ऋग्वेदे महाभारतसन्दर्भे प्रकाशस्य आधुनिकमूलभूतभौतिकविज्ञानशास्त्रसुसम्मतवर्णनम्

Dr. Abhishek Kumar Mehta
JRG Post-Doctoral Researcher (Holography and Black Holes)
Asia Pacific Centre for Theoretical Physics, Pohang, ROK
Email:  abhishek.mehta@apctp.org
Whatsapp: 9326862004

शोधसारः।

शास्त्राणां वैज्ञानिकतायाः सीमा कियती अस्ति अयं गहनविचारविषयः। विदुषां मतं अस्मिन् विषये बहुलं प्रतीयते अतः सर्वे स्वमतानुसारेण शास्त्रस्य व्याख्यां कुर्वन्ति। किन्तु सैद्धान्तिकरूपेण केवलं एकं मतं अनुचरणीयं तत्तु शास्त्रमतम्। शास्त्रमतं इदं यत् शास्त्रस्य कापि व्याख्या वैयाकरणिकरूपेण अथवा शास्त्रोपदेशेन कर्तव्या। यदि एनां कुर्यात् तर्हि शास्त्रोक्तवचनं स्वतो वैज्ञानिकसुसम्मतं दृश्यते न अन्यथा। इदं सिद्धान्तं प्रमाणितं कर्तुं अस्मिन् पत्रे महाभारते वेदव्यासोपदेशं ग्रहीत्वा वेदमन्त्रस्य महाभारतसंदर्भे यथासंभव वैयाकरणिकव्याख्या कृता। परिणामस्वरूपेण महाभारते वैदिकमन्त्रे च प्रकाशस्य आधुनिकविज्ञानसुसम्मतसंरचना अथवा तस्य मूलभूताङ्गस्य आधुनिकविज्ञानसुसंमतप्रभावः प्रतिलक्ष्येते।

मुख्यशब्दाः    वेदः     महाभारतम्     वेदव्यासः     विज्ञानम्     व्याकरणम्     भौतिकशास्त्रम्

   महाभारते आदिपर्वणि प्रथमोऽध्याये वेदव्यासेन एषः श्लोकः प्रणीतः।

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।

  बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति।।  

[महाभारते १.१.२९३]

अर्थाद् योऽपि इतिहासपुराणयोरपठितः सोऽल्पश्रुतः। अतस् तेन वेदतरणं न भवेद् इदं वेद इच्छति। एतस्माद् इतिहासपुराणाभ्यां विना वेदो न अवगमनीयः इति वेदव्यासमतिः। किन्तु इयं मतिः केवलं स्वरचितग्रन्थमोहेन प्रचोदिता केनचिद् वा गूढरहस्येन प्रचोदिता एनां ज्ञातुं एतस्य शोधपत्रस्य उद्देश्यं अस्ति।

महाभारते प्रकाशस्य सूक्ष्मसंरचनाया विवरणम्।

     अस्य गूढरहस्यस्य उद्घातनाय महाभारते आदिपर्वणि तृतीयोऽध्याये अयं श्लोको विचारणीयो वर्तते।

 हिरण्मयौ शकुनी सांपरायौ नास्त्यदस्रौ सुनसौ वैजयन्तौ।

 शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः।।

[महाभारते १.३.५८ ]

महाभारते अयं श्लोकः उपाध्यायधौम्यशिष्योपमन्युना अश्विनाभ्यां देवताभ्यां समर्पितः। कथानुसारेण सोऽर्कपत्रभक्षणेन अन्धीभूतः कस्मिञ्चित् कूपे अपतत्। अश्विनौ स्तुत्वा सः स्वरक्षणं उपचारं च अप्रार्थयत्। मन्मतानुसारेण अस्य श्लोकस्य एषोऽनव्यः कर्तव्यः।

