मुक्तानुभवप्रकारः
डा. चक्रवर्तिराघवन्, आचार्यः, विशिष्टाद्वैतवेदान्तविभागः, तिरुपतिः
श्रुतयः ‘ब्रह्मणःसायुज्यं सलोकतां यन्ति ‘निरञ्जनः परमं साम्यमुपैति ‘ब्रह्मवेद ब्रह्मैव भवति’ ‘परात्परं पुरुषमीक्षते’ श्वेताश्वतरोपनिषत् (३-१- १२) ‘स एनान् ब्रह्मगमयति’ ‘रसं ह्येवायं लब्ब्वाऽऽनन्दी भवति इत्यादयः मुक्तस्य ब्रह्मप्राप्ति बोधयन्ति । ब्रह्मैव भवतीति चेतनस्य ब्रह्मणा एकीभावः न अभेद प्राप्तिः। ‘मिथ्यैतदन्यद्रव्यं हि नैति तद्रव्यतां यतः इति विष्णुपुराणोक्त न्यायेन अन्यद्रव्यस्य अपरद्रव्यरूपवती प्राप्तिः प्रमाणविरुद्धा । अतः ब्रह्मैव भवतीत्यत्र एवकारः इवार्थकः। ‘वैष्णवं वामनम् आलभेत इत्यत्र वाक्यशेषे विष्णुपुरेव भूत्वेमां लोकान् अभिजयति’ इत्यत्र ‘विष्णुरेव’ इत्यस्य विष्णुसदृशो भूत्वा इत्यर्थः। एवकारस्य इवार्थकत्वम् आश्रित्यकृतः । ब्रह्मसादृश्यं च ब्रह्मसायुज्यम्। ब्रह्मसमानधर्मकत्वम्। गीतासु-
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्वेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।। (श्वेताश्वतरोपनिषत् ३-१-१२)
इति मुक्तस्य भगवत्साधर्म्यप्राप्तिः स्पष्टम् उक्ता । तदानुगुण्येन ‘ब्रह्म वेद ब्रह्मैव भवति’ इति वाक्यस्य अर्थः करणीया । वाक्यान्तराणि च ‘सायुज्य’, ‘साम्या दिशब्दैः ब्रह्मप्राप्तिः विशेषिता । ‘स एनान् ब्रह्मगमयती ति गन्तुः जीवात्मनः गम्यस्य परब्रह्मश्च मुक्तौ भेदः प्रतीयते। किञ्च द्युभ्वाद्यकिरणे (१-३-१) ‘मुक्तोपसृत्युपदेशाच्च’ इति सूत्रमपि उपास्यस्य परब्रह्मणः मुक्तिकाले मुक्तेन प्राप्यत्वेन व्यपदेशात् मुक्तजीवापेक्षया ब्रह्मणः भेद बोधने एव सूत्रकारस्य अभिप्रायं व्यनक्ति । तत्रस्थ भाष्यान्यपि मुक्तौ जीवेश्वरयोः भेद समर्थकानि । तथाहि – अयं द्युपृथिव्याद्यायतनभूतः पुरुषः संसारबन्धात्मुक्तैरपि प्राप्यतया व्यपदिश्यते ‘यदा पश्यः पश्यते रुक्मवर्ण कर्तामीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति, ‘यथा नद्यः स्यन्दमाना समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान् नामरूपादिमुक्तः परात्परं पुरुषमुपैति दिव्यम् इति । संसारबन्धनात् विमुक्ता एवं हि विधूतपुण्यपापा निरञ्जना नामरूपाभ्यां विनिर्मुक्ताश्च । पुण्यं पापनिबन्धन अचित्संसर्गप्रयुक्तनामरूपभाक्त्वमेव हि संसारः । अतो विधूतपुण्यपापैर्निरञ्जनैः प्रकृतिसंसर्गरहितैः परेण ब्रह्मणा परमं साम्यमापन्नैः प्राप्यतया निर्दिष्टो द्युपृथिव्याद्यायतनभूतः पुरुषः परं ब्रह्मैव । इति भाषितम् । अत्र पूर्वोक्तविषये उदाहरणं भवति । इत्थं प्रमाणान्तर परिशीलनेन ब्रह्मसमानाकारता प्राप्तिः मुक्तस्य भवतीति निर्मीयते।
