शिक्षाक्षेत्रे क्रियात्मकानुसन्धानस्य उपयोगिता
प्रो. रजनीकान्तशुक्लः, शिक्षासङ्कायः
राष्ट्रियसंस्कृतविश्वविद्यालयः
तिरुपतिः
शिक्षणव्यवस्थायाः सकारात्मकपरिणामेषु पूर्वनिर्धारितानां महत्त्वपूर्णोद्देश्यानां सफलतायै सर्वदा यत्नः विधीयते। परन्तु आधुनिक-वैज्ञानिककालस्य प्रवाहे नित्यपरिवर्तनशील परिवशे च शिक्षणप्रक्रियायाः स्थूलसूक्ष्मयोः व्यवहारे क्रियमाणयोः साधनयोर्मध्ये विविधसमस्यानामाधिक्यं सर्वैः अनुभूयते। अत एव एतासां समस्यानां समाधानार्थमेव क्रियात्मकानुसन्धानस्य परिकल्पना कृता वर्तते।
क्रियात्मकानुसन्धानस्य तात्पर्यम्-
इयमेका विशिष्टा प्रक्रिया वर्तते, यस्यां विद्यालयसम्बद्धशिक्षणसमस्यानां मनोवैज्ञानिकरीत्या अध्ययनं क्रियते अपि च तासां सर्वासां समस्यानां समाधानमन्विष्यते। सर्वे शिक्षकाः प्रधानाचार्याश्च शिक्षणसमस्यानां विद्यालयीयसमस्यानाञ्च विषये अनुसन्धाने प्रवृत्ताः भवन्ति। अनेन साकमेव अनुसन्धानस्य केन्द्रे शिक्षणव्यवहारविकाससम्बद्ध समस्यानामध्ययनमपि सम्पाद्यते अस्मिन् सन्दर्भे प्रयत्नेषु क्रियाशीलता अत्यावश्यकी भवति ।
पाश्चात्यशिक्षाविचारकेषु अपि क्रियात्मकानुसन्धानविषये पर्याप्तचर्चा कृता । यथा- टैवर्स (W.M.Travers) महोदयानां मते “शिक्षानुसन्धानं सा प्रक्रिया अस्ति या शैक्षिकपरिस्थितिषु व्यवहारविज्ञानस्य प्रसारणं करोति ।” एवमेव पी. एम. कुक् (P.M, cook) महोदयानामनुसारेण “अनुसन्धानं कस्याः अपि समस्यायाः विषये व्यापकरूपेण कृता एका गवेषणा वर्तते यस्यांतथ्यानां सिद्धान्तानां परिपुष्टानामर्थानां च परिज्ञानं क्रियते । अनया अनुसन्धानस्य उपलब्धिः निष्कर्षाश्चप्रामाणिकाः भवन्ति, पुष्टियोग्याः भवन्ति। अत एव शैक्षिकसिद्धान्तानां प्रतिपादनं तेषामनुपालनं च अनुसन्धानस्य प्राधान्यं लक्ष्यं भवति ।
अनुसन्धानस्य उद्देश्यानि – अनुसन्धानस्य प्रमुखानि त्रीणि उद्देश्यानि भवन्ति ।
१. सैद्धान्तिकोद्देश्यानि– एतैः नूतनसिद्धान्तानां प्रतिपादनं क्रियते।
२. तथ्यात्मकान्युद्देश्यानि– एतेषु अनुसन्धानद्वारा नवीनतमतथ्यान्वेषणं भवति अपि च नूतनानां सत्यानां स्थापना क्रियते।
३. प्रयोगात्मकान्युद्देश्यानि– एतादृशेषु उद्देश्येषु नवीनाः प्रयोगाः सम्पाद्यन्ते । उक्तोद्देश्यानां प्राप्त्यर्थं विशेषतया अनुसन्धानरूपाणां ज्ञानमावश्यकं प्रतीयते। अनुसन्धानस्य त्रीणिरूपाणि सन्ति ।
१. व्याख्यात्मकानुसन्धानम् (Explanatory Research)-अनुसन्धानेऽस्मिन् सम्बद्धशोधकार्यस्य कारणानां प्रभाविरूपेण व्याख्यां कृत्वा सिद्धान्ताः प्रतिपाद्यन्ते।
