।।प्राणायामस्य स्वरूपम्।।
MANORAMA SAWN
Research scholar
National Sanskrit university
Tirupati (A.P) – 517501
Mob.9390769036
उपोद्घातः
व्याकरणांशः – प्राणस्य वायुविशेषस्य आयामो रोधः। यद्वा प्राण आयम्यतेेति। आ + यम् + करणेघञ्, योगाङ्गविशेषः, इति कोषे उक्ताः सन्ति। स्वेनैव रूपं यस्य सः स्वरूपः इति बहुब्रीहिसमासः रूपमेव। प्राप्तरूपः अभिरूपः इत्यमरः।
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य। [1]
छर्दनं भक्षितान्नवमनवत् प्रयत्नेन शरीरस्थं प्राणं बाह्यदेशं निस्सार्य्य यथाशक्ति बहिरेव स्तम्भनेन चित्तस्य स्थिरता सम्पादनीया।
प्राणायामः योगाङ्गेषु चतुर्थमङ्गम्। साधकः यदा आसने स्थिरो भवति तदा प्राणायामः समभ्यसनीय इति पतञ्जलिवचनम्। तत्र सूत्रम् – तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः[2] इति। आसनसिद्धौ वा सत्यासनजये[3] श्वासप्रश्वासयोः गतिविच्छेदः प्राणायामः अभ्यसनीय इत्यर्थः। वायोरन्तराचमनं श्वासः। पुनः कौष्ठ्यस्य वायोः निस्सारणं प्रश्वासः। एतयोरनवच्छिन्ना गतिः यावज्जीवं दृश्यते। यादृच्छिकतया उभयोः सञ्चरणाभावसाधनं प्राणायामेत्युक्तं पतञ्जलिना। श्वासप्रश्वासयोर्गतिविच्छेदः चतुर्धा भवति। आद्यः रेचककुम्भकः। स च वायोः रेचकानन्तरं सिद्ध्यति। बाह्यवृत्ति प्राणायामोऽयम्। वायोः पुरकानन्तरं क्रियमाणः कुम्भकः आभ्यन्तरवृत्तिः। पुरककुम्भकोऽयम्। तृतीयस्तु स्तम्भवृत्तिः यत्रकुत्रापि श्वासप्रश्वासयोः अविच्छिन्नायां गतौ वायोः स्तम्भनम्। तदुक्तं पतञ्जलिना – बाह्याभ्यन्तरस्तम्भवृत्तिदेशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः[4] इति।यत्रप्रश्वासपूर्वको गत्यभावः स ब्राह्यः। यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः। तृतीयः स्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद्भवति। यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते तथा द्वयोर्युगपद् भवत्यभाव इति। त्रयोऽप्येते देशेन परिदृष्टाः – इयानस्य विषयो देश इति। कालेन परदृष्टाः – क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः। संख्याभिः परिदृष्टाः – एतावद्भिः श्वासप्रश्वासै, प्रथम उद्घातस्तद्वन्निगृहीतस्यैतावद्भिर्द्वितीय उद्घात एवं तृतीयः। एवं मृदुरेवं मध्य एवं तीव्र इति संख्यापरिदृष्टः। स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः इति भगवत् पतञ्जलियोगदीपिकायाम् अवोचत्। एवं
रेचकपूरककुम्भकभेदात्त्रिविधः प्रभंजनायामः।
मुंचेद् दक्षिणयाऽनिलमथानयेद्वामया च मध्यगया।।
संस्थापयेच्च नाड्येत्येवं प्रोक्तानि रेचकादीनि।
