ब्रह्मसूत्रानुव्याख्यानवृत्त्युक्तदिशा ॐ-ब्रह्मपदयोर्विवरणम्

लेखकौ – पि० अजितकुमारः[1], डा० कृष्णाचार्य उपाध्यायः[2]

शोधसारः

प्राचीनेषु शास्त्रीयग्रन्थेषु नानाविचाराः विक्षिप्यवर्णिताः सन्ति । मध्ये मध्ये प्रसङ्गात् अन्यविषयाणां प्रस्तावनापि क्रियमाणा दृश्यते । तेन ग्रन्थाध्येतॄणां बालानां शोधार्थिनां च मूलग्रन्थस्य आशयः सुलभतया सुखबोधाय न भवति । मूलग्रन्थस्य पद-पदार्थविवरणेन ग्रन्थस्य तात्पर्यावगमनं बहुसुलभम् । तादृशे क्रमे श्रीवेङ्कटरमण-ऐताळ-महाभागेन रचितं ब्रह्मसूत्रानुव्याख्यानवृत्तिः वर्तते । अस्मिन् ग्रन्थे किं प्रतिपादितम् ? कथं पद-पदार्थवर्णनमुपवर्णितमिति लेखनेऽस्मिन् प्रस्तूयते ।

मुख्यशब्दाः

ब्रह्मसूत्रानुव्याख्यानवृत्तिः, ब्रह्म, ॐ, नारायणः, अध्ययनक्रमः,ग्रन्थसम्पादनम्, सङ्ग्रहः

 उपोद्घातः

भूर्भुवःस्वरादिचतुर्दशभुवनात्मकसंख्यातिगब्रह्माण्डकोटीः स्वरोमकूपे सन्निवेश्य सकललोकजनन्या श्रिया सह सर्पतल्पे शयानेन भगवता सृष्टेषु भूलोकखण्डेष्वन्यतमेऽस्मिन् भरतखण्डे जनिमतामस्माकं महद्भागधेयमिदं यदत्र भगवान् तत्तद्युगेष्ववतीर्य बलकार्यं ज्ञानकार्यं च सम्पाद्य स्वभक्तानन्वग्रहीत् । तत्रापि विरिञ्चिपित्रा चराचरकर्त्रा नारायणावतारिणा बादरायणेन सकलवेदार्थविनिर्णयाय प्राणिनां निःश्रेयसे च अध्यायचतुष्टयात्मकं ब्रह्ममीमांसाशास्त्रापरनामधेयं ब्रह्मसूत्रं व्यरचि । तस्यार्थवित्तये व्यासशिष्यः पावनः पवमानः स्वतृतीयावतारे मध्वनाम्ना ख्यातः सज्जनानुद्दिधीर्षुः सूत्रप्रस्थानस्य भाष्य – अणुभाष्य – अनुभाष्य ( अनुव्याख्यान ) – न्यायविवरणग्रन्थान् अरचयत् । सर्वेऽपि ते ग्रन्थराशयः अध्यात्मविद्यारसिकानां विचारविमर्शकानां जिज्ञासुपिपासूनां ज्ञानतृषं परिहरतीति निश्चप्रचं वक्तुं वयं प्रभवामः ।

