बहुगणवतुडति संख्या इति सूत्रे संख्याग्रहणं कर्तव्यमिति वार्तिकस्य प्रत्याख्यानप्रकार

Dr. Santosh Majhi
Assistant Professor.
Department Of Vyakarana,
N.S.U, Tirupati, A.P
 Ph : 8309998627

   

सारांशः-    

“बहुगणवतुडति संख्या” इति सूत्रेण बहु गण इति प्रातिपदिकयोः वतु इति प्रत्ययान्तयोश्च संख्या संज्ञा विधीयते। तत्र एक द्वि इत्यादीनामपि शब्दानां संख्या संज्ञा विधीयते। तत्र एक द्वि इत्यादीनामपि शब्दानां संख्या संज्ञा सिध्यर्थं “संख्या संज्ञायां संख्या ग्रहणं संख्या सम्प्रत्ययार्थम् ” इति वार्तिकमारब्धम्। अन्यथा “कृत्रिमाकृत्रिमयोः कृत्रिमेकार्यसम्प्रत्ययः” इति न्यायात् तेषां संख्या संज्ञा न स्यात् । एवं “ ष्णान्ता षट्” इति उत्तरसूत्रे अनुवृत्यर्थमपि संख्या ग्रहणमत्र सूत्रे कर्तव्यम्। तेन पामानो त्रिपुषः इत्यादौ संख्यासंज्ञा वार्यते। अतः इहार्थम् उत्तरार्थञ्च अत्र सूत्रे संख्याग्रहणं कर्तव्यमिति वार्तिककाराणामाशयः। वस्तुतस्तु संख्या ग्रहणं न कर्तव्यमेव तथाहि एक, द्वि इत्यादीनां शब्दानां लोकतः एव ग्रहणं भवति। “कृत्रिमाकृत्रिमयोः कृत्रिमेकार्यसम्मत्ययः” इति न्यायः इह न प्रवर्तते। उभयगतेः शास्त्रे दृष्टत्वात्।

कुञ्जिशब्दाः(Key Words)

       कृत्रिमः, अकृत्रिमः, पर्युदासः, प्रणीयन्ते, पानीय, पीयते, उपस्पृश्यते, शाल्यः, अनुपसर्जनम्।

(क) ” कर्मणि द्वितीया ” इति सूत्रे कर्मशब्देन “कर्तृरीप्सिततमं कर्म” इति सूत्रे विहितायाः कृत्रिमायाः संज्ञायाः ग्रहणाम्। ” कर्तरि कर्मव्यतिहारे ” इति सूत्रे तु कर्म शब्देन अकृत्रिमायाः क्रियायाः ग्रहणाम्।

(ख) “कर्तृकरणयोस्तृतीया” इति सूत्रे करण शब्देन ” साधकतं करणम् ” इति सूत्र विहितायाः कृत्रिमायाः करण संज्ञायाः ग्रहणाम्। “शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ” इत्यत्र तु करण शब्देन अकृत्रिमायाः क्रियायाः ग्रहणम्।

(ग) “सप्तम्यधिकरणे च” इति सूत्रे अधिकरण शब्देन ” आधारो अधिकरणम्” इति सूत्र विहितायाः कृत्रिमसंज्ञायाः ग्रहणम्। “विप्रतिषिद्धं चानाधिकरणवाचि” इति सूत्रे तु आधिकरण शब्देन अकृत्रिमस्य द्रव्यस्य ग्रहणम्। एवञ्च कृत्रिमाकृत्रिम न्यायः न प्रवर्तते।

(१) अथवा “बहुगणवतुडति संख्या” इति न संज्ञा सूत्रम् । किन्तु अतिदेश सूत्रम् । बहुगणवतुडतयः संख्यावत् भवतीति तदर्थः।

(२) अथवा “संख्यायाः अतिशदन्तायाः कन्” इति सूत्रे अतिशदन्तायाः इति पर्युदासेन (निषेधेन) लौकिकानाम् एक द्वि इत्यादीनामपि संख्यात्वं ज्ञाप्यते। अन्यथा कृत्रिमायाः त्यन्तशदन्तायाः संख्यायाः अभावेनैव कन् प्रत्ययस्य अप्राप्तौ पर्युदासः व्यर्थः स्यात् ।