षोडशतद्विगुणचतुःषष्टिमात्रकाणि तानि च क्रमशः।।[5]
एतत् त्रयं प्राणायामविधानं देशेन कालेन सङ्ख्याभिः उपलक्षितं तत् दीर्घं सूक्ष्मं च भवति। तत्र देशोपलक्षितो यथा – नासाद्वादशान्तादौ। कालेनोपलक्षितो यथा – षट्त्रिशन्मात्रादि प्रमाणः। सङ्ख्योपलक्षितो यथा – इयतो वारान् कृतः एतावद्भिः श्वासप्रश्वासौः प्रथमः उद्धातः भवतीति। एभिर्लक्षणैर्युक्तः प्राणायामः सफलं भवति। चतुर्थः प्राणायामः केवलकुम्भकः उक्तं पतञ्जलिना – बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः[6] इति। यदा पूरकरेचकाभ्याम् अनुपलक्षितः प्राणायामः केवलकुम्भकः चतुर्थः इत्यर्थः। वस्तुतः अयं केवलकुम्भकः तृतीयात् स्तम्भवृत्तेः प्राणायामात् वैशिष्ट्यं लभते। तृतीयः प्राणायामः श्वासप्रश्वासगत्योरुभयोः अभावे सकृत् प्रयत्नात् झटिति सिद्ध्यति। केवलकुम्भकस्तु प्रारम्भकाले श्वासप्रश्वासयोः विषयावधारणेऽपि क्रमेण अभ्यासात् तावतिक्रम्य स्वयमेव केवलो वर्तते गत्यभावः प्राप्यते वा इति चतुर्थः प्राणायामः। एवं सगर्भनिगर्भेति प्राणायामभेदोऽपि ग्रन्थान्तरेषु दृश्यते। उक्तं च –
सहस्रशस्सन्ति हठेषु कुम्भाः।
सम्भाव्यते केवलकुम्भ एव।।
कुम्भोत्तमे यत्र तु रेचपूरौ।
प्राणस्य न प्राकृतवैकृताख्यौ।।[7]
इतिकुम्भकानाम् अनेकप्रकारत्वं सूचितम्। किन्तु केवलकुम्भकः उत्तमोत्तमः इति आचार्यैः प्रशंसितः। हठयोगग्रन्थेषु रोगनिवारणोपायाः प्राणायामभेदाः प्रोक्ताः सन्ति। चित्तस्थैर्यसम्पादनं प्राणायामस्य फलम्। चित्तवृत्तेः प्राणादीनां च सम्बन्धमुपलक्ष्य प्राणनिरोधेन चित्तवृत्तिनिरोधत्वं सम्पद्यते इति प्राणायामविचारः।
बाह्यादापूरणं वायोरुदरे पूरको हि सः।
संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत्।।
बहिर्विरेचनं वायोरुदराद्रेचकं स्मृतः।।[8]
ततः क्षीयते प्रकाशावरणम्। इति।[9]
प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म, यत्तदाचक्षते – महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्तः, इति। तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद् दुर्बलं भवति प्रतिक्षणं च क्षीयते। तथा चोक्तम् – तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्येतिती।
प्राणाख्यमनिलं वश्यमभ्यासात् कुरुते तु यः।
प्राणायामः स विज्ञेयः सबीजोऽबीज एव च।।
परस्परेणाभिभवं प्राणापानौ यदाऽनिलौ।
कुरुतस्तद्विधानेन तृतीयं संयमात्तयोः।।[10]
प्राणायामैर्दहेद्दोषान् [11]
एवञ्च तत्रैव मनुस्मृतौ –
दह्यन्ते ध्यायमानानां धातूनां हि यथा मलाः।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहम्।[12]
