देवालयस्य नृत्यशिल्पकृत्यां हस्तकरणादयः

पल्लवी हेगडे
संशोधन छात्रा
कर्नाटकसंस्कृतविश्वविद्यानिलयः
बेङ्गलूरु

शोधसंक्षेपः :

          भरतमुनिना विरचित नाट्यशास्त्रे चतुर्विध अभिनय विचारे ये अंशाः उक्ताः ते सर्वे प्रायोगिकरूपेण शिल्पाकृत्यां दृष्टुं शक्यते । भारतीय संस्कृतेः लक्षणं च दृश्यते । तथैव कलायाः महत्वमपि सहस्राधिक वर्षानामनन्तरमपि परम्परात्वेन प्रवह्य विषयासक्तेषु इतोप्यधिकं ज्ञातव्यमिति जिज्ञासां जनयति इयं शिल्पकला ।

          भरतस्य नाट्यशास्त्रे चतुर्विध अभिनयस्य विषये तत्रापि आङ्गिकाभिनयः इत्यस्य वर्णन विषये शिरसः पादपर्यन्तं विविध अङ्गानां वर्णनं वैविध्यं सुष्टु कथितम् । परं ते सर्वे अंशाः भारतीयसंस्कृत्याः प्रतिफलनरूपेण पूर्वतन राजानः तेषां शासनावधौ यान् देवालयान् निर्मितवन्तः तत्र सर्वत्र आङ्गिकाभिनयस्य प्रायोगिकं चित्रणं वास्तुशिल्पशास्त्रद्वारा निर्मित शिल्पाकृतौ दर्शयामासुः । एतेषाम् अंशानां संक्षिप्त दृष्टिः अत्र प्रदत्ता ।

[1]भारतस्य सर्वाः नृत्यकलाः भरतनाट्यशास्त्राधारिताः नृत्यशैल्याः एव सन्ति । तत्तत्प्रान्तीयजनानां जीवने, पर्यावरणे, विश्वासे, आचारव्यवहारेषु, कलासु च अस्य गाढः प्रभावः भवति । नाट्यशास्त्रस्य आधारेण भव्यतया वर्धिता दक्षिणभारतस्य शास्त्रीयनृत्यकला अद्य भरतनाट्यम् इति नाम्ना प्रसिद्धम् अस्ति । नृत्य-नृत्त-नाट्य -विविधप्रकारेण निर्दिष्ट शैल्याम् अंतर्भवन्ति ।

भरतमुनेः नाट्यशास्त्रं क्रि. पू. द्वितीयशतके रचितम् इति कथ्यते । कालान्तरे ये नृत्यरूपाणि निर्मितानि तानि परम्परायाः परिधिमध्ये शास्त्रीयाः अभवन् ।

 [2]कर्नाटकस्य चालुक्यसाम्राज्यस्य गुहामन्दिरेषु विद्यमानानि शिवमूर्तयः ५ तः ७ शताब्द्याः परितः सन्ति । अद्यत्वे अपि ऐहोले बादामी पटदकल्लु इत्यत्र ललित चतुरमुद्राः दृश्यन्ते १८ बाहुयुक्तं नटराजस्य शिल्पं चलनाविधौ दर्शितं यत् भरतनाट्यशास्त्रे एतस्य वर्णनं कृतम् । इदम् अद्भुतं वस्तु अस्ति ।

तमिलनाडुराज्यस्य चोलानां ८ शताब्धितः १० शताब्धि पर्यन्तं यावत् कालः नृत्यस्य स्वर्णयुगः इति प्रसिद्धः अस्ति । तंजावूरू बृहदीश्वर मन्दिरं, चिदम्बरस्य नटराज मन्दिरं, कुम्बकोणस्य सारङ्गपाणी मन्दिरं नाट्यशास्त्रस्य अष्टाधिक एकशत करणानां वर्णनं कृतम् । आनन्दताण्डवे प्रतिपादितस्य नटराजविग्रहस्य परिकल्पना अस्मिन् युगे उत्पन्ना।

१२ शतमाने होय्सलकालस्य बेलूरु हलेबिडु सोमनाथेश्वरस्य मन्दिराणि नृत्यस्य प्राधान्यं प्रमाणं कुर्वन्ति ।