अत्र ‘परमं साम्यमुपैति इति परमशब्दप्रयोगवशात् ब्रह्मणः यावन्तः आकाराः सन्ति तावतां सर्वेषामपि आकाराणां प्राप्तिः मुक्तस्य भवति इत्याशङ्का जायते। किन्तु सर्वशेषित्व, जगत्कारणत्वमोक्षप्रदत्व, श्रियःपतित्व, विभुत्वादिवर्णं इतरे सर्वाकाराः मुक्तस्य प्राप्ताः भवन्ति इत्येव अङ्गीकर्तव्यम् ।
श्रीभाष्ये चतुर्थाध्याय चरमपादे ‘जगद्व्यापार वर्ज प्रकरणादसन्निहितत्वाच्च’ इत्यधिकरणे जीवस्य मुक्तौ परब्रह्मैश्वर्य प्राप्तिः श्रुतिभिः अवगम्यते । इदं च ऐश्वर्यं परब्रह्मअसाधारणं यत् जगत्कारणत्वादि । तदपि मुक्तस्य मुक्तिकाले प्राप्यते वा उत तद्वर्ज केवल परब्रह्मानुभवरूपमेव वा प्राप्यते इति संशयः । श्रीभाष्ये संशयः इत्थं प्रदर्शितः – किं मुक्तस्यैश्वर्य जगत्सृष्ट्यादि परमपुरुषसाधारणं सर्वेश्वरत्वमपि, उत तद्रहितं केवलपरम- पुरुषानुभवविषयमिति संशयः इति। ‘जगद्व्यापारवर्जमि’ (मुद्गलोपनिषत् ३-१)ति सूत्रम्। जगद्विषयक स्वरूपस्थितिप्रवृत्तिभेदरूप व्यापारं वर्जयित्वा परिपूर्णब्रह्मानुभवरूपमैश्वर्यमेव मुक्तस्य भवति इति सिद्धान्तः । अत्र भाष्यम्- जगद्व्यापारः – निखिलचेतनाचेतन स्वरूपस्थिति-प्रवृत्तिभेदनियमनम्। तद्वर्जम्इति। निरस्तनिखिलतिरोधानस्य निर्व्याज ब्रह्मानुभवरूपं मुक्तस्यैश्वर्यम् (न्यासदशकम् ७) इति । कुत इति चेत् अत्र हेतुद्वयमुच्यते- ‘प्रकरणात् असन्निहतत्वाञ्च इति । जगत्सृष्टिस्थिति-संहारादिबोधकवाक्यानां परब्रह्म प्रकरणे एव श्रूयमानत्वात् ।
किञ्च ‘जन्माद्यस्य यतः इत्यधिकरणेन ‘यतो वा इमानि भूतानि इति वाक्यं प्रदर्थ्य जगद्व्यापारस्य ब्रह्मलक्षणत्वम् उक्तम्। यदि तत् मुक्तस्यापि स्यात् तर्हि अतिव्याप्तस्य असाधारणधर्मत्वाभावात् लक्षणत्वं न युज्यते । न जगद्व्यापारः मुक्तस्य भवति । सर्वत्र श्रुतिषु परब्रह्मप्रकृत्यैव जगत्कारणत्वादिः श्रूयते । छान्दोग्ये सद्विद्यायां, तैत्तिरीये भृगुवल्यां, महोपनिषदि, एतरेयब्राह्मणे, सुबालोपनिषदि सर्वत्र परब्रह्मणः एव जगत्कारणत्वं लक्षणतया कीर्तितम् ।
‘असन्निहितत्वाच्च’ इति द्वितीयो हेतुः । जगत्कारणत्व- वादिवाक्यघटित प्रकारणेषु कुत्रापि मुक्तस्य सान्निध्यं न विद्यते । अतः मुक्तैश्वर्य भोगानुभवरूपमेव ।
