अर्चिरादिमार्गः

डा. चक्रवर्तिराघवन्, तिरुपतिः

परमपुरुषः विदुषः चेतनस्य प्रयाणकाले स्वस्मिन् उत्क्रान्तिजनित आयासविश्श्रमार्थ ब्रह्मनाडीद्वारा बहिःनिष्क्रमणार्थं च अल्परूपं परिगृह्य हृदयान्तः स्थित्वा तस्मिन् स्थाने जुगुप्सारहितः तम् अनुगृह्य देहात् बहिः प्रस्थापयतीति तदोकाधिकरणे उक्तम् । अत्रेयमाशङ्का – यद्यपि भगवद्गीतासु देवयान, पितृयान मार्गद्वयं प्रतिपाद्य उपसंहारे –

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ।।

इति मुमुक्षुभिः अर्चिरादिमार्गस्य योगाङ्गत्वेन प्रतिदिनं स्मर्तव्यत्वविधानात् ब्रह्मसूत्रेषु चतुर्थाध्याये अर्चिरादि आतिवाहिगणमधिकृत्य उपपादनं क्रियते इति । जीवस्य कर्मवश्यत्वेन शरीरान्तःस्थितिः दोषरूपः परमात्मानस्तु अकर्मवश्यत्वेन जीवे सह तच्छरीरान्तः स्थितिः न दोषावहा । तथापि जीवस्यापि दुःखरूप अपुरुषार्थ प्रदानं मनुष्यादि देहसम्बन्धद्वारैव भगवता क्रियते । अतः देहसम्बन्धस्य अपुरुषार्थत्वं स्वाभाविकम् । अतः कर्मवश्यत्वराहित्येऽपि स्वेच्छाकारितत्वेऽपि अशुचिदेहसम्बन्धः भगवतः अपुरुषार्थसम्बन्धम् आपादयति इत्याशङ्का एवं निवारणीया-

अत्र भगवान् जीवस्य नियमनार्थमेव हृद्देशे तिष्ठति । तथाहि-

ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वाभूतानि यन्त्रारूढानि मायया ।।

(भगवद्गीता १८.६१) २.

सर्वस्या चाहं हृदिसन्निविष्टो (भगवद्गीता १५.१५)

इति भगवद्गीतास्वपि उक्तम् ।
अङ्गुष्ठमात्रः पुरुषः मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते ।।

इति श्रुतिः जीवानुग्रहार्थ वात्सल्यातिशयेन अत्यल्पे पूयशोणितपूर्णऽपि मांसनिर्मिते हृदयप्रदेशे समागच्छति । सर्वास्वपि श्रुतिस्मृतिषु सर्वावस्थास्वपि भगवान् निरस्तनिखिलदोषः इत्येव संकीर्त्यते । यथा दहरविद्यायां अपहतपाप्मत्वादि गुणाष्टकसम्पन्नः दोषरहितश्च इत्यभिधीयते । स्मृतिरपि ‘परः परानां सकला न यत्र क्लेशादयस्सन्ति परावरेशे (विष्णुपुराणम् ६.५.८५) ‘समस्ते हेयरहितं विष्ण्वाख्यं परमं पदम् ‘निर्गुणम्’ ‘निरञ्जनम् इत्यादि वचनैः दोषरहितस्वरूपम् उच्यते । अन्तर्यामिब्राह्मणे च अधिदैवाधिलौकादिषु पर्यायेषु प्रतिपर्यायम् ‘अन्तर्याम्यमृतः’ इति दोषरहितत्वेन उपसंह्रियते । न च दोषरूपत्वं, अपुरुषार्थरूपत्वं च कस्यापि वस्तुनः स्वस्वभावायत्तम् । यतो हि मुक्तस्य त्रिपाद्विभूत्यनुभवादिव लीलाविभूत्यनुभवादपि ‘इमांल्लोकान् कामान्नी कामारूप्यनुसञ्चरन् (तैत्तिरीयभृगुवल्ली १०.५) इति आनन्दानुभवप्राप्तिरेव उच्यते। एकमेव वस्तु एकस्यैव चेतनस्य कदाचित् दुःखरूपं कदाचित् सुखरूपं च परिदृश्यते। तन्त्र कर्मतारतम्यमेव कारणम् । तदुक्तं विष्णुपुराणे –

