श्रीः
व्याकरणरीत्या सप्तस्वराणां व्युत्पत्तिपरिशीलनम्
रा.प्रियंवदा
शोधच्छात्रा, व्याकरणविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
प्रस्तावः –
ब्रह्माण्डारणि निर्मन्थादुत्थितज्ञानवह्निना ।
निर्ममे शब्दशास्त्रं यस्तस्मै पाणिनये नमः ॥[1]
शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणिः ।
स एवं शङ्करो वेत्ति समग्रं वेत्ति नापरः ॥[2]
सङ्गीतशास्त्रविषये संस्कृतग्रन्थाः बहवः लभ्यन्ते। तेषु संगीतरत्नाकराख्यानग्रन्थः सङ्गीतनृत्त्यविषययोः महत्त्वपूर्णव्यापकसंस्कृतग्रन्थेषु अन्यतमः। सः ग्रन्थः सप्तसु अध्यायेषु विभक्तः । तत्र प्रथमस्वरगताध्याये तृतीयप्रकरणात् सप्तस्वराणां सामान्यव्युत्पत्तिपरिचयः क्रियते।
सङ्गीतशास्त्रे विराजमानम् एनं ग्रन्थं शार्ङ्गदेवः प्रणीतवान्। शार्ङ्गदेवः स्वविरचितग्रन्थे सङ्गीतरत्नाकरे चत्वारिंशतः पूर्वजानां सदाशिवादारभ्य कीर्तिधरपर्यन्तानां सङ्गीतज्ञानिनां विषये तेषां कृत्यादीन् सम्यगालोच्यैव एनं ग्रन्थं विरचितवान्। तेषु भरतदत्तिल-मतङ्ग-भोज- अभिनवगुप्त-अनन्यदेव-सोमेश्वर-जगदेकमल्लानां कृतयः अधुनापि समुपलभ्यन्ते।
अतः एतेषामपि मतानाश्रित्य व्याकरणरीत्या सप्तस्वराणां व्युत्पत्तिपरिशीलनम् इति मम चितविषयं प्रस्तोष्यामि ।
सङ्गीतशास्त्रे अनेके पारिभाषिकशब्दाः विद्यन्ते । तेषां शब्दानां बोधेन विना तत्तच्छास्त्रस्य ज्ञानं दुष्करम्। एवं यथाशास्त्रं तद्वत् शब्दानां गतिः।
तेषां शब्दानां गत्यवबोधनाय व्याकरणरीत्या परिशीलनमपेक्षितम् । सङ्गीतशास्त्रं यथा वैदिकं लौकिकञ्च, तथैव पाणिनीयव्याकरणमपि वैदिकं लौकिकञ्चेति द्वयोः विभागे प्रत्यासत्तिरस्तीति धिया अनया व्याकरणदृष्ट्या आरभ्यते इदं कार्यम्।
“पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम्।
सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किञ्चन ॥[3]
“सङ्गीतविद्या सर्वाकर्षणी । एवं पाणिनीयविद्या सर्वोपकारिणी।“
इति – व्याकरणशास्त्रसहायेन सङ्गीते विद्यमान सप्तस्वराणां व्युत्पत्तिः कथमभवत् इति पश्यामः।
स्वराः के इति प्रश्ने सङ्गीतरत्नाकरे उक्तम् –
श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः।
पञ्चमो धैवतश्चाथ निषाद इति सप्त ते॥ (1.1-23)
तेषां संज्ञाः सरिगमपदनीत्यपरा मताः।[4]
एवं षड्जः, ऋषभः, गान्धारः, मध्यमः, पञ्चमः, धैवतः, निषादः इति सप्तस्वराणां संज्ञा सङ्गीतरत्नाकरात् प्राप्ता। अत्र स्वरस्य लक्षणमुच्यते-
श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः।
स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ॥[5]
