भारतसंविधानस्य आद्यभागद्वये मीमांसकस्य दृष्टिः
महेश चिदम्बर भट्टः
अध्यापकः, मीमांसाविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
Mo:- 8762917602
Abstract –
भगवान् जैमिनिः धर्माधर्मविवेकाय द्वादशाध्यायोपेतं मीमांसाशास्त्रमुदलेखीत् । वेदवाक्यार्थः लौकिकन्यायान् उपयुज्य अत्र जैमिनिना न्यरूपयि । अत एव न्यायालयेषु न्यायदानावसरे मीमांसाशास्त्रसिद्धन्यायाः उपायुज्यन्त इति । अतः अत्र संविधानस्य आद्यभागद्वये मीमांसशास्त्रविषयः यत्किञ्चित् प्रतिपिपादयिष्यते ।
Keywords –
संविधानम्, भारतम्, नागरिकता, अङ्गताबोधकप्रमाणानि, पौरः ।
भगवता जैमिनिना वेदार्थरूपधर्माधर्मविवेकाय द्वादशाध्यायोपेतं मीमांसाशास्त्रं उल्लिलिखे । तत्र अलौकिकवेदवाक्यार्थः लौकिकरीत्या एव न्यरूपयि इति अस्ति शास्त्रस्यास्य महान् विशेषः । अत एव न्यायालयेषु न्यायदानावसरे बहुभिः न्यायनिर्णायकैः मीमांसाशास्त्रोपयोगः अक्रियत इति शोश्रूयते [1]। अतः अत्र संविधाने मीमांसशास्त्रविषयः एवं वर्तेत , एवं प्रतिपादयितुं शक्येत इति प्रतिपिपादयिषया यत्किञ्चित् उल्लिलेखिष्यते ।
संविधानस्य प्रथमः भागः “ सङ्घः , तस्य राज्यक्षेत्रञ्च “ इति (The Union And Its Territory) |
तत्र प्रथमानुच्छेदः (Article) , संविधानस्य प्रथमा पङ्क्तिः – भारतमर्थात् इण्डिया,राज्यानां सङ्घः भवेदिति । अत्र आग्नेयोपांश्वग्नीषोमीयपुरोडाशाग्नेयसान्नाय्ययागानां[2] षण्णां समुदायस्य यथा दर्शपूर्णमासः इति नाम तथा भारतमिति अष्टाविंशतिराज्यानां अष्टकेन्द्राडळितप्रदेशानां च समुदायस्य नाम वर्तते । भारतदेशः नाम राज्यसमुदायः दर्शपूर्णमासः यथा प्रधानः तथा प्रधानो भवति फलसाधकत्वात् । तत्र दर्शपूर्णमासयोः षड्यागघटकत्वं वर्तते इत्यत्र यथा वेदवाक्यं (विधिः) प्रमाणम् तथा देशस्य राज्यमिदमित्यत्रापि प्रमाणं भवति विधिः (Article) . तदुक्तं प्रथमानुच्छेदस्य द्वितीये खण्डे – राज्यानि तथा राज्यक्षेत्राणि च तथा भवेयुः यथा प्रथमानुसूच्यां विनर्दिष्टानि(The States and the territories thereof shall be as specified in the first Schedule)
देशस्य राज्यसमुदायात्मकस्य देशिकाः देशस्थजनाः अङ्गस्थानीयाः भवन्ति । अतः जनानां पौरत्वं प्रतिपादयितुं द्वितीयः भागः नागरिकता (Citizenship) इत्याख्यः आरभ्यते । तत्र यस्य (१)पितृक्रमपुरस्सरं भारतदेशे जन्म जातम् तस्य , (२)अन्यदेशपौरत्वमस्ति चेत् अपि पुत्रस्य जन्म भारतदेशे जातञ्चेत् तस्य पुत्रस्य , (३)येन अन्यूनपञ्चवर्षवासः देशे कृतो वर्तते तस्य च पौरत्वं भारते सिध्यति । इत्येवं सामान्यतः नागरिकत्वस्य त्रयः प्रकाराः संविधाने न्यरूपयिषत । तदवाचि संविधाने – अस्य संविधानस्य प्रारम्भे सः प्रत्येकं जनः यस्य भारतस्य राज्यक्षेत्रे अधिवासः विद्यते , तथा च –
(क) यस्य भारतस्य राज्यक्षेत्रे जन्म अभूत् अथवा
(ख) यस्य मातापित्रोः अन्यतरस्य भारतस्य राज्यक्षेत्रे जन्म अभूत् , अथवा
(ग) यः तादृशात् प्रारम्भात् अव्यवहितपूर्वं पञ्चवर्षेभ्यः अन्यूनं भारतस्य राज्यक्षेत्रे सामान्यतः निवसन् वर्तते ,
सः भारतस्य नागरिकः भवेत् ॥ इति ॥
(At the commencement of this Constitution , every person who has his domicile in the territory of India and –
- Who was born in territory of India ; or
- Either of whose parents was born in the territory of India ; or
- Who has been ordinarily resident in the territory of India for not less then five years immediately preceding such commencement, shall be a citizen of India .)