१७ शतके शासनं कृतवन्तः चिक्कदेवराज ओडेयाः कलाकाराः आसन् । अनेकानि जावली-कृतीनां निर्माणं च कृतवन्तः ।

चिन्नय्य – पोन्नय्य शिवानन्दम् – वाडिवेलु, चत्वारः भ्रातरः ये १८ तम शताब्द्यां तंजावूरू नगरस्य मराठराज शरभोज्याः संस्थाने आसन् । तैः अद्यतनस्य भरतनाट्य कार्यालयस्य रचनाः कृताः ।

१९ तम शताब्द्यां मुम्मडीकृष्णराज ओडेयाः वैराग्यजावलीं रचयत् । नाल्वडिकृष्णराज ओडेयाः, जयचामराजेन्द्र ओडेयाः च अनेकाः कृतयः रचितवन्तः ।

५ तः ७ तम शताब्धि समयः – बादामी – ऐहोले – पट्दकल्लु देवालयाः

भारतस्य उत्तरकर्नाटकस्य बागलकोटेमण्डलस्य बादामीनगरे स्थिताः हिन्दुजैनगुहामन्दिराणि भारतीय राक्‌कट् वास्तुकलायां प्रमुखानि उदाहरणानि सन्ति । बादामी-नगरस्य चालुक्य-वास्तुकला विशेषतः ६ तम शताब्द्याः आरम्भे समभवत् । बादामी इति चालुक्यवंशस्य राजधानी पूर्वं वातापीनगरम् इति नाम्ना प्रसिद्धस्य आधुनिकनाम । १९३५ तमे वर्षे स्टेल्ला क्रामिश् इत्यनेन एताः गुहाः आविष्कृताः ।

गुहा १ : नर्तनस्य नटराजस्य शिवस्य प्रमुखम् उत्कीर्णनम् ।

द्वितीया गुहा : त्रिविक्रमरूपेण भगवान् विष्णोः विशालमूर्तिः अस्ति ।

तृतीया गुहा : विष्णुसम्बद्धा जटिलतया उत्कीर्णा गुहा ।

चतुर्थी गुहा : जैनधर्मस्य  पूज्यव्यक्तिभ्यः समर्पिता अस्ति ।

चालुक्यसाम्राज्यस्य राजधानी बादामी-नगरे प्रारम्भिकचालुक्याः इति नाम्ना प्रसिद्धस्य वंशस्य काले षष्ठशताब्द्याः अन्ते यावत् चत्वारि गुहामन्दिराणि आगतानि । प्रथम तिस्रः गुहाः शिवविष्णोः विषये केन्द्रीकृताः हिन्दुप्रतिमाः सन्ति, चतुर्थगुहायां स्थितायां प्रतिमायां जैनविषयः अस्ति ।

नटराजः – ५ पादपरिमितस्य नटराजमूर्तेः १८ बाहवः सन्ति । अष्टादश भुजाः नाट्यमुद्रां व्यञ्जयन्ति। शिवस्य नृत्यम् उग्रं ताण्डवं नृत्यं हन्ति राक्षसम् । एषा मुद्रा ललिता नाट्यचतुर्‌ताण्डवम् इति कथ्यते । नटराजस्य उत्कीर्णनस्य दक्षिणतः महिषासुर मार्धिनी उत्कीर्णनम् अस्ति । हरिहर उत्कीर्णनम् अर्धनारीश्वर उत्कीर्णनम् अत्र वयं पश्यामः ।

द्वितीय गुहायां – विष्णुः यथा वराहत्वेन भूदेवीरूपेण पृथिवीं रक्षति । दक्षिणे वामनस्य अवतारे विष्णुः, त्रिविक्रमपदस्य तथा प्राचीनभारतीयवाद्ययन्त्राणि च उत्कीर्णानि सन्ति ।

तृतीय गुहायां विष्णुः सर्पशेषस्य वामभागे उपविष्टः अस्ति । वामभागे श्रृङ्गारदम्पत्योः उत्कीर्णनम् अस्ति ।

चतुर्थ गुहायां – तीर्थंकर पार्शनाथस्य तथा बाहुबलीयाश्च उत्कीर्णनानि वयं प्राप्नुमः ।

