ज्ञानेश्वरी-योगरहस्ययोः निर्दिष्टं  योगसंसिद्धये आहारस्य युक्तत्वम्

      डॉ.बेलापूरकर चारुशीला राजन

 भिन्नरुचिर्हि लोकः । भोक्तुः अभिरुच्यनुगुणमाहारः पच्यते। तदनु च भुञ्जानः सत्त्वगुणानां रजोगुणानां तमोगुणानां वा अधीनो जायते। पाकदर्पणादिषु ग्रन्थेषु आहारविषयिकी महती चर्चा दृश्यते । पाकनिर्माणविधयोऽपि चर्चिताः विद्यन्ते ।  आहारवैविध्ये यावद्भारतम् अग्रेसरं न तावान् अन्यः कश्चिद्देशः। पाकस्य शास्त्रत्वमपि भारतीयज्ञानपरम्परायां गणितं वर्तते। प्रकृत्यनुगुणं वर्णाश्रमानुगुणं च भक्ष्याभक्ष्यविवेकः तत्र तत्र सुविस्तृतं विवेचितः वर्तते ।

यः यादृशमाहारं गृह्णीते सः तादृशः जायते। अतः  आहारविषये तावत् योगिनां कृते विशिष्टः पन्थाः निर्दिष्टः अस्ति । स च युक्ताहारत्वमिति। योगसम्बध्देषु सर्वेषु अपि शास्त्रग्रन्थेषु अयमेवांशः विभिन्नप्रकारैः प्रतिपादितो वर्तते । यःकश्चिद्योगमार्गः यदाकदाचित् कस्मिंश्चिद्वा जन्मनि प्रत्येकं जीवेन अवश्यमनुसर्तव्यो भवति । यश्च साम्प्रतं योगपथमधितिष्ठते स तु यमनियमादिषु अन्तर्गततया आहारपध्दतिं शास्त्रनिर्दिष्टाम् अवश्यमेवानुसरेत् । तदैव तस्य योगः दुःखहा सिध्यति ।

        शोधपत्रेऽस्मिन् योगिनः कृते निर्दिष्टः युक्ताहारः ज्ञानेश्वरी-योगरहस्यादिग्रन्थानाम् आधारेण पराम्रष्टुं प्रयत्नः विहितः वर्तते। तदनु युक्ताहारविशेषान् निर्दिश्य  योगशास्त्रदृष्ट्या  सः कथं योगं प्रभावयतीति सङ्गृहीतसारं शोधपत्रमिदम्।

        योगं बोधयता योगेश्वरेण भगवता श्रीकृष्णेनापि ‘युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगो भवति दुःखहा’[1] इत्यनेन आहारस्य युक्तत्वमेव बोधितम्। ग्रन्थानां योगसम्बद्धानाम् आलोडनेन निष्कर्षेऽस्मिन् एकवाक्यता भवति यत् रस्यः स्थिरः स्निग्धः हृद्यः च सात्त्विकाहार एव योगिनां युक्तः भवति। आहारस्य युक्तत्वं यत् नानाशास्त्रैः विशेषेण भगवद्गीतायामुक्तं तत्र भोजने अल्पाहारत्वं (मिताहारत्वम्) सात्त्विकाहारस्य अन्तर्भवति। योगसंसिद्धये योगिनः सात्त्विकाहार एव निर्दिष्टोऽस्ति। सत्त्वगुणवृद्धये च नाहारं विना समर्थं किञ्चित् कारणं दृश्यते। तद्विषये ज्ञानदेवोक्तिरित्थम् –

तरी धरावा तैसा संगु। जेणे पोखे सात्त्विक लागु।                                             सत्त्ववृद्धीचा भागु। आहारु घेपे ॥

एर्हवी तरी पाही। स्वभाववृद्धीचां ठाई।                                                    आहारावांचूनि नाहीं। बळी हेतु ॥[2]

        रस्यः हृद्यः स्थिरः हृद्यः इत्येते सात्त्विकाहारस्य गुणाः। किमर्थं योगी सात्त्विकान्नमेव सेवेत इत्याशङ्कायाम् उच्यते यत् यः यथेच्छमन्नरसं सेवते तस्य शरीरप्रकृतिः वातदोषैः दाहकज्वरादिभिः च व्याप्यते। यश्च अमृतं सेवते सः अमृतत्त्वं प्राप्नोति।  यादृशः आहारः सेव्यते तद्गुणयुक्तः एव मज्जासंस्थादीनां मूलद्रव्याणामाकारः जायते। तद्गुणयुक्ताः एव अन्तःकरणवृत्तयः जायन्ते। ज्ञानेश्वर्यामेव दृष्टान्तोऽयं वर्तते यत् चुल्लिकायां विद्यमानं भाण्डं यथायथं तपति तथा तथा तस्मिन् विद्यमानं जलं तपति। अत्र जलं यथा भाण्डाधीनं तद्वत् चित्तस्वभावोऽपि धातूनाम् अधीनः। धातवश्च आहाराधीनाः । तस्मात् आहार एव चित्तस्वभावं व्याप्नोति। अत एव सत्त्वरसानां सेवनं करणीयम्। सात्त्विकरसाः एव सत्त्वगुणान् निर्मान्ति वर्धयन्ति च।

