महाभाष्ये अनुसन्धानतन्त्रम्

Pushpalatha K
Research Scholar
Karnataka Samskrit University, Bengaluru – 560018
Mobile No: 9611701093
E-mail id: k1pushpa00@gmail.com

Guide and Co-author: Prof Shivani V
Head of the Dept. and Dean of Shastra Faculty
Karnataka Samskrit University, Bengaluru – 560018

Abstract

पाणिनिमुनिना व्याकरणशास्त्रस्य अभूतपूर्वः ग्रन्थः यश्च सूत्ररूपेण विरचितः अस्ति सा अष्टाध्यायी इति सुप्रसिद्धा। तस्याः व्याख्यानरूपेण महर्षिणा कात्यायनेन वार्तिकानि रचितानि। अनयोः द्वयोः विस्तृता व्याख्या भगवता पतञ्जलिना भाष्यरूपेण रचिता यत् महाभाष्यमिति सुविख्यातम्। महाराज्यं वा पालनीयं महाभाष्यं वा पठनीयमिति प्रसिद्धा उक्तिः अस्य ग्रन्थस्य श्रेष्टतां ज्ञापयति। अष्टाध्याय्यां निर्दिष्टं सूत्रक्रममेव अनुसरन् भाष्यकारः स्वस्य स्वोपज्ञप्रज्ञया शब्दसिद्धेः सुगममार्गं बोधयति। अस्मिन् ग्रन्थे सूक्ष्म-गभीराश्च व्याकरणविषयाः अतीव-मनोहररीत्या संवादशैलीम् आधृत्य सरलया भाषया वर्णिताः।  न केवलं व्याकरणस्य सिद्धान्ताः अपितु  उच्चारणस्य नियमाः शब्दव्युत्पत्तिशास्त्रञ्च  अस्मिन् ग्रन्थे उपवर्णिताः।  व्याकरणविषयाः पूर्वपक्ष-उत्तरपक्षयोः संवादरूपेण आक्षेप-समाधानपद्धत्या  तर्कबद्धरीत्या अत्र निरूपिताः। एवं विषये निरूप्यमाणे भाष्यकृता व्याख्यानाय काचित् अनुपमा अनुसन्धानपद्धतिः प्रयुक्ता। सा च पद्धतिः व्याख्यानात्मकं विश्लेषणात्मकञ्च यया भाष्ये शब्दशासनविषयः प्रस्तूयते।   अस्मिन् लेखे भाष्यकृता अनुसृताम् इमाम् अनुसन्धानपद्धतिम् अधिकृत्य किञ्चित् प्रतिपाद्यते।   

Key-words: महाभाष्यम्, अष्टाध्यायी, व्याख्यानात्मकम्, विश्लेषणात्मकम्, अनुसन्धानपद्धतिः

भूमिका   

संरक्षणार्थं स्थायित्वार्थञ्च ज्ञानस्य निर्माणं सुव्यवस्थितं भवेत्। ग्रन्थकर्तुः चिन्तनं  विचारणञ्च ग्रन्थरूपेण यदा विन्यस्यते, तदा तत्र काचित् पद्धतिः अपेक्ष्यते यया ग्रन्थावबोधः सुकरः स्यात्।   महर्षिणा पतञ्जलिना विरचिते महाभाष्ये एवं सुव्यवस्थिता परिपाटी पद्धतिश्च संलक्ष्यते। भाष्यावलोकनेन अयमंशः स्फुटतया दृष्टिपथम् आयाति। अत एव वाक्यपदीये भर्तृहरिणा अभिप्रेतम्,

अलब्धगाधे गाम्भीर्यादुत्तान इव सौष्ठवात् ।

तस्मिन्नकृतबुद्धीनां नैवावास्थित निश्चयः ॥[1]

श्लोकस्य विवरणम्  – गाधो निष्ठापरिच्छेद इयत्तेति यावत् । असावलब्धो यस्य । कस्मादित्याह–गाम्भीर्यात् इति । गाम्भीर्यं गहनता प्रमेयबाहुल्येन दुर्वगाहत्वम् । अतिगम्भीरं हि भाष्यमुपरचितं भगवता पचञ्जलिनेति न तस्याभिधेयं व्यवच्छेत्तुं केनचिच्छक्यत इति । किमेवमेकान्तं गहनमिदं भाष्यम् ? नेत्याह–उत्तान इव इत्यादि । उत्तानं स्षष्टं सौष्ठवं परिपाटी यस्मादेतद्भाष्यं परिपाटिलक्षणादत्र सौष्ठवादुत्तानं स्पष्टप्रायं यत एव प्रतिभाति ।[2]