ब्रह्मसूत्राणां- तत्कर्तॄणां-तद्व्याख्यानस्य च परिचयः

अष्टादशपुराणकर्त्रा , पुराणपुरुषेण वेदानां विभागकर्तृत्वात् वेदव्यास इतिनाम्ना प्रथितेन बादरायणेन ब्रह्मसूत्राख्यो ग्रन्थः श्रुत्यर्थनिर्णयाय व्यरचि । तत्रादिमं सूत्रं तावत् “ॐ ॐ अथातो ब्रह्मजिज्ञासा ॐ” इति । तस्मिन् शास्त्रे अनुबन्धचतुष्टयादिकं प्रामाण्यञ्चास्तीति प्रतिपादयितुं परकृता- -पव्याख्यानिरासपूर्वकं भगवान् दशप्रमतिः श्रीमध्वाचार्यः “[3]नारायणं निखिलपूर्णगुणैकदेहं” इत्यादि मङ्गलमाचरति । वासिष्ठकृष्णेन कृतस्य ब्रह्मसूत्रस्य व्याख्यानम् अनुव्याख्यानमिति भगवत्पादकृतं । तस्य व्याख्यानं तावत् श्रीमज्जयतीर्थपूज्यचरणैः “श्रीमन्न्यायसुधे”ति नाम्ना विरचितम् । तस्य पञ्चपञ्चाशदधिकटिप्पणयः सन्ति मुद्रिताश्च च नैका माध्वमठात् । तत्र तावत् परिमळनाम्ना श्री राघवेन्द्रस्वामिभिः प्रणीता, गुर्वर्थदीपिकेति श्रीवादिराजविरचितं, श्रीविद्याधीशतीर्थैः प्रसूता वाक्यार्थचन्द्रिकेति ,श्रीनिवासतीर्थैः विरचितं श्रीनिवासतीर्थीयमिति, यादुपत्यमिति , चशकमिति, सत्यव्रतीयञ्चेत्यादयः प्राधान्यं भजन्ते । एषु व्याख्यासु सत्स्वपि एतेषां वेङ्कटरमण ऐताळ महाभागानां “ब्रह्मसूत्रानुव्याख्यानवृत्तिः” इत्येषा व्याख्या विशिष्टं स्थानं भजते । साक्षात् अनुव्याख्यानस्यैव विवरणरूपत्वादस्य । अनुव्याख्यानस्य श्रीपद्मनाभतीर्थविरचितः “सन्न्यायरत्नावळीनामिका” टीका उपलभ्यते । तथापि अस्याः ब्रह्मसूत्रानुव्याख्यानवृत्तेः शैली सरला सुललिता हृद्या बालैरपि प्रत्येतुं शक्या चेति वैशिष्ट्यम् ।

वेङ्कटरमण-ऐताळ-महाभागानां लघुपरिचयः

वेङ्कटरमण-ऐताळ-महाभागानां लघुपरिचयः तथा तेषां देशकालाधिकमधिकृत्य विषयाः भगवद्भक्तानां माहात्म्यज्ञानं भगवत्प्रीतिकरमिति हेतोः किञ्चिदत्र प्रस्तूयते । विद्वांसः वेङ्कटरमण-ऐताळ-महाभागाः कर्णाटकस्थे रजतपीठपुरे पादूरु-ग्रामे एकोनविंशतितमे शतके जनिमलभत । महोदयानां पितुः नाम पादूरु  श्रीनिवास ऐताळः च मातुः नाम कमलम्म आसीत् । कमलम्मश्रीनिवास दम्पत्योः आहत्य पञ्च पुत्राः आसन् । तेष्वेते ज्येष्ठाः अवर्तन्त । तेषां विद्याभ्यासः बारकूरु ग्रामे भण्डारकेरि मठे अभवत् । प्रातःस्मरणीयाः अनन्तश्रीविभूषिताः विद्यामान्यतीर्थ-श्रीमच्चरणाः एतेषां विद्यागुरवः आसन् । अपि च यतिकुलचक्रवर्तिनः प्रातःस्मरणीयाः परमपूज्याः अनन्तश्रीविभूषिताः विश्वेशतीर्थाः एतेषां महोदयानां सतीर्थ्याः आसन् । एते महाभागाः वेदादिशास्त्राणि इदानीन्तनस्य उडुपिक्षेत्रस्य अब्जारण्यसमीपे कडेकोप्पलनामके मठे अधीतवन्तः इति ज्ञायते । प्राथमिकविद्याभ्यासं तत्र समाप्य उन्नताध्ययनार्थं पलिमारुभण्डारकेरिनामकयोः मठयोः मठाधीशान् पूज्यान् श्रीविद्यामान्यतीर्थान् आश्रितवन्तः । तत्रैव द्वैतवेदान्ते, न्यायशास्त्रे, व्याकरणशास्त्रे, मीमांसाशास्त्रे च अपारं गभीरम् असदृशं प्रावीण्यमवाप । एतेषां विवाहः रुक्मिणीनाम्न्या वध्वा सह अभूत् । दम्पत्योः तयोः षट्पुत्राः समजनिषत । ततः परम् एते पेजावरमठाधीशानां श्रीश्रीविश्वेशतीर्थश्रीमच्चरणानां द्वितीयपर्याये कोशाधिकारित्वेन कृष्णसेवां व्यधुः । ततः पेजावरमठाधीशैः प्रतिष्ठापिते पूर्णप्रज्ञविद्यापीठे अध्यापकत्वेन कार्यम् अकुर्वन् । अनन्तरं श्रीश्रीविद्याधीशतीर्थैः प्रारब्धे “योगदीपिकागुरुकुले” प्राचार्यपदवीम् अलङ्कृतवन्तः । परं श्रीमन्मध्वसिद्धान्तप्रबोधिनीनमिकायां संस्कृतमहापाठशालायां द्वैतवेदन्तविभागे कार्यं कर्तुं कर्णाटकसर्वकारेण न्ययुज्यन्त । पण्डितवर्याः निवृत्तप्राचार्याः वि।लक्ष्मीनारायणशर्माणः, वि।हरिदासोपाध्यायाः, वि।माधवपुरणिकाः इत्यादयः एतेषां सहाध्यापकाः आसन् । तदानीमेव अदमारुग्रामे विद्यामन्यैः प्रारब्धायां महापाठशालायां द्वैतवेदान्तविभागे तथा व्याकरणविभागे पूज्यानां भण्डारकेरि श्रीश्रीविद्येशतीर्थानाम्, पुत्तिकामठाधीशानां श्रीश्रीसुगुणेन्द्रतीर्थश्रीचरणानाम्,  पलिमारुमठाधीशानां श्रीश्रीविद्याधीशतीर्थश्रीपादानां, अदमारुमठाधीशानां श्रीश्रीविश्वप्रियतीर्थानां, तथा पेजावरमठाधीशानां श्रीश्रीविश्वप्रसन्नतीर्थश्रीपादानां विद्यागुरवः आसन् । नैके पुरस्कारान् एते अलभन्त । तेषां नामानि –

