नित्यविभूतिः लीलाविभूतिः संज्ञौचित्यम्

डा. चक्रवर्तिराघवन्, आचार्यः, विशिष्टाद्वैतवेदान्तविभागः, तिरुपतिः

द्रव्यानां विभागाः जडाजडतया, प्रत्यक्पराक्ततया द्विधविभागो कृतः। तत्र जडत्वेन लीलाविभूतिः, अजडत्वेन अप्राकृतशुद्धसत्त्वमयदेशविशेषाः उक्ताः । तस्य उत्पत्ति-विनाशरहितत्वात् ‘नित्यविभूतिः’ इति संज्ञा कृता । एवञ्च भगवतः द्वे विभूती- नित्यविभूतिः लीलाविभूति इति प्रतिपादितम् । अत्र संज्ञाविभागे कश्चन आक्षेपः, तस्य समाधानञ्च तत्त्वमुक्ताकलाप व्याख्यासु अवगम्यते । आशङ्काचेयम्- नित्या च सा विभूतिश्च नित्यविभूतिः । प्रकृतेः महदादि परिणामसत्त्वेऽपि स्वरूपतो नित्यत्वं अङ्गीकृतम् । सत्कार्यवादस्वीकारात् नित्यस्यैवकारणस्य पूर्वावस्था। नित्यविभूतिः कृत्स्नाऽपि प्रकाशाननुरूपा। तत्र श्रीरामानुजसिद्धान्तसंग्रहे इत्थमुच्यते- ‘नित्यविभूतिरजडरूपा, स्वयंप्रकाशा, तत्रानन्दमयाः भोगाः, लोकाश्च आनन्दलक्षणाः, आनन्दं नाम तल्लोकम् परमानन्दलक्षणम्

तयो नौ परमव्योमन् निर्द्वन्द्वं सुखमुत्तमम् । षाड्गुण्य प्रसवो नित्यः स्वाच्छन्द्यात् देशतांगतः ।।’

इत्यादि प्रमाणबलात्। तथा- ‘किमात्मकैषा भगवतो व्यक्तिः इति प्रश्ने ‘यदात्मको भगवान् इति’ सामान्यतः उत्तरे कृते, पुनः ‘कियात्मको भगवान्’ इति प्रश्ने ‘ज्ञानात्मकः’ इत्युत्तरमुक्तम्। श्रुतौ व्यक्तिश्शरीरं इत्यर्थः । अतो दिव्यमङ्गलविग्रहस्य ज्ञानात्मकत्वात् तद्रव्यात्मिकायाः सर्वस्याः नित्यविभूतेः ज्ञानात्मकत्वं उचितम्। ज्ञानात्मकत्वे अत्र स्वयंप्रकाशत्वमेव । तच्च स्वगोचरज्ञान (निरपेक्ष प्रकाशाश्रयत्वम् । तदेव ज्ञानपदप्रवृत्तिनिमित्तम्। इति । अतः ज्ञानानन्दरूपत्वात् नित्यविभूतेः अज्ञानदुःखमय-जडरूप प्रकृत्यपेक्षया वैलक्षण्यं स्पष्टमवगम्यते इति ।) परित्यागपूर्वकं अवस्थान्तरप्राप्तिरेव परिणामः । अवस्थायाः विभिन्नत्वेऽपिअवस्थाश्रया प्रकृतिः नित्या एका च नित्यविभूतावपि भगवत्संकल्पप्रयुक्त मुक्तसंकल्पेन शुद्धसत्त्चमय द्रव्यस्य देहादिरूपेण परिणामः अङ्गीकृतः । अतः लीलाविभूतित्वं नित्यविभूतेः अस्ति, नित्यविभूतित्वं लीलाविभूतेरप्यस्ति ।

प्रकृतेः दोषत्रयम्-नित्यविभूतेः तदभाववत्वं च

नित्यविभूतिवैभवाख्य ग्रन्थे कपिस्थलं स्वामिभिः अनुगृहीते श्रीवैकुण्ठलोकः भगवत्स्वरूपतिरोधायकत्वादि दोषत्रयरहितः इति प्रतिपादितम् । प्रकृतेः किं तत् दोषत्रयम् नित्यविभूतौ यत् नास्तीत्युच्यते इत्याकाङ्क्षायाम् उक्तं ‘प्रकृति र्हि भगवत्स्वरूपतिरोधानं, विपरीतज्ञानजननं, स्वस्मिन् भोग्यताबुद्धिजननं चेति दोषत्रयवति । तन्त्र भगवत्स्वरूपतिरोधानं नाम क्षेत्रज्ञानां यथावस्थित भगवत्स्वरूप विषयक ज्ञानोत्पत्तिप्रतिबन्धकरणम्। प्रकृति र्हि देहेन्द्रियाद्यात्मना परिणता सति स्वसंसृष्टानां चेतनानां यथावस्थितभगवत्स्वरूपविषयक ज्ञानोत्पत्तिं विरुणद्धि । ततश्च-

