भगवत्सेवायाः आनन्दानुभवरूपत्वम्

डा. चक्रवर्तिराघवन्, आचार्यः, विशिष्टाद्वैतवेदान्तविभागः, तिरुपतिः

वेदान्तशास्त्रं संसारार्णवनिमग्न चेतनानां समुद्धरणोपायं प्रतिपादयितुं प्रवृत्तम्। तच्च उपनिषदः, ब्रह्मसूत्राणि, भगवद्गीता, विष्णुपुराणरूपेण भिन्नभिन्नप्रस्थानत्वेन विभक्तम्। एतानि सर्वाण्यपि उपनिषदर्थस्य विशदीकर्तुं प्रवृत्तानि । इतिहासपुराणानि भगवद्गीता च उपबृंहणरूपाः । ब्रह्मसूत्राणि तु न्यायनिबन्धन-रूपाणि । एतानि सर्वाण्यपि द्वैताद्वैतविशिष्टाद्वैतावलम्बिभिः आचार्यैः विचारितानि ।

तत्र भगवद्रामानुजाः विशिष्टाद्वैतसिद्धान्तं पुरस्कृत्य ब्रह्मसूत्राणाम्, उपनिषदां, भगवद्गीतायाश्च व्याख्यानं भाष्यरूपं विरचितवन्तः । तत्सिद्धान्ते चिदचिदीश्वरूपं तत्त्वत्रयम्। चित् शब्देन बद्धमुक्तनित्यरूपत्रिविधजीवाः गृह्यन्ते । ईश्वरो नाम परंब्रह्म पुरुषोत्तमः जगत्कारणभूतः मोक्षप्रदः नारायणाख्य देवताविशेषः । अचित् पदेन त्रिगुणात्मिका मूलप्रकृतिः त्रयोविंशतिविकाराः कालः, जीवस्य धर्मभूतज्ञानं, शुद्धसत्त्वरूपमोक्षस्थानं नित्यविभूतिपदवाच्यं गृह्यते । तत्र वेदान्तशास्त्राणां मोक्षप्रतिपादकत्वेऽपि देशविशेषप्राप्तिरूपत्वं मोक्षस्य इतर सिद्धान्तिनः केऽपि नाङ्गीकुर्वन्ति । मोक्षस्थानं वैकुण्ठाख्यम् अप्राकृतं देशविशेषम् अङ्गीकुर्वन्तोऽपि द्वैतिनः सर्वेषां मुक्तानां भोगतारतम्यम् आश्रित्य परमसाम्यापत्तिं नाङ्गीकुर्वन्ति। एवं स्थिते तत्त्वेचे विशिष्टाद्वैतसिद्धान्ते असाधारणतया अङ्गीकृतस्य स्थानविशेषस्य शास्त्रकाराणां सिद्धान्तिनां तत्तद् ग्रन्थेषु लक्षणप्रमाण उक्ति प्रदर्शन पूर्वकं मतानि उपपादकानि संकलय्य एकत्र ग्रन्थे विचार्य निर्धारणार्थम् अयं ग्रन्थः आरभ्यते । किञ्च श्रीभाष्यमारभ्य नित्यविभूति वैभवग्रन्थपर्यन्तं पृथक् पृथक् उक्तानां विषयाणां गवेषणपरिश्रममन्तरा जिज्ञासूनां छात्राणां प्रतिपत्त्यर्थं मुक्ततत्त्वमधिकृत्य तत्र तत्र उक्ताः विषयाः संकलय्य अत्र निवेद्यन्ते ।
      श्रीवैष्णवसिद्धान्ते परिपूर्णब्रह्मानुभवपरीवाहरूपेण मुक्तस्य अनन्यनिरुपाधिकशेषभाव अनुसन्धानेन भगवत्कैंकर्यरसानुभवः परमपुरुषार्थतया पर्यवस्यति इत्युच्यते। लोके तु पारतन्त्र्यं, परसेवा, परकिंकरता च सर्वस्यापि दुःखरूप एव दृष्टा । ‘सेवा श्ववृत्तिराख्याता’ इति निन्दापि श्रूयते । अतः सेवायाः हेयत्वात् उपादेयत्वाभावात् कथं तस्य पुरुषार्थरूपत्वम् अङ्गीक्रियते । अतः भगवत्सेवा न आनन्दानुभवरूप इत्याशङ्कायां, सेवा सामान्यदुःखरूपत्वाभावात् कर्मकृतसेवायाः एव बन्धरूपत्वात् भगवत्सेवा न दुःखावहा, अपुरुषार्थरूपा वा। सेवासामान्यस्यापि दुःखात्मकत्वं वक्तुं न शक्यते, पतिव्रतायाः भर्तृशुश्रूषादीनां आनन्दावहत्वभोग्यत्वदर्शनात् । स्वरूपविरुद्धा, अनभिमता या सेवा दुःखरूपा भवति । जीवस्वरूपस्य च अनन्यार्हनिरूपाधिकशेषत्वरूपत्वात् सञ्जातस्वरूपाज्ञानस्य स्वयमेव अपेक्षितत्वात्, भगवत्प्रीतिहेतुत्वात् नित्यविभूतौ लभ्यमाना चेतनस्य उभयविभूतिविशिष्टब्रह्मानन्दानुभव अन्तर्गता भगवत्सेवा आनन्दरूपिण्येव । इत्थं च यत्र सेवायाः निन्दा श्रूयते तत्र कर्मकृत बन्धहेतुभूत आनभिमत सेवा एव निन्द्यते इत्यास्थेयम् । अत्र पूर्वाचार्याणां सूक्तयः भगवत्कै कर्यप्राशस्त्यबोधकाः उदाह्रियते । इत्थं भगवत्सेवायाः आनन्दात्मकत्वम् उपपाद्यते ।

