“उपपदविभक्तेः कारकविभक्तिः बलीयसी” इति परिभाषायाः वाचनिकत्वविचारः
Shambhunath Bhat
Research Scholar
Karnataka Samskrit University
Bangalore
Email- shambbubakkal@gmail.com
Ph- 9482493321
सारांशः
लेखनेऽस्मिन् नागेशोक्तवाचनिकत्वस्य औचित्यं विचार्यते । कैयटादिभिः एषा ज्ञापकसिद्धांशानुवादः, न तु अपूर्वरूपेण वाचनिकी इति उपपादितम् । पक्षद्वये कः पक्षः युक्तः इति परिशील्यते । महाभाष्ये सहयुक्तेऽप्रधाने इति सूत्रभाष्ये एषा पठिता । युक्तीनां बलाबलसमवलोकनेन कः पक्षः ज्यायानिति निर्णीयते ।
Key words – उपपदविभक्तिः, कारकविभक्तिः, वाचनिकी, ज्ञापकसिद्धा, परिभाषा, न्यायः
“सहयुक्तेऽप्रधाने” इति सूत्रभाष्ये उपपदविभक्तेः कारकविभक्तिः बलीयसी इत्येषा परिभाषा आनुपूर्व्या पठिता । तत्र अप्रधाने इति दलस्य अभावे पुत्रेण सह आगतः पिता इत्यत्र पितरि अतिव्याप्तिमाशङ्क्य अनया परिभाषया समाहितम् । पितृशब्दात् कारकविभक्तेः प्रथमायाः, उपपदविभक्तेः तृतीयायाः सम्प्राप्तौ प्रथमा एव कारकविभक्तिः भवति इति तद्बाष्याशयः । अनेन एव भाष्येण प्रथमा कारकविभक्तिः इति गम्यते । अत्र एषा परिभाषा या पठिता सा किं वाचनिकी आहोस्वित् न इति कश्चन विचारः क्रियते ।
नागेशाशयः
“इयं च वाचनिक्येव” इति वदता नागेशभट्टेन अपूर्वा एषा परिभाषा भाष्यकारैः पठिता इति परिभाव्यते । परिशील्यमाने कैयटादिभिः उक्ताः युक्तयः युक्ततराः इति अवगम्यते । तत्र नागेशेन स्वपक्षः इत्थं समर्थ्यते – “तत्र च दीयते कार्यं भववत्“ इति सूत्रे भाष्ये “कार्यग्रहणमनर्थकं भवेन कृतत्वात्“ इति कात्यायनेन कार्यग्रहणे प्रत्याख्याते भाष्यकृता “कार्यग्रहणमेव भवान् प्रत्याचष्टे न पुनः दीयते ग्रहणमपि । यथैव यन्मासे कार्यं तन्मासे भवं भवति । एवं यदपि मासे दीयते तदपि मासे भवं भवति । तत्र ’तत्र भव’ इत्येव सिद्धम् । न सिद्ध्यति । नैतन्मासे दीयते । किं तर्हि ? मासे गते । एवं तर्हि औपश्लेषिकमधिकरणं विज्ञास्यते ।” इति दीयतेग्रहणमपि प्रत्याख्यातम् ।
वार्तिककाराः कार्यग्रहणं प्रत्याख्यातुं शक्यते इति कथयन्ति । यतो हि सूत्रेऽस्मिन् भववत् इत्यनेन “तत्र भवः” इत्यधिकारे विहिताः प्रत्ययाः तत्तत्प्रातिपदिकेभ्यः भवन्ति । अतः कार्यग्रहणं सूत्रे न कार्यम् । एवं दीयतेग्रहणमपिप्रत्याख्येयम् इति भाष्यकाराणाम् आशयः । यथा मासे कार्यं तन्मासे भवं भवति । एवं यन्मासे दीयते वेतनादिकं तदपि तत्र भवं भवति इति । अतः भववत् इत्यनेने अयमप्यंशः गृह्यते । कार्यापेक्षया अत्र कश्चन भेदो वर्तते । कार्यं तु मासे एव भवति । परं वेतनादिकं तु मासे गते [अतीते] दीयते । अतः नात्र भववत् इत्यनेन सिद्ध्येत् इति शङ्कितम् । तदा मासे अतीते दीयमानस्यापि वेतनस्य मासः अधिकरणं भवति । औपश्लेषिकाधिकरणस्य अर्थः – उप=समीपे, श्लेषः = सम्बन्न्धः , यस्य तत् अधिकरणं औपश्लेषिकाधिकरणम् । एवं च उपपदविभक्तेः कारकविभक्तिः बलीयसी इति न्यायेन कारकविभक्तेः बलवत्त्वमुच्यते । अतः मासे गते सति दीयते इति “यस्य च भावेन भावलक्षणं” इति उपपदसप्तम्यपेक्षया “सप्तम्यधकरणे च” इति सूत्रविहितकारकसप्तमी एव बलीयसी ।
