योगस्य स्वरूपविचारः

Manorama Sawn
Research scholar, Dept. of Vyakarana
National Sanskrit university,
Tirupati – 517 507 Mob.9390769036

योगशास्त्रस्य दर्शनत्वम्

                शासु – अनुशिष्टौ[1] इत्यस्मात् धातोः निष्पन्नं शास्त्रम् इति पदम् । शासति इति शास्त्रम् इति व्युत्पत्या एवं कुरु एवं मा कुरु इत्यादि विधिनिषेधाभ्यां कर्तव्याकर्तव्ये निरुपिते। अभ्यासवैराग्यरुपविधि निषेद्धारा प्रकृतिपुरुषान्यताख्यातिप्राप्तिक्रमः अत्र योगे वर्णितत्वात् योगः शास्त्रत्वं भजते। अपि च शास्त्रलक्षणं आगमशास्त्रे एवं निरुपितमस्ति।

              [2]तद्यथा –

 शासनात् शंसनात् शास्त्रं शास्त्रमित्यभिधियते।

              शास्त्रं द्विविधं प्रोक्तं  सास्त्रलक्षणवेदिभिः।
शंसनं भूतवत्स्वेकबिषयं न क्रियापरम् ।।इति।।

  अत्र योगशास्त्रे अभ्यासवैराग्ये शासने। प्रकृति पुरुषबिवेकख्यातिरेव प्रकृतिपुरुष विषयकं शांसनम् इत्यतः कारणात् योगशास्त्रस्य शास्त्रत्वं सिद्ध्यति ।

        योगशास्त्रस्य योगदर्शनं पातञ्जलदर्शनं  वा इति व्यवहारः दृश्यते लोके। यथा न्यायशास्त्रं न्यायदर्शनम्, वेदान्तशास्त्रं – वेदान्तदर्शनम्, वैशेषिकदर्शनमिति व्यवहारः लोकप्रसिद्ध एव। तथैव योगशास्त्रविषयेऽपि।  [3]दृशिर् – प्रेक्षणे इत्यस्माद्धातोः ल्युट् प्रत्यये दर्शनमिति पदं सिद्धति। भावार्थे – सृष्टिमूलतत्त्वानां सिद्धान्तानां वा दर्शनम् अनुसन्धानम् वा इति अर्थः सिद्ध्यति। करणार्थे – दृश्यते अनेन इति दर्शनमिति व्युत्पत्त्या सृष्टितत्त्वानां दर्शने साधनरुपोऽपि अर्थः दर्शनपदेन वक्तुं शक्यते। प्रकृते योगशास्त्रे सृष्टितत्त्वानां ज्ञानं तेषां साक्षात्कारसाधनमित्युभयमपि बोध्यते इत्यतः  उभयथापि दर्शनमिति पदस्य अन्वर्थता भवति ।

पातञ्जलयोग –

अत्र पतञ्जलिकृते योगसूत्रे आहत्य चत्वारो अध्यायाः सन्ति। षण्ण्वत्यधिकशतसंख्याकैः सूत्रैः समग्रं योगशास्त्रं प्रपञ्चितम्। तत्र सूत्राणां सङख्यासु मतभेदो विद्यते। अथ योगानुशासनम्[4] अत्र अनुशासनात्मकमिदं शास्त्रं चतुर्षु अध्यायेषु विवृतमस्ति। समाहितचित्तानां समाधिलाभार्थं साधनोपायाः प्रथमपादे प्रतिपादिताः। द्वितीयाध्याये विक्षिप्तचित्तानां समाधिभावनार्थम् अष्टाङ्गयोगः क्रियायोगश्च प्रपञ्चितः। तृतीयाध्याये संयमाभ्यासद्वारा सिद्धिप्रकाराः प्रोक्ताः जनलाभार्थम्। तृतीयाध्याये पुनः सिद्धिस्वरुपं कैवल्यं च विस्तरेण प्रोक्तं दृश्यते। एवं समस्तलोकबोधार्थं इदं शास्त्रं कृतवान् भगवान् पतञ्जलिः।

