अर्चा
डा. चक्रवर्तिराघवन्, आचार्यः, विशिष्टाद्वैतवेदान्तविभागः, तिरुपतिः
स्वयं व्यक्त, दैव, आर्ष, मानुषप्रभृति अवतारभेदेन देवमन्दिरेषु पाञ्चरात्र-वैखानसतन्त्रोक्त विधानेन अर्घ्यमानाः शिला, सुधा, दारु, सुवर्ण, रजत, पञ्चलोहादिभिः निष्पन्न मूर्तिभेदाः व्यूह, विभव, रूपाः अर्चावतारत्वेन शास्त्रेषु परिगण्यन्ते । अर्चावतारस्य दृश्यमानस्य प्राकृतत्वेऽपि तत्र अदृश्यमान अप्राकृतशुद्धसत्वमय दिव्यमूर्तिः नीरक्षीरन्यायेन बिम्बान्तः मिश्रिता वर्तते ।
तदुक्तम्-
बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते । अथापि लौकिकी या सा भगवद्भावितात्मनाम् ।।
मन्त्र मन्त्रे स्वरव्यायात् साऽपि षाड्गुण्यविग्रहा । इतीदृशानि प्रमाणानि अनुसन्धीयन्ते ।।
सर्वातिशयिषाड्गुण्यं संस्थितं मन्त्रबिम्बयोः । मन्त्रे वाच्यतया नित्यं बिम्बे तु कृपया स्वयम् ।।
(विष्णु संहिता) ९.
इति षाड्गुण्यप्रकाशक अप्राकृतविग्रहः भगवत्कृपया बिम्बे सन्निधत्ते आवाहनोपयुक्त पञ्चोपनिषन्मन्त्रादिष्वपि भगवत्सान्निध्यं वाच्य-वाचकभावेन सदातनं वर्तते । पूजाद्युपचारलोपे सत्यपि स्वयंव्यक्तादि नित्यसान्निध्यस्थलेषु भक्तानुग्रहपारवश्येन कृपया भगवान् सन्निधिं कुरुते ।
विष्णुधर्मोत्तरे विष्णुबिम्बे अवतीर्य भगवान् सर्वपुरुषार्थप्रदः सन्निधत्ते । तम् आराध्य तत्प्राप्तिरूप मोक्षान्तमैश्वर्यम् आराधकाः लभन्ते इत्युच्यते । तथाहि-सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वात्मनः प्रीतिकरी स्वर्णरजतादिभिः ।। ब्रह्मणस्यां समारोप्य मनसा तन्मयो भवेत् । तामर्चयेत् तां प्रणमेत् तां यजेत् तां विचिन्तयेत् । विशत्यपास्त दोषस्तु तामेव ब्रह्मरूपिणीम् ।। (विष्णुधर्मोत्तरपुराणम् १०३.१६)
इति वचनानि । सुवर्ण रजतादि लोकद्रव्यैः शिल्पशास्त्रोक्तलक्षणेन अभिरूपां प्रसन्नमुखीं सुन्दरेक्षणां स्वाभिलषितां व्यूहविभवादिषु एकां सपरिजन परिच्छदां स्वस्मिन् प्रीत्युत्पादितां श्रीमूर्ति कृत्वा तस्यां स्वमनसा परमात्मानं स्थितं भावयन् अनन्यमनसा तस्याः अर्चनं, प्रणामम्, आराधनं कुर्वाणः मनसि तामेव चिन्तयेत् भक्तः । तन्माहात्म्येन भगवत्प्राप्तिविरोधि सकलदोषैर्विमुक्तः तामेव मूर्तिमुपैति । तद्दिम्बान्तर्गतमूर्तेः परवासुदेवमूर्तितः भेदाभावात् परवासुदेवमुर्ति प्राप्नोतीति भावः । इतरावतारवत् आत्मानं भावयितृणां मुक्तिप्रदत्वं अर्चावतारस्यापि विद्यते। अर्चावतारस्य महिमानम् श्रीशौनकः विशेषण पाञ्चरात्रसंहितायां सम्यक् अभिवर्णितवान् ।
दक्षिणभारते अवतीर्णाः दिव्यसूरिनामकाः भगवद्भक्ताः अपि स्तोत्राणि अर्चावतारविषये एव रचितवन्तः। दिव्यसूरिणां प्रभावश्च श्रीमद्भागवते एकादशस्कन्धे (५-३८,३९)
कलौ खलु भविष्यन्ति नारायणपरायणाः । क्वचित् क्वचिन्महाभागा द्रमिडेषु च भूरिशः ।।
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी। कावेरी च महाभागा प्रतीची च महानदी ।।
(भागवतम्. १०.३८.३९)दृश्यन्ते । अन्यच्च –
‘अर्चकस्य तपो योगात् अर्चायाश्च विशेषतः । आभिरूप्याच्च विम्बस्य नित्यं सन्निहितो हरिः ।।’
इत्युक्तेः आराधकानाम् आचारादिक श्रद्धाभक्त्यादिकमपि अर्चावतारसान्निध्ये मुख्यकारणं भवति । अर्चाबिम्बे प्रतिष्ठादिना नीरक्षीरसम्मिश्रण न्यायेन तबिम्बाकार अप्राकृत-दिव्यमङ्गलविग्रहः सन्निधते। स च श्रीवैकुण्ठस्थ शुद्धसत्त्वमय द्रव्यात्मकः इति अर्चावतारस्यापि नित्यविभूति अंशत्वात् नित्यविभूति विचार तद्विचारः सगच्छते इति । ***