२. वर्णनात्मकानुसन्धानम् (Defcriptive Research)-अस्यानुसन्धानस्यापरं नाम ऐतिहासिकमनुसन्धानं वर्तते। अस्मिन् अनुसन्धाने तथ्यानां गवेषणा वर्णनं च क्रियते।
३. प्रयोगात्मकानुसन्धानम् (Applied Research) – अनुसन्धानेऽस्मिन् सिद्धान्तानांप्रतिपादनं तथ्यानामन्वेषणं च नैव भवति। अपितु कार्यप्रणालिषु संशोधनं विकासश्च क्रियते।अस्मिन्नैव नूतनज्ञानसम्बद्धाः प्रयोगाः विधीयन्ते। इदमेव क्रियात्मकानुसन्धानमुच्यते।
शिक्षाक्षेत्रे क्रियात्मकानुसन्धानस्य विकासः–
विविधप्रशिक्षणरीतिषु प्रक्रियासु च समस्यानां समाधानार्थं जनतन्त्रयुगेक्रियात्मकानुसन्धानस्य उत्पत्तिः जाता। सिद्धान्तस्यास्य प्रमुखा अवधारणा इयमस्ति यत् अस्याः व्यवस्थायाः कार्यकर्तृषु कार्यकौशलेन साकं समस्यायाः समाधानस्य क्षमता अपि भवति । अभ्यासकर्ता यां समस्यां स्वीकृत्य अध्ययनं करोति तस्याः समाधानान्वेषणे सः पूर्णरूपेण स्वतन्त्रो भवति। विभिन्नकार्यप्रणालिषु याः समस्याः भवन्ति तासां समाधानार्थं अनुसन्धातुः कृते पर्याप्तावकाशाः अपि दीयन्ते । एतैः द्वारा स स्वकौशलेषु वृद्धिं प्राप्नोति । मौलिकरूपेण क्रियात्मकान्धानं, सामाजिकमनोविज्ञानस्य सम्प्रत्ययः वर्तते। ज्ञानात्मकसिद्धान्तेषु पूर्वमेव संकेतितोऽयं विषयः, परन्तु शिक्षाक्षेत्रे अस्यानुसन्धानस्य विकासः १९२६ तमे वर्षे जातः । सर्वप्रथमं बंकिघममहोदयैः अस्य उल्लेखः स्व Research for Teachers नाम्नि पुस्तके कृता । स्टीफन एम. कोरीमहोदयाः अपि विद्यालयस्य कार्यपद्धतौ संशोधनं कर्तुंक्रियात्मकानुसन्धानस्य विधिनां महत्त्वविषये उक्तवन्तः ।
अनुसन्धानस्य सोपानानि (Steps of Research)
अनुसन्धानस्य षट् सोपानानि सन्ति ।
१. समस्या चयनम् – (Selection of a problems)
२. परिकल्पनाप्रतिपादनम् – (Formulation Hypothesis)
३. शोधयोजना निर्माणम् – (Design of Research)
४. आधारसामग्री संकलनम् – (Collection of Data)
५. आधारसामग्रीणां विश्लेषणम् (Analysis of Data)
६. सामान्यीकरणं निष्कर्षप्रतिपादनं च ।
सर्वविधानुसन्धानकार्येषु एतान्येव सोपानानि प्रयुज्यते।
शोधप्रकाराः– शोधकार्याणि द्विप्रकारकाणि भवन्ति । मौलिकानुसन्धानम् (Fundamental Research), क्रियात्मकानुसन्धानम् (Action Research) च। शिक्षायां विकासे एतयोः द्वयोरेव अतीव महत्त्वं वर्तते । परन्तु शिक्षणप्रक्रियासु संशोधनार्थं विकासाय च क्रियात्मकानुसन्धानस्य महत्तायाः आधिक्यं विद्यते।