श्रीभाष्ये —

श्रीभाष्य चतुर्थाध्याये आवृत्त्याधिकरणादौ उपासनस्यापि प्रीतिरूपापन्नत्वात् मुक्ताविव बद्धदशायामपि विदुषः परब्रह्मानुभवरूपफलं प्रथमपर्वरूपं निष्पद्यते इत्युक्तम्। एवं सति उपासनवेलायां बद्धस्य परब्रह्मानुभवापेक्षया मुक्तस्य परब्रह्मानुभवे वैलक्षण्यं न स्यात् इत्याशङ्का जायेत । तत्र नित्यविभूतिग्रन्थे शङ्कापरिहारः कृतः । मुमुक्षोः अनुभवस्य आभ्यन्तरकरण-सापेक्षत्वात् सुषुप्ति-मोह-प्रलयादिकालावच्छेदेन विच्छेदो भवति । मुक्तानन्दस्य तु कारणाभावात् यावत्स्वरूपं विच्छेदप्रसक्तिरेवनास्ति । अतः तस्य वैलक्षण्यम्। मुक्तानुभवस्य अपुनरावृत्तिरस्ति । किन्तु मुमुक्षोरनुभवस्य परिपूर्णब्रह्मविषयत्वेऽपि प्रारब्धकर्मानुगुणं पुनरावृत्तिर्विद्यते । सशरीरस्य प्रकृतिमण्डलान्तर्गतस्यैव चेतनस्य मुमुक्षुदशायां ब्रह्मानुभवः भवति । किन्तु मुक्तिदशायां सशरीरेणैव भवितव्यमिति निर्बन्धो नास्ति । अभावाधिकरणे स शरीरो वा अशरीरो वा ब्रह्म अनुभवतीति उपपादितम् । परं ज्योतिरूपसम्पद्य स्वाभाविक आनन्दस्य आविर्भावात् आभ्यन्तरकरणायत्तत्वं मुक्तानुभवस्य नास्ति । मुमुक्षु अपेक्षया संसारभयरहितत्वात् च मुमुक्षोः ब्रह्मानुभवापेक्षया मुक्तस्य ब्रह्मानुभवे महत् वैलक्षण्यं अस्तीति स्वर्गादिसुखानुभवानां विष्णुपुराणादौ मुक्तानुभव अनुभवम् अनुसन्दधानस्य विदुषः निरयप्रायत्वमेव प्रतिभाया इति मुक्तदृष्ट्या मुमुक्षोः सुखानुभवत्वेनैव न परिगण्यते । इत्येवम् उपपादनपूर्वकं मुमुक्षु ब्रह्मानन्दानुभवापेक्षया मुक्तस्य ब्रह्मानन्दानुभवे उत्कर्ष अनेन प्रतिपाद्यते ।

