाप्राप्तये सहकारभूतः भवति केवलं न तस्य अध्ययनम् । तादृशम् अध्ययनम् अध्ययनमेव न भवति । पुनश्च अल्पः भागः अधीयमाने न ज्ञानमुत्पद्यते । एकस्य विषयस्य समग्रतया अध्ययने क्रियमाणे एव ज्ञानम् उदेति । तेन ज्ञानेन यत्किञ्चिदग्रे साधयितुं शक्यते । यथा वा वाहनस्य समग्रस्य विषये ज्ञाते वाहनचालनमित्यादि शक्यम् । केवलं चक्रज्ञानेन न समग्रवाहनज्ञानं साध्यम् ।
प्राचीनकाले अध्ययनं नाम न केवलम् एकस्य ग्रन्थस्य अथवा एकस्य भागस्य अध्ययनम् इति नासीत् । केवलं वेदस्य वा शास्त्राणां वा केवलम् अध्ययनं न असीत् । किन्तु ज्ञानराशेः समग्रस्य अध्ययनमेव अध्ययनमिति शब्दवाच्यमासीत् । वेदानाम् अध्ययनेन सह उपनिषदां च शास्त्राणाम् अध्ययनं कर्तव्यमिति स्मृत्या ज्ञायते । वेदानाम् गुरुमुखोच्चारणानूच्चारणभागः एकः । परन्तु वेदानाम् अर्थज्ञानाय तदङ्गानामपि शास्त्राणाम् अध्ययनम् अनिवार्यमेव । अतः प्राचीनकाले एवं क्रमः आदृतः इति कारणात् अध्ययनसमाप्तेरूर्ध्वं प्रत्येकोपि छात्रः ज्ञानी भवति स्म[9] ।
छात्राचारः
छात्रः गुरुं विना किमपि साधयितुं न शक्नोति । गुरोः अनुग्रहपात्रभाक् भवेत् । तदर्थं यद्यदपेक्षितं कर्तव्यं भवति तत् सर्वं तेन कर्तव्यम् । गुरोः कृपा केवलं भवति चेत् साधनमार्गः प्रशस्तः भवति । गुरुः अपि सर्वदा छात्रस्य हितमेव आलोचयति । अतः तदर्थं यद्यद् करोति तत्सर्वमपि छात्रेण अङ्गीकर्तव्यम् । कदाचित् दोषदूरीकरणाय कठोरवचनानि वदेत् । तदा छात्रेण तानि वचनानि येन प्रकारेण चिन्तयन् स्वीकरोति अथवा त्यजति तेन प्रकारेण तस्य जीवनस्य उपरि परिणमं जनयति । यदि छात्रः स्वहितार्थमिति चिन्तयन् विवेकपुरस्सरं प्रवर्तते तर्हि तेन सः लाभं प्राप्नोति । यदि छात्रः गुरोः द्वेषं करोति तर्हि तस्य परिणामं स्वयम् अनुभवति । तस्य दुष्परिणामः एव जायते । अतः गुरोः विषये न कदापि द्वेषः कार्यः ।
स्वास्थ्यपरिपालनम् अत्यवश्यकं भवति । अत्र द्विधा वक्तुं शक्यते । प्रथमं मानसिकस्वास्थ्यम् । द्वितीयं दैहिकं स्वास्थ्यम् । मनः अत्र प्रधानं भवति । मनसि स्वस्थे सर्वं स्वस्थं भवति । मानसिकस्वास्थ्यनिर्वहणाय विद्यमानः मार्गः अस्ति यत् असाधुचिन्तनानां दूरीकरणपूर्वकं साधुचिन्तनानामाधानम् । सर्वदा सच्चिन्तनमेव कर्तव्यम् । अतः अन्येषां गुणाः आवष्करणीयाः । न तु अन्येषां दोषाणां विषये चिन्तनं वा आविष्कारः कार्यः । पुनश्च दैहिकस्वास्थ्यपरिपालनाय नित्यं योगः अनुष्ठातव्यः[10] ।
परिशीलितग्रन्थसूची
- विष्णुपुराणम्
- मत्स्यपुराणम्
- भागवतपुराणम्
- सुभाषितरत्नभाण्डागारः
- मनुस्मृतिः
- महाभारतम्
- महाभाष्यम्
- याज्ञवल्क्यस्मृतिः
[1] विष्णुपुराणम् (१-१९-४१)
[2] कृतोपनयनः सम्यग्ब्रह्मचारी गुरोर्गृहे ।
वसेत् तत्र च धर्मोsस्य कथ्यते विबोध मे ॥ मत्स्यपुराणम् २८-११-४
[3] दुष्कृतं न गुरोरुरुयात् कृद्धं चैनं प्रसादयेत् ।
परिवादं न श्रुणुयात् अन्येषामपि कुर्वताम् ॥ मत्स्यपुराणम् – ३४-३८
[4] पृष्ठतस्तु शरीरस्य नोत्तमांगं कथंचन ।
अतोsन्यथा प्रहारतः प्राप्तं स्याच्चोरकिल्विषम् ॥(मत्स्यपुराणम् – २१७/ १५२-५५)
[5] ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ ।
गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ ॥ भागवतपुराणम् -१०-४५-२९
[6] उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य च लोकेषु न किंचिदपि दुर्लभम् । सुभाषितरत्नभाण्डागारः
[7] वेदानेधीष्व सुमते यथाक्रममादितः ।
गुरुशुष्रूणणे व्यग्रो भिक्षान्नकृतभोजनः ॥ मत्स्यपुराण १०-९-१०
[8] मनुस्मृतिः २-१०
[9] तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ।। मनुस्मृतिः २-१६५
यो विद्याच्चतुरो वेदान् सांगोपनिषदान् द्विजः ।
न चाख्यनमिदं विद्यान्नैव स स्याद्विचक्षणः ॥ महाभारतम् १-३८-१७
सांगोपनिषदान् वेदान् विप्राश्चाधीयते तदा ॥ महाभारतम् १-५८-१७
ब्राह्मणेन निष्कारणो धर्मः षडंगः वेदः अध्येयः ज्ञेय इति । महाभाष्यम् –
[10] कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः ।
अध्याप्याधर्मतः साधु शक्ताप्तज्ञानवित्तदाः ॥ याज्ञवल्क्यस्मृतिः -१-२८