॥ ‘मेलुकोटे’क्षेत्रवाङ्मयविहारः ॥

Srinivasan Srirangam 
Research Scholar
Karnataka Samskrit University
Pampa Mahakavi Road, Chamarajpete,
Bengaluru – 560018. E mail : srinivasan.sreerangam@gmail.com

      संस्कृतभाषा नाम अस्माकम्भारतवर्षस्य संस्कृतेरविभाज्यमङ्गम् । संस्कृतेन विना भारतस्य वा तत्संस्कृतेर्वा पूर्णं ज्ञानन्न भवेत् । तथैव प्रायः सम्पूर्णस्य संस्कृतवाङ्मयस्य मूलाधार एतद्भूमेरच्छिद्रा संस्कृतिस्तथा शिष्टपरम्परैवेत्यत्र न कोऽप्यभिप्रायभेदो विद्येत ।

          भारतन्नाम कश्चन तादृग्देशोऽस्ति यत्र सहस्रं वर्षाणि यावत् वैदेशिका विच्छिद्रकारिण आगत्य विविधसम्पत्तेः, नैकस्याः सन्ततेः, तथा अद्वितीयायाः सनातनसंस्कृतेश्च नाशनमकुर्वन् । अपि च छिद्रान्वेषिणां दैशिकानां पण्डितम्मन्यानां विशालसन्ततेः बीजावापनमप्यकुर्वन् । न केवलं भारतमपि तु विश्वस्मिन् बहवः प्रदेशा जनजातयश्चैतादृशानां बर्बरकृत्यानां साक्षिण इव पूर्णतया नष्टाश्च दृश्यन्ते ।  

        प्रायः अस्माकं देशः अद्यावधि विच्छिद्रकारिणामच्छिद्रपरम्परायां सत्यामपि काले काले निजसंस्कृतेः पुनरुत्थानस्य साक्ष्यभवत् । अत्र तु बहूनां महापुरुषाणां योगदान-बलिदाने च न कदापि विस्मर्तव्ये । एतेषां महापुरुषाणां मध्ये नैके सरस्वतीपुत्राश्च आद्यस्थानमर्हन्ति । अस्माकं संस्कृतौ यथा काचन भाषापि प्रमुखं स्थानं भजेत तथैते तद्वाङ्मयस्य अविरतां सेवामकुर्वन् । संकृतवाङ्मयं तथा तत्सेवानिरताश्च अस्माकं देशस्य ऐतिहासिक-सांस्कृतिक-पारम्परिक-सम्पत्तेरविभाज्यमङ्गमेव । तेषां परिश्रमं विना अस्माकमनर्घ्यसांस्कृतिकसम्पत्तेः तथा परम्पराया निरन्तरं रक्षणमसाध्यमभविष्यदित्यतो नूनन्तेऽनर्घरत्नानीत्यत्र न सन्देहः ।

        प्रायः बहवस्संस्कृतकवय उत्तरभारतीय एव, यथा – व्यास-भास-बाण-वाल्मीकि-कालिदासादयः – दृश्यन्ते । सर्वासां भारतीयभाषाणां कवयोऽप्येतेभ्यः तथा एतत्कृतीभ्य एव प्रेरणां प्राप्य स्वस्वकृतीः स्वस्वभाषास्वरचयन् । न केवलं प्रादेशिकभाषासु, एवमेव अनेके कवयः संस्कृतभाषाविकसितपुष्पैरपि वाङ्मयसपर्याञ्चक्रुः । तत्र तु संस्कृतकृतीनां स्वमातृभाषया अनुवादं कृतवन्तः, संस्कृतेतर-भारतीयभाषाकृतीनां संस्कृतेनानुवादं कृतवन्तः, विमर्शकाः, बोधकाः, शास्त्रज्ञाः, शास्त्रकाराः, भाष्यकाराः, पण्डिताः, व्याख्यातारः, किं बहुना, स्वतस्संस्कृतकवयोऽपि बहवोऽन्तर्भवन्ति । पूर्वं ये ये केवलं स्वभाषास्वेव लिखितवन्तः, तेषामपि काव्यानि संस्कृतभूयिष्ठान्येवासन् यतः तैः शास्त्रीयपद्धत्या संस्कृतं न पठितमपि संस्कृतभाषायाः तथा तद्वाङ्मयज्ञानस्याभावो नासीदिति ज्ञायते ।