  • कर्णाटकसर्वकारेण प्रदीयमाना राज्योत्सवपुरस्कारः
  • पलिमारुमठाधीशैः प्रदीयमाना राजराजेश्वरप्रशस्तिः

पेजावरमठाधीशैः प्रदत्तः विद्यामान्यपुरस्कारः एते प्रधानभूताः। एवम् अनेक गौरवभाजः एते विद्वन्मणयः आसन्  इत्यत्र नास्ति संशीतिलेशः । तेषां विचारसरणिः जिज्ञासाधिकरणमधिकृत्य एवमासीदिति अत्र यथामति निरूप्यते ।

ब्रह्मसूत्रानुव्याख्यानवृत्तिः

कृष्णद्वैपायनेन विरचितस्य ब्रह्मसूत्राणां आहत्य एकविंशतिभाष्याणि आसन् मध्वाचार्याणामवतारात् प्राक् । तेन व्यासस्य नैजाशयः दुःश्शकमासीत् । सज्जनानुद्धर्तुं वेदव्यासस्य नैजाशयः अयमेवेति निश्चप्रचं प्रतिपादयितुं मध्वगुरवः सूत्राणां भाष्यं व्यदधुः । तस्य अनुव्याख्यानमपि स्वयमेव कृतवन्तः परेषामसामर्थ्यात् । तस्य अनुव्याख्यानस्य प्रतिपदार्थं बोद्धुं अनुव्याख्यानवृत्तिः इति नामकः विवृतिरूपोऽयं ग्रन्थः प्रारभ्यते । तेन यो जिज्ञासुः अनुव्याख्यानस्य सूत्रस्य वा पद-पदार्थं ज्ञातुं यतते तत्सुलभतया प्राथमिकस्तरे ज्ञातुं शक्यते । तत्समानाः ग्रन्थाः द्वैतवेदान्तेऽपि विद्यन्ते । तत्र श्रीजगन्नाथयतिकृता ब्रह्मसूत्रदीपिका,श्रीवेङ्कटपत्याचार्येण विरचितः सूत्रार्थसङ्ग्रहः इत्यादीनि प्राधान्यं भजन्ते । परन्तु एते सूत्राणां तथा भाष्यस्य च हार्दप्रतिपादने रताः न तु अनुव्याख्यानस्य । अनुव्याख्यानवृत्तेः वैशिष्ट्यमिदमेव यत् केवलं पद्यार्थविवरणम् । ईदृशः यत्नः केनापि न कृतः इति कथने नास्ति किमप्यतिशयोक्तिः ।  तदत्र यथाशक्ति निरूप्यते ।

