रोगप्रश्नेषु आयुर्वेदशास्त्रस्य प्रभावः

आतिरा.एम्.टी
शोधछात्रा, ज्योतिष-वास्तुविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः
athiradas204@gmail.com                                             

पञ्चभूताधिष्ठितं जगत् त्रिदोषात्मकं भवति। अत्र पृथ्वीजलयोः केनपालयतीति कफे अन्तर्भावः। पित्तं तु तेजोवायुराकाशवातस्वरूपः। एवञ्च आयुर्वेदोक्तत्रिदोषसिद्धान्तः पञ्चभूताधिष्ठितपरमाणुतः प्राप्तः। ‘Proton’ कफः ‘Electron’ ‘पित्तं’, ‘Nutron’ ‘वातः’ इति वर्णयितुं शक्यते। स्थूलसूक्ष्मेषु विद्यमानाः प्रपञ्चाधिष्ठिताः सर्वे ग्रहाधिष्ठिताश्च। सूर्यचन्द्रमसोः उष्णशीतलत्वम् अनुभववेद्ये आस्ते। तद्वत् सर्वेषां ग्रहाणाम् अस्मत्प्रपञ्चनियन्त्रणशक्तिरस्त्येव। द्रव्यस्य वीर्यनिरूपणेऽपि उष्णशीतगुणोत्कर्षात् तत्र वीर्योद्विधा स्मृतमित्युक्तम्। उष्णशीते यथाक्रमं सूर्यचन्द्राधिष्ठितो स्तः। यत्र आयुर्वेदे द्रव्यविपाकाश्रयचिकित्सा विधीयते तत्र ज्योतिश्शास्त्रं कर्मविपाकचिकित्सा विधीयते। कर्मफलसूचकाः ग्रहाः। कर्मार्जितं पूर्वभवे सदादि यत्तस्य पंक्तिं समभिव्यनक्ति[1] – इति मिहिराचार्यः। आत्माधिष्ठितकर्मविभागसूचकं शास्त्रं ज्योतिषम्, आत्मनः आधाररूपशरीरस्य द्रव्यविपाकचिकित्साशास्त्रम् आयुर्वेदः। आधाराधेययोः चिकित्साविधानसामर्थ्यं यथाक्रमम् आयुर्वेदज्योतिषयोः अस्तीति कारणत्वात् आयुर्वेदशास्त्रे ज्योतिषशास्त्रस्य प्रभावः महत्तरं भवति। जगत्सर्वं ग्रहाधिष्ठितं भवति। ग्रहेषु सूर्यचन्द्रौ द्वौ प्रकाशकौ स्तः। लोकनेत्रयोः सूर्यचन्द्रयोः रश्मिवशात् जीवन्ति सर्वे। लोकानां प्रलयोद्भवस्थितिविभुरिति मिहिरः[2]। ‘सूर्य आत्मा जगतस्तस्थुषश्च[3]‘ इति वेदमचनम्। वेदे आत्मस्थानं सूर्यस्य अस्तीति ज्ञायते। ज्योतिश्शास्त्रे आत्मप्रभावकारकः सूर्यः। सः सृष्ट्यादिप्रलयान्तपरमात्मधर्मकारकः एवं जीवात्मनां सुखदुःखादि प्रभावकारकश्च भवति। सुखाद्युपलब्धिसाधनीभूतमनस्संयोगरूपज्ञानकरणं मनः। आत्मा मनसा सह संयुज्यते, मनः इन्द्रियेण, इन्द्रियमर्थेन, तदुत्तरं ज्ञानोत्पत्तिः। अहं सुखी इत्यादिप्रतीतयः घटादि ज्ञानोत्पत्तिः च आत्ममनः संयोगद्वारा उत्पद्यन्ते। अत्र जीवराशेः कर्मनिवृत्त्यर्थं मनसः सानिद्ध्यम् अपेक्षते। ‘मनः कुमुदबान्धवः[4] इति शास्त्रे प्रोक्तम्। एवञ्च आत्ममनस्संयोगरूप-प्रवृत्तिनिवृत्तिकारकौ सूर्यचन्द्रौ स्तः। आत्ममनसोः अधिष्ठानं तु शरीरं तस्य सत्वमित्यपि संज्ञा। भित्तिं विना चित्ररचनां कथं कुर्युः। तद्वदात्ममनप्रभावाः शरीरमाध्यमेन एव अनुभूयन्ते। तस्य कारकस्तु ऊर्जाकारकः पराक्रमशाली अंगारकः तेजारूपः। आत्ममनशरीरयुक्तानां बोधनभाषणाद्यवश्यकता अस्ति। बोधवागादिज्ञानसामग्रीकारकः बुधः। आत्मनिष्ठानकारकत्वं ज्ञानाजन्यसुखकारकत्वं च श्रेष्ठमतौ बृहस्पते दृश्यते। एवञ्च ज्ञानसुखकारकः गुरुः। विद्ययाऽमृतमश्रुतेति[5] वेदवचनञ्च।