सर्वाधारत्व, सर्वनियन्तृत्व, सर्वशेषित्वादि भगवद्यायाथात्म्य- ज्ञानविरहेण क्षेत्रज्ञानां स्वस्मिन् स्वतन्त्रत्व-स्वार्थकर्तृत्व-स्वार्थभोक्तृत्वादि भ्रमो भवति । सर्वप्रकारेण निरतिशयभोग्ये भगवति जाग्रत्यपि अतिक्षुद्रेषु शब्दादि प्राकृतविषयेषु भोग्यता भ्रमश्च भवति इति। अत्र च गीतावाक्यम् उदाह्रियते-

‘त्रिभिर्गुणमयैर्भावैः एभिस्सर्वमिदं जगत् ।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ।।’ (भगवद्गीता ७.१३)

इति। अस्य कोऽर्थः इति चेत्- इदम्- परिदृश्यमाणं सर्व जगत्, शरीरेन्द्रियविषयरूपेण त्रिविधं सत्त्वरजस्तमोरूप-गुणत्रयमयपदार्थेः मोहं उत्पादयत् सकलकल्याणगुणाकरं अप्राकृतदिव्यमङ्गलविग्रहम् अतिशयितभोग्यं क्षेत्रज्ञः यथा न जानीयाद् तथा करोति । जितन्तस्तोत्रेऽपि -‘गुणमाया समावृतः’ इति त्रिगुणात्मकप्रकृतिपरिणामभूतदेहेन्द्रियविषयैःतिरोहितस्वरूपं भगवन्तमाह । भगवद्‌गीतासु ‘नाहं प्रकाशः सर्वस्य योगमाया समावृतः इति। मायया भगवत्स्वरूपस्य अवगतिः जीवस्य निरुद्धा इत्युच्यते । शारीरकमीमांसायां सन्ध्याधिकरणे ‘पराभिध्यानात्तु तिरोहितम् ततोह्यस्य बन्धविपर्ययौं’ (ब्रह्मसूत्रम् ३.२.४) ‘देहयोग सोऽपि इति सूत्राभ्यां प्रकृतेः प्रलये सूक्ष्मरूपेण सृष्टौ स्थूलरूपेण च स्थित्वा जीवस्वरूपतिरोधायकत्वम् उक्तम्। जीवस्वरूपञ्च परमात्मात्मकं परमात्मशेषभूतम् ।

तस्मिन् तिरोहिते परमात्मापि तिरोहितप्रायो भवति । शुद्धसत्त्वस्य तु कीदृशपरिणामयुक्तस्यापि प्रकाशकत्वमेव न तु तिरोधायकत्वम् । मुक्तानां सार्वकालिक यथावस्थित भगवत्स्वरूपरूपगुणविभूत्यादि साक्षात्कार हेतुत्वं श्रुतिसिद्धम्। उपबृंहणेष्वपि षाड्गुण्यप्रसरो नित्यः स्वाच्छन्द्यात् देशतां गतः।’ इति पाञ्चरात्रसंहिता वचसा ज्ञानशक्तिबलैश्वर्यवीर्यतेजोरूप षाड्गुण्यविशिष्ट भगवत्स्वरूप प्रकाशकत्वं उच्यते । परमात्मनः नित्यसंकल्पवशात् देहरूपतां गतः । ‘लोकं वैकुण्ठ नामानं दिव्यं षाड्गुण्यसंयुतम्।’ इति । जितन्तास्तोत्रेऽपि अयं विषयः अनूदितः । अचेतने शुद्धसत्त्चे षाड्गुण्यस्य अप्रसक्त्या भगवत्कल्याणगुण प्रकाशकत्वमेव तथा उच्यते। केवलं एतदेवेति न अपि तु इतरेषां सर्वेषामपि गुणानां प्रकाशकं भवति । अतः प्रकृतेर्वैलक्षण्यम् ।।

एवं स्वरूपतिरोधानाभावात् विपरीतज्ञानस्यापि मुक्तौ नावकाशः। विपरीतज्ञानाभावात् स्वस्वातन्त्र्यभ्रमादीनामपि तत्र नावकाशः। अतः प्रकृतिनिष्ठदोषत्रयराहित्यं नित्यविभूतौ सिद्धम्। श्रीभाष्यकाराः अपि बृहत्गद्ये (श्रीवैकुण्ठगद्ये) मुमुक्षु प्रार्थनावसरे ‘मदीय अनादिकर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वाविषयायाश्च भोग्यबुद्धेर्जननीं देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण च अवस्थितां दैवीं गुणमयीं मायां, दासभूतः शरणमागतोऽस्मि तवास्मि दास इति वक्तारं मां तारय’ इति प्रकृतेः दोषत्रयं दर्शितवन्त इति ।

***