ईदूतौ च सप्तम्यर्थे इत्यत्र अर्थग्रहणस्य वैयर्थ्यशङ्कापरिहारः
Dr. Santosh Majhi
Assistant Prof. Depart Of Vyakarana,
N.S.U, Tirupati, A.P
8309998627
सारांशः –
सोमो गौरी अधिश्रितः इत्यादि लक्ष्ये प्रगृह्यसंज्ञा सिध्यर्थम् “ईदूतौ च सप्तम्यर्थे” इति सूत्रमारब्धम्। अत्र अर्थग्रहणमनावश्यकम्। सप्तमीसहचरितं यदीदृदन्तं, सप्तमी विभक्तौ वा परतः यत् तत् प्रगृह्यसंज्ञं भवतीत्यर्थस्वीकारे “सुपा सुलुक्” इति सूत्रेण सप्तम्याः लुकि प्रत्ययलक्षणेन सप्तमीविभक्तिपरकत्वमाश्रित्य प्रगृह्यसंज्ञा सिध्यतीति मास्तु, तदर्थमर्थग्रहणमित्याशयेन ईदूतौ सप्तमीत्येव शङ्का कृता भाष्ये।
कुञ्जिशब्दाः(Key Words)
सोमो गौरी, सरसी शयानम्, कुमार्यगारम् – कुमार्योरगार, वाप्यश्वः।
समाधानम् –
“लुप्तेऽर्थेग्रहणाद्भावेदिति” ।
अयमाशयः –
ईदूतौ च सप्तमी इत्येव यदि उच्यते तर्हि “संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं” न स्यात् । अर्थग्रहणकृते तु सामर्थ्यात् अर्थनिमित्तेयं संज्ञा, नतु प्रत्ययनिमित्ते न दोषः इति तदर्थः ।
शङ्का –
सोमो गौरी अधिश्रित इत्यत्र सप्तम्याः लुक् न प्रवर्तते। किन्तु पूर्वसवर्णः। अतः अर्थग्रहणमनावश्यकमेवेति ।
समाधानम् –
“पूर्वस्य चेत् सवर्णोऽसौ आडम्भावः प्रसज्यते” इति।
अयमाशयः
अत्र पूर्वसवर्णः वक्तुं न शक्यते। आट् आम् इत्यनयोः कार्ययोः तद्वाधकत्वात्।
पुनश्शङ्का –
सर्वत्रापि सप्तम्याः लुप्तत्वेन वचनसामर्थ्यात् सप्तमीशब्देन सप्तमीसहचरितस्य ग्रहणात् अर्थग्रहणाभावेऽपि संज्ञा सिध्यत्येवेति ।
समाधानम् –
“वचनाद्यत्र दीर्घत्वम्” इति।
अयमाशयः –
सप्तमीति वचनसामर्थ्यात् संज्ञा सिध्यतीति वक्तुं न शक्यते। “दृतिं न शुष्कं सरसी शयानम्” इत्यादौ ‘सरसी’ इति प्रातिपदिकात् सप्तम्याः कथने “इयादियागि” इत्यादिना ईकारादेशे कृते ईकारः सप्तमी भवतीति तत्रैव प्रगृह्यसंज्ञा स्यात् । न तु सोमो गौरी अधिश्रित इत्यत्रेपि तदाशयः ।
पुनः शङ्का –
“तत्रापि सरसी यदि” इति। “दृति न शुष्कं सरसीशयानम्” इत्यत्र न स्यात् प्रातिपदिकात् सप्तमी। किन्तु ‘सरसी’ शब्दः ईकारान्तः एव।
समाधानम् –
“ज्ञापकं स्यात्तदन्तत्वे” इति ।
अयं भावः –
एवं तर्हि अर्थग्रहणं व्यर्थीभूय प्रगृह्यसंज्ञायां प्रत्ययलक्षणं नास्तीति ज्ञापयति। अत एव कुमार्यगारम् = कुमार्योरगारम् इत्यादौ “ईदूदेद्विवचनं प्रगृह्यम्” इति सूत्रेण प्रगृह्यसंज्ञा वार्यतेत्याशयः।
समाधानम् –
“मा वा पूर्वस्य भूत्” इति।
अयमाशयः –
