परब्रह्मोपासकानां ब्रह्मप्राप्तिः
डा. चक्रवर्तिराघवन्, आचार्यः, विशिष्टाद्वैतवेदान्तविभागः, तिरुपतिः
मूर्धन्यनाड्या हार्दानुग्रहेण दर्शितमार्गः बहिर्निष्क्रम्य अर्चिराद्यातिवाहिकगणप्रदर्शितमार्गेण नित्यविभूतिरूपं देशविशेषं गत्वा आविर्भूतस्वरूपः निश्शेष अविद्या निवृत्त्या परब्रह्मसायुज्यमवाप्य ब्रह्मानन्दमनुभवति । ततः कदापि न पुनरावर्तते । अयम् उपनिषत् प्रतिपाद्यो विषयः । अर्चिरादेश्च क्रमेण श्रीमद्भिर्वात्स्यवरदाचार्यैः श्लोकद्वयेन प्रातरनुसन्धेयेन संगृहीतः ।
सत्संगात् भवनिःस्पृहः गुरुमुखात् श्रीसंप्रपद्यात्मवान् प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः । न्यासादेव निरङ्कुशेखर दया निर्ल्न मायान्वयः ..त्वहिर्निष्कृतः ।।
अनेन आद्यश्लोकेन उत्क्रान्तिः । तत्र द्वितीय श्लोकोऽयम् ।
‘मुक्तोर्चिदिनिपूर्वपक्षषडुदमासाब्दवातांशुमत् ग्लौर्विद्युत् वरुणेन्द्रधातृमहितः सीमान्तसिन्ध्वाप्लुतः । श्रीवैकुण्ठमुपेत्य नित्यमजडं तत्र स्वयं ब्रह्मणः सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ।।’ (तत्त्वसारः ९८)
तत्रायं श्लोकः –
मुक्तिः प्राणाक्षदेहादिभिरूपाधिभिरत्यन्तविश्लेषरूपा जीवत्भावोऽपि तैस्सङ्गम इति विहतेः जीवतस्सा कथं स्यात्आपस्तम्बादयश्च श्रुतिगतिभिरिमां युक्तिभिश्च व्युदासुः जीवन्मुक्तादिशब्दः क्वचिदपचरितः तत्समावस्थयैव ।।
(तत्त्वमुक्ताकलापः १४३)
अत्र भक्तियोगेन देहं विहाय परमपदं गच्छतो विदुषः प्रथमं सूर्यप्राप्तिमनन्तरं, वायुप्राप्तिमनन्तरं मनस्तत्वाधिष्ठातुः प्रद्युम्नस्य प्राप्तिमनन्तरं, तमश्शब्दवाच्यप्रकृत्यधिष्ठातुर्महदादि-सर्गकर्तुः अनिरुद्धस्य प्राप्तिं, तदनन्तरं प्रवृत्ति शक्तियुक्ततया रजश्शब्दनिर्दिष्टजीवाधिष्ठातुः संकर्षणस्य प्राप्ति, तदनन्तरं शुद्धसत्त्वधिष्ठातुर्व्यहवासुदेवस्य प्राप्तिम्, अनन्तरं परवासुदेवस्य प्राप्तिं च अभिधाय तत् प्राप्त्या अमृताभूत्वा ‘पुनः नावर्तन्त इत्यभिधीयत इत्यमियुक्तैः व्याख्याततया तदनुगुणेन पाठेन भवितव्यमिति निश्चीयते ।।
शरीरं प्रारब्धकर्मवशात् अनुवर्तते, जातेऽपि ब्रह्मसाक्षात्कारे दुःखानुभवः अनुवर्तते इति । एवं तर्हि दुःखानुभवस्य बन्धरूपत्वात् मुक्त इति व्यवहारः कथम् इति । ‘तमेव विद्वान् अमृत इह भवति । (तै) इति वाक्यं इह संसारदशायामेव अमृतत्वभाक् भवतीति मुक्तिप्राप्तिः इहैव श्रूयते किल! अथ ‘मृत्यर्योऽमृतो भवति’ (कठवल्ली) ‘अत्र ब्रह्म समश्नुते इत्यादौ च अस्मिन्नेव लोके ब्रह्मानुभवति इत्युच्यते ब्रह्मानुभवस्यैव मुक्तित्वात् । शरीर सत्ताकाले एव तदुत्पत्तेः । तदभिप्रायेणैव क्वचित् प्रमाणे ‘जीवन्मुक्ताभवन्त्येते (म.भा) इत्यादि प्रयुज्यते ।
भगवद्गीतासु देवयानं, पितृयानमार्गद्वयं प्रतिपाद्य उपसंहारे
‘नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योगयुक्ते भवार्जुन ।।’
(तैत्तिरीयपुरुषसूक्तम्)
इति मुमुक्षुभिः अर्चिरादिमार्गस्य योगाङ्गत्वेन प्रतिदिनं स्मर्तव्यत्वविधानात्ब्रह्मसूत्रेषु चतुर्थाध्याय अर्चिरादि अतिवाहिगणमधिकृत्य उपपादनं क्रियते इति । भिन्नभिन्नासु उपनिषत्सु अर्चिरादेः भिन्नभिन्नरीत्या पठितत्वेऽपि सर्वशाखाप्रत्यय न्यायेन आवापोहापदिकं कृत्वा द्वात्रिंशत् विद्यानिष्ठानामपि एकरूप एव अर्चिरादिमार्गः अनुसन्धेयः ।
‘अर्चिरादिना तत्प्रथितेः (ब्रह्मसूत्रम् ४-३-१) इति सूत्रेण निर्णीतः । ‘यच्छ विभवार्यनात् व्यूहप्रापणं इत्यगदे तत् व्यापकानुसन्धान विधुराधिकारिविशेषापेक्षया’ इति मन्तव्यम्। इति न्यायसिद्धञ्चने अनुगृहीतम् । एषां भगवत्स्वरूपे व्यापकत्वानुसन्धानपटुत्वं न विद्यते तेषां दिव्यमङ्गलविग्रह व्याप्यानुसन्धानद्वारा मोक्षप्राप्तिः इति अयं पक्षः अधिकारिविशेषनियतः । अत्र पाञ्चरात्रशास्त्रे विभव, व्यूह, अर्चनेन निखिल पापनिवृत्तौ सत्यां परवासुदेव प्राप्तिर्भवतीति श्रूयते । यथा –
अर्थोपासनया क्षीणे कल्मषे अधिकृतो भवेत् । विभवोपासने पश्चात् व्यूहोपास्तौ, ततः परम् ।।
सूक्ष्मे तदनुशक्त्यस्यात् अन्तर्यामिणम् ईक्षितो इति अत्र च अन्तर्यामिरूपोपासनस्य मोक्षसाधकत्वं उच्यते । अतः एतादृशाः व्यापकानुसन्धान असमर्थाः अधिकारिणः इति मन्तव्यम् ।
***