संस्कृतशिक्षणे शिक्षणसूत्राणां वैशिष्ट्यम्           

          प्रो. रजनीकान्तशुक्लः, शिक्षासङ्कायः

                                   राष्ट्रियसंस्कृतविद्यापीठम्

                                    (मानितविश्वविद्यालयः)

                                                                 तिरुपतिः

मानव सर्वदा समाजमनुसरति, यतोहि समाजं विना स आत्मनः अस्तित्वं नावगच्छति । सामाजिकवातावरणे तस्य विकासप्रक्रिया अपि वृद्धिं प्राप्नोति । अस्मिन् प्रक्रमे मानवः स्वकार्यव्यापारान् प्रसारयितुं संवर्धयितुञ्च सम्प्रेषणस्यावश्यकतामनुभवति । अयं सम्प्रेषणस्य भावः परस्परं जनसमूहेषु प्रकटीक्रियते । सम्प्रेषणस्य कृते एव आदौ सङ्केतव्यापारैः मनोभावाभिव्यक्तीनां प्रकाशनं प्रवर्तते स्म । परं कालान्तरे विचाराभिव्यक्तेः मनोभावाभिव्यक्तेश्च एका व्यवस्था कल्पिता । यस्यां मुखोच्चरितपदानामेकः क्रमः निर्धारितः। सः एव क्रमः वाक्यादीनां साहाय्येन भाषायाः स्वरूपे निबद्धो जाता। तदेव शनैः शनैः लोकव्यवहारेषु मानवानां हृदयस्थमनोभावाः भाषामाध्यमेन प्रकटिताः प्रकाशिताश्च। अत एव उच्यते वैयाकरणैः’भाष व्यक्तायां वाचि’ इति । आचार्यदण्डिना स्वग्रन्थे काव्यादर्शे प्रोक्तमस्ति – “वाचामेव प्रसादेन लोकयात्रा प्रवर्तते (१/३)” इत्यभिप्रायः भाषासन्दर्भे प्रकटितः । इयं भाषास्वरूपा ज्योतिरेव अस्मिन् समग्रसंसारे दीप्यते। प्रसिद्ध भारतीयभाषावैज्ञानिकेन भर्तृहरिणा निगदितमस्ति यत् –

न सोऽस्ति प्रत्ययोलोके, यः शब्दानुक्रमादृते ।

अनुविद्धमिवज्ञानं सर्वं शब्देन भासते।। (वा. प. ब्र. का. १/१२४)

बहुभिः पाश्यात्यविचारकैरपि स्वभाषाविषयकमतानामुल्लेखः कृतो वर्तते । स्वीटमहोदयानां विचारः अस्ति- ‘ध्वन्यात्मकपदैः विचाराणां प्रकटीकरणमेव भाषा।’एतैः महाशयैः अत्र ध्वन्यात्मकपदयुक्ता पदावली भाषा कथिता । एवमेव विन्द्रिए महाशयानां मतमस्ति ‘भाषा एका चिह्नविशेषः भवति । चिह्नम् इत्युक्ते तादृशाः प्रतीकाः (symbols) यैः मानवः स्वाभिप्रायं प्रकटयति।’

भाषा सामाजिकवातावरणे जनानां कृते स्वव्यवहारकोशले सम्पादनर्थं लाभप्रदः भवति । सर्वेषां जनानां प्रदेशानां, देशानां संस्कृतीनाञ्च भाषा देशभेदेन स्थानभेदेन कालभेदेन वा पृथक् पृथक् भवति । अस्मिन् विचारे भाषाया कञ्चित् रूपाणि सन्ति यथा -मातृभाषा, प्रादेशिकभाषा, राष्ट्रियभाषा, सांस्कृतिकभाषा, अन्ताराष्ट्रियभाषा चादीनि रुपाणि अतीव प्रसिद्धानि सन्ति । अत्र सर्वेषु रूपेषु मातृभाषायाः प्राधान्यं सर्वैरङ्गीक्रियते । यदा एकः बालकः स्व शैशवावस्थायां मातृभाषां वक्तुमिच्छति तदा तस्य मनोवेगानां सम्प्रेषण सहजतया भवति । अयमेव ननु मार्गः येन बालकः स्वव्यावहारिकपरिदृश्यं विस्तर्तुं यतते । कालान्तरं सः विविधरूपाणि अपि अवगन्तुं प्रभवति, पारयति च। भाषावैज्ञानिकदृष्ट्या या काऽपि वा भाषा भवतु सा सर्वेषु जीवनक्षेत्रेषु कार्यं करोति स्वभूमिकां च निर्वहति । वक्तुं शक्यते यत् मनोविज्ञाने, विज्ञानशास्त्रे, खगोलशास्त्रे, गणितशास्त्रे, अभियान्त्रिकशास्त्रे, प्राणिशास्त्रे, रसायनशास्त्रे, भौतिकशास्त्रे, साहित्यशास्त्रे, समाजशास्त्रे, चिकित्साशास्त्रे च भाषा एव येन केन प्रकारेण माध्यमेन वा कार्यं करोति ।

भाषावगन्तुं वयमेकां प्रक्रियां मार्गं वा अनुसरामः । सः मार्गः भवति- शिक्षणक्रमः । भाषायाः ज्ञानप्राप्त्यर्थमपि शिक्षणमेव अङ्गीकरणीयम् । शिक्षणं नाम प्रेरणम् (Teachingis Motivating), अस्याः भाषायाः संवेगात्मकाभिव्यक्तिर्भवति। प्रसिद्धशिक्षाविद्रायबर्न (Ryburn)महोदयानां मतमस्ति ‘प्रत्येकस्मिन् बालके शैशवादेव क्रियाशीलतायाः प्रवृत्तिः दृश्यतेइयं प्रवृत्तिः इच्छापूर्त्यर्थं जायते । अस्याः कृते अवकाशप्रदानमेव शिक्षणमित्युच्यते ।