धर्मार्थकाममोक्षेषु धर्मकरणार्थं कामपूर्त्यर्थं मोक्षलब्धिरूपयागादिकरणार्थम् अर्थस्य प्राधान्यम् ऊह्यमेव। अर्थमनर्थं भावयेन्नित्यमिति आभाणके सत्यपि अर्थो अर्थाय कल्पते इत्यपि वचनं वर्तते एव। तत्कारकः शुक्रः अशनपानवस्त्रधनवाहनगृहादिबाह्यसुखानां कारकत्वं कलत्रकारकत्वञ्च शुक्रस्यास्तीति ज्योतिश्शास्त्रसम्मतमेव। एवं च मदनकारकः शुक्रः। शनैश्चरस्तु दुःखकारकः सृष्टिषु नाशप्रक्रिया वायुभूतकारकशनैश्चरमधितिष्ठति। पञ्चभूतात्मकानां पञ्चभूतपरमाणौ लयप्रक्रियाकारकः शनिः। पृथिव्यप्तेजोविशेषाः वायौ विलयनं प्राप्य आकाशरूपं प्राप्य परमात्मनि लीयन्ते। तत्र वातकारकस्य शनेः अन्यभूताकर्षणसामर्थ्यं प्रपञ्चितम्। तदुक्तं बृहज्जातके –

      “कालात्मा दिनकृन्मनस्तुहिनगुः सत्वं कुजो ज्ञो वचो।

             जीवो ज्ञानसुखे सितश्च मदनो दुःखं दिनेशात्मजः[6]

        एवञ्चात्ममनः सत्ववाग्ज्ञानकामप्रलयकारकत्वं सूर्यादिग्रहाणां वर्तते। प्रपञ्चे सूर्यः आवापकालनिर्णयं करोति। चन्द्रः जलं ददाति। कुजः उष्णस्वीकरणशक्तिं ददाति। बुधः अभिवृद्धिरावश्यकी इति बोधनां ददाति। गुरुः जीवदायकः। शुक्रः वृद्धि-ऋतु-पुष्पपर्यन्तं कार्यं करोति। शनैश्वरः प्रवृत्तिसामर्थ्यं च ददाति। मनुष्यादि प्राणिसृष्टौ –

कुजेन्दुहेतु प्रतिमासमार्तवं गते तु पीड़र्क्षमनुष्णदीधितौ ।

अतोन्यथास्थे शुभपुंग्रहेक्षिते नरेण संयोगमुपैति कामिनी[7]

    कारणानां यथा कालसंयोगात् कार्योत्पत्तिः, कार्याणाम् अर्थानां च आयुरारोग्यप्रवृत्यादयः ग्रहाधिष्ठिताः इत्यत्र न संदेहः। पञ्चेन्द्रियाणि शरीरे-भूताधिष्ठितानि। प्राणापानव्यानोदानसमानाः पञ्चप्राणाः। प्राणाः अङ्गाधिष्ठिताश्च।

हृदि प्राणः गुदेपानः समानो नाभिसंस्थितः।

ऊदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः[8]

मनुष्यशरीरमपि आपादचूडं द्वादशधा विभक्तम्।

कालाङ्गानि वराङ्गमाननमुरो हृत्क्रोटवासोभृतो।

वस्तिर्व्यञ्जनमूरुजानुयुगले जङ्घे ततोङ्घ्रिद्वयम्[9]

अनन्तरं सप्तधातवः अपि ग्रहाधिष्ठिताः। तच्च उक्तम् –

स्नाय्वस्थ्यसृक्त्वगथ शुक्रवसे च मज्जा मन्दार्कचन्द्रबुधशुक्रसुरेज्यभौमाः[10]