योगशब्दविचारः – 

इतिहासदृष्ट्या न तथा योगशब्दस्य प्राचीनता यथा योगशास्त्रस्य प्राचीनता यथा योगशास्त्रस्य प्राचीनता दृष्टा । तत्र कारणं तु सुस्पष्टमेव ।  अधुना यस्मिन्नर्थे योगशब्दः प्रयुज्यते[5] तस्मिन्नेवार्थे प्राचिनतमेषु साहित्येषु वेदादिषु य न प्रयुक्तः । अयम् आश्चर्यावहो बिषयः । यद्यपि वेदवाङ्मये योगशास्त्रमेव प्रतिपादितं तद्यापि तत्र योगशब्दस्य पतञ्जलिप्रतिपादितार्थे व्यवहारो न दृश्यते। योगशब्दस्य प्रयोगः क्वचित् दृष्टोऽपि सः न समाध्यर्थकः । किन्तु अन्येषु अर्थेषु प्रयुक्तः । अस्य कारणमेवमूह्यते – भाषा तु स्वाभिप्राय व्यक्तये असदृशं साधनम्। रुपेण नूतनाविषकाराणां प्रकाशनाय नूतन शब्दप्रयोगः नूतनशब्दानाम् आविष्कारो वा काले आवस्यकः अभूत्। अथवा नूतनानाम् अर्थानाम् अभिधानाय पदानां व्यवहारः अनिवार्यो भवति।  विद्या इति शब्दप्रयोगः आत्मा इत्यर्थे प्राचीनसाहित्येषु दृश्यते। कालान्तरे तत्साक्षात्कारसाधनमपि तेनैव शब्देन व्यवहृतो दृश्यते। अतश्च प्राचीनसाहित्येषु योगशब्दव्यवहारः विभिन्नेषु अर्थेषुकृतः स्यात्। तदा स शब्दः न समाध्यर्थवाचकः स्यादिति वक्तुं शक्यते। यथा – योगे योगे तवस्तरमित्याह वाजे वाजे[6] हवामहे इत्यत्र योगशब्दस्य सम्बन्धार्थः दृश्यते। कर्मणः प्रारम्भे युद्धस्य अन्ते च  युष्मान् वयं आमन्त्रयामहे इत्यस्य मन्त्रस्यार्थः । तथा च अन्यस्मिन् मन्त्रे – कदा वाजिनो रासभस्य येन यज्ञं नासत्योपायधः[7] । कदा वृषभौ रथाय नवद्यते इति वयं न जानीमहे इत्यत्र योगशब्दस्य वृषभाणां लाङ्गले बन्धनरुपोऽर्थः प्रोक्तः । अन्यत्रमन्त्रे – पाहि क्षेम उत योगे वरं नः [8]। इत्यत्र प्राप्तस्य रक्षणमेवं अप्राप्तस्य प्राप्तिः अस्माकं भवतु इति योगशब्दस्य प्राप्तिरित्यर्थः।  अमरकोशे योगशब्दस्य उपायः, ध्यानबिषयः कविः, सङ्गम इत्यादयो अर्थाः उक्ताः[9]। अध्यात्मविद्यां शिक्षयन्त्यः उपनिषदः भारतीयतत्वाशास्त्रेषु प्रमुखं स्थानं भजन्ते । आत्मासाक्षात्कारविधयः बहुप्रकारेण तत्र विवृताः सन्ति। यद्यपि उपनिषदः अनेकापि विशेषतः दशोपनिषादः प्राचीनतमाः इति बिद्वद्भिः परिगणिताः। उपनिषत्सु एतासु योगशब्दप्रयोगः विद्वमानोऽपि विशिष्य कठोपनिषदि एव योगशब्दः समाध्यर्थे प्रयुक्तो दृश्यते। अनेन ज्ञायते कठोपनिषत्कालपर्यन्तं योगशब्दः अध्यात्मपर्यायवाची नासीदिति।

