इन्द्रसारथिः
- अवधानुल चिन्मयदत्तः (Vidwan A Chinmaya Datta), MPhil, Rigveda Faculty, Veda Vijnana Vishtaram, Mysore, Phone – 9900082072 ; achinmayadatta@gmail.com
नियुत्वाँ इन्द्रसारथिः इति वायोः इन्द्रसारथित्वम् ऋग्वेदस्य ऐतरेयब्राह्मणश्रुत्यामाख्यायते। (देवस्य सोमस्य राज्ञोग्रपेयेन इति खण्डे ऐ.ब्रा.2.4.1) (नियुतः वेगवन्तः अश्वाः, तद्वान् वायुः। इन्द्रः सारथिर्यस्येति बहुव्रीहिसमासः।)
अस्मिन् खण्डे बहवः औपचारिका अंशा अभिधीयन्ते। ते यथा- अनिच्छतोपि परमात्मसहकृतत्व वैचित्री, वायोः इन्द्रसारथित्व प्रतिपादनेन, मन्त्रसंवादमुखात् जीवात्म-परमात्म सम्बन्ध ख्यापनम्, पार्थसारथित्वस्य उपमा, जीवस्य इन्द्रियाणाञ्च नियन्तृत्वद्वारा गम्यप्रापणम्, लौकिकमुदाहरणम् – योद्धॄणां जितद्रव्येषु तुरीयांशस्य जिघृच्छा इति।
अग्निष्टोमयागे द्विदेवत्यग्रहनिरूपणावसरे प्रसङ्गोयं लभ्यते। इन्द्रवायू, मित्रावरुणौ, अश्विनौ इति देवताद्वन्द्वं क्रमशो विधीयते। तेषु प्रथमौ इन्द्रवायू। ययोः सहकारित्वं सहचरत्वव्यपाश्रयश्च तत्र वर्ण्येते। नियुत्वान् इन्द्रसारथिः इत्यपि च मन्त्रप्रतीकः प्रदर्श्यते। तदेतदृषिः पश्यन्नभ्यनूवाच- नियुत्वाँ इन्द्रसारथिरिति।
ऐन्द्रवायवग्रहस्य विशेषं विदधती श्रुतिः, इन्द्रतुरीयत्वञ्च विशिनष्टि। ग्रहो नाम सोमरसधारकः दारुमयपात्रविशेषः। स एष इन्द्रतुरीयो ग्रहो गृह्यते – यत् ऐन्द्रवायवः इति विधिवाक्यम्। (अज्ञातार्थबोधकं विधिवाक्यम्।)
अस्माभिः भगवद्गीता श्रुता। (भगवता गीता भगवद्गीता।) पार्थस्य सारथित्वमङ्गीकृत्य, तस्य, रथस्य, रथाश्वानाञ्च नियन्तृत्वं अनुमत्य, साक्षात् भगवानेव सारथिः बभूव। पार्थं पन्थानं दर्शयामास चेति महाभारतादि ग्रन्थेषु पश्यामः। तस्य वेदमूलत्वमधुना प्रदर्श्यते।
परस्परं स्पर्धमानानां देवानां मध्ये, जेष्यन्निव वायुः इन्द्रस्य सहायं लब्ध्वा, सोमपीथस्य अग्रपाः अभूदिति आख्यायिका। मन्त्रसंवादः- शतेना नो अभिष्टिभि -र्नियुत्वा इन्द्रसारथिः। वायो सुतस्य तृम्पतम्।। (ऋ.सं.3.7.14)। इन्द्रः सारथिः यस्य सः- इन्द्रसारथिः। तादृश इन्द्रसारथे- हे वायो त्वं (त्वया सहचरितः) इन्द्रश्च- युवाम् उभौ सुतस्य सोमस्य तृम्पतमिति मन्त्रार्थः। तृम्पनं पानम्।
