न धातुलोप आर्धधातुके इति सूत्रे परिगणनस्य आवश्यकता

Dr. Santosh Majhi
Assistant Professor., Dept.of Vyakarana
N.S.U Tirupati, A.P (Phone – 8309998627)

सारांशः –

“न धातुलोप आर्धधातुके[1]” आर्धधातुकनिमित्ते लोपे सति इको गुणवृद्धी न स्तः इति सूत्रार्थः। अयं निषेधः न सार्वत्रिकः; किन्तु “यब्यक्क्यवलोपे प्रतिषेधः[2]” इति वार्तिकानुसारेण यड्यक्क्यवलोपेष्वेव प्रवर्तते इति परिगणनं स्वीकृतं वार्तिककारैः।

कुञ्जिशब्दाः (Key words)

बेभिदिता, मरीमृजः, कुषुभिता, मगधकः, समिधिता, दृषदकः, जीरदानु, आस्रमाणम्, लविता

  • यङ् – बेभिदिता, मरीमृजः।

अत्र भिदु धातोः यङन्तात् तृच् प्रत्यये बेभिद् + य + तृ इति स्थिते “यस्य हलः[3]” इति सूत्रेण समुदायस्य ‘य’ इत्यस्य लोपे यङन्तस्य धातोरवयवस्य (यकारस्य) लोपेन अनेन निषेधेन तत्र तृच्निमित्तिकलघूपधगुणो वार्यते। एवं ‘मरीमृजः’ इत्यत्र “मृजेर्वृद्धिः[4]” इति सूत्रेण प्राप्ता वृद्धिर्वार्यते।

(२) यक् – कुषुभिता, मगधकः।

कुषुभ मगध शब्दौ कण्डादिगणे पठितौ। तेन “कण्ड्वादिभ्यो यक्[5]” इति सूत्रेण यक्प्रत्यये समुदायात् तृचि इडागमे “यस्य हलः[6]” इति सूत्रेण यकारस्य लोपे “अतो लोपः[7]” इत्यकार लोपे च कुषुभिता इत्यत्र प्राप्तस्य लघूपधगुणस्य, एवं मगधकः इत्यत्र “अत उपधायाः[8]” इति वृद्धेश्च अनेन निषेधः।

(३) क्यच् – समिधिता, दृषदकः।

समिध्, दृषद् शब्दाभ्यां “सुप आत्मनः क्यच्[9]” इति सूत्रेण क्यच्प्रत्यये समुदायात् “ण्वुल् तृचौ[10]” इति तृचि “यस्य विभाषा[11]” इति सूत्रेण क्यचः वा लोपे तत्र प्राप्तयोः लघूपधगुणवृद्धयोः अनेन निषेधः।

(४) वलोपः – जीरदानु।

जीव् धातोः रदानु प्रत्ययः। ‘लोपोव्योर्वलि[12]‘ इति वकारस्य लोपे “सार्वधातुकार्धधातुकयोः[13]” इति सूत्रेण प्राप्तस्य गुणस्य निषेधः ।

एवं परिगणनस्य स्वीकारेण नुल्लोपे, अनुबन्ध लोपे च “न धातुलोप आर्धधातुके” इति निषेधः न प्रवर्तते। तथाहि – नुल्लोपे अभाजि, रागः, उपवर्हणम्। भन्ज् धातोः कर्मणि लुङि अडागमे लादेशे “च्लि लुङि[14]” इति च्लि विकरणे “चिण् भावकर्मणोः[15]” इति सूत्रेण च्लिस्थाने चिणादेशे “भञ्जेश्च चिणि[16]” इति नकारस्य लोपे उपधावृद्धौ “चिणो लुक्[17]” इति सूत्रेण त इत्यस्य लोपे ‘अभाजि’ इति रूपं सिध्यति । परिगणने नुलोपस्यानन्तर्भावात् निषेधो न प्रवर्तते। अन्यथा अत्रापि धात्ववयवस्य नकारस्य लुप्तवात् वृद्धि निषेधः स्यात्। एवं रन्ज् धातोः “हलश्च[18]” इति सूत्रेण घञ्प्रत्यये “घञि च भावकरणयोः[19]” इति नकारलोपे “चजोः कुधिण्यतोः[20]” इति कुत्वे उपधावृद्धौ रागः इति इष्टं रूपम् किन्तु परिगणनाभावे अत्रापि नकारस्य लुप्तत्वेन वृद्धिनिषेधः स्यात् ।

एवम् उपपूर्वकात् बृहि धातोः ल्युद्वत्यये अनादेशे “इदितो नुम्धातोः[21]” इति नुमागमे “बृहेरच्यनिटि” इति वार्तिकेन नकारलोपे लघूपधगुणे नस्य णत्वे च ‘उपबर्हणम्’ इति रूपम्। किन्तु परिगणन अभावे अत्रापि धात्ववयवस्य नकार लोपस्य सत्वात् गुणो न स्यात् ।