वस्तुतः लेखनेऽस्मिन् विशेषतः दाक्षिणात्यानां संस्कृतज्ञानामुल्लेखनमेव लक्षितम् । केरल-आन्ध्र-कर्नाटक-तमिलुनाडु-प्रान्तेष्वनेके संस्कृतज्ञाः कवयश्चाभवन्, अद्यापि सन्ति । आचार्यान् शङ्कर-रामानुज-मध्वानतिरिच्य अनेके शास्त्रकाराः, कीर्तनकाराश्च अत्रान्तर्भवन्ति । कर्नाटकप्रदेशे तु एतादृशानां संस्कृतज्ञानां संख्या न्यूना नास्ति । काव्यानि, शास्त्राणि चातिरिच्य अनेकानि शासनान्यपि संस्कृतभाषायां लिखितानि दृश्यन्ते । अधुनापि काव्यानि रचयन्तः, शास्त्राण्यधीयानाः, अवधानादिकलासु परिणता अनेके युवानो बहवोऽत्र दृश्यन्ते । मत्तूरु, शृङ्गेरी, बेङ्गलूरु, मैसूरु, उडुपि, गोकर्ण इत्यादिषु स्थलेषु संस्कृतज्ञानां बाहुल्यं दृश्यते । अत एतानि विद्याकेन्द्राणीति वक्तुं शक्यते ।

        कर्नाटकप्रदेश उपर्युक्तानि स्थलान्यतिरिच्य इतोऽप्यनेकानि तादृशप्रदेशाः विद्यन्ते येषु ‘मेलुकोटे’ नाम कश्चन ग्रामः अवश्यम् उल्लेखमर्हति । यादवगिरेरुपरि विद्यमानस्यास्य ग्रामस्य ख्यातिर्जगति प्रसृता । देवालयाः, कासार-सरोवरादयः, प्राकृतिकसौन्दर्यम्, उत्सवाः, आहारविशेषाः – एवं बहुभिर्विषयैः न केवलं राज्ये अपितु बहिश्च प्रथितो दृश्यते । एतन्मध्ये अत्रत्या विद्वत्परम्परा कथमपि न विस्मर्तव्या । वैदेशिका अपि अत्रागत्य क्षेत्रदर्शनम्, अध्ययनादिकञ्च कुर्वन्ति । पूर्वकालादपीयं पुण्यभूमिः ‘ज्ञानमण्डपम्’, ‘वेदाद्रि’रिति च ख्याता वर्तते । श्रीमतः वेदान्तदेशिकस्य सङ्कल्पसूर्योदयादुद्धृतेन श्लोकेनानेन उपर्युक्तस्य अभिप्रायस्य पोषणं क्रियते चेद्वरम् –

              लक्ष्मीकौस्तुभलक्षणेन वपुषा वाचं विनैव स्वयम्

श्वेतद्वीपनिवासिनामिव दिशन् सन्तोषमन्तर्मुखम् ।

विद्यावीचिसम्भ्रममिलद्दुग्धार्णवाडम्बरे

              स्थानं संयमिसार्वभौमविजयस्थाने विधत्ते विभुः ॥ (सं. सू. ६.५०) इति ।

        द्वादशशताब्दौ श्री रामानुजाचार्यवर्यः अत्रागत्य क्षेत्रस्य [1]जीर्णोद्धारमकरोत् । श्रीमदाचार्येण सह आगताः बहवो तच्छिष्याः सम्प्रदायनिष्ठा अत्रैव स्थित्वा मन्दिरे विविध-कैङ्कर्येषु व्यस्ता अभवन् । तत्कैङ्कर्यश्रियः अनुस्यूतता अद्यापि अस्माभिरत्र अनुभवितुं शक्यते । भगवत्कैङ्कर्यं नाम कश्चन अतीव दैहिकपरिश्रमापेक्षी विषयो वर्तते । अतः तत्कैङ्कर्येण सह सारस्वतसेवा कदापि तावती सुलभा नानुभूता । तथापि द्वयोरपि कैङ्कर्ययोः स्वान्नियुज्य तन्निलीनाः सरस्वतीप्रसादभाजः अद्यावधि दृश्यन्ते ।