स्वर्णखगोपमौ अलौकिकौ नास्त्यदस्रौ इति नामनी सुनासिकायुक्तौ इन्द्रध्वजौ।

प्रकाशकणं वयन्तौ सत्वरं सुसूत्रयन्त्रौ अन्धकारं प्रति गच्छन्तौै सूर्यात्।।

श्लोकानुसारेण प्रकाशकण द्वाभ्यां अङ्गाभ्यां सृष्टः। प्रत्येक अङ्गो नास्त्यदस्राभ्यां देवताभ्यां उतः सुसूत्रयन्त्रौ इव। अत एतौ अङ्गौ नासत्यदस्रौ इति नामभ्यामेव संबोधयितुं अर्हाै। संक्षिप्ते  प्रकाशकणस्य द्वौ सूक्ष्माङ्गौ भवत नास्त्यदस्रश्च इति श्लोकस्य अर्थः। इदन्तु महाश्चर्यं यद् आधुनिकभौतिकविज्ञानशास्त्रमतेन अपि प्रकाशकण द्वाभ्यां अङ्गाभ्यां सृष्टः। आधुनिकभाषायां तौ अङ्गौ विद्युद्बलप्रवाहश्[1] चुम्बकीयबलप्रवाहश्च[2] इति नामभ्यां ज्ञातौ। अर्थात् पौराणिकौ नासत्यदस्रौ आधुनिकौ विद्युच्चुम्बकीयौ बलप्रवाहौ एव इति प्रतिभाति। इदं पौराणिककाले आधुनिककालवद् उन्नतभौतिकविज्ञानस्य एकं लघुप्रमाणं प्रतीयते। तस्य स्पष्टीकरणाय अन्यत् प्रमाणं वाञ्छनीयं यद् अश्विनयोर् विद्युत्प्रभावोऽपि दर्शयेत्।

उपर्युद्धृतमहाभरतीयसन्दर्भेे वेदमन्त्रस्य वैयाकरणिकोऽन्वयः।

       अथ उपरिकृतसन्दर्भे ऋग्वेदे प्रथममण्डले उनविंशत्यधिकशतसूक्ते इदं मन्त्रं विचारणीयं वर्तते।

यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।

शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥

[ऋग्वेदे १.११९.१०]

ततो हि अस्मिन् सन्दर्भे अस्य मन्त्रस्य अयं अन्वयः कर्तव्यो वर्तते।

युवां वायुचरे विद्युद्बलप्रवाहेण बहुवारं श्वेतं प्रकाशमानं तरुतारं इति महाशब्दं नदन्त् संग्रामस्थलं गमिष्यथः।

शरैः शत्रुमध्ये प्रविष्टो दुर्धर्षाे द्युतिमान्  मनुजसहः  ऋग्वेदे  पूजनीयश्च  इन्द्र इव द्योतते नदति च वारवारम् ।।

एषोऽनव्यः केन प्रकरणेन सिध्येत अयं शेषपत्रे द्रक्ष्यामः। पूर्वे अश्विनौ विद्युच्चुम्बकीयौ बलप्रवाहौ एव इति कृतसन्दर्भस्य सत्यतां असत्यातां वा परीक्षितुं उक्तमन्त्रे अश्विना इति पदं विद्युद्बलप्रवाहेण इति पदेन अन्वितम्। उक्तमन्त्रे पेदवे इति पदं पेदवः इति पदस्य सप्तमीविभक्तिप्रयोग इति मम मतं यदि ग्रह्यतां तर्हि पेदवः इति पदं अलुक् तत्पुरुषसमासेन एव सेद्धव्यं न अन्यथा। इदं संभवं यदि