इति स्वराः श्रुतिभ्यः भवन्ति । स्वतो यः रुञ्जयति सः स्वरः ।
तत्र प्रथमः स्वरः अस्ति –
- षड्जः – जनीँ- प्रादुर्भावे इत्यस्मात् धातोः षड्जरस्वः निष्पन्नः । षड्भ्यः स्थानेभ्यः जायते इत्यर्थे षड्जः इति सिद्ध्यति ।
- अत्र षड्भ्यः स्थानेभ्यः इत्यनेन शरीरे विद्यमान षट् ध्वन्युत्पादकानि अङ्गानि उच्यन्ते। यथा –
नासां कण्ठमुरस्तालुजिह्वां दन्ताश्च संश्रितः ।
षड्भ्यः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः।।[6] इति ।
- एवमन्यषट्स्वराणां जनकः इति । अन्य षट् स्वरा रि ग म प ध नी ।
- अन्यथा अन्य षट्स्वरेभ्यः प्रकाशितः, उत्पन्नः अयं षड्जः इत्यपि उच्यते । षड्जस्वरः मयूरस्वरतुल्यस्वरः इत्यपि उच्यते ।
अस्य प्रमाणं भरतशास्त्रे दृश्यते –
षड्जं रौति मयूरो हि गावो नार्हन्ति चर्षभम्।
अजा विरौति गान्धारं क्लौञ्चो नदति मध्यमम् ॥ [7]
इति सप्तस्वरान्तर्गत प्रथमः स्वरः षड्जः। एवं द्वितीयः स्वरः अस्ति –
- ऋषभः – ऋषीँ- गतौ इति तुदादिगणधातोः ऋषभः शब्दः उत्पन्नः। धात्वर्थाधारेण परिशील्यते चेत्, यद् हृदये अन्यस्वरैः सह गच्छति, हृदयं च प्रभावयति इत्यर्थः।
- एवं यथा गवां समुदाये विशेषरूपेण ऋषभः बलवान् दृश्यते तद्वत् ऋषभस्वरः अपि सप्तस्वरेषु बलवान्।
- गावो नर्हन्ति चर्षभमित्युक्तत्वात् ऋषभ सदृश ध्वनिः उत्पाद्यः स्वरः इति कृत्वा ऋषभः इति नाम अस्य स्वरस्य ।
इति सप्तस्वरान्तर्गत द्वितीयः स्वरः ऋषभः।
एवं तृतीयः स्वरः अस्ति-
- गान्धारः – गोशब्दात् धृञ्- धारणे इति भ्वादिगुणस्थधातोः गान्धारः !
- गां धारयतीति गान्धारः इति व्युत्पत्तिः दृश्यते । (गन्धार+अर)
- अत्र गाम् इत्यनेन “गानात्मिका वाणी” इत्यर्थः। तं धारयति इति गान्धारः ।
- गन्धर्वाणां सुखस्य कारणं भवति अयं स्वरः इत्यपि गान्धारः इति व्युत्पत्तिः ।
- अजा विशैतिगान्धारंम् इति गान्धारः छागस्वरतुल्य इत्युच्यते ।
भरतमुनिः अस्य उत्पत्तिं वदति –
वायुः समुद्धतो नाभेः कण्ठशीर्षसमाहतः।
नानागन्धवहः पुण्यो गान्धारस्तेन हेतुना।।[8]
इति सप्तस्वरान्तर्गततृतीयस्स्वरः गान्धारः।
एवं चतुर्थः स्वरः अस्ति
- मध्यमः – मध्ये भवः इत्यस्मिन्नर्थे मध्यमः इति निष्पन्नः। सप्तस्वराणां मध्ये अयं चतुर्थस्वरः एवं मध्यमः इत्यत इदं नाम । मध्यमस्तु क्रोञ्चस्वरतुल्यः यथा उक्तम् – क्लोञ्चो नदति मध्यममिति । अस्योच्चारणस्थानं वक्षः।
इति सामस्वरान्तर्गत चतुर्थः स्वरः मध्यमः ।
एवं पञ्चमः स्वर: भवति –
- पञ्चमः – पञ्चानां स्वराणां पूरणः इत्यर्थे पञ्चमः इति सिद्धम्।
- स्वराणां क्रमे अयं पञ्चमः इत्यतः अयं पञ्चम इत्यभिधीयते ।