योगशब्दस्य व्युत्पत्तिः प्रधानतया द्विधा भवति – “युजिर् योगे”[10] इत्यस्माद्धातोः योगशब्दस्य निष्पत्तिरेका । अत्र सम्बन्धः इत्यर्थः । अपरः युजः समाधौ[11] इत्यस्माद्धातो  घञ् प्रत्ययं निष्पन्न योगशब्दः । मनसः असाधारणे स्थितिविशेषः अत्र सम्प्रोक्तः । अपि च “युज् संयमने”[12]  इत्यस्माद्धातोरपि योगशब्दस्य निष्पत्तिः भवति । निग्रह इति अस्यार्थः।  कवचः, समाधिः, उपायः, ध्यानम्, युक्तिः इत्यादयेऽर्था योगशब्दस्य प्रोक्ताः। व्याकरणशास्त्रे प्रकृतिप्रत्ययसम्बन्धनिरुपणे[13] योगशब्दस्य प्रयोगः प्रसिद्धः। अपि च तत्रैव योगशब्दस्य सूत्रमित्यर्योपि दृश्यते[14]। ज्योतिषशास्त्रे ग्रहणां राश्यदिनां सम्बन्धः[15] योगशब्देन व्यबह्रियते। ऋषिरेव विजानाति द्रव्यसयोगजं फलम् इत्यादिना ओषधिद्रव्याणां संयोगः योग [16] इति व्यवहारः आयुर्वेद प्रसिद्धः। उपनिषत्सु प्राप्तिः[17] इत्यर्थे योगशब्दः प्रयुक्तः। वियोग इत्यर्थेऽपि योगः इति व्यवहारः [18]भगवद्गीतायां दृश्यते। प्राणापानयोः तयोर्मेलनस्यापि  योगः इति व्यवहारः प्राचीनः साहित्येषु[19] वरीवर्ति ।

योगशास्त्रस्य स्वरुपम् –

पतञ्जलिः स्वकृते शास्त्रे निसर्ग विकासस्य स्वरुपं मनसि निधायैव शास्त्रं समाख्धवान् इति प्रतिभाति। आदौ योगस्य स्वरुपं योगश्चितवृत्तिनिरोधः इत्यभिधाय, सः तस्यां गुणप्रक्रियारहितायां स्थितौ द्रष्टुः पुरुषस्य स्वरुपे अवस्थानं[20] इति प्रपञ्चयति। एतादृश्यां स्थितौ तत्र न काचित् सृष्टिक्रिया। पुनः यदा गुणानां परिणामः भवति तदा सृष्ट्यारम्भः। तस्मिन् समये द्रष्टा वृत्तिसारुप्येण[21] अभिव्यज्यते। अयमेव सृष्ट्यारम्भः। पुनः पुरुषार्थशुन्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरुपप्रतिष्ठा वा चितिशक्तेरिति[22] सूत्रेण सृष्टिक्रियायाः उपसंहारऽपि दर्शितः। अतः जीवनरहस्यमेव उद्धाटितमस्ति योगशास्त्रे। तथा योक्तं –

गृहीता निद्रियैरर्थानात्मने यः प्रयच्छति,

       अन्तः करणरुपाय तस्मै विश्वात्मने नमः [23]।।इति।।

एवं चित्तवृत्तिनिरोधान् व्याख्यातुकामेन सूत्रकारेण यस्य निरोधव्युत्थानयोर्मुक्तिबन्धौ तच्चित्तम्, इति व्याख्या[24] भागेन योगस्वरुपम् प्रपञ्चितम्।