प्राणायामेन प्राणानां स्थैर्याद् देहस्यापि स्थैर्यं ततश्च कर्मनिवृत्तिः, तन्निवृत्तौ तत्संस्काराणामपि क्षयः दौर्बल्यं ततो ज्ञानस्य दीप्तिः किञ्च इति प्रश्नेन वदति पुनः –
धारणासु च योग्यता मनसः।[13]
प्राणायामाभ्यासादेव प्रच्छर्दनविधारणाभ्यां वा प्राणस्य, योगसूत्र 1.35 – इति वचनात् प्राणायामो हि मनः स्थिरीकुर्वन् धारणासु योग्यं करोतीति इति ग्रन्थकर्तुः भावः।
प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत्।
प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः।।
हिक्का कासास्तथा श्वासः शिरःकर्णादिवेदना।
भवन्ति विविधाः रोगाः पवनव्यत्ययक्रमात्।।
यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः।
तथैव सेवितो वायुरन्यथा हन्ति साधकम्।।
युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत्।
युक्तं युक्तं च बध्नीयादेवं सिद्धइमवाप्नुयात्।[14]
अमृतनादबिन्दूपनिषदि –
रुचिरं रेचकं चैव वायोराकर्षणं तथा।
प्राणायामस्त्रयः प्रोक्ता रेचकपूरककुम्भकाः।[15]
घेरण्डसंहितायां –
सहितो द्विविधः प्रोक्तः सगर्भश्च निगर्भश्च।
सगर्भो बीजमुच्चार्य निगर्भो बीजवर्जितः।।[16]
हठयोगप्रदीपिकायां कुम्भकानां अष्टप्रकारत्वं वर्णितम् –
सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा।
भस्त्रीका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भकाः।[17] इति।
न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम्।
आपूर्य कुम्भवत्तिष्ठेत् केवलः स तु कुम्भकः।।
आरेच्यापूर्य यत्कुर्यात् स वै सहितकुम्भकः।।[18]इति।
बाह्याभ्यन्तरविषयकी वाह्यभ्यन्तरवृत्ती पूर्वसूत्रोक्तौ रेचकपूरकौ तयोराक्षेपी तावतिक्रम्य त्यक्त्वा स्वयमेव केवलो वर्त्तत इति, यावत् एवम्भूतो यः प्राणायामः स चतुर्थ इत्यर्थः, अस्य च केवलकुम्भकः इति संज्ञा वसिष्ठवाक्याद्वयक्ती भविष्यति।
योगकुण्डल्याम् अपि च योगतत्वोपनिषदि प्राणायामस्य प्रकारत्वं एवं दृश्यते –
स एव द्विविधः प्रोक्तः सहितः केवलस्तथा।
यावत् केवलसिद्धिः स्यात् तावत्सहितमभ्यसेत्।।
यथेष्टधारणाद्वायोः सिध्येत् केवलकुम्भकः।
केवले कुम्भेसिद्धे रेचपूरविवर्जिते।
न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते।।
इति केवलकुम्भकस्य विशेषवैषिष्ट्यं विशदयामास।
याज्ञवल्क्ये प्राणायामः –
[19]रेचकं पूरकं मुक्त्वा यः स्थित्वा वायुधारणम्।
प्राणायामोऽयमित्युक्तः सर्वे केवलकुम्भकाः।।
रेचयन् पूरयन् कुर्यात्सर्वे सहितकुम्भकः।
सहितं केवलं वाथ कुम्भकं नित्यमभ्यसेत्।।
प्राणायामस्य उपयोगिता –