ॐकारब्रह्मशब्दयोः समानार्थकता

मध्वाचार्याः ब्रह्मसूत्राणां व्याख्यानभूते स्वीये अनुव्याख्याने ॐकारप्रतिपाद्यः विष्णुरेव इत्यकथयन् । स एव प्रथमसूत्रस्थ ब्रह्मशब्दस्य अर्थः । ब्रह्मशब्दस्तावत् भगवतः ॐकारप्रतिपाद्यस्य ईश्वरस्य वाचकः इति “ॐइति ब्रह्म” इत्यादिश्रुतिषु गीयते । ब्रह्मशब्दस्य आत्मा-अनन्त-ईश्वर-नारायणादिशब्दाः पर्यायभूताः वर्तन्ते । तेषां समानार्थत्वात् । यथा आदिमसूत्रे ब्रह्मणः जिज्ञासा “तद्विजिज्ञासस्व । तद्ब्रह्मेति[4]” इति औपनिषदत्वात् श्रूयते तथा “नारायणं महाज्ञेयं” इति महानारायणोपनिषदि नारायणस्य, “आत्मानमेव लोकमुपासीत[5]” इत्यात्मनः, “स एष परोवरीयानुद्गीथः स एषोऽनन्तः” इत्यादौ अनन्तस्य, “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” इति ईश्वरस्य, “त्वं बन्धदो मुक्तिदोऽतो मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो” इति विष्णोश्च जिज्ञास्यत्वं श्रूयते एव । अतः प्रागुक्तसंवादसद्भावात् गुणपूर्णत्ववाचिब्रह्मशब्दस्य पर्यायभूताः आत्मादिशब्दाः इति ज्ञायन्ते तेषां समानार्थकत्वात् । अतः “अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणाः” इति श्रुत्या यौगिकशब्दव्युत्पत्त्या च नारायणादिशब्दाः ब्रह्मशब्दसमानार्थकाः इति श्रीमध्वाचार्यैः कथितम् –    

ओतत्ववाची ह्योंकारो वक्त्यसौ तद्गुणोतताम् ।

स एव ब्रह्मशाब्दार्थो नारायणपदोदितः ॥

“अव”[6] धातुर्भ्वादौ पाणिनिना पठितः । तस्य रक्षणाद्या बहवोऽर्थाः रूढ्यनुसारेण प्रसिद्धा वर्तन्ते । तेषु प्रवेशार्थोऽपि पठ्यते । तस्य धातोरधिकरणार्थे क्त प्रत्यये परतः वस्य सम्प्रसारेणेनोकारे पूर्वरूपे गुणे च कृते ओत इति रूपं सिद्ध्यति । तेन प्रवेशाधिकरणमिति शब्दार्थः फलितः ॥ शब्दानां धर्मविशिष्टेऽर्थे शक्तेर्निर्णीतत्वेन, ओतत्ववाची = प्रविष्टत्वविषयकशक्त्याश्रयः, ॐकारः = प्रणवः, असौ = सूत्रघटकः ॥ प्रवेशक्रियायाः कर्त्राकाङ्क्षायाम् उत्कर्षप्रयोजकानां धर्माणामेव योग्यतयालाभात् गुणकर्तृकप्रवेशाधिकरणत्वमित्योतत्वशब्दार्थः समभवत् ॥ एवञ्च तस्य = परब्रह्मण ॐकारवाच्यस्य- गुणोततामेव = गुणप्रविष्टत्वमेव, कथयतीति सिद्धम् । तथा च गुणपूर्णाभिन्नस्य ब्रह्मणो जिज्ञासा इति सूत्रार्थेऽन्वयः कथितो भवति ॥ अथवा ओतत्ववाचीति कथनेन ॐ इति भावप्रधानोनिर्देश इति सूचितः। ब्रह्म शब्दार्थे तस्य धर्मस्याश्रयतासम्बन्धेनान्वये गुणपूर्णत्वाश्रयब्रह्मजिज्ञासेति शाब्दबोधः सम्पन्नः । तत्र केवलेन ब्रह्मशब्देनार्थे सिद्धेऽपि, “कीचकैः मारुतपूर्णरन्ध्रैः” इति वाक्यस्येव विशिष्टवाचकस्य ब्रह्मपदस्य चेतन इति विशेष्यमात्रे तात्पर्यमुपवर्णनीयम् ॥ तथा च ॐ ब्रह्मजिज्ञासा कर्तव्येत्येकमेव वाक्यमुररीकर्तुं शक्यते । किञ्च ॐकारस्य साक्षाज्जिज्ञासायामप्यन्वयः वक्तुं शक्यते, ॐ जिज्ञासाकर्तव्येति, तदा वाक्यं सम्भवति ॥ एवञ्च पूर्णपद्यस्यान्वयार्थ इत्थमवगन्तव्यः लोके नारायणपदस्य विष्णौ रूढिर्वर्तते ॥ तस्य पदस्यावयवार्थविचारे गुणाश्रयः इत्यर्थो बोध्यते । यो नारायण-पदोदितो विष्णुः स एव ब्रह्मशब्दार्थः । उभयोरपि गुणपूर्णवाचकत्वेन पर्यायत्वात् । तथैव असौ सूत्रघटक ॐकारश्च गुणप्रवेशाधिकरणत्वकथनद्वारा गुणपूर्णत्वमेव वक्ति खलु । तेन स प्रणवोऽपि विष्णुमेव वदतीति निश्चिनुमः इति पद्यस्यार्थः अवधेयः॥