तत्रैव कैयटोक्तमपि अस्माकमनुकूलमिति नागेशोपाध्यायाः कथयन्ति । “मासे दीयते इति नैषा अधिकरणसप्तमी । किं तर्हि ? यस्य च भावेन भावलक्षणम् इति”। तत्र भवः इत्यत्र च अधिकरणसप्तम्याश्रिता । तत्र भवः इत्यत्र अधिकरणसप्तम्याश्रयणे मानं तु एषा परिभाषा । अस्याः वाचनिकत्त्वे एव अयं कैयटाभिप्रायः युज्यते इति । यस्य चेत्यादिसूत्रेण विधीयमाना उपपदविभक्तिः क्रियामश्रित्य एव प्रवर्तते । यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी भवति इति तदर्थः । अतः क्रियाश्रिता एषा विभक्तिः । कारकविभक्तिस्तु क्रियामाश्रित्य एव भवति । एवं च अत्र अन्तरङ्गबहिरङ्गभावः वक्तुं न शक्यते । अतः एषा वाचनिक्येव इति नागेशाशयः ।
नागेशाशयौचित्यानुशीलनम्
अत्र अन्तरङ्गबहिरङ्गभावेनैव समाधानं भवितुमर्हति । तथाहि तत्र च “दीयते कार्यं भववत्” इत्यस्य उदाहरणत्त्वेन मासे दीयते इत्यत्र विचारः कृतः । तत्रैव या दानक्रिया उपात्ता तत्क्रियासम्बन्धस्य उभयसाधारणत्त्वेऽपि अधिकरणसप्तमीनिमित्तभूतः क्रियाकारकभावः अन्तरङ्गः । तस्य शीघ्रोपस्थितिकत्त्वात् । भावलक्षणसप्तमी या सत्सप्तमी इति कथ्यते तस्याः प्रवृत्तिहेतुः ज्ञाप्यज्ञापकभावसम्बन्धः । यश्च बहिरङ्गभूतः । यतोहि अयं ज्ञाप्यज्ञापकभावसम्बन्धः क्रियाकारकभावसम्बन्धमूलकः । ज्ञापनक्रियासम्बन्धं विना सम्बधिनोः ज्ञाप्यज्ञापकभावः न सम्भवति । सोऽपि सम्बन्धः न साक्षात् । प्रकृतेऽपि मासे दीयते इत्यत्र दानक्रियया एव मासस्य अधिकरणत्त्वं सिद्ध्यति । परन्तु मासे अतीते दीयते इत्यत्र दानक्रियातिरिक्ता या अतिक्रमणक्रिया सा अपेक्षिता भावलक्षणसप्तम्याः । एवं च अन्तरङ्गत्त्वादेव अत्र कारकविभक्तेः बलवत्त्वम् ।
नागेशपक्षे हेत्वन्तरम्
प्रकारान्तरेण वाचनिकत्त्वं साधयितुं प्रयत्यते । तथाहि ’नमस्यति देवान्’ इत्यादौ उपपदविभक्तेः… इत्यादि परिभाषया एव कर्मणि द्वितीया प्रवर्तते । नमस्यति इत्यत्र उत्कृष्टत्त्वप्रकारकबोधनं नमःशब्दार्थः । तदनुकूलव्यापारः विशिष्टस्य अर्थः । एवः च धात्वर्थनिष्ठक्रियाजन्यफलाश्रयत्त्वरूपकर्मत्त्वं निमित्तीकृत्य द्वितीया । तदपेक्षया विशेषणीभूतनमःपदार्थसम्बन्धनिबन्धना चतुर्थी । अत्र अन्तरङ्गत्त्वात् चतुर्थी एव स्यात् । विशेषणांशमात्रापेक्षितत्त्वात् चतुर्त्याः । दितीया तु विशिष्टमपेक्ष्य प्रवर्तते इति तस्याः बहिरङ्गत्त्वम् । एवं च विना वाचनिकत्त्वम् अस्याः परिभाषायाः प्रकृते प्रवृत्तिरेव न स्यात् ।