भर्तृहरेः एतेन वचनेन महाभाष्ये सुव्यवस्थिता रचनापद्धतिः अस्तीति स्पष्टम्। एतादृशं व्यवस्थितं  संविधानमाश्रित्य महर्षिः पतञ्जलिः अष्टाध्याय्याः 1712  सूत्राणां व्याख्यां विरचय्य। एतस्यां व्याख्यायां कात्यायनकृतानि वार्तिकान्यपि सम्मिलितानि सन्ति। कात्यायनस्य वार्तिकानि महाभाष्ये एव उपलभन्ते। अन्यान्यपि कानिचन वार्तिकानि अत्र विमृष्टानि। सूत्रव्याख्यानात्मके अस्मिन् ग्रन्थे भाषाविषयकं व्याकरणशास्त्रविषयकञ्च चिन्तनं प्रवर्तते। पस्पशाह्निकतः समारब्धोऽयं ग्रन्थः अष्टाध्यायीक्रममेव सर्वात्मना परिपालयन् प्रतिसूत्रं सूत्रकाराशयं स्वाशयञ्च यथासम्प्रदायं व्याख्याति।  वादशैल्या प्रवृत्तेऽस्मिन् ग्रन्थे न केवलं व्याकरणविषयाः अपितु तत्त्वज्ञानविचाराः अपि चिन्तितास्सन्ति।

भाष्यस्य महत्त्वं वर्णयता वाक्यपदीयस्य टीकाकारेण पुण्यराजेन उच्यते,

“अत एव सर्वन्यायबीजहेतुत्वादेव महच्छब्देन विशिष्य महाभाष्यमित्युच्यते लोके। अथ महत्त्वमेव अस्योपपादयितुमाह[3] इति

नागेशः कथयति, “व्याख्यातृत्वेऽप्यस्येष्ट्यादिकथनेनान्वाख्यातृत्वादितरभाष्यवैलक्षण्यम्” इति।[4]

एवं व्याकरणाध्यययनाध्यापनायां परम्परायां महाभाष्यस्य विशिष्टं स्थानं वर्तते। अस्मिन् ग्रन्थे अष्टाध्याय्याः सूत्राणां व्याख्या आक्षेप-समाधानपद्धत्या प्रस्तुता। वादशैलीम् उपयुज्य पूर्वपक्ष-उत्तरपक्षयोः मतभेदः संवादमय्या सरलया मनोज्ञया च भाषया इह उपस्थाप्यते। भाष्ये अष्टाध्याय्याः संक्षिप्तरूपेण रचितानां  सूत्राणां विस्तारः क्रियते। सूत्रवार्तिकयोः विस्तरेण परामर्शः क्रियते। अत्र व्याकरणनियमानाम् उदाहरणानि, दृष्टान्ताः, अनुप्रयोगाः च प्राप्यन्ते। एवं विषयनिरूपणावसरे, भाष्यकारेण काचित् विशिष्टा अनुसन्धानपद्धतिः प्रयुक्ता अवश्यमत्रावलोक्यते  । सूत्रवार्तिकयोः विस्तारः, व्याख्या अपि च विश्लेषणं क्रियते इत्यस्मात् सा  पद्धतिः व्याख्यानात्मकं विश्लेषणात्मकञ्च (Explanatory and Analytical) इति स्फुटम् अवगम्यते।

भाष्ये विषय-निरूपणा प्रक्रिया   

भाष्यस्य शैल्याः अवलोकनेन, भाष्यकृता विषयनिरूपणाय काचन प्रक्रिया मुख्यतया अनुसृता आलक्ष्यते। ज्ञातादज्ञातं प्रति इति न्यायेन क्रमेण प्रतिपाद्यम् उपन्यस्यते तत्र च केचन अंशाः मुख्यतया दृश्यन्ते यथा,

  • वादशैल्या विषयप्रतिपादनम्
  • आक्षेप-समाधानपद्धत्या विषय-निरूपणम्  
  • तर्कबद्धं विषयपोषणम्
  • विषयप्रतिपादनाय पारिभाषिक-शास्त्रीयशब्दानां प्रयोगः
  • लोकप्रचलितायाः भाषायाः प्रयोगः
  • विषयस्य सरलबोधाय लौकिकवैदिकदृष्टान्ताः, लघुकथाः, लौकिक-शास्त्रीय-न्यायाः, विनोदवचनानि इत्यादीनां प्रयोगः
  • व्याख्यानात्मकं विश्लेषणात्मकञ्च अनुसन्धानपद्धतिं प्रयुज्य विषयनिरूपणम्