अत्र मीमांसाशास्त्रसिद्धविचारः एवं कर्तुं शक्येत :-
मीमांसायां अङ्गत्वबोधको विधिः विनियोगविधिः इत्यौद्यत । तत्र च षट्प्रमाणानि न्यरूपयिषत जैमिनिना – श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानि इति । प्रकृते स्थानप्रमाणमावश्यकमित्यतः तदेव साक्षात् निरूप्यते – स्थानं नाम देशसामान्यम् । तद्विविधं पाठसादेश्यम् अनुष्ठानसादेश्यं चेति । तदुक्तम् –
तत्र क्रमो द्विधैवेष्टः देशसामान्यलक्षणः ।
पाठानुष्ठानसादेश्याद्विनियोगस्य कारणम् ॥ इति ॥[3]
पाठसादेश्यमपि द्विविधं यथासङ्ख्यपाठः , सन्निधिपाठश्चति । ऐन्द्राग्नमेकादशकपालं निर्वपेत् , वैश्वानरं द्वादशकपालं निर्वपेत् इत्येवं क्रमविहितेषु इन्द्राग्नी रोचनादिव , वैश्वानरम् अजीजनत् इत्येवं क्रमविहितानाम् याज्यामन्त्राणां यथसङ्ख्यं प्रथमस्य कर्मणः प्रथममन्त्रः अङ्गं , द्वितीयस्य कर्मणः द्वितीयमन्त्रः अङ्गमित्येवं यः अङ्गाङ्गीभावः सः यथासङ्ग्ख्यपाठात् भवति इति अवादीत् ।
एतदनुसारेण पितुः नागरिकत्वं भारतदेशस्य अस्ति चेत् पुत्रस्यापि सिध्यति इति वक्तुं शक्यते । तथाहि – देशः अत्र कर्मस्थानीयः , पितृक्रमः अत्र मन्त्रस्थानीयः , फलसाधनीभूतकर्मक्रमे मन्त्रः आगतः इत्यतः सः यथा तत्कर्माङ्गं भवति तथा पितृस्थानक्रमे देशः आगतः इत्यतः तत्क्रमे आगतः पुत्रोऽपि तस्यैव देशस्य पौरः भवति । नाम पिता नागरिकः चेत् पुत्रोऽपि तस्मिन् एव देशे जन्म प्राप्तवान् चेत् सः पुत्रः पितृक्रमे आगतः इत्यतः यथा पिता अस्य देशस्य नागरिकः तथा पुत्रस्य अपि अस्यैव देशस्य नागरिकत्वं सिध्यति ।
यदि पिता देशस्यास्य नागरिको नास्ति अन्यदेशस्य वर्तते परन्तु पुत्रः अस्मिन् देशे जन्म प्राप्तवान् तदानीमपि तस्य पुत्रस्य अस्यैव देशस्य नागरिकत्वमायाति । तत्र प्रमाणं भवति सन्निधिरूपं स्थानम् । तद्यथा – विकृतिसन्निधौ पठितानामङ्गानां विकृत्यर्थत्वं सन्निधिपाठात् । यथा विकृतिभूतसौर्ययागे पठितानां उपहोमानां सौर्ययागार्थत्वम् विकृतिपाठानर्थक्यापत्तेः इत्युक्तम् । तथा पितुः विकृतिभूतभारतदेशे प्राप्तजन्मनः पुत्रस्य भारतदेशार्थत्वं भारतदेशजन्मानर्थक्यापत्तेः । प्रकृतिः सिद्धपौरत्वदेशः भवति । नाम उदाहरणार्थम् कस्यचित् अमेरिकादेशस्य पौरत्वमस्ति चेत् सः देशः तस्य कृते प्रकृतिः , भारतदेशः विकृतिः । अतः भारतदेशः तस्य पितुः कृते विकृतिः । परन्तु अत्रैव पाठः नाम पुत्रस्यजन्मप्राप्तिः जाता चेत् तस्य पुत्रस्य भारतदेशस्य पौरत्वं सिध्यतीति ।
