विशिष्टाद्वैतमते अपर्यवसानवृत्त्या श्रुतिनिर्वाहः ।1

आचार्यः, पि.टि.जि. यतिराजसम्पत्कुमाराचार्यः,

न्यायाचार्यः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।

लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम्।

अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्रियःकान्तोऽनन्तो वरगुणगुणैकास्पदवपुः

हृताशेषावद्यः परमखपदो वाड्मनसयोः।

अभूमिर्भूमिर्यो नतजनदृशामादिपुरुषो

मनस्तत्पादाब्जे परिचरणसक्तं भवतु मे ॥

श्रीरङ्गमङ्गळमणिं करुणानिवासं

श्रीवेङ्कटाद्रिशिखरालयकालमेघम्।

श्रीहस्तिशैलशिखरोज्ज्वलपारिजातं

श्रीशं नमामि शिरसा यदुशैलदीपम्॥

विशिष्टाद्वैतसिद्धान्तसम्प्रदायः अनादिकालात् भगवता श्रीमन्नारायणेन प्रबोधितः सन्, अद्यतनकालस्य भगवन्नाथमुनिभिः, भगवद्यामुनमुनिभिः, भगवद्रामानुजमुनिभिश्च स्वीयग्रन्थैः उङ्कुरितः, प्रवर्धितः पुष्पितो पल्लवितश्च सर्वेषां वेदानुवर्तिनां विदुषां ज्ञानसम्पदं परिवर्धयति। वेदानामुपबृंहणसिद्धान्तनिरूपणावसरे इदानीन्तनकालस्य श्रीमन्नाथमुनीनां न्यायतत्त्वग्रन्थः, भगवद्यामुनाचार्याणां महापुरुषनिर्णयः, सिद्धित्रयम्, आगमप्रामाण्यम्, काश्मीरागमप्रामाण्यम्, गीतार्थसंग्रहः, श्री-श्रीशस्तुतियुगं कान्ताचतुःश्लोकी, स्तोत्ररत्नम् इत्येते नवग्रन्थाः सम्प्रदायप्रद्योजकाः वरीवर्तन्ते।

“भगवन्नाथमुनिभिर्न्यायतत्त्वसमाह्वया।

अवधीर्याक्षपादादीन् न्यबन्धि न्यायपद्धतिः॥”  (न्यायपरिशुद्धिः,  १-१-६, पु. १४),इति,,

“मानत्वं भगवन्मतस्य महतः पुंसस्तथा निर्णयः

तिस्रः सिद्धय आत्मसंविदखिलाधीशानतत्त्वाश्रयाः।

गीतार्थस्य च संग्रहः स्तुतियुगं श्रीश्रीशयोरित्यमून्

यद्ग्रन्थाननुसनदधे यतिपतिस्तं यामुनेयं नुमः॥” ( गीतार्थसंग्रहरक्षा) 

इति च वेदान्तदेशिकै­ प्रत्यपादि।

तदनुसारेण भगवद्रामानुजाचार्यैश्च नवरत्नरूपा नवग्रन्था अनुगृहीताः— वेदार्थसंग्रहः, वेदान्तसारः, श्रीभाष्यम्, भगवद्गीताभाष्यम्, वेदान्तदीपः, शरणागतिगद्य-श्रीरंगगद्य-श्रीवैकुण्ठगद्यरूपगद्यत्रयम्, नित्यग्रन्थः इति। अनेन नाथ-यामुन-रामानुजदर्शनेन वेदप्रामाण्यविषयकाः सर्वे वेदार्थनिर्णयविषयकाश्च संशयाः दूरीकुताः। आनन्तरिका विद्वांसः वेंकटनाथवेदान्ताचार्यादयः इममर्थं सम्यक् ग्रन्थस्थीचक्रुः।

 “दृष्टेऽपह्नुत्यभावात् अनुमितिविषये लाघवस्यानुरोधात्

शास्त्रेणैवावसेये विहतिविरहिते नास्तिकत्वप्रहाणात्।

नाथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैः

त्रातं सम्यग्यतीन्द्रैरिदमखिलतमःकर्शनं दर्शनं नः॥” (तत्त्वमुक्ताकलापः, 1-136)   इति।