        ‘तेवी जैसा घेपे आहारु । धातु तैसाचि होय आकारु ।

आणि धातु ऐसा अंतरु। भावो पोखे’ इति।

जैसे भांडियाचेनि तापे । आंतुले उदकही तापे।                                                       तैसी धातुवशे आटोपे। चित्तवृत्ती।                                                                                               म्हणोनि सात्त्विकु रसु सेविजे। तैं सत्त्वाची वाढी पाविजे।                                   राजसा तामसा होईजे। येरी रसी॥[3]

सात्त्विकाहारं प्रशंसन् ज्ञानेश्वरः ब्रूते कर्ता भोक्ता च जीवःत्रिगुणाधीनः त्रिप्रकारकाणि कर्माणि करोति। अत एव आहारोऽपि त्रिधा । यदा भोक्ता जीवः दैववशात् सत्त्वगुणान् अङ्गीकरोति तदा तस्य रुचिरपि सात्त्विकरससेवने एव वर्धते। तन्निरूपणमेवं कृतं ज्ञानेश्वर्यां –

आंगेचि द्रव्ये सुरसे। जे आंगेचि पदार्थ गोडसे।

आंगेचि स्नेहे बहु वसे। सुपक्वे जिये॥

आकारें नव्हती डगळें। स्पर्शें अति मवाळें।

जिभेलागीं स्नेहाळें। स्वादे जिये॥

रसें गाढीं वरी ढिलीं। द्रवभावे आथिलीं।

ठायेंठावों सांडिली। अग्नितापे॥

आंगे सानें परिणामें थोरु। जैसे गुरुमुखींचें अक्षरु।

तैशी अल्पीं जिहीं अपारु। तृप्ति राहे॥[4]

        यदन्नं मुखे निविष्टे सति स्वादु प्रतीयते यच्च च जठराग्नौ प्रविष्टे स्वास्थ्यकरं भवति तदेव सात्त्विकम्। तत्सेवनेन बुद्धिरपि सात्त्विकी जायते।  दिवसोदये यथा भानुर्हेतुः भवति तथा सत्त्वगुणोदये अयमाहारो हेतुरिति प्रतिपादयन् स ब्रूते –

सत्त्वाचिये कीर पाळती। कारण हाचि सुमती।

दिवसाचिये उन्नती। भानु जैसा॥[5]

इदं सात्त्विकाहारसेवनं रोगाणां शरीरप्रवेशमेव निवारयति। सात्त्विकाहार एव शरीरस्य हितावहः इति मतिर्जायते स क्षणः एव शरीरस्य भाग्योदयः  उत्तमारोग्यभोगाय।

ऐसा सात्त्विकु आहारु। परिणमला थोरु।

करी हा उपकारु। सबाह्यासी।।[6]

अस्य सेवनेन शरीरस्य आरोग्यम्, मनसः प्रसन्नता, बुद्धौ सद्विचाराः  स्त्रीपुत्रमित्रादिभिः सुखेन आदानप्रदानं च जायते। अन्ततः ब्रह्मानन्देन सख्यं वर्धते। सात्त्विकाहारोऽयं देहेषु रक्तमांसादिरूपेण परिणम्य अन्तःकरणवृत्तिषु  महोपकारं करोति।

योगस्य परां काष्ठां प्राप्तः योगी निराहारोऽपि प्राणान् धरते। किन्तु सद्यः योगाय प्रवर्तिताः भक्ष्याभक्ष्यविवेकेन प्रवर्तेरन् इति मन्यते । तत्कारणमीमांसायाम् उक्तं यत् ‘आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः’ इत्यादि।  आहारस्य मनसा सम्बन्धः । मनः अन्तःकरणेषु अन्यत् । आहारशुध्दतया अन्तःकरणवृत्तयः शुद्धाः जायन्ते। अस्मिन् एव क्रमे आत्मनः स्मृतिर्जायते । आत्मस्मृत्या च बन्धनासक्त्यादिभ्यो मुक्तिः जायते।