रसासृङ्मांसमेदोस्थिमज्जशुक्लानि धातवः। एवमपि षड्रसानां कारकत्वं ग्रहाणां वर्तते। सूर्यादि ग्रहाणां क्रमशः कटु-लवण-तिक्त-मधुर-अम्ल-कषायाः रसाः सन्ति। एवं च पञ्चभूतपञ्चप्राणपञ्चज्ञानेन्द्रियपञ्चकर्मेन्द्रियसप्तधातुत्रिदोष-षड्ररसानां स्वाधीनां ग्रहाणामपि अस्तीति ज्ञायते। सर्वं शास्त्रदृष्ट्या निरूपयितुं व्यवस्था ज्योतिश्शास्त्रे अस्ति।

      “कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः।

      सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम्[11]

 अत्र कर्मणः हीनयोगः एवं मिथ्यादियोगाः रोगकारणम् इति वाग्भटाचार्यस्य वचनम्। कालसूचकाः ग्रहाः भवन्ति। अत्र कथं ग्रहाः किं कुर्वन्तीति पश्यामः। रोगाधिग्रहाणाम् अनिष्टपदार्थान् वर्जयित्वा रोगागमनप्रतिबन्धमपि कर्तुं ग्रहाः शक्नुवन्ति। एकः स्वादु न भुज्जीत[12], सह नाववतु सह नौ भुनक्तु[13] इत्यादि वेदवचनानि प्रमाणीकृत्य सहजीविनां प्राणिनां वृक्षाणां च परिपालनं कृत्वा जीवयापनं कर्तुं योगः आवश्यकः। ऋतुदर्शनं – शुक्लशोणितसंयोगश्च प्रोक्तः। शुक्लशोणितसंयोगस्य कलनत्वम् अक्तम्। तस्य कारकः शुक्रः। तेजसा पिण्डात्मकघनो जायते। तत्र कारकः कुजः। तृतीयमासी जीवलक्ष्णाङ्कुरोत्पत्तिः, तत्र गुरुः कारको भवति। चतुर्थेमासि सूर्येण अस्थिः, पञ्चमे मासि चन्द्रेण चर्मः, षष्ठे मासि शनैश्वरेण रोमः,सप्तमे मासि बुधेन चेतना च जायते। गर्भकाले गर्भस्थशिशुः ज्ञानसंपादनं करोतीति प्रचीनाचार्यैः निर्णीतवन्तः।

     कारणानां यथाकालसंयोगात् कार्योत्पत्तिः, कार्याणम् अर्थानां च आयुरारोग्यप्रवृत्यादयः ग्रहाधिष्ठिताः इति ज्योतिर्विदः। दोषसाम्यराहित्यावस्था रोगः इति गीयते। ग्रहाणां त्रिदोषकारकत्वमुक्तं तद्यथा रविः पित्तप्रकृतिः, चन्द्रः बहुवातकफप्रकृतिः, कुजः पित्तप्रकृतिः, पित्तवातप्रकृतिस्तु बुधः, गुरुः कफात्मकः, शुक्रः कफवातप्रकृतिः, शनैश्चरस्तु वातप्रकृतिः। पृथिव्यप्तेजोवायुराकाशेति पञ्चभूतात्मकं शरीरम्। कुजः अग्निकारकः बुधः भूमिकारकः,गुरुः आकाशकारकः, शुक्रः जलकारकः, शनैश्वरः वातकारकः। तदुक्तम्-

    शिखिभूखपयोमरुद्गणानां वशिनोभूमिसुतादयः क्रमेण[14]

इति। पञ्चेन्द्रियाणि शरीरे भूतानि च इन्द्रियाणि। प्राणापानव्यानोदानसमानाः पञ्चप्राणाः। प्राणाः अङ्गाधिष्ठिताश्च। तत्र ग्रहाणां प्रवृत्तयः कथमिति चिन्तयामः। रोगास्तु निजाः आगन्तुकाः इति प्रकारद्वयेन दृश्यन्ते।

निजागन्तुविभागेन तत्र रोगाः द्विधा स्मृताः ।

        तेषां कायमनोभेदादधिष्ठानमपि द्विधा[15]