स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।

भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ।

स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते ॥

        अत्र प्रणवव्याहृतिगायत्रीवेदानां व्याख्येयव्याख्यानभावं स्पष्टयति आचार्याः । व्याहृतयः भूर्भुवः स्वः इति तिस्रः । तासु भू शब्दः, भूमतः = गुणपूर्णवाचक इति हेतोः विष्णुमेव वदति । द्वितीयः भुवः शब्दः भावनाच्च = भावयत्युत्पादयति इति व्युत्पत्त्या जगदुत्पादकस्य वाचक इति कारणात् तमेव कथयति ॥ तृतीयः स्वः शब्दः, सुत्वाच्च = अनन्तसुखरूप इति निमित्तात् पूर्णानन्दमयं विष्णुमेव भाषते॥ एवं च व्याहृतीनां सर्वासां स एव ॐकारप्रतिपाद्यो विष्णुरेवार्थः इति । “पूर्णोभूतिवरोऽनन्तसुखो यद्व्याहृतीरितः” इति ऋग्भाष्येऽपीममेवार्थमवदन् ॥ व्याहृतीनां व्याख्यान-रूपा गायत्री किल ॥ तत्र गायत्र्यां भर्ग शब्दः सन्दिग्धार्थकोऽस्ति । “भर्गो वै रुद्रः” इति कोशस्य दर्शनात् ॥ तत्सन्देहनिवारणायाचार्या भर्गशब्दस्यार्थं प्रधानतोऽवर्णयन् । स्मृतिवाक्यमपि “भर्गाख्यं विष्णु-सञ्ज्ञं तु यं ज्ञात्वामृतमश्नुते” इति श्रूयते । किं च भरतीति = भः, रमयतीति = रः, रति ददातीति वा = रः । नाशं गमयतीति गः, स्यति अपनयति बन्धमिति स् ॥ इति भर्गस् शब्दः विष्णुसङ्कल्पं वदत्यपि गुणानां परमात्मनाऽत्यन्ताभेदाद्विष्णुमेव वदतीति सिद्धम् ॥ एवं च  स एव पूर्णगुणो विष्णुरेव = भर्ग शब्दार्थो भवितुमर्हतीति वाक्यार्थः सम्पन्नः । एतच्छब्दप्रतिपाद्यानां सर्वेषां कर्मणां कर्तृत्वं पूर्णगुणत्वं विना नोपपद्यत इति हेतोः पूर्णगुणत्वमेवायं शब्दः बोधयतीति तात्पर्यम् ॥ तथैव भर्गशब्दस्य, भरति = पोषणकर्तेति व्याख्यानेन, पोषणस्योत्पत्त्यधीनत्वेन सृष्टिकर्तृत्वमिति भुवःशब्दार्थस्य विवरणं कृतं वेदितव्यम् । स्यति, रमयति = बन्धं निरस्य मुक्तौ सुखं ददातीति व्युत्पादनेन, अनन्तसुखरूपः इति स्वः पदस्य व्याख्यानं कृतम् ॥ “”स्वयमनवतीर्णः कः परांस्तारयेत्” इति न्यायेन सुखरूपस्यैव तत्र शक्तत्वात् ॥ गायत्रीमन्त्रप्रतिपाद्यार्थमेव पुरुषसूक्तं प्रतिपादयतीति तात्पर्येण- सोऽयम् = प्रणवव्याहृतिभर्गशब्दैः प्रतिपाद्यो विष्णुरेव, सहस्रशीर्षापुरुषः इत्यत्र पुरुषशब्देनापि भण्यते । “षकारः प्राण आत्मा” इति प्रमाणानुसारेण षः = प्राणः सर्वचेष्टकः, पुरुः = उत्तमः “प्राणस्य प्राणः” इति श्रुतेः। तथाचोत्तमचेष्टक इति पुरुषशब्दस्यार्थः सिद्धः । एवं च तस्य सूक्तस्यार्थमेव  सकला वेदा भणन्तीति हेतोः सर्ववेदप्रतिपाद्यः नारायण एव  