महर्षिपतञ्जलिः राजयोगे प्राणायामस्य द्विविधं प्रयोजनं स्वीकृतवान्। यथा – मलनिवृत्तिः स्थिरता च। चित्तवृत्तीनां निरोधेव मलनिवृत्तिः। अतः स्थिरता भवति चित्तस्य स्थैर्यता। प्राणायामाभ्यासेन शरीरस्य ग्लानि दूरीभूता भवति। मुखमण्डले कान्तिः आगच्छति। धैर्य्यमपि वर्धयति। दुर्बलतापि नष्टा भवति। प्राणायामेन रागादिक्लेशाः क्षीणतां यान्ति।
“उत्तमा विंशतिर्न्मात्रा षोडशी मात्रा मध्यमा।
अधमा द्वादशी मात्रा प्राणायामस्त्रिधा स्मृतः।।
अधमाज्जायते धर्म्मो मेरूकम्पश्च मधअयमात्।
उत्तमाच्च भूमित्यागस्त्रिविधं सिद्धिलक्षणम्”।।[20]
इतोऽपि उक्तम् –
“तस्मात् त्वञ्च वरारोहे नित्यकर्म समाचर
सन्ध्याकालेषु वा नित्यं प्राण संयमनं कुरु।
प्राणायामपराः सर्वे प्राणायामपरायणाः।
प्राणायामादते नान्यत् तारकं प्राण संयमः।।
तस्मात् त्वं विधि मार्गेण नित्य कर्म समाचर
विधिनोक्तेन मार्गेण प्राण संयमनं कुरु”।।[21]
प्राणायामेन विघ्ननाशः –
सन्त्यत्र बहवो विघ्ना दारुणा दुर्निवारणाः।
तथापि साधयेद्योगी प्राणैः कण्ठगतैरपि।56।
ततो रहस्युपाविष्टः साधकः संयतेन्द्रियः।
प्रणवं प्रजपेद्दीर्घं विघ्नानां नाशहेतवे।।57।
पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम्।
नाशयेत् साधको धीमानिह लोकोद्भवानि च।58।
पूर्वार्जितानि पापानि पुण्यानि विविधानि च।
नाशयेत् षोडशप्राणायामेन योगिपुङ्गवः।।59।
पापतूलचयानाहो प्रदहेत्प्रलयाग्निना।
ततः पापविनिर्मुक्तः पश्चात्पुण्यानि नाशयेत्।60।[22]
प्राणायामाभ्यासः –
पश्चात् ग्रन्थेऽस्मिन्योगसाधनायाः प्राग् अष्टाङ्गेषु प्रथमद्वितीयदलौ यमनियमौ अनुष्ठेयावित्युक्त्या अष्टाङ्गेषु तृतीयदलमासनमुक्त्वा चतुर्थदलं प्राणायामाभ्यासस्य कर्तव्यताकत्वं बोधयति यथा –
प्राणायामं ततः कुर्यात्पद्मासनगतः स्वयम्।
अन्वयः – ततः (साधकः योगी) पद्मासनगतः (सन्) प्राणायामम् स्वयम् कुर्यात्।
समीक्षा – ग्रन्थेऽस्मिन्योगसाधनायां विद्यमानेषु अष्टाङ्गेषु प्रथमद्वितीयदलौ यमनियमौ अनुष्ठेयावित्युक्त्वा ततः पश्चात् साधकः योगीपद्मासनस्थो भूत्वा प्राणायामाभ्यासं कुर्यादित्युच्यते। ग्रन्थेऽस्मिन्प्राणायामाभ्यासमधिकृत्यानुपदमेव बहुधा वक्ष्यते।
प्राणायामस्य नामानि, सोपानानि, लाभाश्च –
उज्जैयीप्राणायामविधिः –
- स्थिरं ध्यानासनेषु उपविशेत् (पद्मासनं, वज्रासनम् इत्यादि)।
- नासिकारन्ध्राभ्यां, कण्ठमाकुञ्य श्वसनशब्द (hissing) सहितं प्राणं पूरयेत्।
- कण्ठमाकुच्य एव शनैः शनैः श्वासं रेचयेत्।
- इत्थं 9-18 (नवात् अष्टादश)परिवर्तनानि (cycles) समभ्यसेत्।
एतस्य लाभाः –
१.स्वरपेटिका शक्तिं वर्धयति।
२.कण्ठं मधुरं करोति।
३.घर्घर रवं निवारयति (roaring)।