चित्तवृत्तिरेवात्र वृत्तिपदेन प्रोक्ता। मानवस्य मनः वृत्तिसहस्त्राणां मूलम्। इन्द्रियार्थसन्निकर्षद्वारा चित्ते वृत्तिसहस्त्राणां प्रवाहः अनियन्त्रिताः दृश्यते। एताः वृत्तयः कदाचित् सुखरुपाः कदाचित् दुःखरुपाश्च। जपाकुसुमस्फटिकयोरिव बुद्धिपुरुषयोः सन्निधानात् अभेदग्रहे बुद्धिवृत्तीः समारोप्य शान्तोऽस्मि, दुःखितोऽस्मि, मूढोऽस्मि इति अध्यवसति। यथा – जलपूर्णे सरसि निर्मलः आकाशः प्रतिफलति। तस्मिन्नेव क्षिण्यमाणैः पाषाणैः निस्तरङ्गे जले अनुस्यूताः तरङ्गाः समुद्भवन्ति। तरङ्गात्तरङ्गः संजायते। एषा प्रक्रिया निस्तरम् अनुवर्तते। तस्मिन् जले प्रतिबिम्बोऽपि स्फुटतया यथास्वरुपं प्रतिभाति। तस्मात् यावत्तरङ्गाक्रान्तं जलं भवति। तावतपर्यन्तं प्रतिबिम्वोऽपि स्फुटतया स्वरुपतया च न प्रतिभाति। निस्तरङ्गे जले चन्द्रः प्रतिविम्बते। एवमेव पुरुषः शुद्धोऽपि वृत्तिसहिते चित्तेवृत्त्याकारेणैव संवेद्यते। यदा चित्तवृत्तिनां निरोधः सञ्जायते तदा पुरुषः स्वरुपेण प्रतिभाति।

        प्रख्याप्रवृत्तिस्थितिशीलत्वम् चित्तं त्रिगुणात्मकम्। तत्र चित्तसत्वं प्रख्यारुपं स्वभावेन। यदा चित्तस्त्वं क्षिणाभ्यां रजस्तोमभ्यां संसृष्टं भवति तदा ऐश्वर्यप्रियं भवति। चित्तस्य विक्षिप्तावस्था इयम् । यदा चित्तसत्वं तमोमात्रेणावृत्तं भवति तदा अधर्म – अज्ञान अवैराग्य – अनैश्वर्यरुपतां प्राप्नोति। विपर्ययाज्ञानरुपात्मकज्ञानं चित्तसत्वं निद्रावृत्तिम् उपगच्छति[25]। इयं हि मूढावस्था । तदेव चित्तसत्त्वं यदा परस्परसमाभ्यां स्वन्यूनाभ्यां रजस्तमोभ्याम् आवृत्तं भवति तदा अणिमाद्वैश्वर्यशब्दादिविषयप्रियं भवति। इयं क्षिप्तावस्था । यदा लेशतेऽपि रजस्तमोरहितं चित्तं भवति तदा संसारहेतुत्वादिदोशदर्शनात् स्वरुपप्रतिष्ठंसत्वपुरुषान्यताख्याति मात्रवृत्तिकं भवति। इयमेव बिवेकख्यातिः इत्युच्चते। अस्याः पराकाष्ठा धर्ममेद्यः समाधिः।  यदा चित्तसत्त्वं रजोलेशमात्रमलेनाप्यपेतं भवति तदा ध्यानप्रियं भवति। चित्तिशक्ति परिणामरहिता विषयदेशे प्रतिसङ्क्रमरहिता बिषयरहिता च। किन्तु दर्शितबिषया सत्वगुणात्मिका विवेकख्यातिः अस्यापेक्षया अधमा । अत तस्यां विवेकख्यातावपि बिरक्तं चितं तामपि निरोधयति। तदा चित्तं संस्कारविशेषमात्रं अवलम्ब्य तिष्ठति। इयं निरुद्धावस्था। इयम् अवस्था निर्बीजः समाधिः इत्याख्यायते ध्यानशीलैः। न तत्र किञ्चित् सम्प्रज्ञातासम्प्रज्ञाताभेदेन द्विधा भवति योगः ।