पेदवः = पे + दवः

यत्र पे इति पदं पः इति पदस्य सप्तमीविभक्तिप्रयोगो वर्तते। पः अर्थाद् वायुर्[3] भवति अथवा दवः इति पदं दु इति गत्यर्थं भवादिगणपरस्मैपदीधातोः प्रत्ययप्रकरणेन[4] सृष्टम्। यतः पेदवो वायुचरश्च[5] समानार्थकशब्दौ भवतः। अनन्तरे तरुतारं इति पदं अव्यक्तानुकरणवाचिपदं मन्तव्यं इति मम द्वितीयं मतं यतोहि तरुतारं इति पदं केनापि सार्थकसमासप्रकरणेन साधयितुं अशक्यं। मदीयं तृतीयं मतं यद् उक्तमन्त्रे अभिद्युं इति पदं न तु समस्तपदं अपितु संधिकृतौ द्वे पदे स्तः एतयोर् अभि इति शब्दः कर्मप्रवचनीयसज्ञको[6] भवति। ततः कारणवशाद् उपर्युक्तमन्त्रस्य द्वितीयपङ्क्तिः प्रथमपङ्क्तिस्थस्य पेदवस्य उपमया लक्षणं ज्ञापयते। एवं चर्कृत्यं इति पदमपि संधिकृते द्वे पदे स्तः एतयोश्च ऋकृत्यं इति पदं तत्पुरुषसमस्तपदम्[7]। इदं संभवं यदि 

ऋकृत्यम् = ऋग् + ऋत्यम्

यत्र ऋत्यं इति पदं एतेन प्रत्ययप्रकारणेन संभवं

ऋत्यम् = ऋ + तुक्[8] + क्यप्[9]

अत्र ऋ इति गत्यर्थं भवादिगणपरस्मैपदीधातुः स्यात्। यतः ऋत्य: अर्थात् पूजनीयो भवति। ततो हि उक्तमन्त्रे चर्कृत्यं इति पदं ऋग्वेदे पूजनीयः इति अन्वितम्। अन्तिमे दुवस्यथः इति पदं दु इति गत्यर्थं भवादिगणपरस्मैपदीधातोः लृल्लकारप्रयोगेण सेद्धव्यं

दुवस्यथः = दु + शप् [10]+ स्य + थस्

एतेन दुवस्यथः इति पदं गमिष्यथः इति पदेन उपर्यन्वयेऽन्वितम्। एतादृशः उपर्युक्तोऽन्वय अन्ततः सिद्धो अर्थवान् च भवेत्। विस्तरेण यथा शत्रुमध्यगतयोद्धुकामदेवराजेन्द्रेण कृतं महागर्जनं महार्चिषं च शस्त्रसंघट्टनजं तथा तेन समं वायुचरेऽपि अश्वीसहायतया श्वेतप्रकाशं तरुतारं च महाशब्दनादं भवतः। यत्र परस्परकृतशत्रुत्वपक्षाणां सङ्ग्रामस् तत्र एतौ प्रकाशनादौ भवतः। तत्र युवामपि गमिष्यथः। इति अन्वयविस्तारार्थः। किन्तु इदं वैदिकविवरणं वज्रपातघटनाया भिन्नं न प्रतीयते। अर्थाद् पेदवो वज्रपात वायुचरश्च समानार्थकशब्दा एव स्युः इति मम मतम्। यतः एतस्मिन् वैदिकविवरणे एकेन अश्विना एषा घटना क्रियते अर्थाद् विद्युद्बलप्रवाहेण वज्रपातः संभवति इदमपि स्पष्टीकृतम्। इति महाभरतीयसन्दर्भेे वेदमन्त्रस्य वैयाकरणिकोऽन्वयः संपूर्णः।