४.कण्ठरोगाणां निवारणे अत्युत्तमोपायः अयं प्राणायामः।
५.उच्चारणशक्तिं प्रवर्धयति। अस्पष्टोच्चारणे समागतान्दोषान् निवारयति।
६.कण्ठस्य धारणद्वारा आध्यात्मिकशक्तेः सम्पादने प्रथमं सोपानं भवति।
७.अयं प्राणायामः सर्वेषामपि प्राणानाम् आधारभूमिकाम् आवहति।
शीतलीप्राणायामविधिः –
- पद्मासने उपविशेत्।
- जिह्यां बहिरानीय चञ्चुसदृशं कृत्वा ततो वायु प्रपुरयेत्।
- ततः जालन्धरबन्धं सम्भ्यसेत्।
- ततः शनैः इडा नाड्या वायुं रचयेत्।
- एवं प्रकारेण नवान् अष्टादशवारं उपासयेत्।
- पूरणवसरे श्वासनालिका भागस्य, फुप्फुसः भागस्य च शैत्यम् अनुभूयते।
जिह्वया वायुमाकृष्य पूर्ववत् कुम्भसाधनम्।
शनकैघ्राणरन्ध्राभ्यां रेचयेत् पवनं सुधी।।[23]
प्रयोजनानि –
१.ज्वरपीडा प्रशाम्यति।
२.मानसिकवेदनाम् अपनयति।
३.निद्रायाः अभावं निवार्य, सुखनिद्रां प्रददाति यच्च गर्भिणीनाम् अत्यन्तावश्यकं भवति।
४.क्षुधां तृष्णां च वारयति।
नाडीशोधनप्राणायामविधिः –
- पद्मासनं समाचरेत्।
- मुलीमुद्रां धृत्वा पिङ्गलानाडीं पिधाय इड्या वायुं प्रपुर्य अनामिकया इडां च पिदद्यात्।
- पिङ्गलामुद्घाट्य शनैः वायुं रेचयेत्।
- पिङ्गल्या नाड्या वायुं प्रपूर्य तर्जन्या पिधाय इड्या रेचयेत्।
- अयमेकः क्रमः सञ्जातः।
- एवं रूपेण नवादष्टादश वारं गर्भिणी प्रत्यहं समभ्यसेत्।
प्रयोजनानि –
१.विश्रान्तिं श्रमोपशमनञ्च प्रयच्छति।
२.शरीरस्य उष्णतां समीकरोति।
३.गर्भस्थ शिशोः शरीराभिवर्धने अपेक्षितप्राणवायुप्रदाने उपकारकः भवति।
भ्रामरीप्राणायामः –
अर्थः – भ्रमरः – द्विरेफः भ्रमरी –द्विरेफा प्राणायामेऽस्मिन् भ्रमरनादइव घोषः समागच्छति इत्यतः अस्य प्राणायामस्य नाम भ्रमरी इति।
- वेगाद्घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दम्मन्दम्।
योगीद्राणामेवमभ्यासात् चित्ते जाता काचिदानन्दलीला।।[24]
- वेगेन पुरुषभ्रमर इव नादं कुर्वन् वायुं पूरयेत्।
- शनैः भ्रमरी नाद इव शब्दं कुर्वन् वायुं रेचयेत्।
- इत्थम् एकं चक्रं समुत्पन्नम्।
- एवं प्रकारेण एकादश चक्राणि गर्भिणी समाचरेत्।
एतस्य लाभाः–
१.सुव्यवस्थितरक्तप्रसारे सहयोगी भवति।
२.शिरोवेदानां निवारयति।
३.मानसिकं सुखम् अनुभूयते।
उपसंहारः –
अभ्यासवशेन मनः स्थिरत्वं (योगत्वं) भजते। चित्तस्य निग्रहे सति मनुष्यः सर्व कर्तु पारयति। मन एव मानवानां बन्धमोक्षयोः कारणमिति यस्य मनः तस्याधिकारे विद्यते तत्कृते किमपि कार्यं दुष्करं नास्ति। मानवेः आत्मकल्याणार्थं योगसाधनं करणीयम्। गीतायां भगवता श्रीकृष्णेन बारं – बारं योगस्य महत्त्वं प्रतिपादितम्।
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।[25]