अस्माभिः गृहीतस्याहारस्य स्थूल-सूक्ष्म-कारणशरीरेषु प्रभावः जायते। स्थूलशरीरे भोजनं स्वादं रुचिं स्थौल्यादिकं जनयति। सूक्ष्मशरीरे गुणान् जनयति। कारणशरीरे च संस्कारान् जनयति। अनेनैव अन्नमयः प्राणमयः  मनोमयः इत्येते कोषाः नितरां प्रभाविताः भवन्ति। न केवलमिदम् अपि तु भोजनस्य निर्माणप्रक्रिया, परिवेषणं ग्रहणं च सूक्ष्मशरीरे संस्कारान् जनयति। अत एव भोजनसमये परिवेशः मनस्स्थितिश्च शुद्धा भवेदिति उच्यते।

एवं योगी योगसंसिद्धये सात्त्विकाहारं गृह्णीयादिति योगसम्बध्द-‌शास्त्रसम्भारैः प्रतिपादितं वर्तते । सात्त्विकाहारात्परम् अत्याहारमिताहारत्वम् आहारस्य युक्तत्वज्ञानाय विचारणीयं भवति।  

अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः ।

जनसङ्‌गश्च लौल्यञ्च षड्भर्योगो विनश्यति ॥[7]

एतद्विषये स्वामिना परिव्राजकाचार्येण वासुदेवानन्दसरस्वतिना योगरहस्यमिति ग्रन्थे योगसिद्धये पथ्यस्य कृता संक्षिप्तचर्चापि योगपथे प्रकाशिका भवति । यथोपदिष्टं योगरहस्ये

नात्यश्नतोऽनश्नतोऽतिसुप्तस्यैष न जाग्रतः।

युक्तचेष्टाहारनिद्रागतेर्योगो भवेत्सुखः॥[8]

अत्याहारेण निद्रालस्यरोगाः एव जायेरन्
 अखादित्वा च शरीरं मनः उद्विग्नं स्यात्। तेन योगाभ्यासे चित्तैकाग्रता न भवेत्। तत्र उपायः मिताहारग्रहणम्।

अर्धमशनस्य सव्यञ्जनस्य तृतीयमुदकस्य तु।

वायोः सञ्चरणार्थाय चतुर्थमवशेषयेत्॥

उदरे प्राणवायोः सञ्चरणाय समुचितं स्थानं रिक्तं स्यात्। अयमेव आहारग्रहणविधिः घेरण्डसंहितायां हठयोगप्रदीपिकायां समुपदिष्टः भवति। अयमाहारनियमः योगाभ्यासकाय हितावहः। आहारस्य कस्य कीयती आवश्यकता इति विषये स्मृतिकारेणोक्तं वर्तते यत्

अष्टौ ग्रासाः मुनेर्भक्ष्याः षोडशारण्यवासिनः।

द्वात्रिंशत्तु गृहस्थस्य यथेष्टं ब्रह्मचारिणाम्॥[9] इति।

अत्र मुनेः सन्यासिनः अष्टौ ग्रासाः एव निर्दिष्टाः। कुतः इति चेत् ध्यानचिन्तनादिमानसिकः अभ्यासः एव तस्य आहारः । तस्य अन्यः कोऽपि व्यवहारः, शारीरिकः परिश्रमः वा न भवति। जीवनधारणाय एतावानाहारः तस्य पर्याप्तः भवति। भिक्षुकोपनिषदि प्राप्यते यत् समवर्तकः आरुणिः जडभरतः इत्यादयः परमहंसाः अष्टौ ग्रासान् एव गृह्णन्ति स्म, मोक्षप्राप्तये च प्रयतन्ते स्म इति।

सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः।

भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते॥

              इत्येवम्प्रकारेण सात्त्विकस्य मितस्याहारस्य सेवनं शिवसम्प्रीत्यै कल्पते इति योगकुण्डलिन्युपनिषदि। शाण्डिल्योपनिषदि अपि मिताहारः यमेषु अन्तर्भूतः दृश्यते।

प्रश्नोऽयं समुदेति यत् कस्मिन्नाहारे सात्त्विकगुणाः भवन्ति इति। योगरहस्यं समादधति यत्

क्षाराम्लतिक्तकटुरुक्षकदन्नशाक-

स्त्र्यग्न्यध्वभाङ् न लभते कुशलोऽस्य सिद्धिम्।

शुण्ठीसितासुमनशालिसदन्नमुद्ग-

चक्षुष्यशाकघृतदुग्धसदम्बुपथ्यम्॥[10]

