श्रीदेवराजकृत-सिद्धान्तन्यायचन्द्रिकायाः

“तत्वमसि” इत्यत्र सामानाधिकरण्य विमर्शः

Sunil R.
Research Scholar, National Sanskrit University
Tirupati- 517507, Andhra Pradesh, Contact : 9591576784, Email : sunil23689@gmail.com

तैः कल्याण गुणसागरः भागवान् इति प्रणम्य “सिद्धान्तन्याय – चन्द्रिका” ख्या कृतिः रचिता ।

कविपरिचयः :-

          “देवराजेन सिद्धान्तन्याय चन्द्रिका” रच्यते – इत्युक्तिः दृश्यते । कर्तारमधिकृत्य विशेषतः किमपि नोपलभ्यते । परन्तु मङ्गलाचरणवेलायां गुरूपसदनरूपाचरणे कविना देवराजेन स्वात्मपरिचयः किञ्चिदिव कृतः । “वरदार्यगुरोर्लब्धवेदान्त ज्ञानसम्पदा । स्ग्यते देवराजेन सिद्धान्तन्यायचन्द्रिकाः इति मातृकायामुपलब्धः । कविः वेदान्तज्ञानी विशेषतः विशिष्ताद्वैत वेदान्तार्यान्‍ आचार्यसकाशादेव अधिगतः । यतो हि “कल्याणगुण सिन्धुः भगवान्‍ इति ब्रह्मणः सगुणत्वं उपपादयति । अपि च नमः” – इत्यनेन भक्तिः प्रपत्तिरपि च सूचिता । विशेषतः भगवद्रामानुजाचार्यं अनुसरन्‍ प्रथमतः देवनमनं पश्चात्‍ आचार्यस्मरणं इति क्रमः यादृशः ब्रह्मसूत्रव्याख्यानात्मके श्रीभाष्ये श्री भाष्यकारै अनुसृतः स एव क्रमः देवराजेन महाकविन आहतः अनुसृतश्च । “यस्य देवे परा भक्तिः यथा देवे तथा गुरौः इति खलु वदन्ति ।

“सिद्धान्तन्यायचन्द्रिकाया” प्रारम्भे प्रणतार्तिहरं वरदं प्रणम्य आचार्यनमनं श्लोकद्वयेन कृतमिति उपलभ्यते । वरदार्यगुरोः सकाशात्‍ अधिगतविधः कवि इति निश्चिनुम । येन गुरुणा शास्त्रं कर्मब्रह्मोभयात्मकं कलौ विरोधपरिहार ग्रन्थरचनाद्वारा संरक्षितं तादृशाचार्यवर्येण लब्ध सत्ताकः देवराजः ।

कृतिवैशिष्ट्यं :-

          अथ कोऽयं सिद्धान्तः, को वा न्यायः कृतेः चन्द्रिकत्वं च कथं ? इति रसिकानां विद्वन्मणीनां प्रश्नपरम्परायां नाम्नैव कविः प्रतिवदति । सिद्धान्तशब्दः प्रामाणिकतया परिष्टहीतार्थवाचकः । न्यायपरिशुद्धौ” अथ् सिद्धान्त प्रामाणिक इत्यभ्युगतोऽर्थः इति । न्यायसारे च “प्रामाणिकतयाऽभीष्टः सिद्धान्तः स त्रिधा मतः” । द्वयोर्भावः द्विता, द्वितैव द्वैत भेद इत्यर्थः । नद्वैतं अद्वैतं अभेदः इति । विशिष्टस्य अद्वैतं विशिष्ताद्वैतमिति व्युत्पत्तिः । स्वव्यतिरिक्त समस्तचेतनाचेतन विशिष्टं ब्रह्मैकमेव प्रामाणिकं तत्त्वमिति । अद्वैतिभिः ब्रह्मैकमेव तत्त्वं तद्व्यतिरिक्तमखिलं मिथ्या इति निरूपणात्‍ तेषां मतं अद्वैतसिद्धान्त” इति व्यवहियते ॥ जगतः ब्रह्मणश्च पाल्य – पालकभाव सम्बन्धात्‍ ऋते ऐक्य

व्यपदेश योग्यसम्बन्धविशेषानभ्युपगमात्‍ उभयोः सत्यत्वङ्गीकारात्‍ भेद श्रुत्यनुगुण्येन श्रुत्यर्थवर्णनात्‍ “द्वैत सिद्धान्त” इति व्यवहारः । चिदचिदात्मकस्य जगतः अभिन्ननिमित्तोपादानत्वेन ब्रह्मणः अङ्गीकारः शरिर – शरिरिभावः, परस्परं तत्त्वत्रयाणां स्वरूपभेदः विशिष्टवेषेणैक्यं इत्यादयः इतरवादिभिरङ्गीकृताः अर्थाः प्राधान्येन विशिष्टाद्वैतवेदान्ते सिद्धान्तिताः । “स्वतन्त्रमात्र सिद्धिस्तु प्रतितन्त्रो अभिधीयते” – प्रतिनियतं तन्त्रमिति व्युत्पत्या असाधारणाः अर्था नित्यसूरिसद्भावादयः उररीकृताः । एते अर्थाः न्यायपुरस्सरं देवराजेन कृतौ प्रतिपादिताः ॥