यदि पितृक्रमः नास्ति , पूर्वोक्तसन्निधिरपि नास्ति तथापि पञ्चवर्षेभ्यः अत्रैव कश्चन उवास , अत्रैव कर्म कृतवान् तर्हि तस्यापि पौरत्वं सिद्ध्यति । अत्र प्रमाणं भवति अनुष्ठानसादेश्यम् । पशुधर्माणाम् अग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात् । [4]पञ्चदिनसाध्यसोमयागे दीक्षादिने अग्नीषोमीयपशुयागः अपठ्यत । ततः चतुर्थे दिने उपाकरणनियोजनादिपशुधर्माः अपठ्यन्त । “ स एष द्विदैवत्यः पशुरौपवसथ्ये अहन्यालब्धव्यः [5]“ इति वाक्यानुसारेण दीक्षादिने पठितस्याऽपि पशुयागस्य चतुर्थे दिने एव अनुष्ठानं भवति । इदानीं पशुयागः , तद्धर्माः च समानदेशे आगताः अतः पशुयागतद्धर्मयोः अङ्गाङ्गीभावः सिध्यति । यथा पशुयागः न अनुष्ठानदेशे पठितः तथा पिता अनुष्ठानदेशे जन्म न प्रापत् , यथा वाक्यवशात् अन्यत्र पठितस्य यागस्य अन्यदिनाङ्गत्वं ज्ञायते तथा अधिकारिवाक्येन पुरुषस्य अन्यदेशाङ्गत्वं ज्ञायते । नाम यदा पञ्चवर्षाणि अत्र तिष्ठति कश्चन पुरुषः तदा अधिकारिणः अयमस्य देशस्य पौरः इति अङ्गीकुर्वन्ति तदनन्तरम् सः अपि अस्य देशस्य पौरः इति सिध्यति । एवं विशेषतः मीमांसाविषयाः अत्र एवं योजयितुं शक्येत इति कश्चन प्रयासः कृतः ।
संविधानस्य आदौ , शास्त्रादौ उत ग्रन्थादौ यथा मङ्गलं क्रियते शास्त्रज्ञैः तथा संविधाने अपि अकारीति अयं सामान्यविषयः अपि किञ्चित् निरूप्यते । संविधानस्य प्रस्तावना एवं वर्तते :-
“ वयं भारतस्य जनाः , भारतं सम्पूर्णप्रभुत्वसम्पन्नं , समाजवादिनं , सम्प्रदायनिरपेक्षं , लोकतन्त्रात्मकं गणराज्यं विधातुं तस्य समस्तान् नागरिकांश्च सामाजिकम्, आर्थिकम् , राजनीतिकं च न्यायं , विचारस्य , अभिव्यक्तेः , आस्थायाः , धर्मस्य , उपासनायाश्च स्वतन्त्रतां , प्रतष्ठायाः , अवसरस्य च समतां प्रापयितुं , तेषु सर्वेषु च व्यक्तिगौरवस्य , राष्ट्रस्य एकतायाः अखण्डतायाश्च , सिनिश्चायिकां बन्धुतां वर्धयितुं कृतदृढसङ्कल्पाः अस्यां अस्मदीयायां संविधानसभायाम् अद्य ख्रिस्तीये १९४९तमे वर्षे नवम्बरमासस्य २६ तमे दिने (२००६ तमे विक्रमसंवत्सरे मार्गशीर्षे शुक्लपक्षे सप्तम्यां तिथौ ) एतेन इदं संविधानं अङ्गीकृतम्,अधिनियमितम्,आत्मार्पितं च कुर्महे “ ॥ इति ॥