         अस्यायमाशयः यत् लवणमाम्लं कटु तिक्तमस्निग्धमन्नं रुच्या भुञ्जानः योगफलसिद्धिं न प्राप्नोति। तद्विपरीतं शुण्ठीसितादि गृह्णन् योगाभ्यासे हितं प्राप्नोति।

अन्येषु ग्रन्थेषु सात्त्विकगुणैः युक्ताः अन्नादिविशेषाः एवम् –

गोधूमशालियवष्टिकशोभनान्नं

क्षीराज्यखण्डनवनीतसितामधूनि।

शुण्ठीप्तोलकफलादिकपञ्चशाकं

मुद्गादिदिव्यमुदकञ्च यमीन्द्रपथ्यम्॥[11]

        योगाभ्यासाय आध्यात्मिकप्रगतये च अनुकूलः आहारः अयम्। कुतः अयमेव ग्राह्यः इति चेत् मनः अन्नस्य सूक्ष्मतमांशैः निर्मीयते। उद्दालकः ऋषिः श्वेतकेतवे निर्दिशति यत् भोजनं यदा शरीरं प्रविशति तदा तस्य स्थूलकणाः मलरूपेण परिणमन्ते। मध्यामाकारकणाः मांसत्वेन सूक्ष्मकणाः च मनस्तत्त्वेन परिणमन्ते। तदित्थमुक्तमुद्दालकेन ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति। यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः’[12] इति। एवम्प्रकारेण योगसंसिद्धये आहारः अनन्यसाधारणं महत्त्वं भजते। अत एव उच्यते भोजनं लघु पौष्टिकं स्यादिति। भोजनं शरीरस्य ऊर्जास्रोतः।  

प्रश्नोऽयं कदाचिदुदेति यत् भिक्षावृत्त्या यः आहारः योगिभिः प्राप्यते स तु सात्त्विक एव भवति इति वक्तुं न शक्यते। कथं तर्हि सात्त्विकाहारोपलब्धिः  अथवा कथमेतस्याभावे योगसंसिद्धिरिति। ध्यानेनैवेयमूर्जा लभ्यते। चित्तैकाग्रतायां ये दिव्याः तरङ्गाः जायन्ते ते अमृतादेव निष्क्रमन्ति। वस्तुतः योगसंसिद्धस्य योगिनः कृते नाहारोऽपि अपेक्ष्यते। सः अमृतपानेनैव जीवितुं शक्नोति। अमृतमिदं तालुच्छेदात् स्रवतीति वर्णितमस्ति। ब्रह्माण्डस्य ऊर्जास्रोतः  जानन् योगी भोजनादपि विरतः भवति। आहारम् असेवमानाः योगिनः अद्यापि द्रष्टुं शक्यन्ते।  तद्विपरीतं वक्तुं शक्यते यत् जिह्वालोलुपाः भोगिनः असंयताहारग्राहिणः अमिताहारग्राहिणः इत्येतेषां कृते योगमार्गः नास्ति। अयमेव सारः श्रीकृष्णस्य युक्ताहरविहारस्य इत्येतद्वचनस्य।

सन्दर्भग्रन्थाः

श्रीमद्भगवद्गीता – गीताप्रेस गोरखपुर, 2021

सार्थ श्रीज्ञानेश्वरी – मामासाहेब दांडेकर, आदर्श विद्यार्थी प्रकाशन, 2006

योगरहस्यम् – श्रीवासुदेवानन्दसरस्वतिटेम्बेस्वामी, अनु. वि. गो. देसाई, श्रीवामनराज प्रकाशन, पुणे 2012

हठयोगप्रदीपिका – अनु. अजय कुमार उत्तम, भारतीय विद्या संस्थान, वाराणसी, 2002

छान्दोग्योपनिषद् – गीताप्रेस गोरखपुर, 2019

योगयाज्ञवल्क्यसंहिता – कृष्णमाचार्य योग मन्दिरम्, 2001

सङ्केताक्षरसूची

भ.गी. – भगवद्गीता

ज्ञा. – ज्ञानेश्वरी

यो. र. – योगरहस्यम्

छा. उ. – छान्दोग्योपनिषद्

यो.या. – योगयाज्ञवल्क्यम्

ह.प्र. – हठयोगप्रदीपिका


[1] भ.गी.6.17

[2] ज्ञा. 17-111,112

[3] ज्ञा. 17-116 तः118

[4] ज्ञा. 17-126 तः129

[5]  ज्ञा. 17-133

[6] ज्ञा. 17-137

[7] ह.प्र. 1-15

[8]  यो.र. 6

[9] यो.या. 66

[10] यो.र. 8

[11] ह.प्र. 62

[12] छा. उ. 6.5.1