योगशब्दनिर्वचनम् –

          योगशब्दनिर्वचनं योगशास्त्रग्रन्थेषु बहुधा कृतमस्ति तत्र [26]योगश्चित्तवृत्तिनिरोधः इति प्रसिद्धं निर्वचनं भगवता पतञ्जलिना कृतम् । निरोधरुपो योगः अत्र उपदिष्टः । अनुमेवार्थं मनसि निधाय समग्रं योगशास्त्रं सूत्ररुपेण व्यरचयत् भगवान् पतञ्जलिः । युज – समाधौ इति धातुना निष्पन्नो योगशब्दः चित्तवृत्तिनिरोधरुपेण साध्ये असम्प्रज्ञातरुपसमाधौ प्रयुक्तः । गौणतया साधनरुपे अष्टाङ्गयोगे योगाङ्गरुपेण[27] प्रयुक्तः। अतः भाष्यकारः व्यासोऽपि योगः समाधिः[28] इत्येव अभिदधाति। एवमेव – संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः[29] इति याज्ञवल्केन संयोग एव योगः इति स्मारितम्। तथैव च – मनः प्रशमनोपायः योग इत्यभिधीयते [30] इति वसिष्ठः योगम् उपायरुपेण वर्णयति योगवसिष्ठे । कठोपनिषदि – तां योगमिति मन्यते स्थिरमिन्द्रियधारणम्[31] इत्युक्तम्। अत्र इन्द्रयसंयमस्य योगः इत्यर्थो दृश्यते। श्रिमद्भगवद्गीतायां योगशब्दस्य निर्वचनं बहुधा कृतम् । योगः कर्मसुकौशलम्[32] इति । अनेन साधनरुपे कर्मणि कुशलत्वं योगः इति सिद्ध्यति। किञ्च – समत्वं योग उच्यते[33] इति व्याहारेण सिद्ध्यसिद्ध्योः मनसः समाधानमेव योगः इति भगवता निरुपितम्। तेन वीतरागः सन् कर्मणि प्रसक्तिः, तेन कर्मसिद्धिरुपे फले मनसः अचञ्चलत्वं समत्वम्। अयमेव योग इति कथितं भवति । पुनः अन्यत्राध्याये उक्तम् दुःखसंयोगवियोगं योगसंज्ञितम् [34] इति। अनेन दुःखानां आत्यन्तिकनिवृत्तिरेव योग इति भगवद्ववचनं निरुक्तम् । योगः समाधिः, इति भाष्यकृताव्यासेन विवरणं दत्तम् । एवम् कुत्रचित् साधनरुपेण अन्यत्र साध्यरुपेणापि योगशब्दस्य प्रयोगो दृश्यते।

चित्तम्  – योगशास्त्रे चित्तशब्दः अन्तकरणार्थे अभिहितः[35]। अनुसन्धानात्मिका अन्तः करणप्रवृत्तिः चित्तम् इति वेदान्तविदः[36]। सांख्यशास्त्रे महदिति यत्प्रोक्तं तदेव चित्तशब्देनात्र व्यवह्रियते । चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः[37] (इत्यमरः) चित्तशब्दस्य पर्यायवाचकान् निरुपयति। चित्- संज्ञाने[38] इत्यस्माद्धातोः करणार्थे क्तप्रत्यये चित्तशब्दः सिद्ध्यति। चित्तस्य परिणामाः चित्तवृत्तयः। ते पञ्चप्रकाराः। क्लेशजनकाः क्लिष्टाः। अक्लेशजनकाः अक्लिष्टा इतिवृत्ति समुदाये द्वौ बिभागौ । तत्र धर्माधर्मरुपाः क्लिष्टः वृत्तयः। सत्वपुरुषान्यतायख्याति साधनबिषयाः अक्लिष्टः। तत्र वृत्ति विभागः पतञ्जलिना प्रमाणविपर्ययविकल्पनिद्रास्मृतयः[39] इति। चित्तवृत्तिनिरोधोपायौ तत्र अभ्यासस्तु तत्र स्थितौ यत्नोभ्यासः[40] इति पतञ्जलिः। स्थितिः अवृत्तिकस्य चित्तस्य प्रशान्तवाहिता । तत्सम्पादनार्थं यः प्रयत्नः स अभ्यासः इत्युच्यते ।