तत्र किमिदं तत्त्वमस्य दर्शनस्येत्युक्ते, ”भोक्ता भोग्यं प्रेरितारं च मत्वा” इति गीतायामुक्तरीत्या त्रिविधं तत्त्वं विशिष्टाद्वैतिनः स्वीकुर्वन्ति— चेतनोऽचेतनम् ईश्वरश्चेति । भोक्ता – जीवः, भोग्यं – प्रकृतिः, प्रेरयिता – परमात्मा। परस्परवैलक्षण्यात् इदं तत्त्वत्रयमवश्याभ्युपगन्तव्यमेव।  एतानि त्रीण्यपि तत्त्वानि नित्यान्येव। तत्र प्रकृतिः अचेतना, जीवस्तु चेतनः।  चेतनो जीवः अचेतनात् प्रकृतेः स्वभावतो विलक्षणः। अचिद्वस्तुनः प्रकृतेः, स्वरूपतः स्वभावतश्च अत्यन्तं विलक्षणः तदात्मभूतः चेतनः प्रत्यगात्मा। त्रिविधचेतनात् बद्धात् मुक्तात् नित्याच्च सर्वज्ञत्व-सत्यसंकल्पत्व-सर्वशक्तित्वादिभिः निखिलहेयप्रत्यनीकतया कल्याणैकतानतया च सर्वावस्थ-चिदचिद्व्यापकतया धारकतया नियन्तृतया शेषितया च अत्यन्तविलक्षणः परमात्मा।

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

 क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥

यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥

इति च भगवतोक्तम्। जीवानां स्वस्वकर्मानुगुणं तं तं जीवं तत्तत्कर्मफलानुभवार्थं  तत्तच्छरीरप्रवेशरूपं जन्म, तत्तच्छरीरनिष्क्रमणरूपं मरणं च भगवान् प्रददाति।

भगवतो निरूपणमस्माकं शास्त्रे ”जन्माद्यस्य यतः”  इत्यादिरीत्या ”यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्तीति, तद्विजिज्ञासस्व, तद्ब्रह्मेति” इति श्रुत्या चेतनाचेतनसंघातस्य जगतः सृष्टि-स्थिति-संहारकत्वेन प्रतिपाद्यते। ”तज्जलानिति शान्त उपासीत”  इत्यादिश्रुत्या तज्जत्व-तल्लत्व-तदनत्वरूपेण भगवतः स्वरूपज्ञानं च निरूप्यते। एवं सदपि जन्मादीत्यादिशब्देन न केवलं स्थितिसंहारौ गृह्येते, तयोः साक्षादेव कथनात्। अपि तु  ”अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि”, ”अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा” इत्यादिश्रुत्यन्तरोक्ताः भगवत अन्ये धर्माः जीवान्तःप्रवेशः, तन्नियमनम्, तत्तन्नामरूपव्याकरणं  च भगवतो लक्षणत्वे प्रोक्ताः। परस्य ब्रह्मणः सर्वजगत्कारणत्वम्, कृत्स्नस्य चिदचिदात्मकप्रपञ्चस्य तत्कार्यत्वम्, कारणात् कार्यस्यानन्यत्वं चास्मिन् सिद्धान्ते श्रुत्यनुगुणं प्रतिपाद्यते,  “सर्वं खल्विदं ब्रह्म,  तज्जलानिति शान्त उपासीत”,  “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्”, “क्षेत्रज्ञं चापि मां विद्धि”, “तदनन्यत्वमारम्भणशब्दादिभ्यः”, इत्यादिभिः। ”बृहत्वात् बृंहणत्वाच्च ब्रह्मेत्यभिधीयते” इति स्वयं ब्रह्म बृहत् सत्, प्रळयकाले  चेतनाचेतनसमूहं सर्वं सूक्ष्मतया संगृह्य, स्वस्मिन् स्थापयति। तदा जीवप्रकृतिदर्शनं न भवति, परमात्मा एक एव स्थूलतया भवति। अतः श्रुतिर्वदति – “सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्” इति। पुनः सृष्टिकाले स्वस्मिन् सूक्ष्मतया वर्तमानं चेतनाचेतनसमूहं स्वस्मात् बहिः संस्थाप्य, नामानि रूपाणि च कृत्वा, स्वयं  तत्तदन्तःप्रविश्य, धारणनियमनादिकुर्वन्, अणुरूपी भवति। अत्र  नित्यात् ब्रह्मणो जायमानं जगदपि नित्यमेव।  कारणनित्यत्वे कर्यस्यापि नित्यत्वात्।  कार्यकारणयोः नित्यत्वम् अनन्यत्वं च  सदेव इत्यनेन इति श्रुत्या प्रतिपाद्यते। इदं जगत् अग्रे सदेवासीत् इति। सृष्टिकाले नामरूपविभागार्हत्वेन स्थूलतया वर्तमानमिदमेव जगत्, अग्रे – सृष्टेः पूर्वं प्रळयावस्थायां नामरूपविभागानर्हं सत् सूक्ष्मतया ब्रह्मणि वर्तते। सूक्ष्मचिदचिद्वस्तुशरीरः परमात्मा कारणम्, स एव परमात्मा स्थूलचिदचिद्वस्तुशरीरः कार्यमिति, कारणावस्थायां कार्यावस्थायां च चिदचिद्वस्तुशरीरकतया तत्प्रकारः परमात्मैव ”सर्वं खल्विदं ब्रह्म” इति सर्वशब्दवाच्यः इति, परमात्मशब्देन सर्वशब्दसामानाधिकरण्यं मुख्यमेव उपपाद्यते। सर्वात्मतया अनुप्रविश्य तत्तच्छरीरत्वेन सर्वप्रकारतया स एव परमात्मा सर्वशब्दवाच्यो भवतीत्ययमर्थः “बहु स्या”मिति बहुभवनसंकल्पोऽपि नामरूपविभागानर्ह सूक्ष्मचिदचिद्वस्तुशरीरकतया एकथावस्थितस्य विभक्तनामरूपचिदचिच्छरीरकतया बहुप्रकारताविषयः।