पेदवे अर्थाद् वज्रपाते प्रकाशगर्जनौ विद्युद्बलप्रवाहेण भवतः इदं आधुनिकविज्ञानसम्मतं तथ्यं वैदिककालेऽपि ज्ञातं इति वेदग्रन्थस्य अथवा वैदिककालस्य उन्नतवैज्ञानिकतायाः प्रमाणम्। पेदवोऽपि वैज्ञानिकशब्दावलि हि वज्रपातप्रवाहो वायौ एव संभवः। इदमेव साक्षाद् अश्विनयोर् विद्युत्प्रभावस्य वाञ्छितं प्रमाणं येन महाभारतीयसन्दर्भः सत्यापितः। किन्तु इदमपि चिन्तनीयं यद् वेदग्रन्थस्य एतद् वैज्ञानिकस्वरूपं महाभारतीयसंदर्भेण विना अदृष्यं अस्ति। अतः वेदव्यासस्य उक्तश्लोके वेदस्य अल्पश्रुताद् भयं इति मति न तु स्वरचनामोहेन अपितु महाभारतस्य अदृष्यवैदिकविज्ञानोद्घाटकलक्षणेन प्रचोदिता। यथा अस्माभिर् महाभारतीयश्लोकात् प्रकाशकणस्य अश्विनाभ्यां कृतायाः द्व्याङ्गीसंरचनायाः विज्ञानं ग्रहीत्वा वेदमन्त्रस्य अश्वीसहायकृतवज्रपातविज्ञानं दृष्टं तथा अन्यमहाभारतीयश्लोकात् समानं विज्ञानं ग्रहीत्वा अन्यवेदमन्त्रस्य विज्ञानं ज्ञातव्यं इति वेदव्यासस्य तात्पर्यः।

सङ्क्षिप्तीकृतपरिणामः।

महाभारतीयश्लोकस्य शब्दार्थः

 हिरण्मयौ शकुनी सांपरायौ नास्त्यदस्रौ सुनसौ वैजयन्तौ।

 शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः।।

 हिरण्मयौ शकुनी – स्वर्णखगोपमौ  सांपरायौ – अलौकिकौ  नास्त्यदस्रौ – नास्त्यदस्रौ इति नामनी   सुनसौ – सुनासिकायुक्तौ  वैजयन्तौ – इन्द्रध्वजौ  शुक्लं – प्रकाशकणं [11] तरसा – सत्वरं  सुवेमौ – सुसूत्रयन्त्रौ  असितं – अन्धकारं [12]प्रति  अधिव्ययन्तौ – गच्छन्तौै  विवस्वतः – सूर्यात्

उपर्युक्तैः शब्दार्थैः प्रकाशकणस्य द्व्याङ्गीसंरचा संज्ञाता। एतस्माद् वैयाकरणिकप्रकरणेन उक्तवेदमन्त्रस्थाणां पदानां येऽपि सुप्राप्तार्थास् तेषां अत्र संक्षिप्तप्रस्तुति।

यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।

शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥

 यु॒वं युवां   पे॒दवे॑ – वायुचरे , वज्रपाते   पुरु॒वार॑म् – बहुवारम् [13]  श्विना विद्युद्बलप्रवाहेण 

स्पृ॒धां परस्परकृतशत्रुत्वपक्षाणाम्   श्वे॒तं श्वेतप्रकाशम्    त॑रु॒तारं॑ वज्रपातशब्दस्य       अव्यक्तानुकरणवाचिपदम्   दुवस्यथः  गमिष्यथः  शर्यै॑र् शरैर्   अभि – कर्मप्रवचनीयसज्ञकः लक्षणद्योतकः  द्युं॒ द्युतिमन्तं   पृत॑नासु शत्रुसैन्ये   दु॒ष्टरं॑ दुर्धर्षं   च॒  ऋकृत्य॒म् इन्द्र॑मिव च ऋग्वेदे पूजनीयं इन्द्रम्  चर्षणी॒सह॑म्  मनुजसहम् [14]

इति महाभारते वैदिकमन्त्रे च प्रकाशस्य आधुनिकविज्ञानसुसम्मतसंरचना अथवा तस्य मूलभूताङ्गस्य आधुनिकविज्ञानसुसंमतप्रभावः प्रमाणितौ।