भगवत्सेवा

श्रीवैष्णवसिद्धान्ते जीवात्मा मुक्ति प्राप्य स्वरूपरूपमनु विभवचेष्टितसहितं परमात्मानं आविर्भूत प्रत्यक्षात्मकनित्यानुकूलस्य ज्ञानेन अनुभवति । तत्परीवाहतया भगवत्कैंकर्यं करोति। तादृशी भगवत्सेवा आनन्दरूपिणी । परमपुरुषार्थोऽपि भगवत्सेवैव इति सिद्धान्तं प्रकटयन्ति ।

तत्रेत्यमाशङ्का- श्रुतिभिः परिपूर्णब्रह्मानुभवप्राप्ति, ‘परात्परं पुरुषमुपैति दिव्यम् इति परमपुरुषप्राप्तिश्च उच्यते । न तु स्पष्टं मुक्तः भगवत्सेवां करोतीति श्रूयते । अयं च परमात्मना साकं परमसाम्यापन्नः । अतः सेव्यापेक्षया सेवकस्य लोके निकर्षः दृष्टः। स तु मुक्तौ नास्ति । जीवस्य लोके च अज्ञः अशक्तश्च प्राज्ञस्य समर्थस्य च स्वामिनः सेवां करोति। मुक्तस्तु आविर्भूतस्वाभाविकरूपत्वात् न मन्दमतिः न च अशक्तः । कुतः सेवायां प्रवर्तेत ?। किञ्च अनवधिकातिशय आनन्दरूपब्रह्मानुभवतः पूर्णकामत्वात्सेवायं कथम् अपेक्षा जायेत । किञ्च यदि मुक्तिः सेवारूपा सम्मता तर्हि मुक्तिः दुःखहेतुः सेवारूपत्वात् परिदृश्यमान लौकिकसेवावत् इत्यनुमानमपि भवत्पक्षविरोधि । अतः मुक्तौ भगवत्कैंकर्यरूप पुरुषार्थो न युज्यते ।

कैंकर्यस्य च न दुःखरूपत्वं वक्तुं शक्यते। यद्यपि लोके ‘सेवा दुःखकरी एव परिदृश्यते। तथापि सेवायाः दुःखरूपत्वं न सेवात्वप्रयुक्तम्। अपि तु पापकृतत्व प्रयुक्तम्। जीवात्मनां तु भगवद्दासत्वं न पापप्रयुक्तं अपि तु स्वरूपानुबन्धि । मन्त्रराजपदस्तोत्रे अहिर्बुध्यनेन ‘अहं’ इति पदस्य विवरणरूपे श्लोके सर्वेषामेव आत्मनां भगवद्दासत्वं स्वरूपमित्युच्यते-

‘दासभूतास्तसर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दासः इति मत्वा नमाम्यहम्’ ।। (मन्त्रराजपदस्तोत्रम्. ११)

इति श्लोकेन ।

सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । समासेन विजानीयात् लक्षणं सुखदुःखयोः ।। (श्रीमद्रामायणसुन्दरकाण्डः)

‘अन्नं भोज्यं मनुष्याणां अमृतं तु दिवौकसाम् ।

श्वपशु विट् तृणाहारौ सन्तो दास्यैक जीवनाः ।।’