श्रुतिवाक्यसमन्वये दार्शनिकानां बहुत्र वैमत्यं दृश्यते। तत्र भेदवादिन्यः काश्चन श्रुतयः, अभेदवादिन्यश्च काश्चन श्रुतयः। ये ”द्वाविमौ पुरुषौ लोके” इत्यादिभेदवादिन्यः श्रुतयः स्वीकृत्य, जीवेश्वरतत्त्वद्वयाङ्गीकारेण द्वैतसिद्धान्तं वदन्ति, ते अद्वैतवाचकश्रुतीनां निर्वाहे गौणत्वं वदन्ति। ये चाद्वैतश्रुतिमाश्रित्य  जीवब्रह्मैकत्ववादिनः, ते द्वैतश्रुतीनां निर्वाहावसरे लक्षणामाश्रित्य स्वार्थकल्पनं कुर्वन्ति। एतावता किं सिद्धमित्युक्ते उभाभ्यामपि श्रुतेः लाक्षणिकत्वं भागशः स्वीकृतमेव। परन्तु वेदः सर्वात्मना प्रामाणिकः। यदा लक्षणा स्वीक्रियते, तदा मुख्यार्थत्यागः आवश्यकः। मुख्यार्थस्य बाधे सत्येव वाच्यार्थे कस्यचन भागस्य त्यागः, तत्सम्बन्धिनः अन्यस्य भागस्य स्वीकारः क्रियते। यथा ”गङ्गायां घोषः” इति। गङ्गाशब्दः प्रवाहपरः घोषाधिष्ठातृत्वेन ग्रहीतुमशक्यो भूत्वा प्रवाहसम्बद्धतीरबोधकरूपेण लक्षणया गृह्यते। तादृश एवात्र श्रुतौ नास्ति व्यवहारः।

