प्राप्ताप्राप्तोभयरूपत्रिविधविभाषोदाहरणानां भाष्यदिशा विमर्शः
Dr. Santosh Majhi
Assistant Prof.
Depart Of Vyakarana,
N.S.U, Tirupati, A.P
8309998627
सारांशः-
अष्टाध्यायां संज्ञा विधायकेषु सूत्रेषु अन्यतमं सूत्रमिदं वर्तते “न वेति विभाषा” – इति। निषेधविकल्पयोः विभाषा संज्ञा स्यादिति सूत्रार्थः। इयञ्च विभाषा १.प्राप्तविभाषा २.अप्राप्तविभाषा ३.उभयत्रविभाषा इत्येवं त्रिविधा वर्तते। तत्र क्रमेण उदाहरणानि प्रदर्शयिष्यन्ते-
कुञ्जिशब्दाः(Key Words)
न, वा, विभाषा, विप्रवदन्ते, विप्रवदन्ति, यजति, यजते, तिरस्कृत्य, तिरःकृत्वा, शतस्य, शतम्, वर्णाश्रमेतरे, वर्णाश्वमेतराः, ऊर्णनुविथ, ऊर्णविथ, उपायत, उपांयस्त, क्रामति – क्रमते, ओषञ्चकार, उवोष, अप्यायि, अप्यायिष्ट, भोजं व्रजति, अग्रे भुक्त्वा व्रजतिः, अकर्ता, उदकुम्भः – उदककुम्भः, श्वापदम् – शौवापदम्, त्वां त्रायते, त्वा त्रायते, णिरति –गिलति, भृत्यं – भृत्येन, वत्स्यामः, अवसाम्, शुशाव, शिश्वाय, रुषितः रुष्टः।
क) प्राप्त विभाषायाः उदाहरणानि –
१. “विभाषा विप्रलोपे” विरुद्धोक्तिरूपे व्यक्तायां समुच्चारणे आत्मनेपदं वा स्यादिति सूत्रार्थः। उदा – विप्रवदन्ते, विप्रवदन्ति वा वैद्याः। अत्र “व्यक्तवाचां समुच्चारणे” इति सूत्रेण नित्यम् आत्मनेपदे प्राप्ते प्रकृतसूत्रेण विकल्पतया आत्मनेपदं विधीयते। अतः इयं प्राप्तविभाषा।
२. “विभाषोपपदेन प्रतीयमाने” “स्वरितजिचतः” इत्यादि पञ्चसूत्र्या यदात्मनेपदं विहितं तत् समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते आत्मनेपदं वा स्यादित्यर्थः । उदा – स्वं यज्ञ यजति, यजते वा। अत्र “स्वरितत्रितः कर्त्रभिप्राये क्रियाफले” इति नित्यम् आत्मनेपदे प्राप्ते विभाषा इयम्। अतः इयं प्राप्त विभाषा।
३. “विभाषा कृञि” – ‘कृञ्’ धातु योगे ‘तिरस्’ शब्दस्य अनेन सूत्रेण विकल्पतया गतिसंज्ञा विधीयते। उदा – तिरस्कृत्य तिरः कृत्वा । “तिरोऽन्तर्दों” इति सूत्रेण नित्यं गतिसंज्ञायां प्राप्तायां प्रकृतसूत्रेण विकल्पतया सा गतिसंज्ञा विधीयते। अतः प्राप्तविभाषा इयम्।
४. “विभाषोपसर्गे” – द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य उपसर्गविशिष्टस्य दिवः प्रयोगे कर्मणि षष्ठी वा स्यादित्यर्थः। उदा शतस्य शतं वा प्रतिदीव्यति। अत्र “दिवस्तदर्थस्य” इति सूत्रेण नित्यं षष्ठ्ठयां प्राप्तायां प्रकृतसूत्रेण विकल्पतया षष्ठी विधीयते। अतः प्राप्तविभाषा इयम्।
ख) अप्राप्तभाषायाः उदाहरणानि –
१. “विभाषा जसि” – जसाधारं यत्कार्य शीभाव्यं तत्र कर्तव्ये द्वन्द्वे सर्वनामसंज्ञा वा स्यादित्यर्थः । उदा – वर्णाश्रमेतरे वर्णाश्वमेतराः। सूत्रान्तरेण सर्वनामसंज्ञायाम् अप्राप्तायां विभाषा इयम्। तथा च अप्राप्तविभाषा इयम् ।
२. “विभाषोर्णोः” – इडादि प्रत्ययः वा ङित् स्यात् इति सूत्रार्थः। उदा ऊर्णनुविथ -ऊर्णविथ। अप्राप्तविभाषा इयम्।
३. “विभाषोपयमने” – यमः सिच्किद्वा स्यात् विवाहे । उदा रामः सीतामुपायत – उपांयस्त। अप्राप्तविभाषा इयम्।
४. “अनुपसर्गाद्वा” – उपसर्गरहितात् क्रम् धातोः आत्मनेपं वा स्यादित्यर्थः। उदा – क्रामति – क्रमते। अप्राप्त विभाषा इयम् ।
५. “विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्”। वृक्षादीनां सप्तानां द्वन्द्वः अश्वं वडवा इत्यादि द्वन्द्व त्रयञ्च विकल्पेन साधुतां भजते इति सूत्रार्थः। अप्राप्त विभाषा इयम्।
६. “उषविदजागृभ्योऽन्यतरस्याम्” – एभ्यः लिटि आम् वा स्यात् इति सूत्रार्थः। उदा -ओषञ्चकार, उवोष। अप्राप्त विभाषा इयम्।
