देवालयस्य नृत्यशिल्पकृत्यां हस्तकरणादयः
पल्लवी हेगडे
संशोधन छात्रा
कर्नाटकसंस्कृतविश्वविद्यानिलयः
बेङ्गलूरु
शोधसंक्षेपः :
भरतमुनिना विरचित नाट्यशास्त्रे चतुर्विध अभिनय विचारे ये अंशाः उक्ताः ते सर्वे प्रायोगिकरूपेण शिल्पाकृत्यां दृष्टुं शक्यते । भारतीय संस्कृतेः लक्षणं च दृश्यते । तथैव कलायाः महत्वमपि सहस्राधिक वर्षानामनन्तरमपि परम्परात्वेन प्रवह्य विषयासक्तेषु इतोप्यधिकं ज्ञातव्यमिति जिज्ञासां जनयति इयं शिल्पकला ।
भरतस्य नाट्यशास्त्रे चतुर्विध अभिनयस्य विषये तत्रापि आङ्गिकाभिनयः इत्यस्य वर्णन विषये शिरसः पादपर्यन्तं विविध अङ्गानां वर्णनं वैविध्यं सुष्टु कथितम् । परं ते सर्वे अंशाः भारतीयसंस्कृत्याः प्रतिफलनरूपेण पूर्वतन राजानः तेषां शासनावधौ यान् देवालयान् निर्मितवन्तः तत्र सर्वत्र आङ्गिकाभिनयस्य प्रायोगिकं चित्रणं वास्तुशिल्पशास्त्रद्वारा निर्मित शिल्पाकृतौ दर्शयामासुः । एतेषाम् अंशानां संक्षिप्त दृष्टिः अत्र प्रदत्ता ।
[1]भारतस्य सर्वाः नृत्यकलाः भरतनाट्यशास्त्राधारिताः नृत्यशैल्याः एव सन्ति । तत्तत्प्रान्तीयजनानां जीवने, पर्यावरणे, विश्वासे, आचारव्यवहारेषु, कलासु च अस्य गाढः प्रभावः भवति । नाट्यशास्त्रस्य आधारेण भव्यतया वर्धिता दक्षिणभारतस्य शास्त्रीयनृत्यकला अद्य भरतनाट्यम् इति नाम्ना प्रसिद्धम् अस्ति । नृत्य-नृत्त-नाट्य -विविधप्रकारेण निर्दिष्ट शैल्याम् अंतर्भवन्ति ।
भरतमुनेः नाट्यशास्त्रं क्रि. पू. द्वितीयशतके रचितम् इति कथ्यते । कालान्तरे ये नृत्यरूपाणि निर्मितानि तानि परम्परायाः परिधिमध्ये शास्त्रीयाः अभवन् ।
[2]कर्नाटकस्य चालुक्यसाम्राज्यस्य गुहामन्दिरेषु विद्यमानानि शिवमूर्तयः ५ तः ७ शताब्द्याः परितः सन्ति । अद्यत्वे अपि ऐहोले बादामी पटदकल्लु इत्यत्र ललित चतुरमुद्राः दृश्यन्ते १८ बाहुयुक्तं नटराजस्य शिल्पं चलनाविधौ दर्शितं यत् भरतनाट्यशास्त्रे एतस्य वर्णनं कृतम् । इदम् अद्भुतं वस्तु अस्ति ।
तमिलनाडुराज्यस्य चोलानां ८ शताब्धितः १० शताब्धि पर्यन्तं यावत् कालः नृत्यस्य स्वर्णयुगः इति प्रसिद्धः अस्ति । तंजावूरू बृहदीश्वर मन्दिरं, चिदम्बरस्य नटराज मन्दिरं, कुम्बकोणस्य सारङ्गपाणी मन्दिरं नाट्यशास्त्रस्य अष्टाधिक एकशत करणानां वर्णनं कृतम् । आनन्दताण्डवे प्रतिपादितस्य नटराजविग्रहस्य परिकल्पना अस्मिन् युगे उत्पन्ना।
१२ शतमाने होय्सलकालस्य बेलूरु हलेबिडु सोमनाथेश्वरस्य मन्दिराणि नृत्यस्य प्राधान्यं प्रमाणं कुर्वन्ति ।
