क्ङितिच इति सूत्रे तन्निमित्त ग्रहणं कर्तव्यं न वेति भाष्ये विचारः
Dr. Santosh Majhi
Assistant Prof.
Depart Of Vyakarana,
N.S.U, Tirupati, A.P
8309998627
सारांशः-
संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्।।
षड्विधेषु सूत्रेषु निषेधविधायकं विधिसूत्रमिदम्। सूत्रे पदत्रयं कित्, ङित्, च इति। कित् प्रथमान्तम्, ङित् प्रथमान्तम्, च अव्ययमिति। “क्ङितिच” इति सूत्रे गितु, कित्, ङित् निमित्ते इग्लक्षणे गुणवृद्धी न स्तः इति सूत्रार्थः।
कुञ्जिशब्दाः(Key Words)
चितम्, जितम्, भिन्नः, भिन्नवान्, रोरवीति, हतः, हथः, उपोयते, औपत।
उदा० – चितम्, जितम् – अयं निषेधः “तस्मिन्निति निर्दिष्ट पूर्वस्य” इति सूत्रानुसारं प्रत्यये परतः यत्राव्यवहित इक् तत्रैव स्यात्। भिन्नः, भिन्नवान् इत्यादौ तु व्यवहितं निषेधो न स्यात्। किन्तु तत्रापि निषेधस्य प्रवृत्यर्थं ‘क्ङिति प्रतिषेधे तन्निमित्त ग्रहणमिति’ वार्तिकमारब्धम्। वार्तिक आरम्भसामर्थात् अत्र तस्मिन्निति… परिभाषायाः अप्रवृत्या व्यवहितेऽपि निषेधः सिध्यति। न च क्ङिति गुणवृद्धी न भवति इत्युक्ते तु कस्येत्याकाङ्क्षायां लघूपधस्य अङ्गस्येति लभ्यते। तच्च किङ्कित् परमेवेति भिन्नः इत्यादावपि सूत्रतः एव निषेधः सिध्यतीति वाच्यम्। तथा सति चिनत्ति इत्यादावपि अङ्गस्य लघूपधत्वात् इकारस्य इत्क्तत्वात् तत्रापि लघूपधगुणः स्यात् । तस्मात् क्ङिति इत्यङ्गविशेषणं न भवति। अतः भिन्नः, भिन्नवान् इत्यादौ गुणनिषेधसिध्यर्थं वार्तिकमावश्यकम्।
किञ्च रोरवीति रूपमिति वार्तिक स्वीकारेणैव सिध्यति। अन्यथा तत्र यङ निमित्तकस्य गुणनिषेधस्य प्रवृत्यापत्तिः। वार्तिक स्वीकारे तु अत्र तिप् निमित्तक एव गुणः न तु यङ् निम्मित्तक दोषः।
किञ्च हतः हथः इत्यादौ तसादीनां “सार्वधातुकमपित्” इति सूत्रेण ङत्वमादाय ङिति परतः गुणो न भवतीत्यर्थे धातौ विद्यमानस्य अकारस्यापि (गुणस्य) निवृत्तिः स्यात्। वार्तिक स्वीकारे तु अत्र गुणस्य, अकारस्य ङिन्निमित्तकत्वाभावात् नास्ति दोषः।
किञ्च उपोयते, औपत इत्यादौ यकः कित्वेऽपि तन्निमित्तकस्यैव गुणवृद्धयोः निषेध इति हेतोः “आगुणः”, “आटश्च” इति सूत्रद्वय विहिते गुणवृद्धी सिध्यतः। सूत्रकारमते तु तत्र कित् परकत्वामाश्रित्य गुणवृद्धी न स्याताम् ।
तस्मात् पूर्वोक्तानां सर्वेषां प्रयोजनानां सिध्यर्थं ‘क्ङिति प्रतिषेधे तस्मिन्निति ग्रहणम्’ इति वार्तिकमावश्यकमेवेति वार्तिककारानामाशयः।
(१) क्ङिति इति धातोः विशेषणम्। क्ङिति परे इत्यादाविव भिन्नः भिन्नवानित्यादावपि निषेधः सिध्यत्येव ।
(२) रोरवीति इति तु छान्दस प्रयोगः। “दृष्यनुविधिश्छन्दसि” भवति इति यथा प्रयोगं ग्राह्यम्। अथवा ‘असिद्धं बहिरङ्गमन्तरङ्गे’ इति परिभाषया अन्तरङ्गे निषेधे कर्तव्ये बहिरङ्गस्य गुणस्य असिद्धत्वात् नास्ति दोषः।
(३) हतः, हथः इत्यादावपि दोषो नास्ति। लक्ष्येऽप्रवृत्तस्य सूत्रान्तरेण प्राप्तस्यैव च गुणस्य निषेध उच्यते “क्ङिति च” इति सूत्रेण। अत्र अकारस्य धातूपदेशावस्थायामेव सत्वेन न दोषः।
(४) उपोयते, ओयत इत्यादावपि पूर्वोक्तरीत्या अन्तरङ्ग निषेधापक्षेया बहिरङ्गयोर्गुणवृद्धयोरसिद्धत्वात् दोषो नास्ति ।
एवञ्च सूत्रकारमते पूर्वोक्तानां सर्वेषां प्रयोजनानां सिद्धत्वात् ‘क्ङिति प्रतिषेधे तन्निमित्त ग्रहणम्’ इति वार्तिकमनावश्यकमेव।
सन्दर्भग्रन्थाः
1. लघुसिद्धान्तकोमुदी- आचार्य रघुनाथ शास्त्री-चौखम्बासुरभारतीप्रकाशन, वारणासी।
2. लघुसिद्धान्तकोमुदी – आचार्य विश्वनाथ मिश्रः चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।
3 व्याकरणमहाभाष्यम् – श्री भार्गवशास्त्रिण-चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।
4. वैयाकरणसिद्धान्तकौमुदी- श्रीगोपालदत्त पाण्डेयः- चौखम्बा सुरभारती प्रकाशना
5. वैयाकरणसिद्धान्तकौमुदी- लक्ष्मी शर्मा चौखम्बा सुरभारती प्रकाशन, वारणासी।
6. परिभाषेन्दुशेखरः – आचार्य विश्वनाथ मिश्र – चौखम्बासुरभारतीप्रकाशन, वारणासी।
7. पाणिनीय अष्टाधायी पाठः – स्वामी प्रह्लाद गिरि वेदान्तकेशरी – चौखम्बासुरभारतीप्रकाशन, वारणासी।
8. धातुपाठः – डॉ नरेश झा – चौखम्बासुरभारतीप्रकाशन, वारणासी।
9. धातुरुप कल्पद्रुमः – एपी उणी – ओरिओण्टेल् दील्ली।
10. सस्कृतसाहित्यकोषः – डॉ राजवंशसाहाय हीरा – चौखम्बाविद्याभवन, वारणासी।
11. सस्कृतहिन्दिकोषः – वामन शिवरामआप्टे चौखम्बाविद्याभवन, वारणासी।
12. तिकृत्कोषः – पुष्पादीक्षित् – संस्कृतभारती, नवदेहल्ली।