ईदृशी प्रतिपादनशैल्या 85 आह्निकेषु व्याकरणविषयाः भाष्ये उपनिबद्धाः।

महाभाष्यस्य अनुसन्धानपद्धतिः

“अथ शब्दानुशासनम्” इति भाष्योपक्रमः। अनेन शब्दशासनाय प्रवृत्तमिदं शास्त्रमिति सुविदितम्।  भारतीयज्ञानपरम्परायां ग्रन्थारम्भे मङ्गलाचरणस्य अत्यधिकं महत्त्वं विद्यते। भारतीयपरम्परामेव अनुसरन्  भाष्यकारोऽपि ’अथ’ इति मङ्गलशब्देन ग्रन्थारम्भं करोति। यद्यपि भाष्यकारः अथ इत्यस्य अधिकारार्थं सूचयति, तथापि तस्य मङ्गलार्थं तु अस्त्येव। एवं समारब्धे अस्मिन् ग्रन्थे, विषयनिरूपणं त्रिधा द्रष्टुं शक्यते।    

तद्यथा,

  1. विषयः – उद्देशः (विषयस्य नाम्ना सङ्कीर्तनम्)(Title)
  2. विषयस्य प्रस्तुतिः विस्तृतिश्च – विषयस्य  वर्णनम् (Explanation)
  3. निर्णयः – प्रतिपाद्यमानः सिद्धान्तः (Conclusion)

विषयस्य उपक्रमादारभ्य सिद्धान्तप्रतिपादनपर्यन्तं भाष्यकृता विषयनिरूपणाय विशिष्टा व्याख्याप्रणाली प्रयुज्यते यया विषयः सुबोधः स्यात्। सैव प्रणाली अधः चित्ररूपेण दर्शितः अस्ति।     

भाष्यस्य रचनाविधिः

व्याख्यानात्मकं विशेषणात्मकञ्च अनुसन्धानपद्धतिम् उपयुज्य भाष्यकारेण उपरि दर्शितरीत्या विषयाः निरूप्यन्ते। तद्यथा,

  1. विषयः

भाष्यकारेण प्रथमतया निरूप्यमाणस्य विषयस्य शीर्षकं (Title) दीयते। Title is according to the subject, it’s section or sub-section. भाष्ये सूत्राणि, वार्तिकानि अपि शीर्षकरूपेण स्वीकृतानि ।

यथा,

  • विषयः एव शीर्षिका – कानि पुनः शब्दानुशासनस्य प्रयोजनानि?
  • सूत्रशीर्षिका – वृद्धिरादैच्
  • वार्तिकशीर्षिका – अकारस्य विवृतोपदेशः आकारग्रहणार्थः

एवं नाम्ना विषयस्य उपस्थापनम् आ भाष्यं दृश्यते। अनेन कस्मिन् विषये चर्चा इति पाठकाः सुलभतया अवगन्तुं शक्नुवन्ति।

  • विषयस्य प्रस्तुस्तिः विस्तृतिश्च

भाष्ये विषयस्य प्रस्तुतिः विस्तृतिश्च अनेकैः सोपानैः क्रियते। तानि सोपानानि यथा,

2.1 संशयः

महाभाष्यम् वादकथाशैल्या निरूपितः ग्रन्थः। अतः इह विषयप्रस्तुतिः प्रश्नोत्तरशैल्या क्रियते। प्रश्नस्य (संशयः अथवा आक्षेपः) उत्थापनेन जिज्ञासा उत्पाद्यते। जिज्ञासायाः शमनाय समाधानं दीयते। भाष्यकारस्य प्रश्नकरणे विविधता दृश्यते।  

यथा,  

  • प्रश्नोत्थापनं तस्य समाधानञ्च (प्रश्नः 1– समाधानम् 1)

उदा. केषां शब्दानाम्?

  • प्रश्नानां श्रेण्याः उत्थापनम्, प्रत्येकं प्रश्नस्य समाधानञ्च (प्रश्न 1-समाधानम् 1, प्रश्न 2-समाधानम् 2 इत्यादयः)

उदा. अथ गौरित्यत्र कः शब्दः?

      किं यत्तत्सास्नालाङ्गूलककुदखुरविषाण्यर्थरूपं स शब्दः ?