ननु ‘परमं साम्यमुपैति इति परमसाम्यापत्ति श्रुतिः विरुध्येत इति चेत् ‘भोगमात्रसाम्यलिङ्गाच्च इति समाधानम् । अत्र भाष्यम् – ब्रह्म यथात्म्यानुभव रूपभोगमात्रेण मुक्तस्य ब्रह्मसाम्य प्रतिपादनाच्च, लिङ्गात्, जगद्व्यापारवर्जन-मित्यवगम्यते ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ (छान्दोग्योपनिषत् ७-२५-२) इति । ब्रह्म याथात्म्यं च स्वरूपरूपगुणविभवचेष्टितानां तत्त्वम् । अतः रूपगुणविभवचेष्टितयुक्त दिव्यात्मस्वरूपसाक्षात्कारात्मक सदात अनुभवः यथा सर्वज्ञस्य ब्रह्मणो भवति तथैव तादृशोऽनुभवः मुक्तस्य अपि भवति । एवं आनन्दानुभवप्राप्तिरैव परमसाम्यापत्तिः इति विषयं ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ (ब्रह्मसूत्रम् ४-४-१८) इति तैत्तिरीयलिङ्गेन अवगम्यते। तत्र ‘ब्रह्मणा सह’ इति ‘पयसा ओदनं भुङ्क्ते इत्यत्रेव भोग्यसाहित्ये तृतीया । भोग्यभूतान्सर्वान् कामान् सर्वानपि कल्याणगुणान् भोक्त्रा ब्रह्मणा सह मुक्तः अश्नुते तथा च कल्याणगुणवत् ब्रह्मणोऽपि मुक्तभोग्यत्वं लभ्यते। इत्थं परिपूर्णब्रह्मानुभवः निरस्तातिशयाह्लाद सुखभावैकलक्षणा भेषजं भगवत्प्राप्तिः एकान्तात्यन्तिकीमता । इति प्रमाणमपि पूर्वैः दर्शितम्।
रहस्यत्रयसारोक्त परिपूर्णब्रह्मानुभवप्रकारः रहस्यत्रयसारे- ‘गतिविशेषात् देशविशेष प्राप्तस्य परिपूर्ण-ब्रह्मानुभवप्रकारः इत्थम्भवतिं इति वर्णितः । अपुनरावृत्तिश्रवणात् ‘सदा पश्यन्ति’ इति श्रुतेश्च सर्वदेश- सर्वकाल-सर्वावस्थास्वपि अनन्तविग्रह-कल्याणगुण ऐश्वर्य दिव्याववतार चेष्टितादि अशेष निरतिशयभोग्यविशिष्ट दिव्यात्मस्वरूपविषयकप्रत्यक्षानुभवरूपः परमपुरुषार्थं भवतीत्युक्तम् । एतादृश अनुभवः ईश्वरेण अत्यन्तं तुल्यरूपः इति तात्पर्येण ‘निरञ्जनः परमं साम्यमुपैति इति परमसाम्यपत्तिरूपम् उक्तम् । अत्र कल्याणगुण, दिव्यमङ्गल-विग्रहादीनां मनोरञ्जकत्वेन तद्विषयकानुभवः मुक्तस्यानन्दरूपः । अतः पुरुषार्थः इति वक्तुं शक्यते ।
किन्तु भगवत्स्वरूपस्य कथं भोग्यत्वम् इति चेत् अत्र द्विविधं समाधानमुक्तम् । प्रथमं- राजमहिषी राजानं भर्तारं अतिभोग्यमनुभवति इत्युक्तौ राज्ञः अभिमति तच्छरीरं तस्य भोगोपकरण भोगस्थानानि राजमहिष्याः यतः परम भोग्यानि भवन्ति, एवं भगवत्स्वरूपानुबन्धिपदार्थानां मुक्तभोग्यत्वे भगवत्स्वरूपस्यापि तत्सम्बन्धात् भोग्यतातिशयो भवतीति किमु वक्तव्यम् ? द्वितीयं च समाधानम्- ‘आनन्दो ब्रह्मेदिव्यजानात्’ (तैत्तिरीय आरण्यकम् २-५-१) ‘रसं ह्येवायं लब्वा आनन्दी भवति’ इति तैत्तिरीयवाक्याभ्यां स्वयंप्रकाशभूत दिव्यात्मस्वरूपस्य निरतिशयानुकूलत्वहेतोः मुक्तः तत्भगवत्स्वरूपं आनन्दात्मकं प्रतिलभ्य स्वयं आनन्दस्य परां काष्ठम् अधिगच्छतीत्युच्यते । अतः तस्य भोग्यत्वं सम्यक् उपपन्नमेव ।
***