एतयोर्मध्ये परस्परवैभिन्न्यं दृश्यते। विभिन्नतायाः बहवः विषयाः सन्ति । तेषु उद्देश्यम्. अनुसन्धानकर्तुः समस्याः, परिकल्पना, योजना, न्यादर्शः, आधारसामग्रीसंकलनम्, आधारसामग्रीविश्लेषणम्, सामान्यीकरणं, निष्कर्षश्च, मूल्याङ्कनम्, अर्थव्यवस्था, क्षेत्रम्, महत्त्वम्, प्रशिक्षणम् इत्यादयः ।
संक्षिप्ततया क्रियात्मकानुसन्धाने उक्तविषयान् अधिकृत्य छात्रस्तरे, कक्षाविषयस्तरेच व्यावहारिकप्रयोगाः क्रियन्ते । समस्यानां व्यवहारदृष्ट्या समाधानमन्विष्यते। साक्षात् सूचनानांसम्प्रेषणं क्रियते। कार्यविधिनां कृते प्रायोगिकाधारेण समाधानं दीयते। स्थानविशेषे कक्षायांविद्यालये च विविधकौशलैः निरीक्षणप्रविधिपरीक्षाद्वारा च शिक्षणे परवर्तनं संशोधनं परवर्धनं च क्रियते ।
एतदतिरिच्य मौलिकानुसन्धाने नूतनसत्यानां तथ्यानां च गवेषणा क्रियते। अस्मिन्शोधकर्ता सम्बद्धविषये स्नातकोत्तरोपाधिं प्राप्नुयात् अस्य स्वरूपं सैद्धान्तिकं भवति । समस्यायाः स्वरूपाणि व्यापकानि मौलिकानि च भवन्ति । समस्यायाः बाह्यमूल्यांकनं नितान्तावश्यकंभवति । प्राक्कल्पानां प्रतिपादनं पूर्वशोधनिष्कर्षाणामाधारीकृत्य सम्पाद्यते । परीक्षायोजनानां निर्माणं शोधकर्ता स्वयमेव करोति तदर्थ विश्वविद्यालयानुदानायोगेन अपि च राष्ट्रिय- शैक्षिकानुसन्धानप्रशिक्षणपरिषद्द्वारा आर्थिकं साहाय्यं प्राप्तुं शक्यते । शोधकर्तुः कृते विशिष्टप्रशिक्षणस्य आवश्यकता अनुभूयते तदानीं सः उपयुक्तरीत्या शोधविधिनां प्रविधीनां च प्रयोगः व्यवहारे कर्तुं शक्यते ।
क्रियात्मकानुसन्धानस्य उद्देश्यानि –
१. विद्यालयकार्यप्रणालिषु संशोधनं विकासश्च ।
२. छात्रेषु अध्यापकेषु च प्रजातन्त्रस्य यथार्थगुणानां संवर्धनम्।
३. विद्यालयस्य कर्मकर- शिक्षक-प्रधानाचार्य-प्रबन्धक-निरीक्षकेषु च वैज्ञानिकचिन्तनस्यविकासः ।
४. विद्यालयेषु कर्मकराणां कार्यकौशलेषु सम्यक् रीत्या विकासः ।
५. शैक्षिकप्रशासकानां प्रबन्धकानां च कृते विद्यालयस्य कार्यप्रणालीविषये उपयुक्तसंशोधनं परवर्तनं च कृते निर्देशनम् ।
६. विद्यालयीयकार्यप्रणाल्यां प्रभावोत्पादनम् ।
७. विद्यालयस्य यान्त्रिकपरिवेशस्य समाप्तिः ।
८. छात्राणां निष्पत्तिस्तरस्य उन्नयनम्
क्रियात्मकानुसन्धानस्य क्षेत्राणि –
१. कक्षाशिक्षणविधिषु युक्तिषु च संशोधनम् ।
२. शिक्षणे प्रयुक्तानां सहायकसामग्रीणामुपयुक्तताविषये निर्णयः ।
३.छात्राणामभिरुचिः, ध्यानं, तत्परता, जिज्ञासादीनां संवर्धनम् ।
४. विभिन्नविषयेषु प्रदत्तानां गृहकार्याणां प्रणालीषु संशोधनम् ।
५. भाषाशिक्षणे वर्त्तनीवाचनसम्बद्धसमस्यानां समाधानम् ।