यथा लौकिकाः व्यवहाराः लाक्षणिकाः अभ्युपगम्यन्ते, तथैव श्रुतावपि तत्त्वमस्यादीनां वाक्यानां लाक्षणिकव्यवहारो न कर्तव्यः, येन श्रुतेः भागश अप्रामाण्यं स्यात्।  भेदवादिनः अभेदवाचकश्रुतीनां वा, अभेदवादिनः भेदवाचकश्रुतीनां वा  वाच्यैकदेशबोधकत्वं स्वीकृत्य, वाच्यावशिष्टभागत्यागरूपवृत्तिं मा स्वीकुर्वन्तु। अतः सर्ववेदप्रामाण्यप्रतिपादनार्थम् अपर्यवसाना काचित् वृत्तिरभ्युपगन्तव्या। तत्र लोके पदार्थाः वृत्त्या तत्तत्पदबोध्याः स्वीक्रियन्ते। वृत्तिश्च शक्ति-लक्षणान्यतरा। केचन व्यञ्जनां तात्पर्यं च वृत्तित्वेन स्वीकुर्वन्ति। शक्तिर्नाम तत्तत्पदानां तदभिहितार्थबोधकत्वम्। गवादिपदानां गोबोधकत्वम्। गौरिति पदेन गोत्वविशिष्टा व्यक्तिर्बोध्यते। एवं गोपदस्य गवि पर्यावसानम्। इतः परं गोपदं गवातिरिक्तमर्थं वा, तदधिकमर्थं वा  न बोधयतीत्यर्थः। इयमेव पर्यवसन्ना वृत्तिरित्युच्यते।  इयं लौकिकी  स्थितिः। नोचेत्  पदेन पदार्थं बोद्धुं नैव शक्येत । परन्तु वेदे वृत्तिःतथा नास्ति। ”वेदैश्च सर्वैरहमेव वेद्यः” (भगवद्गीता) इति भगवता साक्षात् कण्ठत उपदिष्टम्। अतः वैदिकाः शब्दाः सर्वे अपि परमात्मानमेव बोधयन्ति इत्युक्ते परमात्मनः स्वरूपं प्रथमं ज्ञातव्यं भवति। 

जीवः ईश्वर इत्युभावपि आत्मशब्दवाच्यावेव। अतः आत्मशब्दः जीवेश्वरसाधारणतया श्रुतिप्रतिपन्नः।  ”आत्मा वारे द्रष्टव्यः, श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इत्यत्र आत्मशब्दः परमात्मपरः, न तु जीवपरः। ”एषोणुरात्मा चेतसा वेदितव्यः” इत्यत्र आत्मशब्दः जीवपरः, न तु परमात्मपरः।”नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन” इत्यादिषु परमात्मपर आत्मशब्दः।  इदानीम् ईश्वरस्य आत्मत्वं प्रथमं कथमुपपादितम् इति वक्तव्यम्। आत्मत्वं नाम आप्लु- व्याप्ताविति धातोः  आ समन्तात् व्याप्नोतीत्यात्मा। यः सर्वत्र व्याप्य भवति, स आत्मा। जीवः अणुस्वरूपोपि स्वधर्मभूतज्ञानेन देहे सर्वत्र व्याप्य भवति। यथा दीपः प्रकोष्टे एकदेशवर्त्यपि स्वधर्मेण आलोकेन प्रकोष्टे सर्वत्र व्याप्य भवति। अत एव पादे मे वेदना इत्यनुभवसमये एव शिरसि मे वेदना इत्यनुभवोपि भवेत्।  अतः जीवस्य आत्मशब्दवाच्यत्वम्। जीवस्येव परमात्मनोपि आत्मशब्दवाच्यत्वमुक्तं श्रुत्या।  जीवः आत्मा इत्युक्ते कस्य इति प्रश्ने, प्रकृतेः – पाञ्चभौतिकशरीरस्य इति वक्तव्यम्। एकस्य शरीरस्य एकः आत्मा। अपरस्य शरीरस्य स आत्मा न भवति इति परिमितिरस्ति।  शरीरे अचेतने आत्मा जीवः  प्रवश्य, तन्नियमयति, पालयति, पोषयति वर्धयतीत्यादिकं सर्वं करोति। चेतनाधिष्ठितमेव सर्वं शरीरं कार्यकरं भवति। चेतनस्य आत्मनो निर्गमने ”तमुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती”तिरीत्या  तदनतरं तच्छरीरं चैतन्यरहितं मृतशरीरमित्युच्यते। एतावत्पर्यन्तं वर्तमानमिदं चैतन्यं न शरीरकृतम्, किन्तु आत्मकृतमिति ज्ञायते। आत्मा शरीरे प्रविश्य, शररीरस्य चैतन्यं सम्पादयति। इदं तु प्रत्यक्षगम्यमेव । भगवतः अपरिच्छिन्नत्वेन प्रत्यक्षेणाग्रहणात् ईश्वरः आत्मा इति न गृह्यते। प्रमाणान्तरेण अप्राप्त एवार्थो शास्त्रेण बोध्यते। ”अप्राप्ते हि शास्त्रमर्थवत् ” इति न्यायात्। परमात्मन आत्मत्वम् इति।  ईश्वरोस्तीत्यत्र वा, ईश्वरोस्मिन् शरीरे अस्तीत्यत्र वा श्रुतिरेव प्रमाणम्। तत्र श्रुतिर्वदति —  ”अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा” इति। सर्वेषां जीवानाम् ईश्वरः अन्तःप्रविष्टो वर्तते इति। बहुभवनसङ्कल्पादिकं, नामरूपव्याकरणादिकं च भगवतो निरुक्तम् – ”अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” इति।  भगवतः जीवान्तःप्रवेशात् पूर्वं जीवस्य नाम नास्ति, रूपं च नास्ति। विभागे अगृहीतेपि जीवो वर्तत एव। ”बहु स्यां प्रजायेय” इति बहुभवनसङ्कल्वेन जगत्सिसृक्षया भगवान्  स्वस्मिन् सूक्ष्मतया वर्तमानचेतनाचेतनसङ्धातं बहिःसंस्थाप्य, तत्तदन्तः आत्मतया प्रविश्य सृजति। ततः पूर्वं प्रळयदशायां ”सदेव सोम्य इदमग्र आसीत् एकमेवाद्वितीयम् ब्रह्म।” इति सत्पदवाच्यं ब्रह्म एकमेवास्तीत्युक्ते, तदतिरिक्ततया जगन्नास्तीति नार्थः। चेतनाचेतनसमूहरूपं जगत् प्रळयदशायां नामरूपविभागार्हतया स्थूलतया नास्तीत्यर्थः। अपि तु सूक्ष्मतया नामरूपविभागानर्हतया ब्रह्मण्येवास्त्येव। परं तु पृथक् न गृह्यते।