एवं च शरीररोगाः मनोरोगाः च सन्ति। अत्र शरीरस्य कारकत्वम् आत्मप्रभावकारकत्वं, लग्नकारकत्वं सूर्यस्य वर्तते। एवं च मनः कुमुदबान्धवः। आत्ममनसंयोगेनैव ज्ञानप्रवृत्तिः तदेव कर्म। तेनैव शरीरेन्द्रियादीनां रोगपात्रत्वं सञ्जायते। रोगपात्रीभूतशरीरं यः ग्रहः प्रारब्धवशात् बाधते तद्ग्रहप्रयुक्तः रोगः तेन सञ्जायते। ग्रहेभ्यः रोगनिर्णयः कर्तुं शक्यते। एवं रोगलक्षणात् कारकग्रहनिर्णयः कर्तुमपि शक्यते। पञ्चभूतात्मकशरीराधिष्ठितानां दोषाणां साम्यराहित्यावस्था रोगावस्था च कथं जायते ? प्रारब्धकर्मणा इति धर्मशास्त्रकाराः एवं ग्रहपीड़या इति दैवज्ञाः च भणन्ति। शास्त्रद्वयसम्मेलनेन रोगशान्तिम् आमनन्ति तज्ज्ञाः। आयुर्वेदकारः त्रिदोषसिद्धान्तं कथम् उपवर्णयतीति पश्यामः।

त्रिदोषसिद्धान्तः –

चिकित्साशास्त्रेषु प्राचीनतमं निर्दुष्टं सर्वचिकित्सासंप्रदायप्रमाणीभूतं शास्त्रम् आयुर्वेदशास्त्रम्। आयुषः वेदः आयुर्वेदः। रोगाः आयुषः प्रतिबन्धकाः। कथम् ?केन ? रोगस्य जायतेति आयुर्वेदस्य प्रथमो विषयः। रोगागमनात्पूर्वं रोगागमनप्रतिबन्धकजीवितचर्या आयुर्वेदे उपलभ्यते- कारणप्रतिबन्धेः कार्यानुत्पत्तेः। रोगानन्तरम् आहारनियन्त्रणं पथ्यपरिशीलनाधिकं रोगकालैव अन्यवैद्यसाम्प्रदियकाः उद्घोषयन्ति।

      भारतीयवैद्यशास्त्रे आयुर्वेदसंप्रदाये साम्प्रदायिकाः एव ‘Prevention is better than cure’ इति निदानं परिवर्जयेत् इति प्रथमम् उद्घोषितवन्तः। शरीरं शरीरं प्रति समानता दृश्यते वैजात्यमपि वर्तते। यथा अङ्गुलीयाङ्कः (Finger print), स्वभावः, इच्छा, गन्धः, आकृत्यादयः भिन्ना एव। तद्वत् रोगकारणानि रोगनिवारणौषधादीनि च भिन्नानि सन्ति। प्रपञ्चेपि तद्वदेव वर्तते। परीक्षणशालायां परीक्ष्यते चेत् गोधूमयवयोः समानत्वं लभते। उदरगमनानन्तरं विजातीयफलानि दृश्यन्ते। कुक्कुटमांसदुग्दयोः समानता दृश्यतेऽपि दुग्दस्यस्थाने कुक्कुटमांसः उपयोक्तुं न शक्यते।  

    दन्ती रसाद्यैः तुल्येपि चित्रकस्य विरेचनी।

मधुकस्य च मृद्दिका  घृतं क्षीरस्य दीपनम्[16]

स्वादुर्गुरुश्च गोधूमो वातजिद्वातकृद्यवः।

उष्णाः मत्स्याः पयः शीतं कटुः सिंहोः न सूकरः[17]

