जीवन्मुक्तिविमर्शः

डा. चक्रवर्तिराघवन्, आचार्यः, विशिष्टाद्वैतवेदान्तविभागः, तिरुपतिः

परेषां इय् आश‌ङ्का अस्मिन् मतेऽपि मुमुक्षोः संसारदशायमेवमुक्तिर्भवति। सैव जीवन्मुक्तिरित्युच्यते । शुक-वामदेवादयः उदाहरणम् । अत्र च ‘न तस्य प्राणाः उत्क्रामन्ति अत्रैव समवलीयन्ते (बृहदारण्यकोपनिषत् ६-४-६) इत्युत्क्रान्तिनिषेधः श्रूयते । तथा –

‘यदा सर्वे प्रमुच्यन्ते कामाः येऽस्म हृदि सथिताः । अथ मों अमृतो भवति अत्र ब्रह्मसमुश्नुते ।।

बृहदारण्यकोपनिषत् ४-४-७

इति अत्रैव अमृतत्व प्राप्तिः ब्रह्मानुभवश्च मुमुक्षोः सिध्यतीति उच्यते । अन्यत्र च ‘विमुक्तश्च विमुच्यते ।’ (मु) ‘भूयश्चान्ते सर्वमायानिवृत्तिः इति च श्रूयते । प्रथमं ब्रह्मसाक्षात्कार प्राप्त्यनन्तरं जीवन् एव विमुक्तः निश्शेष वासनानिवृत्त्यनन्तरं परममुक्तिं प्राप्नोति । अन्ते प्रारब्ध देहावसाने निश्शेषाविद्यानिवृत्तौ परममुक्तर्भवति इति च अर्थः । इत्येवं संसारदशायामपि अमृतत्वं ब्रह्मप्राप्तिश्च विदुषो भवतीति वदन्ति ।

एतत् न युज्यते – अत्र विदुषः उत्क्रान्तिप्रतिषेधः न क्रियते । ‘न तस्य प्राणाः उत्क्रामन्ति’ (छा) इत्यत्र पञ्चमी स्थाने षष्ठी । यतः शाखान्तरे ‘न तस्मात् प्राणाः उत्क्रामन्ति’ (बृ) इति पञ्चमी श्रूयते । तस्यायं भावः – अर्चिरादिमार्गेण विरजा नदीपर्यन्तं गतेः श्रुतत्वात् तावत् पर्यन्तम् इन्द्रियाणां सूक्ष्मशरीरस्थ च गतिसाधनतया आवश्यकत्वात् विदुषामपि इन्द्रियाणि अवियुक्तानि सहैव गच्छन्ति इति तद्वाक्यतात्पर्यार्थः । अत एव अन्येषां शाखिनां श्रुतौ ‘न तस्मात् प्राणाः उत्कामन्ति ** इति स्पष्टतया तस्मादिति पञ्चमी श्रूयते । अत एव श्रूयमाणः प्रतिषेधः शारीरात् जीवात्मनःएव, न तु शरीरात् । ‘अथ मर्यो अमृतो भवति’ इति यत् पूर्वोत्तर पुण्यपापयोः आश्लेषविनाशौ अमृतत्वं तदेव अमृतशब्देन उच्यते । उपासनवेलायां यः ब्रह्मानुभवः भक्तिरूपः स एव ‘अत्र ब्रह्मसमश्नुते इत्युच्यते । तदुक्तं सूत्रकृता- ‘अमृतत्वं च अनुपोष्य’ इति । अनुपोष्य- अदग्ध पुण्यपापादिकस्य संसारदशायामेव यो ब्रह्मानुभवः भवति भक्तिरूपः स एवं ‘यदा सर्वे प्रमुच्यन्ते इति वाक्येन उच्यते । अतः मुख्यममृतत्वं मुख्यं च विमुक्तिः, सशरीरत्वदशायां कथमपि न सम्भवति इत्यासृत्युपक्रमाधिकरणे सम्यक् निरूपितम् । परेषां इयम् अभिसन्धिः – चतुर्मुखलोकं गत्वा सगुणब्रह्मानुभवकृतां अधिकारिणामेव उत्क्रान्तिः अर्चिरादिगतिश्च । मुख्यब्रह्मप्राप्तिकामानां आर्तभाग-याज्ञवल्किकसंवादे स्पष्टतया उत्क्रान्तिनिषेधश्रवणात् शरीरानुवृत्तेः अविद्याकृतत्वेऽपि वासनावशाद् अनुवृत्तेः छिन्नमूलत्वेन बन्धहेतुत्वाभावात् जीवन्मुक्तानां शरीरपरित्यागनिर्बन्धः न विद्यते । आर्तभागप्रश्नप्रकरणे आरम्भे ‘अपपुनमृत्युञ्जयति (बृ) इति संसारनिवृत्तिहेतुभूत ब्रह्मसाक्षात्कारवान् विद्वानेव उपक्रान्तः । तत्प्रकरणे आर्तभागः याज्ञवल्क्यं पृच्छति – ‘याज्ञवल्क्य इति होवाच। यत्रायं पुरुषो म्रियते उदस्मात् प्राणः क्रामन्ति आहो न (बृ) इति । अयं विद्वान् यदा देहवियोगं प्राप्नोति तदा अनेन सह अस्माच्छरीरात् प्राणाः अपि उत्क्रामन्ति वा न वा ‘एतन्मे वद’ इति आर्तभागो पृच्छति । तत्र याज्ञवल्क्यः समाधत्ते – ‘नेति होवाच याज्ञवल्क्यः । अत्रैव समवलीयन्ते । स उच्छ्वयति आत्मा यदि आत्मातो मृतश्शेते (बृहदारण्यकोपनिषत् ३-२-११)