श्रुत्यनुग्राहकः तर्क एव न्यायशब्देनोच्यते । साधकतर्कानुगृहीतं प्रमाणं विशिष्टाद्वैतप्रमेयानां अस्ति । द्वैतमतावलं बिनः अत्र पूर्वपक्षिणः । ते तावत्‍ आनन्दे तारतम्यमभ्युपगच्छन्ति । जीवस्वरूपमेव तरतमभावापन्नं आनन्दशब्दाभिधेयम्‍ । ब्रह्मणः निर्विकारत्वात्६ निमित्तकारणत्वमेव, नोपादानत्वम्‍ । उपासनानामेव मोक्षोपायत्वं न प्रपत्तेः । “तत्त्वमसी” त्यादौ सामानाधिकरण्यं गौणम्‍ । “अतत्त्वमसी” ति पदच्छेदः । एवमादीनां माध्व पूर्वपक्षिणां सिद्धान्तप्रदर्शिनी इयं कृतिः । यद्यपि पूर्वाचार्यैः पूर्वपक्षयुक्तीनां निराकरणं कृतं, तथापि अस्यां कृतौ विपुषां मनसः आह्लादं जनयतीन इयं कृतिः रचिता । चन्द्रिकेव रसिकानं विदुषां

मोदजननी” सिद्धान्त न्यायचन्द्रिका विशिष्टाद्वैतसिद्धान्त प्रतिपादिनी मातृकारूपेण उपलब्धा समाहिता च विराजते ॥

॥ विषयनिरूपणाक्रमः ॥

          सिद्धान्तन्यायचन्दिर्कायाः सूक्ष्मेक्ष्णा परिशील्यमाने अनेके अंशाः अवगताः भवन्ति । माध्वमतनिराकरणपूर्वकं विशिष्टाद्वैत सिद्धान्तिभिः प्रतिपादिताः पूर्वा चार्यनुग्रहबलात्‍ सम्पादिताः विषयाः रत्नाकरे रत्नानीव प्रादुर्भूताः । ते चार्थाः द्वादशाध्यायेषु विभक्ताः सन्ति ।

|| अथ प्रथमोध्यायः ||

तत्र प्रथ्मोध्यये कविना देवराजेन   प्रथमतः सामानाधिकरण्यं नाम किं इति विवेचितम् “भिन्नप्रवृत्ति निमित्तानां शब्दानां एकस्मिन्अर्थे वृत्तिः सामानाधिकरण्यं” इति प्रथमे विद्वांसः आहुः । श्रुतावपि सामानाधिकरण्यं श्रुयते । तत्रकथं निर्वाहः ? सदेव सोम्येदमग्र आसीत्‍ इत्यत्र उपादानोपादेयभावेन “तत्त्वमसी” त्यत्र शरिरात्मभवेन च सामानाधिकरण्यं श्रीमद्भगवद्रामावुण आचार्याः निरणैषीत्‍ । इदानीं

परिदृश्यमानं नामरूपविभागविभक्तं चिदचिदात्मकं जगत्‍ सृष्टेः प्राक्‍ अविभक्तनामरूपापन्नं सूक्ष्मावस्थं आसीत् । सूक्ष्मस्यैव स्थूलरूपेण परिणामः । अविधमानस्य उत्पत्ति कथं वयं तु सत्कार्यवादिनः इत्याचार्याः । एकमेवाद्वितीयं” इत्याभ्यां पदाभ्यां उपादान निमित्तान्तर कारणकत्वं जगतः निपिध्यते । ततश्च अभिन्ननिमित्तोपादनकत्वं परस्य ब्रह्मणः ।