अत्र आशीर्नमस्क्रियावस्तुनिर्देशात्मकमङ्गलेषु वस्तुनिर्देशात्मकं मङ्गलं यथा कालिदासेन कुमारसम्भवे –
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधीवगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ इति ॥
चक्रे तथा संविधानेऽपि अकारीति वक्तुं शक्यते ।
सम्बन्धश्चाधिकारीच विषयश्च प्रयोजनम् ।
विनानुबन्धं ग्रन्थादौ मङ्गलं नैव शस्यते ॥ इत्युक्त्यनुसारेण विषयाः – न्यायः , स्वतन्त्रता , समता , एकता , बन्धुता च इति , विषयस्य संविधानस्य च प्रतिपाद्यप्रतिपादकभावस्सम्बन्धः , न्यायस्वतन्त्रतादिविषयजिज्ञासुः अधिकारी , जीवनोपयोगिवादोपयोगिन्यायस्वतन्त्रतादिविषयकज्ञानं प्रयोजनम् इत्येवम् अनुबन्धचतुष्टयं सर्वजनप्रवृत्तिसिद्धये उक्तम् । यदि प्रयोजनादिकं नोच्यते तर्हि एतादृशजटिलविषये प्रवृत्तिः न सिध्यतीति कुमारिलभट्टेन :-
सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् ।
यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते ॥[6] इत्येवमवादि ।
एवं सामान्यतया मङ्गलाचरणविषयः अपि अत्र संविधाने वर्तते एव इति ॥
अनुशीलितग्रन्थसूची :-
- The Constitution of India (As on 26th November , 2021)
- भारतस्य संविधानम् ( १४-१-१९८५ दिनाङ्के यथाविद्यमानम् )
- मीमांसान्यायप्रकाशः ,published by चौखम्भा संस्कृत संस्थान in 2008
- मीमांसापरिभाषा , कृष्णयज्वा , published by Chowkhamba krishnadas academy in 2009
- अर्थसङ्ग्रहः , तन्त्रप्रकाशिक इति व्याख्योपेतः published by डी.टी.स्वामिप्रकाशनम् in 1998
- श्लोकवार्तिकम् published by Ratna publications , Varanasi in 2007.
[1] Rules of the Mimamsa are the highest authority in construction of Hindu law – (Judge) Sir John Edge in 1892 , Alahabad High Court.
Mimamsa is Necessary qualification for judges –(Justice) M Rama Jois in 2004 P.436
[2] दर्शे त्रयः यागाः – १)आग्नेययागः २) ऐन्द्रदधियागः ३) ऐन्द्रपयोयागः
पौर्णमास्यां त्रयः यागाः – १)आग्नेययागः २)उपांशुयाजः ३)अग्नीषोमीयपुरोडाशयागः इति षड् यागाः । सान्नाय्यं दधिपयसी ।
[3] न्यायप्रकाशः , स्थानप्रामाण्यनिरूपणम् , Page No-73
[4] अर्थसङ्ग्रहः,अनुष्ठानसादेश्यम्.Page No-57
[5] न्यायप्रकाशः,स्थाननिरूपणम्,Page No-75
[6] श्लोकवार्तिकम् १२तमः श्लोकः , प्रतिज्ञासूत्रम्