विश्वभाषापरिवेशे भारोपीयपरिवारे वा संस्कृतभाषा एका सांस्कृतिकी भाषा (Cultural Language) उच्यते । इयं भाषा भारतदेशस्य गौरवं प्रकटयति । अस्या ऐतिहासिकं महत्त्वंतु अवर्णनीयमेव अनुभूयते, यतो हि भारतदेशस्य वैदिकसभ्यतायाः आरभ्य एतावत् पर्यन्तं सास्कृतिकविकासस्य जननी इयमेव भाषा भवति । अस्याः शिक्षणं लोकानां चेतांसि राष्ट्रभावं जनयति आत्माभिमानञ्च सर्वदा प्रकटयति । विंटरनिट्जमहोदयानामभिप्रायमस्ति-‘यदि वयं भारतदेशस्य प्राचीनसंस्कृतेः आरम्भकालविषये ज्ञातुमिच्छामः तर्हि अवश्यमेव संस्कृतस्य ज्ञानमपेक्ष्यते, नास्ति अत्र कोऽपि सन्देहस्य कारणम्।’ संस्कृतभाषायाः साहित्यमपि विश्वे नितरां प्रथितः । शापेनहावरमहाशयाः वदन्ति १५अब्दे यूनानीसाहित्यस्यापेक्षया संस्कृतसाहित्यस्य प्रभावः समग्रसंसारे सर्वत्र दृश्यते । विलड्यूराँ अपि एवमेव स्वाशयं प्रकटयति- भारतं तु अस्माकं वंशस्य मातृभूमिः आसीत् अपि च संस्कृतम् अस्माकं यूरोपीयभाषाणां जननी अस्ति। भारतदेशस्यप्रथमराष्ट्रपतिना डॉ. राजेन्द्रप्रसादमहोदयेन संस्कृतभाषायाः महत्त्वविषये प्रोक्तम्-‘अस्माकं कृते समग्रसंस्कृतिः अपूर्णा, साहित्यमपि अपूर्णं जीवनमपि च तावत्पर्यन्तम् अपूर्णमेव तिष्ठति यावत् पर्यन्तम् अस्माकं देशस्य नेतारः विद्वांसः शिक्षाशास्त्रिणश्च संस्कृतज्ञानेन अनभिज्ञाः भविष्यन्ति।’ अतः भारतस्य प्रतिष्ठार्थं संस्कृतस्य संस्कृतेश्चाध्ययनमत्यावश्यकमस्ति ।

वस्तुतः भारतीयसंस्कृतेः गौरवस्य जीवनमूल्यानां भाषादक्षतायाश्च, मौलिकरवरूपं प्रकटयितुं संस्कृतशिक्षणस्यावश्यकता सर्वदा अनुभूयते । संस्कृतं प्रति रुच्युत्पादनार्थं विशिष्टरूपेणासक्तिं प्रकाशयितुञ्च संस्कृतस्याध्ययनमावश्यकमिति। अधुना प्रश्ना उदेतियत् संस्कृतशिक्षणस्य कानि सूत्राणि विधयश्च शिक्षाक्षेत्रे स्वीक्रियन्ते इत्यस्मिन् सन्दर्भे विचारणीयं भवति ।

आदौ इदं स्पष्टं स्यात् यत् संस्कृतशिक्षणस्य प्रमुखेषु सूत्रेषु अधोलिखितानि सूत्राणिक्रियन्ते-

क. ज्ञानेन्द्रियाणां शिक्षणम् ।

ख. पूर्णात् अंशं प्रति ।

ग. सरलात् कठिनं प्रति ।

घ. विश्लेषणात् संश्लेषणं प्रति ।

ङ. ज्ञाताद् अज्ञातं प्रति ।

च. मनोविज्ञानात तर्क प्रति ।

छ. आगमनात् निगमनं प्रति ।

ज. विशेषात् सामान्यं प्रति ।

झ. प्रकृतेः अनुसरणम्।

भाषाशिक्षणसिद्धान्तेषु एतेषां सूत्राणां महत्त्वपूर्णं स्थानं विद्यते। शिक्षकैः यदा पाठ्यन्ते । तस्मिन् अवसरे सर्वे छात्राः बोधनीयाः भवन्ति। छात्राणां विषयावगमने एतानि सूत्राणि सर्वदा प्रयोक्तव्यानि । तदेव सुशिक्षणस्य साफल्यमपि अनुभूयते । इतोऽपि केचन् सिद्धान्ताः सन्ति तेषामपि योगदानंसंस्कृतशिक्षणे प्राधान्येन भवत्येव तेषु अभ्याससिद्धान्तः, रुचिसिद्धान्तः, प्रकृतिसिद्धान्तः, वैयक्तिकविभिन्नतायाः सिद्धान्तः, बाल्यावस्थायाः सिद्धान्तः, चयनसिद्धान्तः, अनुकरणसिद्धान्तः, प्रवचनसिद्धान्तश्च अवधेयाः सिद्धान्ताः सन्ति। एतेषु मौखिकप्रवचनस्यसिद्धान्तः संस्कृतभाषायाः मूलस्वरूपं प्रबोधयितुं छात्राणां कृते उपयोगी भवति। एतेषां सामान्यसिद्धान्तानांज्ञानेन छात्राः सरलरीत्या संस्कृतभाषावगमने दक्षतां प्राप्नुवन्ति । काचन शिक्षकैः शिक्षणसमये जागरुकतया शिक्षणकार्यं करणीयं भवति ।