ऐहोले नगरम् :

ऐहोले भारतीयमूर्तिकलायाः प्रसिद्धं स्थलम् । बागलकोटे मण्डलस्य हुनगुन्द उपमण्डले अन्तर्गतम् अस्ति । मलप्रभानद्याः तटे स्थितम् । ऐहोले बादामी चालुक्यानां प्रथमराजधानी आसीत् । आर्यपुर इति शिलालेखेषु यत् स्थानम् उक्तं तत् कालान्तरेण ऐहोले इति अभवत् । ६ तम शताब्धितः ८ तम शतमानं यावत् वयं मन्दिरनिर्माणे बहून् प्रयोगान् पश्यामः । अत्र १२० मन्दिराणि, ४ गुहाः च सन्ति । अत्रत्य दुर्गामन्दिरस्य महत्त्वम् अस्ति ।

पट्दकल्लु नगरम् :

अत्र १० प्रमुखाणि मन्दिराणि शिवाय समर्पितानि सन्ति । ४ मन्दिराणि पारम्परिकद्राविडशैल्यां निर्मिताः सन्ति । अन्ये ४ मन्दिराणि नागरवास्तुतत्त्वैः निर्मिताः सन्ति । विरूपाक्षमन्दिरम् अत्रत्य प्रसिद्धतमं पाषाणमन्दिरम् अस्ति ।

अष्टम-दशशताब्दयोः मध्ये तमिलनाडु-देशे निर्मितं बृहदीश्वर-मन्दिरं विश्वस्य भव्यतमवास्तुकलाकृतिषु अन्यतमम् अस्ति । यत्र चोल-काले निर्मितानां कलारूपाः वैभवयुताः सन्ति । अस्य मन्दिरस्य आधारशिला तमिलसम्राट् अरुलमोळी वर्मनेन स्थापितः । सः राजराजचोल इति नाम्ना प्रसिद्धः आसीत् । द्राविडशैल्यां वास्तुकला उत्कीर्णा अस्ति । बृहदीश्वरमन्दिरं ’दक्षिणमेरु’ इति नाम्ना प्रसिद्धम् अस्ति । राजराजचोलः स्वप्ने मन्दिरस्य निर्माणं कर्तुं निर्देशं प्राप्य एतत् शिवमन्दिरं निर्मितवान् ।

१२ शताब्द्याः बेलूरु चेन्नकेशवमन्दिरसहितम् ऐतिहासिकं स्थानम् । मन्दिरं नक्षत्राकारे अस्ति । पूर्वं वेलुपुर इति नाम्ना प्रसिद्धम् आसीत् । होय्सलसम्राट् विष्णुवर्धनस्य शासनकाले अस्य मन्दिरस्य निर्माणं प्रारब्धम् । रामानुजाचार्यस्य आशीर्वादेन सः तलकाडु-नगरे चोलानां विजय-उत्सवस्य समये चेन्नकेशव-स्वामी-प्रतिमाम् अस्थापयत् । अस्य कारणात् एतत् मन्दिरं विजयनारायणस्वामीमन्दिरम् इति नाम्ना प्रसिद्धम् अस्ति ।

                                                                                      

आधार ग्रन्थाः :

  1. भतरनाट्य प्राथमिक भागः २००० पठ्यपुस्तक निर्देशनालयः बेङ्गलूरु
  2. भरतनाट्य माध्यमिक भागः २००२ पठ्यपुस्तक निर्देशनालयः बेङ्गलूरु
  3. कर्नाटक वास्तुशिल्प तथा नृत्यकला, पुट्टक्क प्रकाशनम्
  4. चालुक्यानां शिल्पकला, कन्नड प्रकाशनम्, पुण्डलिक कल्लिगनूरु, साहित्य साधनम्
  5. होय्सलानां शिल्पकला, कर्नाटक शिल्पकला अकाडेमि, बेङ्गलूरु – एच्. एस्. गोपालराव्

[1] भरतनाट्य प्राथमिक भागः पठ्यपुस्तक निर्देशनालयः बेङ्गलूरु  पु.सं. १०१.

[2] भरतनाट्य प्राथमिक भागः पठ्यपुस्तक निर्देशनालयः बेङ्गलूरु  पु.सं. १०१.