स एव सर्ववेदार्थः जिज्ञास्योऽयं विधीयते ॥

इति वदन्ति । स एव = पूर्वोक्त ॐकारादिभिः प्रतिपाद्यो नारायणः सर्ववेदैः तात्पर्यतः प्रसिद्धोर्थः। तथा च श्रुत्यर्थनिर्णयार्थम् इमानि सूत्राणि प्रवृत्तानि खलु ।  श्रुतितात्पर्यसाध्योऽर्थो विष्णुश्चेत् सूत्रैर्जिज्ञास्यश्चायमेव भवितुमर्हतीति सूचयन् – जिज्ञास्योऽयमिति वदन्ति । युक्तिज्ञानरूपेण मननेन निर्णेयः सकलवेदमुख्यार्थरूपो विष्णुरेवेति यावत् । स च समस्तगुणपूर्णत्वेन जीवजडात्मकप्रपञ्चाद्भिन्नत्वेनानेन ग्रन्थेन प्रतिपादनाद्विषयो भवितुमर्हः इति च ॥ यद्यपि नारायणः साक्षाद्वेदानामेव विषयो भवितुमर्हति । न तु जिज्ञासायाः, तथापि, वेदशब्दैः विष्णुनिश्चय-जननार्थं युक्त्यनुसन्धानरूपो जिज्ञासापदबोध्यो विचारः सहकारी भवति । तथा च , यथा जलमृदादिसहकारेण बीजेन जन्योऽङ्कुरः जलादिजन्योऽपि भवति, तथैव मीमांसा-सहकारेण वेदगतशब्दजन्यनिर्णयस्य विषयीभूतो नारायणो मीमांसाया अपि विषयो भवितुमर्हत्येव । यद्यपि चात्र ब्रह्मणो जिज्ञासेति षष्ठीसमास एव युक्तः । सा च षष्ठी-कर्मण्येव विहिता “कर्तृकर्मणोः कृति” इति सूत्रेण प्राप्ता ॥ तथा च ब्रह्मविषयकजिज्ञासा कर्तव्येति सूत्राक्षरार्थवर्णनं लब्धम् । तेन विधेयविशेषणत्वेन ब्रह्मणोऽप्राधान्यं प्राप्नोति । तच्छङ्कानिवारणार्थं चाचार्याः जिज्ञास्योऽयं विधीयत इति कथनेन कर्मणः प्राधान्यमुपपादयन्ति । तेनास्य प्रथमसूत्रस्याक्षरार्थोऽयं प्रतिभायते । जिज्ञासापदे घटको सन् तस्य विचारोऽर्थः । सनः प्रकृतिभूतस्य ज्ञा धतोरर्थस्तु ज्ञानम् । ज्ञाने कर्मत्वेन विशेषणं ब्रह्म विवक्षणीयम्  । “औपनिषदः पुरुषः” इति श्रुत्यनुसारेण विष्णुज्ञानं वेदमात्रेणाजायत इति हेतोर्वेदविचार इत्येवलभ्यते। तथा च ब्रह्मज्ञानाय श्रुतीनां युक्त्यनुसन्धानरूपविचारः कर्तव्य इति । एवं सति विधेय विशेषणत्वं ब्रह्मण्यनागतम् । ब्रह्मज्ञानोद्देश्यत्वभानेन, तत्र ब्रह्मणो विशेषणत्वेनोद्देश्यविशेषणत्वमेवागतमिति, प्रधानघटकत्वेन प्राधान्यमेव सिद्धमिति ग्रन्थकर्तृणामभिप्रायः ।

