भगवतः कैंकर्यम्

डा. चक्रवर्तिराघवन्, आचार्यः, विशिष्टाद्वैतवेदान्तविभागः, तिरुपतिः

श्रीवैष्णवासिद्धान्ते परिपूर्णब्रह्मानु-भवस्य परीवाहरूपं कैंकर्य भवतीति अङ्गीक्रियते। किंकरस्य कर्म कैंकर्यम्। किंकरः नाम कीदृशमुपकारतिशयं, उपचारातिशयं स्वामिनः अहं करवाणि इति यः अभिलषति स एव । स च व्यापारः स्वामिनः अभीष्टः यदि स्यात् प्रीतिजनकः यदि भवेत् तर्हि आनन्दरूपस्य स्यात् । यदि अनभीष्टः कोपजनकश्च स्यात् सः सापराधत्वात् अनर्थहेतुरेव स्यात् । दिव्यात्मस्वरूपस्य सर्वव्यापकस्य अतिशयाधायकव्यापारः मुक्तेन कोऽपि कर्तुं न शक्यते। लोके भृत्येन महाराजस्य कैंकर्य महाराजशरीर शैत्योपचारादिना तत्प्रीतिजनकं दृष्टम्। न तु महाराज शरीरान्तर्गत जीवात्मस्वरूपस्य साक्षात् अतिशयाधानेन कैकर्य कर्तुं शक्यते। लीलाविभूतौ च भक्ताग्रेसरैः आर्तविग्रहस्यैव कैंकर्य क्रियमाणो उपलभ्यते ।

विष्णुचित्त-विप्रनारायणादयः पुष्पमालिकासमर्पणेन, काञ्चीपूर्णादयः व्यजनवीजनेन, भगवद्रामानुजाः तीर्थ आदानसमर्पणाभ्यां, वात्स्यवरदाचार्यः क्षीरनिवेदनेन च देवाधिराजस्य कैंकर्यमकार्षुः । तथा च सविग्रहस्यैव भगवतः मुक्तेनापि कैंकर्यं कर्तुं शक्यते। इत्थं च मुक्तौ अप्राकृत सावयव शरीरवत्वं अङ्गीकर्तव्यम्। पर्यकविद्यादिकं च तदैव उपपद्यते। एवं सति ‘यद्यत् द्रव्यं सावयवं तत्सर्व अनित्यमि ति व्याप्तिदर्शनात् परवासुदेवमूर्तेरपि अनित्यत्वं प्रसज्यते । एवं सति भगद्विभूत्यन्तर्गतस्य सर्वस्य नित्यविभूतौ कथं नित्यत्वं उपपादयितुं शक्यते इति भगवद्विग्रहविषये आशङ्का भवेत् ।

सा च आशङ्का न्यायसिद्धाञ्जने नित्यविभूतिपरिच्छेदे

‘इच्छा संकल्पसृष्टीनां चक्रवत् वा प्रवर्तनात् ।
स्यादीशबुद्ध्यवस्थानां तत्र बीजांकुरक्रमः ।। आगमैः रेश्वसीं ? शक्ति अतवर्या उपगच्छताम् । ईशस्य तत्तत्सृष्ट्यादौ सहकार्यन्तरेण किम् ।।’

इति प्रस्तुत्य ‘अतः सिद्धं नित्यानित्य इच्छाभेदात् ईश्वरादेः नित्यानित्यशरीरादिमत्वम्’ इति समाहितम् ।

अयं भावः प्राकृतपदार्थानां सृष्टौ कर्मादि सहकार्यन्तरं वैषम्यनैघृण्यादि दोषपरिहारार्थं सत्यसंकल्पस्यापि भगवतः अपेक्षितम् । अतः सर्वमपि प्राकृतशरीरादिकम् अनित्यमेव । तत्सर्व अनित्येच्छासिद्धम् । तत्र च चक्रवत् प्रवृत्तिः बीजाङ्कुरन्यायश्च प्रदर्शिताः । अतः प्रवाहानादित्वं इच्छासंकल्पसृष्टीनां भवति। एवमप्राकृतपदार्थ सृष्टावपि अनित्येच्छया अनित्येश्वरशरीर मुक्तशरीरादीनां सृष्टिर्भवति। नित्यस्य परवासुदेव शरीरस्य सर्वदा नित्यमुक्तभोज्यस्य नित्येच्छा सिद्धत्वात् नित्यत्वम् । आगमैकसमधिगम्ये वस्तुनि लौकिक तर्कप्रदर्शनेन अन्यथाकरणम् अनुपपन्नम्। ईश्वररूप धर्मिग्राहकप्रमाणेन नित्यशरीरसिद्धेः तत् सावयवत्वहेतुक अनुमानेन बाधितुं न शक्यते । तदेवोक्तम्- ‘आगमैरश्वरीं शक्ति अतवर्या उपगच्छताम् ? इति। न च परवासुदेव शरीर सद्भावे किं प्रमाणमिति वाच्यम्। पाञ्चरात्रगमस्यैव तत्र प्रमाणत्वात् । तत्र हि भगवतः पञ्चप्रकारदिव्यमङ्गलविग्रह विशिष्ट अवस्थाः वर्ण्यन्ते । तत्र भगवद्वाक्यम् ‘मम प्रकाराः पञ्चेति प्राहुर्वेदान्तपारगाः परो व्यूहश्च विभवो नियन्ता सर्वदेहिनाम्। अर्चावतारश्च तथा।।’ इति विष्वक्सेन संहितायां भगवद्द्माहाम्यम् । अस्य च मूलं प्रमाणं ‘अम्भस्य पारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान् शुक्रेन ज्योतीं समनुप्रविष्ठः प्रजापतिश्चरति गर्भ अन्तः (तैत्तिरीययाज्ञिकी १) इति तैत्तिरीयोपविषद्वाक्यम् । अपारे अम्भसि इति क्षीराब्धशयानस्य व्यूहवासुदेवस्य बोधकम् । ‘भुवनस्य मध्ये’ इति विभवावताराः संगृह्यन्ते। ‘नाकस्य पृष्ठे’ इति परवासुदेवमूर्तिः। इयमेवमूर्तिः ‘आदित्यवर्ण तमसः परस्तात् ‘अथ यदितः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु उत्तमेषुनूत्तमेषु’ इत्यपि कीर्तिता। अन्त्र नाकशब्देन आनन्दमयः वैकुण्ठलोकः गृहीतव्यः। ‘शुक्रेण ज्योतींषि समनुप्रविष्ठः इत्यर्चावतारः उच्यते । ज्योतिश्शब्देन फालफल्यविशिष्ट सुवर्णादि लोहबिम्बानि उच्यन्ते । शुक्रेण अनुप्रविष्ठाः इति शुद्धसत्त्वमय अप्राकृत शरीरमिश्रितत्वं उच्यते। आगमेषु ‘बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते’ (सात्वतसंहिता ६-२२) इति प्राकृतबिम्बे नीरमिश्रित क्षीर न्यायेन अप्राकृतविग्रह सम्मिश्रणं उच्यते। ‘प्रजापतिश्चरति गर्भ अन्तः (तैत्तिरीयपुरुषसूक्तम्) इति उपासकस्य शरीरान्तः गर्भसदृश हृदयगुहायाम् उपासकानुग्रहार्थ सूक्ष्मः हार्दावतारः उच्यते । अतः सावयवानामपि भगवद्विग्रहादीनां नित्यया भदवदिच्छया नित्यसत्ता उपपद्यते इति अभ्युपगन्तव्यम्। ***