आख्यायिका एवं वर्तते- सोमस्य अग्रपेयविषये आजिं धावतां देवानां मध्ये, सहोज्जयेवेति इन्द्रेण प्रतिपादितः वायुः, सहभागित्वं सहकारित्वं सहचारित्वञ्च त्रिवारं नैच्छत्। यथा अस्माभिरपि, भगवदनुग्रहस्य सहकारित्वं नानुमन्यते, स्वकीयशक्तिरेव क्रियासिद्धौ हेतुरिति भ्रममूलकप्रत्ययेन। अन्ते, यदा मानुषीशक्तिरपर्याप्तेति ज्ञायते- तदा अलौकिकमनुग्रहः प्रार्थ्यते। किन्तुः चतुर्थपर्याये सहोज्जितिप्रतिपादनमनुमत्य, चतुर्थांशदानमनुमेने।
अन्तर्वर्ती प्रत्यगात्मभूतः भगवान् सर्वेषु जीविषु वरिवर्तीति राद्धान्तः वैदिकः। तदनुसारेण श्रीकृष्णः परमात्मा, यथा पार्थोपलक्षितं जीवं पथगमने (धर्मपथे) निवेशयति स्म, अधुना च निवेशयतीति भावनया उदन्तोयमस्माभिः द्रष्टव्यः। भगवतोनुग्रहेण अस्माभिः यद्यत् आचर्यते, यद्यत् संपाद्यते- तस्य चतुर्थोशः पुनः भगवते एव प्रदेयमिति बोधः तुरीयभाक्-प्रसङ्गेन लभ्यते।
नियुत्वान् इत्यत्र नियुच्छब्दः वाय्वश्व-अभिधायकः। यद्यपि नीरूपस्य वायोः अश्ववत्त्वप्रसङ्गः औपचारिक एव- तथापि गच्छतः कस्यचन वस्तुनः किञ्चित् कर्षकं स्यात्, देशान्तरप्रापण साधकमिति सिद्धान्तं मनसिकृत्वा, श्रुतिः नियुत्वत्त्वं वायोः ब्रवीति। नियुतः वायोः अश्वाः। तद्वान् नियुत्वान् वायुः। (अन्यत्र वेदे च- वायवे नियुत्वते तूपर.मा लभते– तैत्तिरीयश्रुतिः तै.सं.2.1.1)।
एते वाय्वश्वाः अस्माकं जीविनामिन्द्रियाणि। तेषाम् इन्द्रियाणां अश्वानां नियन्ता- स्वैरविहर्तॄणामिन्द्रियाणां नियन्ता, यदि भवति भगवान्- तदा जीवने फलेच्छा फलप्राप्तिः सुकरं भवतीति बोधः ज्ञायते। वायुर्वै क्षेपिष्ठा देवता – वायुमेव स्वेन भागधेयेनोप धावति- स एवैनं भूतिं गमयति – भवत्येव। इति तैत्तिरीयब्राह्मणस्य अग्रिमं वाक्यञ्च एतमेव क्षिप्रफलप्रदत्वबोधं परिपुष्णाति।
तस्माद्धाप्येतर्हि भरताः सत्वनां वित्तिं प्रयन्ति- तुरीये हैव सङ्ग्रहीतारो वदन्ते- अमुनैव अनूकाशेन- यदद इन्द्रसारथिरिव भूत्वा उदजयत्। (ऐ.ब्रा.2.4.1) अत्र भरत शब्दः अत्र योद्धृपर्यायेण प्रयुक्तः। (अन्यत्र, हव्यं भरतीत्यर्थे भरत शब्दः अग्निपर्यायतया व्याख्यातः।) अत्र तु भरः-सङ्ग्रामः, भरं सङ्ग्रामं तन्वन्तीति भरताः। (ड प्रत्ययः)। जित्वा यल्लभ्यते, तस्य चतुर्थांशः योद्धृभिः गृह्यते इति लौकिकाचारश्च अत्र प्रतिपाद्यते।
स्वकीयेन सहकारेण जितस्य अग्रपेयस्य चतुर्थांशम् इन्द्रः स्वीचकारेति श्रुतिः वावदीति। एवमेव लोकेपि यस्मिन् कस्मिंश्चित् वस्तुनि, यः कश्चन प्रयत्नः विरच्यते तस्य चतुर्थांशः विजेतृभ्यः प्रदेयः- इत्यपि च बोधः श्रुत्यामवगम्यते।