) ब्रह्मात्मकत्वं :-

          “कार्यकारणभावादिमुखेनः जगतः ब्रह्मात्मकत्वं” ऐतदात्म्यमिदं सर्वं, तत्सत्यम् श्रुतिरेव विवृणोति । ऐतदात्म्यः” एतदात्मकम्“स्तार्थे ष्यङ्‍” प्रत्ययः एतदात्मसम्बन्धी इत्यर्थः । अस्यात्मनः शरिरतया सम्बन्धीत्युक्तं भवति । “स आत्मा” – इति श्रुतिः निर्दिशति जगत” सः आत्मा, जगत्‍ च तस्य शरिरम्। “अस्यायं पिता इत्युक्ते पितृप्रतियोगिन” प्रत्रत्वं अर्थात्‍ सिद्धं भवति खलु । एवं प्रतिज्ञातं ब्रह्मात्मकत्वं” त् त्वं असी ति सामानाधिकरण्येन जीवविशेषे उपसंहृतम्‍ । त्वं शब्दावगतस्य जीवस्य “तत्” शब्दावगतस्य ब्रह्मणश्च सामानाधिकरण्येन प्रतियमानं ऐक्यं स्तरूपैक्यपरं उत ……………….भावेन इति विकल्पः । “ऐतदात्म्यं” इति सर्वस्य ब्रह्मात्मकत्वस्य प्राप्तत्वात्‍ यथाप्राप्तं तथैव

उपसंहार्यत्वात्‍, सामान्येनोक्तस्य विशेषे उपसंहारस्यावश्य अपेक्षितत्वाच्च ब्रह्मात्मकत्वं सामानाधिकरण्येन उपसंहृतम्। स्वरूपैक्यपरतया व्याख्या न घटते । अचिद्ब्रह्मणोः स्वरूपैक्ये अचेतनत्वादेव सत्यसङ्कत्वादिविरोधः । जीवब्रह्मणोरैक्ये जीवस्य कर्मवश्यत्वम ये सत्यसङ्कल्पत्वादि विरोधः । शरिरशरिरिभावः श्रुत्यन्तरादप्यवगतः । अतः “तत् त्वं” इति

सामानाधिकरण्येन जीवशरिरतया जीवप्रकारं ब्रह्मैव अभिहितम्” इति श्रीभाष्यकाराः । तत्जगत्कारणभूतं परं ब्रह्म, त्वं जीवान्तर्यामि ब्रह्म असि । ब्रह्मात्मकत्वं एव सत्यं, अब्रह्मात्मक वस्तुनः अभावात्‍ इति सिद्धान्तः ।

) माध्वानां पूर्वपक्षः :-

          एतादृश सामानाधिकरण्यं न सम्भवति । उपादानोपादेययोः भेदात्‍ । वियदादेः ब्रह्मभिन्नत्वात्६ ब्रह्मणः तदुपादानत्वे निर्दोषत्व श्रुतिव्याकोपः । वियदादीनां उत्पत्तिश्रवणात्‍ । “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः (तै-उ-आनन्द वल्ली) इति श्रुतिः । अपि च विशिष्टरूपपदार्थान्तरस्य निमित्तत्वानङ्लीकारात्‍ अभिन्ननिमित्तोपानत्वाद्यभ्युपगविरोधः । “तत्त्वमसी” त्यत्रापि शरिरात्मभावेन सामानाधिकरण्यं इति यत्‍ सिद्धान्तितं तत्रापि अनुपपत्तय

। ’मत्सर्थानि सर्वभूतानि न चाहं तेष्वस्थितः” – भ. गी. ९-५-इत्यनन्याधारतया निश्चितस्य परस्य, चेतन कथं आधारः भवति ? “य आत्मनि तिष्ठन्६” इत्यादिनां शरिरपर्यन्तानां गौणार्थकत्वं भगवदधीनत्वमात्रेण तक्तव्यम्‍ । “यस्य वेदाश्शरीरं इति वेदानामपि शरीरत्वव्यपदेशे गौणत्वस्यावश्याश्रयणियत्वात्‍ । तथा च आत्मशरीरभावेनापि सामानाधिकरणप्रतिपादनं न युज्यते इति माध्वा प्रत्यवतिष्टन्ते ॥

) अभिन्न निमित्तोपादानत्वे आक्षेपः :-

          “किं खिद्वनं क उ स वृक्ष आसीत्” इति प्रश्ने” ब्रह्म वनं ब्रह्म स वृक्ष आसीत्” इति प्रतिवचनमेव उपादान निमित्तयोः भेदं उपपादयति । अत्र ब्रह्म शब्दः प्रकृतिपरः । “तस्मादेतत्‍ ब्रह्म नामरूपमन्नञ्चजायते” ममयोनिः महद्ब्रह्म” इति खलु श्रुतिस्मृतयः । “यदध्यतिष्ट्त्‍ भुवनानि धारयन्” – इति धारक-धार्यभावः श्रूयते । तयोर्भेदः लोके दृष्टचरः । ब्रह्मणः निर्विकारत्वेन जगदुपादानत्वं न संभवति । शरिरात्मभावेन सामानाधिकरण्ये” अग्रे – इति पदवैयर्थ्यापत्ति । इदं जगत्‍ सदेवासीत्‍ इति श्रुत्यर्थव्याख्याने इदं सत्‍ इति तदभेदः सिद्ध्यति । अत्र