(३) अथवा ‘संख्या’ इति महासंज्ञा आश्रीयते। तेन एक द्वि इत्यादीनामपि संख्यासंज्ञा सिध्यत्येव ।

एवं रीत्या प्रमाणैः इहार्थं संख्याग्रहणम् अनावश्यकमिति स्पष्टीकृतं भाष्ये ।

उत्तरार्थमपि संख्या शब्देन निर्वाहत्। यथा शाल्यर्थं कुल्याः। प्रणीयन्ते, ताभ्यः पानीय पीयते उपस्पृश्यते शाल्यश्च भाव्यन्ते। तथा अस्मिन् सूत्रे विद्यमानः संख्याशब्दः संज्ञा बोधयति उत्तर सूत्रे संज्ञिवाचको भवति।

अथवा ” ष्णान्ता षट् ” इत्युत्तरः सूत्रे ‘ष्णान्ता’ इति स्त्रीलिङ्ग निर्देशः। अत्र प्रकृत्वात् अन्यपदार्थत्वेन सुअंख्या अपेक्षते इति न दोषः। एवञ्च इहार्थम्, उत्तरार्थं वा संख्याग्रहणं न कर्तव्यमेवेति भाष्ये वार्तिकमिदं प्रत्याख्यातम्। वस्तुतस्तु –

(१)संज्ञा प्रतिषेधः अनावश्यकः। तथाहि “पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थामसंज्ञायाम्” इति सूत्रे असंज्ञायाम् इति योगः विभज्यते। तेन सर्व विश्व इत्यादिना गणपाठेन सर्वादीनि शब्दस्वरूपाणि यानि उक्तानि असंज्ञायाम् एव तानि वक्तव्यमेव इत्यर्थः सिध्यति। अतो नास्ति दोषः।

(२) उपसर्जन प्रतिशेधोऽपि अनावश्यकः। “अनुपसर्जन” इति सूत्रे अनुपसर्जन + अ + अत् इति पदविभागः आश्रीयते। अनुपसर्जनेन इत्यत्र षष्ठीविभक्तेः “सुपां सु लुक्” इत्यादि सूत्रेण लुक्। तथा च अकारः अत् कारौ अनुपसर्जनस्य एव भवः इत्यर्थेन अनुपसर्जने तयोः कार्ययोः अप्रवृत्तिः एव।

एवं रीत्या संज्ञायाम् उपसर्जन विषये च प्रतिषेध कथनम् अनावश्यकमेवेति वार्तिकमिदं प्रत्याख्यातम्।

सन्दर्भग्रन्थाः

1. लघुसिद्धान्तकोमुदी- आचार्य रघुनाथ शास्त्री-चौखम्बासुरभारतीप्रकाशन, वारणासी।

2. लघुसिद्धान्तकोमुदी – आचार्य विश्वनाथ मिश्रः चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।

3 व्याकरणमहाभाष्यम् – श्री भार्गवशास्त्रिण-चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।

4. वैयाकरणसिद्धान्तकौमुदी- श्रीगोपालदत्त पाण्डेयः- चौखम्बा सुरभारती प्रकाशना

5. वैयाकरणसिद्धान्तकौमुदी- लक्ष्मी शर्मा चौखम्बा सुरभारती प्रकाशन, वारणासी।

6. परिभाषेन्दुशेखरः – आचार्य विश्वनाथ मिश्र – चौखम्बासुरभारतीप्रकाशन, वारणासी।

7. पाणिनीय अष्टाधायी पाठः – स्वामी प्रह्लाद गिरि वेदान्तकेशरी – चौखम्बासुरभारतीप्रकाशन, वारणासी।

8. धातुपाठः – डॉ नरेश झा – चौखम्बासुरभारतीप्रकाशन, वारणासी।

9. धातुरुप कल्पद्रुमः – एपी उणी – ओरिओण्टेल् दील्ली।

10. सस्कृतसाहित्यकोषः – डॉ राजवंशसाहाय हीरा – चौखम्बाविद्याभवन, वारणासी।

11. सस्कृतहिन्दिकोषः – वामन शिवरामआप्टे चौखम्बाविद्याभवन, वारणासी।

12. तिकृत्कोषः – पुष्पादीक्षित् – संस्कृतभारती, नवदेहल्ली।