- “ तन्त्रीकण्ठोत्थितश्वरविशेषः । स तु षड्जादि सप्तस्वराणां पञ्चमः स्वरः।
- एवम् उच्चारणस्थानेषु अयं पञ्चम स्थानात् उत्पन्नः इत्यपि अस्य पञ्चमः इति संज्ञा।
प्राणोऽपानः समानश्च उदानो व्यान एव च।
एतेषां समवायेन जायते पञ्चमः स्वरः॥ [9]
इति संगीतदामोदरे षड्जपञ्चमौ प्रकृतिस्वरौ इत्यपि उच्येते ।
इति सप्तस्वरान्तर्गत पञ्चमःस्वरः पञ्चमः ।
एवं षष्ठः स्वरः अस्ति –
- धैवतः – धीमतामयम् इत्यस्मिन्नर्थे धीमत् इत्यस्मात् अण् प्रत्यये, “पृषोदरादित्वात्” मस्य वत्वे धैवतः इति सिद्ध्यति । “धीवान्” अर्थात् सूक्ष्मबुद्धियुक्तव्यक्तयः द्वारा एव ग्राह्यः अयं स्वरः धैवतः इति अस्य व्युत्पत्तिसाधुत्वम्। धैवतस्तु नारदमते अश्वस्वरतुल्यः।
यथा उच्यते अश्वस्तु धैवतं रौतीति।
गत्वा नाभेरधोभागं वस्तिं प्राप्योर्दध्वगः पुनः।
धावन्निव च यो याति कण्ठदेशं स धैवतः॥[10]
इति सङ्गीतदामोदरे। उच्चारणस्थानेषु षष्ठः ललाटः, तस्मात् धार्यते इत्यपि धैवतः इत्युच्यते !
एवं सप्तस्वरान्तर्गत षष्ठः स्वरः धैवतः ।
सप्तमः स्वरः भवति –
- निषाधः – गत्यर्थक षद्लृ धातोः निषाधः इति शब्दः निष्पन्नः । सप्तस्वरेषु एषः निषाधः अन्तिमस्वरः। अतः अन्ये स्वराः अस्मिन् पर्यवसन्ति इत्यपि अस्य निषाधस्य व्युत्पत्तिः । निषाधस्तु नारदमते हस्तिस्वरतुल्यश्वरः।
अस्योच्चारणस्थानं ललाटम्। व्याकरणमते दन्तः। इति सप्तस्वरान्तर्गत सप्तमः स्वरः निषाधः।
एवं व्याकरणशास्त्राधारेण सप्तस्वराणां नामानि, तेषां व्युत्पत्तयश्च प्रदर्शिताः।
॥ इति शम्॥
आधारग्रन्थसूची
- शार्ङदेवविरचित संगीतरत्नाकरः, सुभद्रा चौधरी द्वारा व्याख्या एवं हिन्दी अनुवादः,
प्रकाशनवर्षः – 2006, राधाप्रकाशनम्, 4231/1 अन्सारीरोड् दर्यागंज, नवदेहली –110002
- गाणामृतबोधिनी (संगीतबालपाठः), संगीतविद्वान् ए.यस्.पञ्चापकेश अय्यर्,
2014, प्रकाशकः – गाणामृतप्रचुरम्।
- संगीतरत्नाकरः, श्री कल्लीनाथः, 2017, प्रकाशक: – चौखम्बा सुरभारती प्रकाशन्।
- भरतमुनिनाट्यशास्त्रम्- अभिनवटीकासहितम्, आर.यस्.नगर, 2023
प्रकाशक: – परिमल् पब्लिकेषन् प्रैवेट् लिमिटड्।
- वाचस्पत्यम् (बृहत् संस्कृताभिधानम्), श्री तारनाथ तर्कवाचस्पतिः, 2012
प्रकाशक: – चौखम्बा संस्कृत संस्थान्।
[1] अष्टाध्यायीमङ्गलाचरणम्- श्लो.सं.4
[2] सङ्गीतरत्नाकरम् – श्लो.3
[3] पाणिनीयप्रशस्तिः – श्लो.4
[4] स्वरविवेचनी – पृ.2
[5] स्वरविवेचनी – पृ.5
[6] शब्दवाचस्पत्यम् – पृ. 7
[7] सङ्गीतदर्पणम्. पृ.11
[8] नारदीयशिक्षा – पृ.5
[9] सङ्गीतदर्पणम्. पृ.11
[10] सङ्गीतदर्पणम्. पृ.12