समानगुणधर्मयुक्तानां द्रव्याणां कथं कुत्र वैजात्यम् इति चिन्तनम् आयुर्वेदशास्त्रे दृश्यते। तत्र आयुर्वेदशास्त्रे परमाणुतः विवरणं कुर्वन्ति। ते परमाणवः अतिसूक्ष्माः स्वेच्छया आकर्षणशीलाः। तेषां स्थूलरूपमेव प्रपञ्चः। ते परमाणवः एव वात-पित्त-कफाः इति व्यवह्रियन्ते। त्रिदोषाणां सूक्ष्मरूपत्वात्, स्थूलावस्थायां तेषां धर्मप्रवक्तारः महर्षयः एव। अस्मदीयानुभूत “मम वातमस्ति,पित्तवमनं कृतवान्,कफाधिक्यं दृश्यते” इत्यादयस्तु दोषाणां मलावस्था एव। अत्र व्यावहारिकम् अन्यत्, पारमार्थिकम् अन्यत्। शास्त्रानुसारं सर्वः प्रपञ्चं त्रिदोषमयः। वातः इति पदं मनुष्याणां कृते गत्यात्मकनाडीव्यवस्थासूचकं(Nerve System) वा “गतिगन्धनयोः” इति तस्य मूलधातुः। पित्तं तु दहनव्यवस्थासूचकं(Enzyme System) कफस्तु केन फालयति इत्यभिधीयते। “कम्”  इत्युक्ते जलमित्यर्थः। शरीरस्थजलव्यवस्थासूचकं(Proto plasma System) इति व्यवहर्तुं शक्यते।

वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ।

                विकृता विकृता देहं घ्नन्ति ते वर्तयन्ति च[18]

शरीरस्थ वायुपित्तकफाः गतिदहनजलव्यवस्थानियन्त्रकाः भवन्तीति ज्ञायते। ते सर्वे अस्मज्जीवनव्यवहारेभ्यः दूषयितुं प्रभवाश्च। तस्मात् “दूषयतीति दोषः” तत्तु प्रारब्धकर्मः इति वदन्ति आत्मविदः। त्रिदोषजनितमिति भिषजो वदन्ति। एवञ्च त्रिदोषाः एव शरीरस्थापकाः दूषकाश्च। ते दोषाः पञ्चभूताधिष्ठिताः भवन्ति। आकाशवायू तु वातः, तेजस्तु पित्तं, पृथ्वीजले तु कफः। तत्रापि वायोः नाड्याश्रयत्वात् तस्य धर्मः अतिसूक्ष्मः वर्तते। तेजोरूपपित्तम् अहर्निशम् ऊर्जोप्रधानं करोतीति ज्ञातुं शक्यते। पुनश्च पित्तवातौ ग्राहकौ स्तः। कफरूपात् पृथ्वीजलांशात् पित्तद्वारा गतिसामर्थ्यं, रसः, जलांशश्च शरीरेण स्वीक्रियन्ते। उदाहरणं पश्यामश्चेत् अन्नात् शक्तिः, गतिसामर्थ्यं शरीरस्थापकपोषकादयश्च शरीरेण स्वीक्रियन्ते।

अत्र स्थूलपञ्तभूतेभ्यः सूक्ष्मरूपपञ्चभूतपरिवर्तनं संभवन्ति। स्थूल-सूक्ष्मयोः संबन्धः प्रतिव्यक्तिषु प्रत्येकमेव दृश्यते। यत् किमपि द्रव्यं मम कृते स्वास्थ्यमिति मत्वा अन्यस्य कृते दातुं व्यवस्था तु आयुर्वेदे द्रष्टुं न शक्यते। अत्रेदम् उदाहरणम्- मम कृते आम्रफलोपदंशविशेषः उदरहिताय भवतीति मत्वा अन्यस्य कृते भवितुं नार्हत्येव। तदुक्तम्-

दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्[19] ।                                  

सूक्ष्मरूपवातपित्तकफानां स्थूलरूपप्रपञ्चात्मकद्रव्येषु प्रपृत्तयः कथं संभवतीति द्रव्यगुणप्रकरणेषु विस्तारेण उक्तवन्ताः आयुर्वेदशास्रकाराः। पञ्चभूतात्मकसूक्ष्मदोषाः परम्परामपि बाधयितुं समर्थाः। उच्यन्ते यथा-

शुक्लार्तवस्त्रैः जन्मादौ विषेणेव विषकृमेः[20]