७. “दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्” – एभ्यः च्लेः चिण् वा स्यात् एकवचने त शब्दपरे। उदा – अप्यायि अप्यायिष्ट अप्राप्तविभाषा इयम् ।
८. “विभाषाऽग्रेप्रथमपूर्वेषु” एषु उपपदेषु समानकर्तृकयोः पूर्वकाले क्ल्वाणमुलौ वा स्तः इति सूत्रार्थः। उदा – अग्रे भोजं व्रजति, अग्रे भुत्क्त्वा व्रजतिः। अप्राप्त विभाषा इयम्।
९. “विभाषा तृन्नन्नतीक्ष्णशुचिषु” – तृणामादिषु पदेषु नञः अन्तोदात्तत्वं वा स्यादित्यर्थः । उदा – अकर्ता। अप्राप्तविभाषा इयम्।
१०. “एकहलादौ पूरयितव्येऽन्यतरस्याम्” ‘उदक’ शब्दस्य स्थानं ‘उद’ आदेशः विकल्पेन विधीयते। उदा – उदकुम्भः – उदककुम्भः अप्राप्तविभाषा इयम् ।
११. “पदान्तस्यान्यतरस्याम्” – श्वादेः अङगस्य पदशब्दान्तस्य ‘ऐच्’ वा स्यादीत्यर्थः। उदा – श्वापदम् – शौवापदम्। अप्राप्त विभाषा इयम्।
१२. “सपूर्वायाः प्रथमायाः विभाषा” – विद्यमान पूर्वात् प्रथमान्तात् परयोः अनयोः
अन्वादेशेऽप्येते आदेशः वा स्युः इति सूत्रार्थः उदा- हरिः त्वां त्रायते, त्वा त्रायते। अप्राप्त विभाषा इत्यम्।
१३. “अचि विभाषा” गिश्तेः रेफस्य लत्वं वा स्यात् अजादौ इति सूत्रार्थः। उदा – णिरति -गिलति।
ग) उभयत्र विभाषायाः उदाहरणानि –
१. “हृक्रोरन्यतरस्याम्” – हृक्रोः अणौ यः कर्ता सः णौ वा कर्म स्यात् इति सूत्रार्थः। उदा -कारयति वा भृत्यं – भृत्येन वा कटम्। उभयत्र विभाषा इयम्।
२. “विभाषा साकाङ्क्ष” – यत् शब्दयोगे लृट् वा स्यात्। लक्ष्यलक्षण भावेन साकाङ्क्षश्चेत् धात्वर्थः इति सूत्रार्थः । उदा – स्मरसि कृष्ण वने वत्स्यामः, अवसाम्। उभयत्र विभाषा इयम्।
३. “विभाषा श्वेः” – श्वयतेः संप्रसारणं वा स्यात् लिटि यङि च। उदा शुशाव, शिश्वाय। उभयत्र विभाषा इयम्।
४. “रुष्यमत्वरसंघुषास्वानाम्” एभ्यः निष्ठाभ्यः इडागमः वा स्यात् इत्यर्थः। उदा रुषितः रुष्टः। अनया रीत्या “न वेति विभाषा” इति सूत्रे भाष्ये प्राप्तविभाषायाः, अप्राप्तविभाषायः, उभयत्र विभाषायाश्च उदाहरणानि प्रोक्तानि ।
१) प्रकृतसूत्रेण विभावा घटितेन सूत्रेण यत् कार्यं इश्यते तत् कार्यं यदि सूत्रान्तरेण प्राप्तं स्यात् तर्हि प्राप्त विभाषा।
२) विभाष्वापद घटित सूत्रेण यत् कार्यम् इष्टं तत् केनापि सूत्रेण न प्राप्तं चेत् तदा अप्राप्त विभाषा।
सन्दर्भग्रन्थाः
1. लघुसिद्धान्तकोमुदी- आचार्य रघुनाथ शास्त्री-चौखम्बासुरभारतीप्रकाशन, वारणासी।
2. लघुसिद्धान्तकोमुदी – आचार्य विश्वनाथ मिश्रः चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।
3 व्याकरणमहाभाष्यम् – श्री भार्गवशास्त्रिण-चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।
4. वैयाकरणसिद्धान्तकौमुदी- श्रीगोपालदत्त पाण्डेयः- चौखम्बा सुरभारती प्रकाशना
5. वैयाकरणसिद्धान्तकौमुदी- लक्ष्मी शर्मा चौखम्बा सुरभारती प्रकाशन, वारणासी।
6. परिभाषेन्दुशेखरः – आचार्य विश्वनाथ मिश्र – चौखम्बासुरभारतीप्रकाशन, वारणासी।
7. पाणिनीय अष्टाधायी पाठः – स्वामी प्रह्लाद गिरि वेदान्तकेशरी – चौखम्बासुरभारतीप्रकाशन, वारणासी।
8. धातुपाठः – डॉ नरेश झा – चौखम्बासुरभारतीप्रकाशन, वारणासी।
9. धातुरुप कल्पद्रुमः – एपी उणी – ओरिओण्टेल् दील्ली।
10. सस्कृतसाहित्यकोषः – डॉ राजवंशसाहाय हीरा – चौखम्बाविद्याभवन, वारणासी।
11. सस्कृतहिन्दिकोषः – वामन शिवरामआप्टे चौखम्बाविद्याभवन, वारणासी।
12. तिकृत्कोषः – पुष्पादीक्षित् – संस्कृतभारती, नवदेहल्ली।