उपसंहारः

ग्रन्थेऽस्मिन् षण्णवति पद्यानि जिज्ञासाधिकरणसम्बद्धानि वर्तन्ते । तथा जन्माधिकरणे दशश्लोकानां अर्थः विवृतः । ईदृशार्थवर्णनेन साक्षात् श्रीमदानन्दतीर्थभगवत्पादानां नैजाशयः व्यक्तीभविष्यति । तेन सङ्कलनात्मकानाम् अध्ययनानां प्रामुख्यं स्पष्टं ज्ञायते । इत्थं प्रणव-व्याहृति-गायत्री-पुरुषसूक्तप्रतिपाद्यः एव सर्ववेदेनापि प्रतिपाद्यः । स एव ब्रह्म । ब्रह्मैव नारायणः । अतः तस्य जिज्ञासा कर्तव्या इति आदिमसूत्रार्थः फलति । तमिमर्थं वेङ्कटरमण-ऐताळ-महाभागाः एवं निरूपितवन्तः इति लेखनमिदं मध्वान्तर्गत अक्षरप्रतिपाद्य-नारायणाय समर्पयामि ।   

उदाहृतग्रन्थसूची  

Bhat, D. G. (2022). Sarvamoola Granthaha. Retrieved from Sriman Madhvacharya Virachita Sarvamoola Granthaha: https://ganapathyv.wixsite.com/website/post/10-books-for-the-perpetually-curious

Bhat, D. K. (2019, march). Srimad Bhagavatam. Retrieved from bhagavatam Moolashlokaha VSS Softs Udupi: https://play.google.com/store/apps/details?id=maha.bhagavatasan12

Bodas, N. (2105). Ashtadhyayi.Com. Retrieved from https://Ashtadhyayi.Com: https://ashtadhyayi.Com

Education, M. A. (2016, November 14). Mahabharata.Manipal.edu. Retrieved from Computational Analyses Of mahaabhaarata: https://mahabharata.manipal.edu/#/

Jayateertha, S. (n.d.). न्यायसुधा. Banglore 560004: Dvaita Vedanta Studies And Research Foundation.

Kosha. (2008). Retrieved from Kosha Sanskrit Today: https://kosha.sanskrit.today

LABS, A. (2019). AIEUN LABS TECHNOLOGY MEETS ANCIENT SCIENCE. Retrieved from DHATUROOPAM 360 & Bharatiya Vedic Research Institute: http://sanskrit-dhatu-360.en.softonic

n.d. श्रीमद्भागवतपुराणम् https://sa.wikisource.org/wiki/श्रीमद्भागवतपुराणम्

(n.d.). Retrieved from Anandamakaranda: https://anandamakaranda.in/ (Madhvacharya),

 A. (2009). Śrī-mahā-bhārata-tātparya-nirṇaya. (G. Bannaje, Ed.) Udupi: Tatva-Samśodhana-Samsat.

Madhvacharya. (2005). UPANIṢADBHĀṢYAM. Bengaluru: Poornaprajna Samshodhana Mandiram. Madhvacharya.

 (2006). बहृ दारण्यकोपभनषद्भाष्यम.्Bengaluru: Poornaprajna Samshodhana Mandiram.

(2008). Gitaprasthana (Sarvamulagranthagalu). Bengaluru: Akhila Bharata Madhva Maha Mandala.


[1] P Ajitha Kumar, Lecturer , Department of Dwaitha Vedanta, S.M.S.P.Sanskrith College, & Researcher  Karnataka Sanskrith University, Bengaluru

[2] Dr.Krishnacharya Upadhyaya, Director of  Vidyaadheesha Snatakottara Samskritha Shodha Kendram, Basavanagudi , Bengaluru

[3] श्रीमदनुव्याख्यानस्य मङ्गलपद्यम्

[4] तैत्तरीयोपनिषत्-भृगुवल्ली-मन्त्र संख्या २

[5] बृहदारण्यकोपनिषद्भाष्यम्-तृतीयोऽध्यायः-अव्याकृतब्राह्मणम्-मन्त्रसंख्या ९

[6] अव – रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु ०१\०६८४\६०० सिद्धान्तकौमुदी