निष्कर्षः।

      अस्मिन् शोधपत्रे अस्माभिर् दृष्टव्यं यत् कथं सैद्धान्तिकप्रकरणेन शास्त्रस्य विज्ञानं ज्ञातव्यम्।  सम्यग्रूपेण सैद्धान्तिकप्रक्रियायाः परिपालनेन शास्त्रस्य अन्वय आधिनुकविज्ञानसुसम्मत एव भवति न अन्यथा इति वयं ज्ञातवन्तः। किन्तु एतस्य किं औचित्यं। यदि कोऽपि संस्कृते आधुनिकविज्ञानपुस्तिकां प्रकाशते तर्हि तेन विद्युच्चुम्बकीयाभ्यां बलाभ्यां किं नामनी देयौ। विद्युच्चुम्बकीयौ इति नामनी आङ्गलभाषायां वैज्ञानिकशब्दावल्याः साक्षादनुवादौ प्रतीयेते। वैज्ञानिकशब्दावल्यः कस्यापि सभ्यताया योगदानं द्योतन्ते। यदि वयं स्वप्रकाशितविज्ञानपुस्तिकायां विद्युच्चुम्बकीयौ बलौ इति नामनी चिनुमस् तर्हि वैदिकशास्त्रीयविज्ञानस्य योगदानं विश्वः कथं जानीयात्। अतः संस्कृते विद्युच्चुम्बकीयाभ्यां बलाभ्यां केवलं नासत्यदस्रौ इति नामनी एव भवितव्यौ न अन्यथा। अन्यो विचारोऽयं स्याद् यन् मात्रानुवादनं आङ्गलभाषायां वैज्ञानिकशब्दावल्या न पर्याप्तं। शास्त्रेषु तदेव विज्ञानं अन्वीक्ष्य संस्कृते शास्त्रोचितं नामं कर्तव्यं यतोहि वैदिकसभ्यता अतिप्राचीनतमा अस्ति। यस्माद् अधिकांशाधुनिकविज्ञानं अस्माभिः पूर्वजेनापि ज्ञातं एतस्य      संभावना अधिका अस्ति। अर्थात् पूर्वजज्ञाताधुनिकविज्ञानस्य शास्त्रेषु संभावनापि अधिका स्यात्।  एतस्मान् मुक्तविचारेण सैद्धान्तिकरूपेण च शास्त्राणि अधीयेरन् इति मम अन्तिममन्तव्यम् ।

उपयुक्तग्रन्थसूची ।

श्रीमन्महाभारतम् (1906) , श्रीमन्मध्वविलासपुस्तिकालयः, कुम्भघोणः

ऋग्वेदः,  अन्तरजालस्थः

अष्टाध्यायी, व्योमभाषाविज्ञानप्रयोगशाला

सिद्धान्तकौमुदी, व्योमभाषाविज्ञानप्रयोगशाला

अमरकोषः,  व्योमभाषाविज्ञानप्रयोगशाला


[1]    Electric Field

[2]    Magnetic Field

[3]    शब्दक्लपद्रुमे – पः, पुंलिङ्गम् ( पातयति वेगेन वृक्षादीन्। पत् + कर्त्तरिडः । अन्तर्णिच्। ) पवनः।

[4]     [अष्टाध्यायी ३.१.१४२] दुन्योरनुपसर्गे कौमुद्याम् – दवतेस्तु पचाद्यच्। दवः।

[5]    वायौ चरति यो सो वायुचरः।

[6]    [अष्टाध्यायी १.४.९१] अभिरभागे

[7]    ऋग्वेदे यः ऋत्य: सः ऋकृत्य:।   

[8]    [अष्टाध्यायी ६.१.७१]  ह्रस्वस्य पिति कृति तुक्

[9]    [अष्टाध्यायी ३.१.११०] ऋदुपधाच्चाकॢपिचृतेः  

[10]   [अष्टाध्यायी ३.१.८५] व्यत्ययो बहुलम्

[11]    अमरकोषे ..१३ पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् । शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः ॥

[12]   अमरकोषे ..१५ कृष्णे नीलासितश्यामकालश्यामलमेचकः । पीतो गौरो हरिद्राभः पलाशो हरितो हरित् ॥

[13]    अमरकोषे ..६२  प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

[14]    निघन्टौ चर्षणी मनुजः इति |