विषकृमेः इति दृष्टान्तः।सर्पवृश्चिकादि विषकृमीणां विषं, बीजक्षेत्राधिष्ठितं जन्मकालात् अनुवर्तते परम्परया। एवमेव बीजक्षेत्राधिष्ठिताश्च पारम्पर्यरोगः इति जैनसिद्धान्तमपि आयुर्वेदशास्त्रे ज्ञानदृष्टियुक्ताः महर्षयः दृष्टवन्तः। एवञ्च पञ्चभूताधिष्ठितप्रकृतिनियमानुसृत चिकित्सापद्धतयः एव लोकक्षेमाय भवन्तीति तेषामभिप्रायः। त्रिदोषाः पञ्चभूताधिष्ठितस्थूलसूक्ष्मपरस्परपूरकाः पारम्पर्यगुणदोषादि वाहकाश्च भवति। सूक्ष्मे परमाणुरूपः, स्थूले द्रव्यरूपेति जायते। अत्र मानवतन्वोः पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, पञ्चभूतानि, सप्तधातवः, मूलाधाराद्या ज्ञापर्यन्तं षडाधाराश्च सन्ति।पृथिव्यप्तेजोवाय्वाकाशपञ्चभूतेषु गन्धरसरूपस्पर्शशब्दानां विशेषगुणाश्च सन्तीति शास्त्रेषु प्रसिद्धोभूतरससंबन्धज्ञानेनैव त्रिदोषाणां ज्ञानं स्थूलतया लभते।तत्र रोगचिन्तायाम् अनिष्टभावस्थितग्रहाणाः पृथक् रोगस्य लक्षणसूचकाः भवितुमर्हन्ति।

 षष्ठ-द्वादश-अष्टमभाव-भावाधीशस्थित-युक्त-दृष्टि-क्षेत्रादिवर्गाणां विचाराः अत्र क्रियन्ते। तत्रापि ग्रहाणां बालाद्यवस्थाः उच्चमित्रमूलत्रिकोण-स्वक्षेत्रनीचावस्थाः चिन्तनीयाः।तत्रापि बलवद्ग्रहस्य ग्रहयोः ग्रहाणां वा पीडलक्षणानि सम्यगवधार्य रोगस्थितयः परिहारप्रायश्चित्तादयश्च वक्तव्याः। तदुक्तम्-

        षष्ठं द्वादशमष्टमं च मुनयो भावाननिष्टान् विदु-

              स्तन्नाथान्वितवीक्षिता यदधिपा ये वा च भावाः स्वयम्।

       तत्रस्थाश्च यदीश्वरास्त्रय इमे नश्यन्ति भावाः नृणाम्

              जातां वा विफलं विनष्टविकलाः तत्रातिकष्टोऽष्टमः[21]

ग्रहाणामपि रोगकारत्वं विद्यते। ग्रहाः कथं रोगरूपं प्रापयन्ति-कानि कानि रोगरूपाणि ग्रहाणां सन्तीत्यादि  विषयाः अत्र विचार्यन्ते।

        “जन्मान्तरकृतं पापं व्याधिरूपेण जायते।

       तच्छान्तिरौषधैर्दानैर्जपहोमार्चनादिभिः[22]

तत्र ग्रहाणां भूमिका कथमिति चिन्तयामः। रोगः निजाः, आगन्तुकाः इति प्रकारद्वयेन दृश्यन्ते।निजागन्तुविभागेन तत्र रोगाः द्विधा स्मृताः।तेषां कायमनोऽधिष्ठानमपि द्विधा। एवं च शरीररोगाः मनोरोगाश्च सन्ति। रोगप्रश्ननिरूपणे ग्रहाणां रोगलक्षणान्यपि सूचितानि सन्ति।

        अतिसारः सुधाभानोर्भूमिपुत्रस्य तु व्रणः।

              ज्ञस्य वाङ्मनसोः स्तंभः पारवश्यं च नेत्रयोः[23]

       वेदना सकलाङ्गेषु धीभ्रमश्च गुरोः स्मृतः।

              शोफः शुक्रस्य मन्दस्य सङ्कोचः करपादयोः[24]

       राहोस्तु पतनं केतोर्व्याधिर्व्रण उदाहृतः।

              अत्यग्निं वेदनामन्तर्ज्वरं चार्कोऽथ चन्द्रमाः[25]

       छर्दीमूर्ध्वानने तिर्यग्वक्त्रे मूत्रादि बन्धनम्।

              अतिसारं तृषं चाधोवक्त्रे शोफं तु सर्वगः[26]

       उष्णप्रसरणं दाहं रक्तक्षोभभवं व्रणम्।

              भूमिजोऽथ बुधः कुर्याच्छीतज्वर मतिभ्रमौ[27]