१७ शतके शासनं कृतवन्तः चिक्कदेवराज ओडेयाः कलाकाराः आसन् । अनेकानि जावली-कृतीनां निर्माणं च कृतवन्तः ।
चिन्नय्य – पोन्नय्य शिवानन्दम् – वाडिवेलु, चत्वारः भ्रातरः ये १८ तम शताब्द्यां तंजावूरू नगरस्य मराठराज शरभोज्याः संस्थाने आसन् । तैः अद्यतनस्य भरतनाट्य कार्यालयस्य रचनाः कृताः ।
१९ तम शताब्द्यां मुम्मडीकृष्णराज ओडेयाः वैराग्यजावलीं रचयत् । नाल्वडिकृष्णराज ओडेयाः, जयचामराजेन्द्र ओडेयाः च अनेकाः कृतयः रचितवन्तः ।
५ तः ७ तम शताब्धि समयः – बादामी – ऐहोले – पट्दकल्लु देवालयाः
भारतस्य उत्तरकर्नाटकस्य बागलकोटेमण्डलस्य बादामीनगरे स्थिताः हिन्दुजैनगुहामन्दिराणि भारतीय राक्कट् वास्तुकलायां प्रमुखानि उदाहरणानि सन्ति । बादामी-नगरस्य चालुक्य-वास्तुकला विशेषतः ६ तम शताब्द्याः आरम्भे समभवत् । बादामी इति चालुक्यवंशस्य राजधानी पूर्वं वातापीनगरम् इति नाम्ना प्रसिद्धस्य आधुनिकनाम । १९३५ तमे वर्षे स्टेल्ला क्रामिश् इत्यनेन एताः गुहाः आविष्कृताः ।
गुहा १ : नर्तनस्य नटराजस्य शिवस्य प्रमुखम् उत्कीर्णनम् ।
द्वितीया गुहा : त्रिविक्रमरूपेण भगवान् विष्णोः विशालमूर्तिः अस्ति ।
तृतीया गुहा : विष्णुसम्बद्धा जटिलतया उत्कीर्णा गुहा ।
चतुर्थी गुहा : जैनधर्मस्य पूज्यव्यक्तिभ्यः समर्पिता अस्ति ।
चालुक्यसाम्राज्यस्य राजधानी बादामी-नगरे प्रारम्भिकचालुक्याः इति नाम्ना प्रसिद्धस्य वंशस्य काले षष्ठशताब्द्याः अन्ते यावत् चत्वारि गुहामन्दिराणि आगतानि । प्रथम तिस्रः गुहाः शिवविष्णोः विषये केन्द्रीकृताः हिन्दुप्रतिमाः सन्ति, चतुर्थगुहायां स्थितायां प्रतिमायां जैनविषयः अस्ति ।
नटराजः – ५ पादपरिमितस्य नटराजमूर्तेः १८ बाहवः सन्ति । अष्टादश भुजाः नाट्यमुद्रां व्यञ्जयन्ति। शिवस्य नृत्यम् उग्रं ताण्डवं नृत्यं हन्ति राक्षसम् । एषा मुद्रा ललिता नाट्यचतुर्ताण्डवम् इति कथ्यते । नटराजस्य उत्कीर्णनस्य दक्षिणतः महिषासुर मार्धिनी उत्कीर्णनम् अस्ति । हरिहर उत्कीर्णनम् अर्धनारीश्वर उत्कीर्णनम् अत्र वयं पश्यामः ।
द्वितीय गुहायां – विष्णुः यथा वराहत्वेन भूदेवीरूपेण पृथिवीं रक्षति । दक्षिणे वामनस्य अवतारे विष्णुः, त्रिविक्रमपदस्य तथा प्राचीनभारतीयवाद्ययन्त्राणि च उत्कीर्णानि सन्ति ।
तृतीय गुहायां विष्णुः सर्पशेषस्य वामभागे उपविष्टः अस्ति । वामभागे श्रृङ्गारदम्पत्योः उत्कीर्णनम् अस्ति ।
चतुर्थ गुहायां – तीर्थंकर पार्शनाथस्य तथा बाहुबलीयाश्च उत्कीर्णनानि वयं प्राप्नुमः ।