हेत्त्वन्तरविघटनम्
तत्र एवं समाधीयते – “अन्तरङ्गापेक्षया प्रधानकार्यं बलवत्” भवति । विशिष्टक्रियायाः प्राधान्यात् तदपेक्षया प्रवर्तमाना विभक्तिः प्रबला भवति । अयं न्यायः बहुत्र स्वीकार्योऽपि । यथा ’मूलकेनोपदेशं भुङ्क्ते’ इत्यादौ भुजिक्रियानिरूपितकरणत्त्वप्रयुक्ता तृतीया भवति उत उपदंशनक्रियानिरूपितकर्मत्त्वप्रयुक्ता द्वितीया इति संशयः जायते । तत्र प्रधानभुजिक्रियानिरूपितकरणप्रयुक्ततृतीया एव । न तु अप्रधानभूतोपदंशनक्रियानिरूपितकर्मत्त्वप्रयुक्ता दितीया । एवं च एतदर्थमपि उपपदविभक्तेः… इत्यादिपरिभाषायाः वाचनिकत्त्वं नापेक्षते ।
नागेशपक्षे अपरो हेतुः
सहयुक्तेऽप्रधाने इत्यत्र भाष्ये ध्वनितमस्याः वाचनिकत्त्वमिति नागेशाशयः । तत्र हि प्रकृतपरिभाषया तृतीयातः प्रथमायाः प्राबल्यं स्वीकृत्य अप्रधानेग्रहणं प्रत्याख्यातम् । प्रथमाविभक्तिः अपि कारकविभक्तिः भवति । अतः अनया परिभाषया प्रथमायाः प्राबल्यमुच्यते । इदं च अस्याः वाचनिकत्त्वे एव सिद्ध्यति । यतो हि ’पुत्रेण सहागतः पिता’ इत्यादौ तृतीयापेक्षया प्रधानकार्यत्त्वम् अन्तरङ्गत्त्वं वा प्रथमायाः न सम्भवति । अतः एषा वाचनिक्येव स्यादिति तदाशयः ।
अपरहेत्वपसारणम्
इहापि प्रसङ्गे अन्तरङ्गत्त्वमस्ति प्रथमायाः । तथा हि प्रथमाविभक्तिः प्रातिपदिकार्थमात्रे भवति इति सा अन्तरङ्गा । तृतीया तु बहिर्भूतसहार्थसम्बन्धमपेक्ष्य प्रवर्तते इति बहिरङ्गा । तर्हि अन्तरङ्गत्त्वादेव खलु तत्र प्रथमा भवति ।
उपसंहारः
इत्थम् उपपदविभक्तेरित्यादिन्यायः अन्तरङ्गबलीयस्त्वादिन्यायफलभूत एव । न तु अपूर्वफलसाधकः । तत्र कैयटादिभिः यथा प्रतिपादितं तथैव स्वीकारः उचितः । नागेशेन यद्यपि वाचनिकत्त्वं प्रतिपादितं तथापि युक्तीनां दौर्बल्यात् न युक्ततरः पक्षः तस्य ।
आकरग्रन्थाः –
- परिभाषेन्दुशेखरः – नागेशभट्टविरचितः श्रीपादसत्यनारायणमूर्तिसम्पादितः राष्ट्रियस्ंस्कृतविद्यापीठम् तिरुपति 2004.
- व्याकरणमहाभाष्यम् द्वितीयखण्डम् प्रदीपोद्योतसहितम्, पतञ्जलिना विरचितम्, शिवदत्तशर्मभिः संशोधितम्, चौकम्बा संस्कृतप्रतिष्ठानम् देहली, २००७(पुनर्मुद्रणम्)
- व्याकरणमहाभाष्यम् तृतीयखण्डम् प्रदीपोद्योतसहितम्, पतञ्जलिना विरचितम्, शिवदत्तशर्मभिः रघुनाथशास्त्रिभिश्च संशोधितम्, चौकम्बा संस्कृतप्रतिष्ठानम् देहली, २००८(पुनर्मुद्रणम्)
- व्याकरणमहाभाष्यम् चतुर्थखण्डम् प्रदीपोद्योतसहितम्, पतञ्जलिना विरचितम्, भार्गवशास्त्रिभिः संशोधितम्, चौकम्बा संस्कृतप्रतिष्ठानम् देहली, २००७(पुनर्मुद्रणम्)
- www.ashtadhyayi.com