       सन्निपातरुजं चाथ गुरुर्बुद्धेरनार्जवम्।

              अजीर्तिं श्वयथुं चाथ दाहं मोहं च भार्गवः[28]

तृष्णारुचि समस्ताङ्गतोदांस्तरणिनन्दनः।

              वायुक्षोभमहिर्मान्दिर्हिक्कामपि सिरोद्गमम्[29]

रोगोत्पत्तिविषयस्य निर्णयः प्राणोत्पत्तिकालादेव क्रियतेति शास्त्राकाराः वदन्ति। अण्डबीजयोः संयोगकालैव रोगादयः निर्णीताः। अण्डबीजयोः संयोगलग्नम् आधानलग्नमिति ज्योतिश्शास्त्रे प्रसिद्धमस्ति। सर्पवृश्चिकादीनां विषजन्तूनां शुक्लशोणिते स्वसन्ततौ विषपरमाणुः वर्तते एव।आकाररूपादयः तद्वदेव प्रजायां दृश्यते। मनुष्याणामपि पितृपितामहादीनां मातृमातामह्यादीनां स्वरूपगुणादयः परम्परया आगच्छन्ति तद्वद् रोगाश्च। रसादिधातूनां त्रिदोषाणां षड्रसानां कारकत्वं ग्रहाणां वर्तते। तज्जन्यरोगाणामपि कारकत्वं शरीरेन्द्रियानां रोगदायकत्वं ग्रहाणामस्तीति अवधेयम्।

        जातकवशात् निरूपिताः केचन ग्रहयोगाः रोगविषयेषु दृश्यन्ते। कर्के शनिः,मकरे चन्द्रश्चेत् उददरोगः भवितुम् अर्हन्ति। मकरकर्कौ(जलराशौ)चन्द्रः कारकग्रहः,शनिः रोगप्रदायकग्रहो भवति। अनेन ‘पित्ताशय’-‘मूत्राशय’,’किडनी’(Kidney) संबन्धरोगाः परिणामफलं भवति। एवं कन्याराशौ पापमध्यस्थो चन्द्रेन क्षयरोगः भवितुमर्हति।

        बलयुक्तकुजस्य दृष्टिः, क्षीणचन्द्रस्य अष्टमे शनिः चेत् गुह्यरोगकारणीभूतो भवति। एवं वातगुह्यकुष्ठवैकल्पयोगाश्च शास्रेऽपि प्रोक्ताः सन्ति।तद्यथा-

        “पापालोकितयोस्सितावनिजयोरस्तस्थयोर्वातरुक्।

              चन्द्रे कर्काटवृश्चिकांशगते पापैर्युते गुह्यरुक्॥

       श्वित्री रिःफधनस्थयोरशुभयोश्चन्द्रोदयस्ते रवौ

              चन्द्रे खेऽवनिजेस्तगे च विकलो यद्यर्कजो वेसिगः[30]

पापदृष्टियुक्तः शुक्रः कुजेन सह तिष्ठति चेत् वातरोगः संभवति।पापयुक्तो चन्द्रः कर्काटके, वृश्चिके एवं नवांशके स्थितश्चेत् गुह्यरोगकारको भवति। दशमे चन्द्रः,सूर्यात् द्वितीयेभावे शनैश्वरः तिष्ठति चेत् अङ्गहीनो भवति जातकः। सूर्यचन्द्रमसोः योगः कर्के वा सिंहे चेत् क्षयरोगः जायते। चन्द्रः सिंहनवांशके धनुराशिमध्यद्रेष्काणे मीन-कर्क-मकर-मेष नवांशके शनिना अथवा शनिकुजदृष्ट्या कुष्ठरोगः जायते।

नेत्र-कर्णरोगः-

द्वितीयद्वादशभावौ नेत्रस्थाने स्तः। तथा प्रकाशकग्रहौ नेत्ररोगकारणभूतौ इति प्रसिद्धौ, तौ सूर्यचन्द्रमसौ।

        निधनारिधनाव्ययस्थिता रविचन्द्रयमा यथा तथा।

       बलवत् ग्रहदोषकारणौः मनुजानां जनयन्त्यनेत्रताम्[31]