ऐहोले नगरम् :
ऐहोले भारतीयमूर्तिकलायाः प्रसिद्धं स्थलम् । बागलकोटे मण्डलस्य हुनगुन्द उपमण्डले अन्तर्गतम् अस्ति । मलप्रभानद्याः तटे स्थितम् । ऐहोले बादामी चालुक्यानां प्रथमराजधानी आसीत् । आर्यपुर इति शिलालेखेषु यत् स्थानम् उक्तं तत् कालान्तरेण ऐहोले इति अभवत् । ६ तम शताब्धितः ८ तम शतमानं यावत् वयं मन्दिरनिर्माणे बहून् प्रयोगान् पश्यामः । अत्र १२० मन्दिराणि, ४ गुहाः च सन्ति । अत्रत्य दुर्गामन्दिरस्य महत्त्वम् अस्ति ।
पट्दकल्लु नगरम् :
अत्र १० प्रमुखाणि मन्दिराणि शिवाय समर्पितानि सन्ति । ४ मन्दिराणि पारम्परिकद्राविडशैल्यां निर्मिताः सन्ति । अन्ये ४ मन्दिराणि नागरवास्तुतत्त्वैः निर्मिताः सन्ति । विरूपाक्षमन्दिरम् अत्रत्य प्रसिद्धतमं पाषाणमन्दिरम् अस्ति ।
अष्टम-दशशताब्दयोः मध्ये तमिलनाडु-देशे निर्मितं बृहदीश्वर-मन्दिरं विश्वस्य भव्यतमवास्तुकलाकृतिषु अन्यतमम् अस्ति । यत्र चोल-काले निर्मितानां कलारूपाः वैभवयुताः सन्ति । अस्य मन्दिरस्य आधारशिला तमिलसम्राट् अरुलमोळी वर्मनेन स्थापितः । सः राजराजचोल इति नाम्ना प्रसिद्धः आसीत् । द्राविडशैल्यां वास्तुकला उत्कीर्णा अस्ति । बृहदीश्वरमन्दिरं ’दक्षिणमेरु’ इति नाम्ना प्रसिद्धम् अस्ति । राजराजचोलः स्वप्ने मन्दिरस्य निर्माणं कर्तुं निर्देशं प्राप्य एतत् शिवमन्दिरं निर्मितवान् ।
१२ शताब्द्याः बेलूरु चेन्नकेशवमन्दिरसहितम् ऐतिहासिकं स्थानम् । मन्दिरं नक्षत्राकारे अस्ति । पूर्वं वेलुपुर इति नाम्ना प्रसिद्धम् आसीत् । होय्सलसम्राट् विष्णुवर्धनस्य शासनकाले अस्य मन्दिरस्य निर्माणं प्रारब्धम् । रामानुजाचार्यस्य आशीर्वादेन सः तलकाडु-नगरे चोलानां विजय-उत्सवस्य समये चेन्नकेशव-स्वामी-प्रतिमाम् अस्थापयत् । अस्य कारणात् एतत् मन्दिरं विजयनारायणस्वामीमन्दिरम् इति नाम्ना प्रसिद्धम् अस्ति ।
आधार ग्रन्थाः :
- भतरनाट्य प्राथमिक भागः २००० पठ्यपुस्तक निर्देशनालयः बेङ्गलूरु
- भरतनाट्य माध्यमिक भागः २००२ पठ्यपुस्तक निर्देशनालयः बेङ्गलूरु
- कर्नाटक वास्तुशिल्प तथा नृत्यकला, पुट्टक्क प्रकाशनम्
- चालुक्यानां शिल्पकला, कन्नड प्रकाशनम्, पुण्डलिक कल्लिगनूरु, साहित्य साधनम्
- होय्सलानां शिल्पकला, कर्नाटक शिल्पकला अकाडेमि, बेङ्गलूरु – एच्. एस्. गोपालराव्
[1] भरतनाट्य प्राथमिक भागः पठ्यपुस्तक निर्देशनालयः बेङ्गलूरु पु.सं. १०१.
[2] भरतनाट्य प्राथमिक भागः पठ्यपुस्तक निर्देशनालयः बेङ्गलूरु पु.सं. १०१.