        प्रायः एते सर्वेऽपि श्रीवैष्णवसम्प्रदायनिष्ठा इति तु सर्वविदितम् । अनन्तरकालेष्वपि परम्पराया रक्षणारर्थं संस्कृत-वेद-शास्त्र-प्रबन्धादिषु परिणता विद्वांसः अत्रस्थैः विविधैः संस्थानैः – विशेषतः मैसूरुराज्यस्य यदुवंशसंस्थानेन – आहूताः । अनन्तरकालेऽपि तेषां वंशस्थाः अनेके विद्वांसः विविधराजास्थानेषु, पाठशालासु अध्यापकाः, देवालयेषु वेद-प्रबन्धादिपाठकाश्च अभवन् । पुनरेका पङ्क्तिः श्रीमतो वेदान्तदेशिकस्य ‘सङ्कल्पसूर्योदये’ क्षेत्रस्य प्रशंसायामेवं वर्तते यदत्र उल्लेखमर्हति –   

शुकादिभिरुपासितं शुभचरित्रभाजो जनाः

समस्तभयवारणं शरणयन्ति नारायणम् ॥ (सं.सू. ६.५१) इति ।

        पूर्वोक्ता तादृशी पण्डितपरम्परा अद्यावधि अनुस्यूता वर्तते इति मुदावहः विषयः । क्षेत्रेऽस्मिन् जातेष्वनेके विद्वांसः विविधस्थलेषु गताः, केचन अत्रैव स्थिताश्च । विविध-उद्योगेषु निरता अपि स्वप्रतिभया ज्ञानेन च संस्कृतवाङ्मय-सेवानिरता दृश्यन्ते । एकस्मिन्नेव लघुक्षेत्रे जातानामेतादृशानां सुधीनां सङ्ख्या न्यूना नास्ति । न केवलमेष मुदावहो विषयः, अपितु गर्वस्य तथा विस्मयकारी चास्ति ।

प्रायः सर्वेषां मातृभाषा ‘तमिळ्’ एव । अध्ययनभाषा तु संस्कृतम् । एते द्वेऽतिरिच्य प्रादेशिक्यां ‘[2]कन्नडभाषा’याञ्च तेषां वैदुष्यं विस्मयावहम् । यतो हि बहुशः विद्वांसः तेलुगु, हिन्दी-प्राकृत-आङ्ग्लभाषास्वपि परिणता आसन् । प्रायः उपरि उद्दिष्टासु भाषासु लिखितवन्तः, कृतीः रचितवन्तः नैके अत्र आसन्, सन्ति च । एतेषु शास्त्रकाराः, कवयः, व्याख्यातारः, अनुवादकाः, सम्पादकाः इत्येवं तेषां विशालपरम्परैव दृश्यते । तर्क-व्याकरण-वेदान्तादिशास्त्रपरिणताः, स्तोत्र-चम्पू-गद्य-नाटकादिकृतिकारकाः, संशोधकाः, प्रकाशकाश्च बहवस्सन्ति ।

एतादृश्याः विद्वत्परम्परायाः परिचयः सर्वेभ्यः स्यात् । अनेन प्रेरणां प्राप्य, तदनुसृत्य च अग्रिमकालेष्वपीयं परम्पराऽनुवर्तेत । नो चेत् तत्परम्परा नष्टप्राया भवेत्, तथा च कालप्रवाहे [3]विस्मृता च भवेत् । अपि च तत्क्षेत्रे जाताः सर्वेऽपि कवयः पण्डिता वा भवितुं न पारयेयुः, किन्तु पूर्वजानां स्मरणं तत्कृतीनामध्ययनमुदीरणमित्यादीन् कर्तुं न केवलमर्हा अपि तु तत्तेषां कर्त्तव्यमिव भाति ।