अयमर्थः विदुषः प्राणाः न उत्क्रामन्ति नश्यमानेन शरीरेण साकं तेऽपि नश्यन्ति । गतप्राणः देहः बाह्यवायुना आत्मातः उच्छूनस्सन् निश्चलः शयानः भवति इति । अतः एतद्वाक्यबलात् विदुषः उत्क्रान्तिर्नेति गम्यते इति परेषां अभिप्रायः ।
विभवः

भ्रमन् गच्छतु

अत्र तु एवं समाधानमुक्तम्- ‘तस्य तावदेव चिरं यावन्न विमोक्ष्यते अथ सम्पत्स्ये (छा) इति हि प्रारब्धचरमशरीरपातानन्तरं विदुषः ब्रह्मसम्पत्तिः भवतीति वचनात् शरीरस्थितिकाले विदुषः ब्रह्मसम्पत्तिः न भवतीति गम्यते । किञ्च तस्मिन् काले अपि प्राणानां जीवात्मनः वियोगो भवतीति वक्तुं न शक्यते । यतः ‘तद् य इत्थं विदुः ये चेमे अरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति (छान्दोग्योपनिषत् ५-१०-१) इत्यारभ्य अर्चिरादि आतिवाहिकगणयुक्तदेवयानेन मार्गेण गतिः श्रूयते । अनन्तरं ‘स एनान् ब्रह्मगमयतिं (छान्दोग्योपनिषत् ४-१४-३) इति अन्ते ब्रह्मप्राप्तिः श्रूयते । अतः न अस्मात् प्राणाः उत्क्रामन्ति इति वाक्यस्य विदुषोऽपि देवयानेन मार्गेण गमनाय आवश्यकत्वात् जीवात् विनियुज्य अन्यत्र प्राणानां लयः न सम्भवति इत्यत्र तेषां वचनानां तात्पर्य वर्णनीयम् । वस्तुगत्या आर्तभागस्य प्रश्नः न मुमुक्षुविषयकः । तस्मिन् प्रकरणे मोक्षसाधनभूतविद्यायाः अदर्शनात् । तत्र हि अविद्वत् विषयाः एव चर्याः प्रदर्श्यन्ते । ‘अष्टौ ग्रहाः अष्टौ अतिग्रहाश्चेति इन्द्रियाणां विषयाणां स्वरूपं, अग्नेः अपां भक्षकत्वसामर्थ्य, मरणकाले जीवस्य देहपरित्यागेऽपि इन्द्रियाणां अपरित्यागः, जीवेनसाकं पुण्यकर्मणां सह गमनं, पुण्यपापानुगुणजन्मप्राप्तिश्च आर्तभागयाज्ञवल्क्ययोः संवादे प्रदर्शिताः । अतः अप ‘पुनर्मृत्युञ्जयति’ इति मृत्यु शब्देन अग्निं उद्दिश्य अपां भक्षकत्वमेव मृत्युजयः इत्युच्यते । ‘न उत्क्रामन्ति इत्यस्य च स्थूलदेहवत् मरणकाले अविद्वांसं इन्द्रियाणि न मुञ्चन्ति, किन्तु जीवेन सह सूक्ष्मशरीरे स्थित्वा तेऽपि गच्छन्ति इत्येव याज्ञवल्क्यसमाधानस्य सारः । अतः आर्तभागप्रश्नः न जीवन्मुक्तेस्साधकः ।

***