(२) स्त्रिवेः- आस्रमाणम्। आङ् पूर्वकात् त्रिव् धातोः “अन्येभ्योपि दृश्यन्ते[22]” इति मनिन्प्रत्ययः। इन् इत्यस्य अनुबन्धलोपे आस्त्रिव् + मन् इति जाते “लोपोव्योर्वलि[23]” इति सूत्रेण वकारस्य लोपे गुणे च ‘आस्त्रेमाणम्’ इति रूपं सिध्यति। त्रिव् धातोः परिगणने अनन्तर्भावात् निषेधस्याप्रवृत्या गुणः सिध्यति ।

(३) अनुबन्ध लोपे – लविता। लूञ् धातोः तृचि ञकारस्य अनुबन्धलोपे गुणे अन्नानेको च लवित’ इति रूप सिध्यति। अनुबन्धलोपस्य परिगणने अनन्तर्भावात् निषेधो न प्रव 3/28 सिध्यति। अतः पूर्वोक्तानां प्रयोजनानां सिध्यर्थं सूत्रे परिगणनम् आवश्यकम्।

वस्तुतस्तु परिगणनमनावश्यकमेव। तथाहि (१) नुम्लोपविषये न दोषः। इग्लक्षणोयोरेव गुणवृद्धयोः अनेन निषेधः इति हेतोः अभाजि, रागः इत्यादौ इग्लक्षणगुणवृद्धित्वाभावात् उपबर्हणम् इत्यत्र तु बुहू धातोः नेदित्। अतो नास्ति दोषः। (२) आस्त्रेमाणमित्यत्र लविता इत्यत्र च नास्ति दोषः। आर्धधातुकनिमित्तके लोपे एव “न धातुलोपार्धधातुके” इति सूत्र प्रवृत्या अत्र उभयत्रापि लोपस्य आर्धधातुकनिमित्तकत्वाभावेन दोषो नास्त्येव ।

एवञ्च परिगणन स्वीकारे उक्तानां प्रयोजनानां अन्यथा सिद्धत्वात् परिगणनमनावश्यकमेवेति भाष्ये सिद्धान्तितम् ।

सन्दर्भग्रन्थाः

1. लघुसिद्धान्तकोमुदी- आचार्य रघुनाथ शास्त्री-चौखम्बासुरभारतीप्रकाशन, वारणासी।

2. लघुसिद्धान्तकोमुदी – आचार्य विश्वनाथ मिश्रः चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।

3 व्याकरणमहाभाष्यम् – श्री भार्गवशास्त्रिण-चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।

4. वैयाकरणसिद्धान्तकौमुदी- श्रीगोपालदत्त पाण्डेयः- चौखम्बा सुरभारती प्रकाशना

5. वैयाकरणसिद्धान्तकौमुदी- लक्ष्मी शर्मा चौखम्बा सुरभारती प्रकाशन, वारणासी।

6. परिभाषेन्दुशेखरः – आचार्य विश्वनाथ मिश्र – चौखम्बासुरभारतीप्रकाशन, वारणासी।

7. पाणिनीय अष्टाधायी पाठः – स्वामी प्रह्लाद गिरि वेदान्तकेशरी – चौखम्बासुरभारतीप्रकाशन, वारणासी।

8. धातुपाठः – डॉ नरेश झा – चौखम्बासुरभारतीप्रकाशन, वारणासी।

9. धातुरुप कल्पद्रुमः – एपी उणी – ओरिओण्टेल् दील्ली।

10. सस्कृतसाहित्यकोषः – डॉ राजवंशसाहाय हीरा – चौखम्बाविद्याभवन, वारणासी।

11. सस्कृतहिन्दिकोषः – वामन शिवरामआप्टे चौखम्बाविद्याभवन, वारणासी।

12. तिकृत्कोषः – पुष्पादीक्षित् – संस्कृतभारती, नवदेहल्ली।


[1] पा.अ. १.१.४

[2] म.भा.वा.

[3] पा.अ. ६.४.४९

[4] पा.अ.७.२.११४

[5] पा.अ.३.१.२७

[6] पा.अ. ६.४.४९

[7] पा.अ.६.४.४८

[8] पा.अ ७.२.११६

[9] पा.अ. ३.१.८

[10] पा.अ.३.१.१३३

[11] पा.अ.७.१.१५

[12] पा.अ.६.१.६६

[13] पा.अ.७.१.८४

[14] पा.अ.३.१.४३

[15] पा.अ.३.१.६६

[16] पा.अ.६.४.३३

[17] पा.अ.६.४.१०४

[18] पा.अ. ३.३.१२१

[19] पा.अ.६.४.२७

[20] पा.अ.७.३.५२

[21] पा.अ. ७.१.५८

[22] पा.अ. ३.२.७५

[23] पा.अ. ६.१.६६