      नेत्याह, द्रव्यं नाम तत्।

      यत्तर्हि तदिङ्गितं चेष्टितं निमिषितमिति, स शब्दः?

      नेत्याह, क्रिया नाम सा। इत्यादीनि

  • आक्षेप-आक्षेपान्तर-समाधान-समाधानान्तरभाष्यम् इति एवमपि मार्गः आश्रीयते।

आक्षेप-समाधान method इत्यत्र विभिन्नानि विधानानि दृश्यन्ते,  यथा

आक्षेप – A, समाधान  – S

A1 -S1, A2 – S2, A3 – S3, …. An, Sn

A1, A2, A3, …., An – S1, S2, S3, …. Sn

A1, A2, S2, A3, S3, …. An, Sn etc.

विषयनिरूपणे भाष्यकारेण उत्थापितस्य प्रत्येकं प्रश्नस्य कश्चन उद्देशः वर्तते। प्रत्येकं प्रश्नः नूतनज्ञानं प्रति गमयति। एवं भाष्यं प्रश्नप्रकारस्य अध्ययनार्थं आदर्शग्रन्थः।

  • पूर्वपक्ष-उत्तरपक्षौ

यथा पूर्वमेव विदितम्, महाभाष्यं संवादमालारूपेण विरचितमस्ति। अयं संवादः पूर्वपक्ष-उत्तरपक्षयोः मध्ये प्रवर्तते। पूर्वपक्षी स्वस्य जिज्ञासां प्रश्नद्वारा (आक्षेपः) उत्थापयति। उत्तरपक्षी (आचार्यः) जिज्ञासायाः समाधानं विशिष्टबिन्दून् लक्षीकृत्य ददाति। एवं सर्वेऽपि सम्भाव्यान् आक्षेपान् उत्थाप्य अन्ते सिद्धान्तः उपस्थाप्यते। पूर्वपक्ष-उत्तरपक्षयोः चर्चासु प्रयुक्ता भाषा अभिव्यक्तिश्च वाग्मिता मनोरञ्जकश्च। वाक्यानि लघु सरलानि च।

          उदा. पूर्वपक्षिणः वाक्यानि यथा,

कस्तर्हि शब्दः?

ननु च अत्र अपि तपरकरणसामर्थ्यात् एव न भविष्यति।

अथ किमर्थो वर्णानामुपदेशः?

          उदा. उत्तरपक्षिणः वाक्यानि यथा,

किं वक्तव्यमेतत्?

विषमः उपन्यासः।

अस्ति प्रयोजनमेतत्।

नैष दोषः।

नेत्याह। इत्यादीनि

  • हेत्वर्थः

भाष्यकारस्य विषयप्रस्तुतिः वैज्ञानिकं तार्किकञ्च। सिद्धान्तानां प्रतिपादने तार्किकता अत्यावश्यकी। भाष्यकारः हेतुम् उत्तमतया प्रतिपाद्यैव सिद्धान्तं उपस्थापयति।

यथा,

प्रधाने च कृतो यत्नः फलवान्भवति।

यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात्।

  • निदर्शनम्

महाभाष्यस्य रचनायां निदर्शनानां विशेषं स्थानमस्ति। वैदिक-लौकिक-विषयान् उदाहरण-प्रत्युहादरणरूपेण उपयुज्य भाष्यकारः व्याकरणबिन्दून् व्याख्याति। एते दृष्टान्ताः तदानीन्तनस्य भारतस्य सामाजिकं सांस्कृतिकञ्च जीवनं प्रतिरूपयन्ति।

यथा,

तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः।

पञ्च पञ्चनखा भक्ष्याः इत्युक्ते गम्यत एतद्- अतोन्येऽभक्ष्या इति

तद्यथा – वृक्षः प्रचलन् सह अवयवैः प्रचलति।

एतैः दृष्टान्तैः विषयावगमः बहु सुकरः।

  • व्याख्या

भाष्यकारेणैव उक्तमस्ति “न केवलं चर्चापदानि व्याख्यानम्, उदाहरणं-प्रत्युदाहरणं-वाक्याध्याहारः-इत्येतत्समुदितं व्याख्यानं भवति” इति।[5]

यथोक्तम्, भाष्ये सर्वेऽपि विषयाः अत्यन्तं विस्तृतरूपेण व्याख्याताः। अनेन यथोहि विषयाः गभीराः, भाष्यकारस्य व्याख्यानात्मकेन पद्धत्या विषयः सुगम्यः भवति।