क्लेशाः –

[41]      क्लिश्यन्ते अनेन इति क्लेशाः क्लेशजनकाः क्लिष्टवृत्तयः. एते विपर्ययरुपा चित्तवृत्तयः एव । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः[42] इति पतञ्जलिः। अविद्या लक्षणं पतञ्जलिना सूत्ररुपेणोक्तम् – अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या[43] इति । अर्थात् अशुचौ शुचिख्यातिः यथा शरीरं पवित्रमिति । अस्मितालक्षणम् पतञ्जलिना निर्वाचितम् – दृक्दर्शनशक्योरेकात्मतैवास्मिता[44] इति अविद्यायाः कार्यमिदम् । पुरुषः दृक्शक्तिः । बुद्धिः दर्शनशक्तिः एतयोः धर्मतः रुपतश्च अनन्तमेकाकाराः बुद्धिः अस्मिता । (अहंकार इत्यर्थः) । भोगस्तु कीदृशः इत्यत्र पञ्चशिखाचार्याणां[45] – वचनं दृश्यते यथा -बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन्कुयत्तित्रात्मबुद्धिं मोहेन इति। सुखानुस्मृतिपूर्वकं दुःखे दुःखसाधनेषु अनभिलषितः योऽयं निन्दात्मकः क्रोधः स द्वेषः । अभिनिवेशस्तु पञ्चमक्लेशः ।

द्रष्टृ – योगशास्त्रेऽस्मिन् पुरुषः द्रष्टा इति व्यवहृतः । पुरुष स्वरुपम् भगवान् पतञ्जलिरेवम् अभिदधाति । द्रष्टा दृशिमात्रः शुद्धोपि प्रत्ययानुपश्यः[46] इति। एतादृशपुरुषं संयमाभ्यासेनापि साक्षात्कर्तुं शक्यते इति पतञ्जलिवचनं दृश्यते। तद्वथा- सत्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् [47]इति।

समाधिः – अभ्यासवैराग्याभ्यां निरुद्धे चित्ते बहिर्मुखपरिणतिविच्छेदम् अर्न्तमुखतया वृत्तिनां स्वकारणे यः लयः तस्य योगः समाधिरिति वा परिभाषा । सम् आङ् उपसर्गपूर्वक धाञ्[48] धातुना निष्पन्नः समाधि इति शब्दः ।  सम्यक् ज्ञायते अधियते इति वा इति फलितोऽर्थः ।

ईश्वरः – पुरुषविशेषरुपेण ईश्वरतत्त्वस्य अङ्गीकार एव योगशास्त्रस्य वैशिष्ट्यम्। अनेनैव कारणेन योगशास्त्रं सेश्वरसांख्यमिति प्रसिद्धम्। क्लेशकर्मविपाकाशयैः अपरामृष्ट पुरुषविशेषः ईश्वरः[49] इति भगवान् पतञ्जलिः अवोद्यत्। ईश्वनशीलत्वात्  ईश्वरः इच्छामात्रेम सकलजगदुद्धरणक्षमः ।

संङ्केताक्षरसूची –

या.स्मृ. – याज्ञवल्क्यस्मृतिः

कौ.उ. – कौषीतकी उपनिषद्

ब्र.सू.भा. – ब्रह्मसूत्रभाष्यम्

ऋ.वे. – ऋग्वेदसंहिता

वि.पु. – विष्णुपुराणम्

व्या.भा.- व्यासभाष्यम्

अ.को. – अमरकोषः

प.यो.– पतञ्जलियोगसूत्र

भा.द. – भारतीयदर्शनम्

म.प्र. – मणिप्रभा

श्री.भ.गी. – श्रीमद्भगवद्गीता

सन्दर्भग्रन्थाः –

1.अमरकोषः – श्रीमदमरसिंहः, सुधाव्याख्या, देहली, 2003।

2.पातञ्जलयोगदर्शनम् – महर्षि पतञ्जलिः, हिन्दी व्याख्या – स्वामी रामदेव – देव्यप्रकाशन, दिव्य योगमन्दिर, हरिद्वार, 2005।