वाप्यश्वः इत्यर्थे वाप्यश्वः इत्यादौ सप्तमी सहचरिते ईकारादेव पूर्वपदे प्रगृह्यसंज्ञावारणार्थमर्थग्रहणम् आवश्यकम्। अर्थ ग्रहणे कृतेप्यद्यत्र सप्तम्यर्थः अस्त्येव, अथापि “जहत्स्वार्थवृत्तौ” समासस्यैव अर्थवत्वेन पूर्वोक्तपदयोः अर्थवत्वाभावात् न दोषः।
अजहत्स्वार्थावृत्तावपि समुदायार्थ एव तत्राभिधीयते न त्ववयवार्थ इति नास्ति दोषः। अयमेव संवादः भाष्ये श्लोकरूपेण दृश्यते यथा –
ईदूदौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद्भवेत्।
पूर्वस्य चेत् सवर्णोऽसौ आडम्भवः प्रसज्यते ॥
वचनाद्यत्र दीर्घत्वं तत्रापि सरसी यदि।
ज्ञापकं स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् ॥ इति।
जहन्ति स्वं अर्थ यस्यां वृत्तौ सा जहत् स्वार्था। तथा च राजपुरुष इत्यादौ समासघटकानां राज, पुरुषादीनां पदानामर्थः न कोऽपि वर्तते किन्तु समुदायार्थः एव तत्र भासते। अतः जहत् -स्वार्थ नाम समासघटकानामवयवानाम् अर्थस्य परित्यागः अमहत् स्वार्थवृत्तिः – न जहन्ति स्वम् अर्थ यस्यां वृनो स अजहत् स्वार्थ। तथा च राजपुरुष इत्यादौ समासघटकानां सम शुष्कार्दीनां पदानिमर्थः वर्तते एव। अतः अजहत् स्वार्था नाम समुदायार्थघटकानामवयवानाम् अर्थस्य परित्यागः। तथा च अवयवार्थः तत्र भासते एव।
अनया रीत्या समासविषये वृत्तिद्वयं महाभाष्ये स्वीकृतम्। (जहत्स्वार्था, अजहत्स्वार्था वृत्तौ)।
सन्दर्भग्रन्थाः
1. लघुसिद्धान्तकोमुदी- आचार्य रघुनाथ शास्त्री-चौखम्बासुरभारतीप्रकाशन, वारणासी।
2. लघुसिद्धान्तकोमुदी – आचार्य विश्वनाथ मिश्रः चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।
3 व्याकरणमहाभाष्यम् – श्री भार्गवशास्त्रिण-चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।
4. वैयाकरणसिद्धान्तकौमुदी- श्रीगोपालदत्त पाण्डेयः- चौखम्बा सुरभारती प्रकाशना
5. वैयाकरणसिद्धान्तकौमुदी- लक्ष्मी शर्मा चौखम्बा सुरभारती प्रकाशन, वारणासी।
6. परिभाषेन्दुशेखरः – आचार्य विश्वनाथ मिश्र – चौखम्बासुरभारतीप्रकाशन, वारणासी।
7. पाणिनीय अष्टाधायी पाठः – स्वामी प्रह्लाद गिरि वेदान्तकेशरी – चौखम्बासुरभारतीप्रकाशन, वारणासी।
8. धातुपाठः – डॉ नरेश झा – चौखम्बासुरभारतीप्रकाशन, वारणासी।
9. धातुरुप कल्पद्रुमः – एपी उणी – ओरिओण्टेल् दील्ली।
10. सस्कृतसाहित्यकोषः – डॉ राजवंशसाहाय हीरा – चौखम्बाविद्याभवन, वारणासी।
11. सस्कृतहिन्दिकोषः – वामन शिवरामआप्टे चौखम्बाविद्याभवन, वारणासी।
12. तिकृत्कोषः – पुष्पादीक्षित् – संस्कृतभारती, नवदेहल्ली।