  • निर्णयः

      भाष्यं वादकथारूपेण लिखितः ग्रन्थः। पूर्वपक्ष-उत्तरपक्षयोः चर्चा दीर्घा अपि भवति। अनेन सिद्धान्तस्य अवगमः किञ्चित् दुष्करः स्यात्। निर्णयकरणे भाष्यकारः बहून् प्रकारान् अनुवर्तते। प्रायेण चर्चायाः अन्ते सिद्धान्तः दीयते।

यथा, शास्त्रेण धर्मनियमः क्रियते।[6]

क्वचित् सिद्धान्ते विकल्पाः दीयन्ते।

यथा, इको गुणवृद्धी सूत्रे,

कदाचित् निर्णयः चर्चायै त्यज्यते।

यथा, संयोगसंज्ञा विषये

एवं निर्णयकरणे अपि भाष्यकारस्य काचित् शैली वर्तते।

भाष्ये लक्षिताः अंशाः

महाभाष्ये अनुसृता शैली अनुसन्धानपद्धतिश्च आदर्शप्रायः।

अत्र लक्षिताः अंशाः,

  1. प्रश्ननिर्माणं कथं भवेत्? जिज्ञासायाः उत्पादनं कथं करणीयम्?
  2. अध्यायानां विभागाः उपविभागाश्च – एतेषां चयनं कथं करणीयम्?
  3. चर्चारूपेण विषयोपस्थापनम् अपिच तत्र content flow कथं भवेत्?
  4. Scope for further research
  5. विभिन्नस्रोतसः निदर्शनानि, तेषां समन्वयश्च
  6. भाषायाः शैली कथं भवेत्?
  7. विषयाणां प्रतिपादनं कथं भवेत्?

इत्येवमादयः विषयाः भाष्यस्य अध्ययनेन विज्ञायन्ते। अभिजातेयं भाष्यनिर्माणपद्धतिः चिरन्तनी नानाशास्त्रप्रकाशिका च।

उपसंहारः

भारतीयज्ञानपरम्परायां भाष्याणां महती भूमिका अस्ति। तत्रापि महाभाष्यस्य  अत्यन्तं महत् स्थानं वर्तते। भाष्यकारेण संशय-पूर्वपक्ष-उत्तरपक्ष-हेतु-निदर्शन-व्याख्यानैः पाण्डित्यपूर्णं तथापि सरलं सुगम्यञ्च व्याकरणशास्त्रं लोकाय प्रदत्तम्। व्याख्यानात्मकं विश्लेषणात्मकञ्च अनुसन्धानतन्त्रम् आश्रित्यभाष्यकृता शास्त्रग्रन्थनिर्माणाय  पथदर्शिनी  समर्पितास्ति। एवं भाष्यम् अध्ययनार्थं शिक्षणार्थञ्च Model(आदर्शः) ग्रन्थः।  

References:

  1. महाभाष्यम् महामहोपाध्याय-पण्डित-शिवदत्तशर्मणः, चौखम्बा संस्कृत प्रतिष्ठान, दिल्ली, 2014
  2. वाक्यपदीयम् द्वितीयो भागः वाक्यकाण्डम् (संस्क. 2) with पुण्यराजकृता टीका (भागीरथप्रसादत्रिपाठी ’वागीशः शास्त्री’, सं.) सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वारणसी, India 1980
  3. शाब्दी त्रिपथगा, महाभाष्यविशेषाङ्कः, व्याकरणविभागः, राष्ट्रिय-संस्कृत-संस्थानम्, श्रीरघुनाथकीर्तिपरिसरः, देवप्रयागः, उत्तराखण्डः, 2017
  4. https://ashtadhyayi.com/
  5. https://sanskrit.rkmvu.ac.in/wp-content/uploads/2022/10/D-vol1-issue2-mahabhasyagranthaparicayah.pdf
  6. https://www.csu-devprayag.edu.in/campus%20publication/%E0%A4%B6%E0%A4%BE%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A5%80%20%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AA%E0%A4%A5%E0%A4%97%E0%A4%BE1.pdf

[1] 2.483 वाक्यकाण्डम्, वाक्यपदीयम्

[2] स्वोपज्ञा-वृत्तिः

[3] पुण्यराजटीका, वाक्यपदीयम् 2-485

[4] नागेशभट्टकृतोद्योतटीकायाम्

[5] पस्पशाह्निकम् व्याकरणमहाभाष्यम्

[6] पस्पशाह्निकम्