एकादश-तृतीयभावौ नेत्रभावौ स्तः, तत्रस्थग्रहाः श्रवणरोगकारकाः। तदुक्तम्-

        नवमायतृतीयधीयुता न च सौम्यैरशुभा निरीक्षिताः।

       नियमाच्छ्रवर्णोपघात दारदवैकृत्यकराश्च सप्तमे(बृ.जा-23-11)

एवं मनोरोगाः, मनःकारकेण चन्द्रेण प्रोक्ताः अस्ति-

        “संस्पृष्टः पवनेन मन्दगयुते द्यूने विलग्ने गुरौ

              सोन्मादोवनिजे स्थितेस्भवने जीवे विलग्नाश्रिते।

       तद्वत् सूर्यसुतोदयेऽवनिसुते धर्मात्मजद्यूनगे

              जातो वा सससहस्ररश्मितनये क्षीणे व्यये शीतगौ[32]

इतोपि रोगाः तस्य परिहाराश्च ग्रहान् एवं ग्रहदृष्टिम् अवलोक्य वक्तुं शक्यते। एवं च अस्मद् कालीनरोगलक्षणानि तथा पारम्पर्यरोगलक्षणानि च ग्रहवशात् अनेकान् कालात्पूर्वमेव निरूपितानि सन्ति। पूर्वजन्मार्जितपापकर्माण्येव रोगकारणानि भवन्ति इत्यत्र न संदेहः तथा तस्य कर्मकर्तारास्तु खेचराः ग्रहाश्च भवन्ति। इहजन्मनि रोगकर्तृग्रहाणां प्रायश्चित्तं करोति चेत् रोगमुक्तिरपि लभते। ज्योतिश्शास्रोक्तयोगवशादनिष्टाम् ग्रहाणां स्थितिं ज्ञात्वा परिहारः कर्तव्यः।  रोगनिर्णयार्थं वैद्यशास्त्रमेव शरणम्। एवञ्च पापागमनमार्गस्य प्रतिबन्धनं कर्तुं ग्रहाः साधनभूताः सन्ति। अनेन कालाधिष्ठित ज्योतिश्शास्त्रस्य स्वाधीनम् आयुर्वेदे निहितमेव।

सन्दर्भग्रन्थसूची-

► अमरकोशः, व्याख्याकारः-वाचस्पति,टी.सी.परमेश्वरन् मूसद्,केरला साहित्य अकादमी,त्रिश्शूर्,२००८

►अष्टाङ्गहृदयम्, व्याख्याकारः-अष्टवैद्यन् वैद्यमाठं चेरिया नारायणन् नम्बूतिरि,चौखम्बा कृष्णदास् अकादमी,वारणासी,२००७

►प्रश्नमार्गः, व्याख्याकारः-पुन्नश्शेरि नम्बि नीलकण्ठ शर्मा,देवी बुकस्टाल् कोटुङल्लूर्,२०२२

► बृहज्जातकम्, व्याख्याकारः-केदार जोशी,मोतीलाल बनारसीदास् पब्लिकेशन्,२०१६

► सूर्यरहस्यम्, व्याख्याकारः-विजयकुमार.मिश्र,कालप्रकाशन्,२००९ ।


[1] बृ.जा-१-३

[2] बृ.जा-१-१

[3] सू.र

[4] बृ.जा-४-२

[5] ई.उ

[6] बृ.जा-२-१

[7] बृ.जा-४-१

[8] अ.को-१-२७

[9] बृ.जा-१-४

[10] बृ.जा-२-११

[11] अ.हृ-१-१८

[12] प.त

[13] तै.उ-२-२-२

[14] बृ.जा-२-६

[15] अ.हृ-१-२०

[16] अ.हृ-९-२६

[17] अ.हृ-९-२८

[18] अ.हृ-१-५

[19] अ.हृ -१-२०

[20] अ.हृ-९-८

[21] प्र.मा-१४-२९

[22] प्र.मा-१३-२९

[23] प्र.मा-६-६१

[24] प्र.मा-६-६२

[25] प्र.मा-६-६३

[26] प्र.मा-६-६४

[27] प्र.मा-६-६५

[28] प्र.मा-६-६६

[29] प्र.मा-६-६७

[30] बृ.जा-२३-७

[31] बृ.जा-२३-१०  

[32] बृ.जा-२३-१३