पतञ्जलिः प्राह प्राणायामात् अज्ञानावरणं क्षीयते मनश्च स्थिरं भवति। प्राणायामेन बह्वः सिद्धयऽपि लभ्यन्ते। प्रकाशावरणं क्षीयते तथा च मनसः योग्यता सम्पद्यते।
संदर्भग्रन्थसूची –
1.योगयाज्ञवल्क्यसंहिता – अनुवादः (देवरकोण्ड शेषगिरिरावः), विज्ञानमञ्जूष्वा, हैदराबाद्- 2011।
2.हठयोगप्रदीपिका – स्वात्मारामयोगी, ब्रह्मानन्दकृता ज्योत्स्नाव्याख्या, अडयार्ग्रन्थालयः, 2000।
3.घेरण्डसंहिता – गौतम चमणलाल, चौखम्बासंस्कृतभवनम्, वाराणसी, 1974।
4.योगतत्त्वोपनिषद् – स्वामी ब्रह्मानन्दतीर्थः , ज्ञानाश्रमः, त्रिशूरः।
5.पातञ्जलयोगदर्शनम् – (व्यासभाष्य – संवलितम् तच्च योगसिद्धि – हिन्दीव्याख्योपेतम्) चौखम्बा सुरभारती प्रकाशन, वारणसी 2022।
6. योगसूत्राणि – पतञ्जलिः चौखम्बासंस्कृतभवनम्, वाराणसी 2009।
7.योगसूत्रम् – राधाच, चौखम्बासंस्कृतभवनम्, वाराणसी, 1999।
8.पातञ्जलयोगदर्शनम् (तत्त्ववैशारदी – योगवार्त्तिकेतिटीकाद्वयोपेतं व्यासभाष्यम्) – व्याख्याकर्त्री एवं सम्पादिका – डा. विमला कर्णाटक, काशीहिन्दू विश्वविद्यालय, वाराणसी, 1992।
9.भारतीय दर्शन – मोतीलाल वाराणसी, 2013।
10.पातञ्जल योगदरिशन – (व्यासभाष्य एवं भोजवृत्ति सहित) वैदिकयोगमीमांसा भाष्य सहित, वेद योग चैरिटेबल ट्रष्ट, नईदिल्ली, 2016।
11.मनुस्मृतिः – (कुल्लूकभट्टविरचित मन्वर्थमुक्तावली संस्कृत टीका एवं हिन्दीभाषानुवाद) विद्यानिधि प्रकाशनः दिल्ली। 2017
12. कुण्डलिनी महायोग (साधना एवं सिद्धान्त) – चौखम्बा संस्कृत प्रतिष्ठान, दील्ली, 2009।
13.शिवसंहिता (योगशास्त्रम्) (राघवीय गीता – भाषानुवाद सहिता) – चौखम्बा संस्कृत प्रतिष्ठान, दील्ली, 2020।
14.श्रीमद्भगवद्गीता (अनुकरणीय सार – तत्त्व) चौखम्भा संस्कृत संस्थान, वाराणसी।
15. पातञ्जलयोगदर्शनम् – (योगदीपिका) चौखम्भा संस्कृत प्रतिष्ठान, दिल्ली, 2013।
16. साङ्गंयोगदर्शन – चौखम्भा संस्कृत भवन, वाराणसी, 1935।
[1] भोजवृत्तिः-अवतरणिका – 34, पृ.सं.-183
[2] पा.यो.सू.2-49
[3] पा.यो. -4,. त.वै.पृ.सं. – 269
[4] पा.यो.सू.2-50
[5] प्रपंचसारतन्त्र, 19/19-20।
[6] पा.यो.सू.2-51
[7] पा.यो.श्लो.10
[8] श्रीजाबालदर्शनोपनिषद्, 6/12-13।
[9] यो.सू. -2-52
[10] विष्णुपुराण।
[11] मनु. – 6.72।
[12] मनु.- 6.79।
[13] यो.सू. – 2-53।
[14] योगचूडामण्युपनिषद्, 116-119
[15] अमृतनादबिन्दूपनिषद् 9।
[16] घेरण्डसंहिता 5-47।
[17] हठयोगप्रदीपिका 2-44।
[18] यो.सि.च।
[19] यो.याज्ञ.सं.,अ.6,श्लो.30-31,पु.सं.49
[20] घेरण्डसंहिता
[21] याज्ञवल्क्यः
[22] शि.सं.पृ.सं. -37-38,
[23] ह.प्र.-57
[24] ह.प्र.-68
[25] गीता.