3.भारतीयदर्शनम्- जयदेववेदालंकारः, सं. न्युभारतीयबुक् कोर्पोरेशन्, दिल्ली,2009।

4.श्रीमद्भगवद्गीता – गीताप्रेस्, गोरखपुरम्।

5.सर्वदर्शनसंग्रहः – श्रीमन्मध्वाचार्यः, आनन्दाश्रमः, 1950।

6. भारतीयदर्शनम् – डा. बलदेवानन्द उपाध्यायः।


[1] सि.कौ.धातुपाठः, शासु अनुशिष्टौ-728

[2]भा.द. उपोद्घातः,पृ.6

[3] सि.कौ.धातुपाठः, शासु अनुशिष्टौ-728

[4] पा.यो.सू.1-1

[5] पा.यो.सू.1-2-योगश्चित्तवृत्तिनिरोधः व्या.भा.यो.सू.1-2, योगः समाधिः

[6] ऋ.वे.1-2-29

[7] ऋ.वे.1-34-9

[8] ऋ.वे.7-54-3

[9] अ.को.काण्ड.3-3-179 – योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु

[10] सि.कौ.धातुपाठः 1538

[11] सि.कौ.धातुपाठः1254

[12] सि.कौ.धातुपाठः 1945

[13] सि.कौ.- षष्ठी स्थाने योगा

[14] व्याकरणशास्त्रे सूत्रविभागस्य योगविभागेति व्यवहारः प्रसिद्धः।

[15] बृ.जा.12-2

       रज्जुर्मुसलं नलं चराद्यैः सत्यस्त्वाश्रयजानिह योगान्।

       केन्द्रैः सदसद्युतैर्दलाख्यौ स्रक्सर्पौ कथितौ पराशरेण।।

[16] अर्कपुष्पयोगः – योगरत्नाकरः

[17] कौ.उ.1-2-2, प्रेयो मन्दो योगक्षेमाद्रृणीते

[18] श्री.म.गी.6-23, तं विद्यात् दुःखसंयोगवियोगं योगसंज्ञितम्

[19] योगक्षेम इति प्राणापानयोः – अन्नसूक्तम्

       प्राणापानौ नादबिन्दु मूलबन्धेन चैकताम्।

       गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः।।ह.प्र.1-22।

[20] तदा द्रष्टुः स्वरुपेऽवस्थानम् – पा.यो.सू.1-3

[21] वृत्तिसारूप्यमितरत्र – पा.यो.सू.1-2

[22] पा.यो.सू.4-34

[23] वि.पु.1-14.35

[24] म.प्र.पा.यो.सू.1-5

[25] सुषुप्तौ चित्तवृत्तिर्न भवतीति अन्ये अभिप्रयन्ति। पतञ्जलिस्तु सुषुप्तावपि चित्तवृत्तिः तमः अवलम्बते इति सिद्धान्तयति- पा.यो.।

[26] पा.यो.सू.1-2

[27] पा.यो.सू.2-,(यमनियमासनप्राणायामप्रत्याहारधारणध्यानसमाधयोऽष्टावङ्गानि)

[28] व्या.भा.1-1

[29] या.स्मृ.1-18

[30] यो.वा.

[31] कौ.उ.2-6-11

[32] श्री.भ.गी.2-50

[33] श्री.भ.गी.2-48

[34] श्री.भ.गी.6-23

[35]यो.वा.1-1, पा.यो.सू.

[36] वे.सा.सं.सू.68

[37] अ.को.1.4.55

[38] सि.कौ.धा.पा.39

[39] पा.यो.सू.1-6

[40] पा.यो.सू.1-13

[41] श्री.भ.गी.

[42] पा.यो.सू.2-4

[43] पा.यो.सू.2-5

[44] पा.यो.सू.2-6

[45] व्या.भा.।2-6 पा.यो.सू

       एषः पञ्चशिखाचार्यः आसुरिशिष्यः साङ्ख्यतत्त्ववेत्ता इति ज्ञायते।

[46] पा.यो.सू.2-20

[47] पा.यो.सू.3.35

[48] सि.कौ.धा.पा.1117, हु धाञ्- धारणपोषणयोः।

[49]  पा.यो.सू.1.14