६. विद्यालयप्रशासनसम्बद्धसमस्यानां समाधानम् ।
७. छात्राणाम् अनुपस्थितिसम्बद्धसमस्यायाः समाधानम् ।
क्रियात्मकानुसन्धानस्य सोपानानि – (Steps of Action Research)
क्रियात्मकानुसन्धाने षट्सोपानानि सन्ति –
१. समस्याक्षेत्रम्
२. परिकल्पना विश्लेषणम्
३. परिकल्पनासमस्यासमाधानम्
४. आधारसामग्रीसंकलनम्
५. सांख्यिकीप्रविधिद्वारा आधारसामग्रीणांसंकलनम् ।
६. निष्कर्षाणां प्रतिपादनञ्च ।
एतैः प्रतिविषयं स्वीकृत्य क्रियात्मकानुसन्धानं विधीयते ।
क्रियात्मकानुसन्धानस्य प्रायोगिकप्रकल्पप्रारूपाः (Experimental Project of Action Research)
राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषद् (NCERT) द्वारा सक्रियरूपेणक्रियात्मकानुसन्धानस्य कृते बहवः प्रयासाः क्रियन्ते । अस्य उन्नयनार्थं परिषद्-माध्यमेन स्वप्रसारसेवाविभागस्य सहयोगेन बहुविधकौशलानां विकासः क्रियते। परिषद्-द्वारा क्रियात्मकानुसन्धानस्य प्रायोगिकप्रकल्पनप्रारूपः प्रदर्शितः, यस्मिन् निम्नसोपानानि सन्ति –
१. योजनाशीर्षकम्
२. योजनायाः उद्देश्यम्
३. प्रणाली
४. मूल्यांकनम्
५. अनुमानितव्ययः
६. विद्यालयनाम,छात्रसंख्या, विभागः
७. विद्यालये शिक्षकाणां संख्या
८. विद्यालये योजनायाः कृते उपलब्धसौविध्यानि ।
उक्तप्रारूपमनुसृत्य शिक्षकाः अनुसन्धाने प्रवृत्ताः भवितुमर्हन्ति । वर्तमानयुगे विद्यालये बालकस्य समग्रविकासस्य कृते क्रियात्मकानुसन्धानस्य विशिष्टा आवश्यकता वर्तते। अनेन अतीव सरलतया वैज्ञानिकाविष्कारैः उत्पन्नानां समस्यानां समाधानं कर्तुं शक्यते। विद्यालयस्य- पारम्परिकयान्त्रिकार्यपद्धतिषु परिवर्तनं कृत्वा क्रियात्मकानुसन्धानेन मनोवैज्ञानिकं व्यवहारिकं च दिशानिर्देशनं क्रियते। छात्राणां कृते स्वस्थसामाजिकपरिवेशस्य स्थापना क्रियते। अपि च शिक्षकेभ्यः नूतनानुभवानामवकाशाः विधीयन्ते। अस्मिन् विषये राष्ट्रियशैक्षिका-नुसन्धान-प्रशिक्षणपरिषद्, राष्ट्रियाध्यापकशिक्षापरिषद्, विश्वविद्यालयानुदानायोगः च एतादृशानि बहूनि शिक्षासंस्थानानि यत्नशीलाः सन्ति। येनाधारेण राष्ट्रिय-शैक्षिकोद्देश्यानां मूल्यानां च लक्ष्यप्राप्तिः कर्तुं शक्यते ।
सन्दर्भग्रन्थाः
१. अध्यापक शिक्षा – आर. ए. शर्मा, शिखा चतुर्वेदी
२. अध्यापकशिक्षा – सक्सेना, मिश्रा, मोहान्ति
३. शिक्षणकला – डॉ. शालिग्रामत्रिपाठि
४. प्राइमरी शिक्षक – पत्रिका रा. शै.अ.प्र. परिषद्
५. अध्यापकशिक्षा का पाठ्यचर्याप्रारूप –
प्रलेखःराष्ट्रियाध्यापकशिक्षापरिषद्
[1]शिक्षासुधा जून २००३