        अस्मिन्नेव ग्रामे जाताः षट् [4]विद्वांसः राष्ट्रपतिप्रशतिभाजः इति तु विस्मयकारी विषयः यत् नगरप्रदेशेषु अपि विरलः मन्ये । तत्रापि ‘बालधन्वी जग्गु’ इति एकस्मिन्नेव वंशे जाताः त्रयः, अन्ये च कथमपि तद्वंशेन सम्बन्धं भजन्ते । जग्गु शिङ्गरार्यः नाम कविः ‘शौरिशौर्यम्’ इत्यादीनि नाटकानि, ‘यदुशैलचम्पूः’ इति चम्पूकाव्यम्, ‘काव्यकलापः’ इति स्तोत्र-पद्यकाव्यसङ्ग्रहादीन् रचिरवान् । तद्भ्राता श्री वकुलभूषणः बाल्य एव ‘जयन्तिका’ इति गद्यकाव्यं अरचयत् । ‘यदुवंशचरित’मस्य अन्यतमं गद्यकाव्यमस्ति । सः ‘प्रतिज्ञाकौटिल्यम्’, ‘वीरसौभद्रम्’ इत्यादीनि नाटकानि, अनेकानि स्तोत्राणि, ‘अद्भुतांशुकम्’ इत्यादीनि चम्पूकाव्यानि च रचितवान् । शतोत्तरसङ्ख्याकाः कृतयः अनेन रचिताः सन्ति । अनयोः पितृव्यः महाविद्वान् श्री. जग्गु वेङ्कटाचार्यः एव गुरुरासीत् । अलङ्कार-तर्क-मीमांसा-वेदान्तादि-बहुशास्त्रकोविदस्यास्य पार्श्वे अधीतवन्तः बहवो विद्वांसः कवयश्च प्रसिद्धाः सन्ति । अयमपि विविधप्रकारेषु बह्वीः कृतीः अरचयत् । तत्कृतिषु ‘यमकिङ्करसंवादः’, ‘कृष्णराजसागरसेतुबन्धः’ इत्यादयः प्रसिद्धाः सन्ति । [5]श्री अरेयर् श्रीरामशार्मावर्यः अशीतिवर्षीयः सन् अद्यापि – [6]काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्’ – इत्युक्त्यनुसारमेव कालन्नयति । अस्य कृतिषु ‘काव्यकल्लोलिनी’, ‘अस्मच्चम्पूः’, ‘औदार्यगादाधरम्’, ‘चिह्नलिपिकोशः’. ‘गृध्रगोमायुकम्’ इत्यादयः प्रमुखाः सन्ति । पञ्चभाषाविद्वान्, बहुशास्त्रपरिणतोऽयं कविः प्राकृत-कन्नड-तमिळ्-हिन्दीभाषास्वपि काव्यरचनासामर्थ्यं विधत्ते । ‘पुष्पावचयः’ नाम प्राकृतग्रन्थमपि अरचयत् । एवंरीत्या यदुगिरिक्षेत्रमलङ्कुर्वाणः कवयः त्रिंशदुत्तराः सन्ति ।

अहो! धन्यमिदं क्षेत्रं यत्कविभिरलङ्कृतम् । यन्नाम सार्थकञ्चाभूत् ‘वेदाद्रि’‘र्ज्ञानमण्डपम्’ ॥

धन्याश्च वयमत्रत्याः महान्तो नो हि पूर्वजाः । ग्रन्थांश्च पठित्वा तेषां पुनर्धन्या भवेम हि ॥

-०-


[1] यतो हि तत्प्रागेव स्थलमिदं किञ्चन क्षेत्रमासीदिति सम्प्रदायग्रन्थेषु, पुराणग्रन्थेषु च श्रूयते ।

[2] ‘पु.ति.न’ (ಪು.ತಿ.ನ.) ‘खाद्रि शामण्ण’(ಖಾದ್ರಿ ಶಾಮಣ್ಣ) इत्यादयः कन्नडसारस्वतलोके, पत्रकार्ये च बहु प्रसिद्धाः इति तु अत्र स्मर्तव्यः ।

[3] प्रसिद्धा एव वर्तते उक्तिः यत् – ‘य इतिहासं विस्मरन्ति तैरितिहासनिर्माणमसाध्यमि’ति ।

[4] ‘जग्गु’वंशस्थाः श्रीयुताः वि वकुलभूषणः, वि सुदर्शनाचार्यः, वि. नरसिंहाचार्यः, वि. अरैयर् श्रीरामशर्मा वि. लक्ष्मीताताचार्यः, वि. रङ्गाचार्यः च ।

[5] वि. वेङ्कटाचार्यस्यैव दौहित्रः ।

[6] हितोपदेशः