प्रपञ्चस्याप्रकृतत्वेन इदं इति शब्देन तत्परामर्शः कथं उपपद्यते । “स्थूलोऽहं “कृशोऽहं इत्यादिषु सामानाधिकरण्यं किमुपादानोपादेयभावनिबन्धनम्।

) प्रकृतेः एव उपादानत्वम्‍ (पूर्वपक्षः) :-

          “नासदासीन्नोसदासीत्तदानीं अग्निरहस्ये-५-३-श्वेताश्वतरे “५-१८” यदा तम तन्नदिवा न रात्रिः” “आस्त्रिदिदं तमोभूतम्” इति तमश्शब्देन अव्याकृतप्रकृतेरेव साक्षात्‍ जगतः लयाश्रितत्वेन प्रतिपाद्यते । तथा च प्रलयस्य प्रकृतत्वप्रसिद्ध्या तस्या एव उपादानत्वं सुष्टु सङ्गच्छ्ते

“मायान्तु प्र्कृति विद्यात्‍ मायिनं तु महेश्वरं – इति प्रकृतेरेव जगदुपादानत्वं गीटाचार्योप्याह । प्रकृतेः ब्रह्मशरीरत्वं परिकल्प्य निर्विकारस्य परस्य जगदुपादानत्वे तत्प्रतिपादकश्रुतीनां अनन्यवातिकत्व प्रसङ्ग । अत ब्रह्मणः जगदुपादानत्वं न सम्भवति प्रकृतेरेव जगदुपादानत्वं इति ग्रन्थेऽस्मिन्‍ ग्रन्थकारः विशदयति ॥

उपसंहार:

          ग्रन्थकारः सिअद्धान्तितान् अर्थासन्त्तर्कपुरस्परं उपपादयत् पूर्वपक्षयुक्तीः निराकरोति । तिलक्षणत्वाधिकरणे २-१-३. ब्रह्मणः जगद्विलक्षणत्वात्‍ उपादानत्वं कथं सम्भवति ?  तैत्तरीये आनन्दवल्यां “विज्ञानं चातिज्ञानं च इति  ब्रह्मजगतोः विलक्षणत्वमाह श्रुतिः । यद्दि यत्कार्य तत्रस्मादति लक्षणं यथा मृत्युवर्णादि घटकटकादि प्रति । येन स्वभाएन कारणभूतं वस्तु वस्त्वन्तरात्‍व्यावृत्तं, तस्य तत्कार्येप्यनुवृत्तिः कर्यस्य कारणसालक्षण्यम्। मृदादिभ्यः सुवर्णं येनाकारेण व्यावतते तदाकारस्य अनुवृत्तिः तत्कार्येषु कुण्डलमुद्रिकादिषु दृश्यते । ब्रह्म च हेयप्रत्यनीक अनन्तकल्याणकुगुणाकारः जगच्चनतथा । अतः जगपुपादानत्वं न सम्भवतीति आक्षिप्य “दृश्यते तु” सूत्रकार विलक्षणयोरपि उपादानोपादेयभावमाह । मक्षिकादेः विलक्षणस्य क्रिम्यादेः तस्मात्‍ उत्पत्तिः दृश्यते । विलक्षणेभ्योऽपि गोमयादिभ्य”

वृश्चिकादेरुत्पत्ति दर्शनातविलक्षणातब्रह्मणः विलक्षणस्य जगतः उत्पत्तिः सङ्कच्छते एत ॥

|| इति सिद्धान्तयति ||

|| सहायकग्रन्थसूची ||

  • छन्दोग्य्योपनिषत्
  • तैत्तरीयोपनिषत् अनान्द वल्ली
  • श्रीमद्भगवद्गीता
  • मैत्रायणी संहिता
  • अष्टक अष्टम प्रश्नः अनुवाकः
  • आग्निरहस्यम्
  • श्वेताश्वतरोपनिषत्
  • ब्रह्म सूत्र भाष्यम्

1. छन्दोग्य्योपनिषत् ६-२

2.  छन्दोग्य्योपनिषत् ६-१०

3.  छन्दोग्य्योपनिषत् ६-१०-३

4. तैत्तरीयोपनिषत् आनन्दवल्ली

5.  श्रीमद्भगवद्गीता ९-५

6. मैत्रायणीसंहिता ४-१४-४

7.  अष्टक अष्टम प्रश्नः अनुवाकः ७७

8. आग्निरहस्यम् पञ्चम खण्डः तृतीयो भागः

9. श्वेताश्वतरोपनिषत् पञ्चमे अष्टादश मन्त्रः

10. ब्रह्म सूत्र भाष्यम् द्वितीये प्रथम पादे तृतीयं अधिकरणम्

11. तैत्तरीयोपनिषत् आनन्दवल्ली