‘नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ।

अस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च ।।

कोपाय च यतस्तस्मात् वस्तुवस्त्वात्मकं कुतः । तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।।

तस्मात् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम् ।।’ (विष्णुपुराणम् २.६.४६-४८)

इति एवं तत्त्वेचे स्थितेऽपि पुण्यवशात् जीवस्य किञ्चिद्वस्तु सुखरूपत्वेन पापवशात् किञ्चिद्वस्तु दुःखरूपत्वेन संदृश्यते । अतः जीवस्य तत्तद्वस्तु सम्बन्ध एव कर्मपरवशतया अपुरुषार्थो भवति । किन्तु सर्वनियन्तुःसर्वान्तर्यामिणः किमपि वस्तु न अपुरुषार्थ रूपम्। किञ्च हृदयान्तःप्रविश्य भवाब्दिमग्नस्य जीवस्य उद्धरणं भगवता क्रियतेति रक्षकत्व-वात्सल्यादि गुणानां प्रकाशनरूपत्वात् हार्दावतारस्य श्लाघ्यत्वम् । अत्र सोदाहरणं वेदान्ताचार्यैः इदम् उपपादितम् रहस्यत्रयसारे उत्क्रान्त्यधिकारे-

दहरकुहरे देवस्तिष्ठन् निषद्वर दीर्घिका । निपतित निजाप्रत्याधित्सावतीर्म पितृक्रमात् ।।

धर्मनिमिहनः तस्मिन् काले स एव शताधिकां अकृतकपुरप्रस्थानार्थ प्रवेशयति प्रभुः ।। इति ।

अतः हार्दावतारेण मुमुक्षोर्जीवस्य मुक्तिमार्ग नयनरूप महोपकारात् उपकर्तृत्वरूपगुणविशेषः प्रकाशितो भवति इत्यवधारणीयम्

सर्वेषामेव मनुष्याणां गुहा सदृशे हृदये अतिसूक्ष्म अल्पपरिमाणरूपविशेषविशिष्टः सर्वासां प्रवृत्तीनां साक्षितया ईश्वरः अवतीर्य तिष्ठति। योगिनः दहरविद्यादि उपासनेषु अन्तर्हृदये विद्यमानं तद्रूपम् उपासते । शरीरान्तः पुण्डरीकाकार हृदयमध्यवर्तित्वेन तस्य अवतारस्य अन्तर्याम्यवतारः, हार्दावतारः इति च व्यपदेशः क्रियते । ब्रह्मसूत्रेषु भगवान् बादरायणः चतुर्थाध्याये द्वितीयपादे तदोकोऽधिकरणे – अयं हार्दः मुमुक्षुन् विद्वांसं अनुगृह्णन् मूर्धन्य नाड्या हृदयात् तं बहिर्नयति हार्दानुग्रहेण प्रकाशितमार्गः जीवः उत्क्रम्य बहिर्गच्छति । इत्यमुमर्थ ‘तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया’ (ब्रह्मसूत्रम् ४.२.१६) इति सूत्रेण प्रतिपादितवान्। इदं च सूत्रं हार्दावतारे प्रमाणं भवति ।

अतः अतिस्वल्पदेश हृदयावच्छिन्नवृत्तिमतोऽपि हार्दावतारस्य इतराववतारतुल्यं सर्वशक्तित्वं अघटितघटनासामर्थ्य, सौशील्यवात्सल्यादि गुण प्रकटनं च यथाप्रमाणं अङ्गीकर्तव्यम् इति ।

***