तत्र एकमेवाद्वितीयं ब्रह्मेत्युक्ते अद्वितीयपदस्य न सजातीय-विजातीय-स्वगतभेदरहितमित्यर्थो न सङ्गच्छते। यतः ब्रह्मण एकत्वात् ब्रह्मणि जातिर्नास्तीति कृत्वा सजातीयत्वं विजातीयत्वं तद्रहितत्वं वा ब्रह्मणि न भवति। तथापि अविद्यया ब्रह्मणि सुरनरतिर्यक्स्थावरजङ्गमादिभेदरूपप्रपञ्चदर्शनाङ्गीकारात् स्वगतभेदराहित्यमपि न संभवति। अतः अद्वितीयपदं निस्समाभ्यधिकत्वरूपं वक्तव्यम्। ब्रह्मसमं वा, ब्रह्मण अधिकं वा किमपि वस्तु नास्तीत्येव। तावता ब्रह्मव्यतिरिक्तं जीवसमूहं वा अचेतनसमूहं वा नास्तीति नार्थः। एकस्मिन् देशे एक एव महाराजो  वर्तत इत्युक्ते तत्र  अन्ये राजानो वा, राणी वा,  मन्त्रिणो वा,  प्रजा वा न वर्तन्ते  इति नार्थः। अपि त महाराजसमो वा, तदधिको वा अन्यो राजा नास्तीत्येवार्थः। ब्रह्माद्वितीयमित्युक्ते निस्समाभ्यधिकमित्येवार्थः। ”न तत्समश्चाभ्यधिकश्च दृश्यते”,  ”न त्वत्समोभ्यधिकः कुतोन्यो लोकत्रयोप्यप्रतिमप्रभाव”  इत्येवं श्रुतिस्मृतिभ्यां तथैव प्रतिपादनात्।

इदमिति सकलचेतनाचेतनसमूहरूपं जगत् उद्दिश्यते, तस्य  सदेव इत्यनेन सत्कार्यवादः, जगतो ब्रह्मकार्यत्वं, कार्यकारणयोरनन्यत्वं च प्रतिपाद्यते।  एकमेव इति जगतो ब्रह्मव्यतिरिक्तकारणान्तररहितत्वं, ब्रह्मणो जगदभिन्ननिमित्तोपादानत्वरूपसर्वविधकारणत्वं च निरूप्यते। अद्वितीयमित्यनेन ब्रह्मणो समाभ्यधिकरहितत्वमुच्यते। किं च एकमेवेति निर्धारणीयं किमस्ति। द्वितीयस्य ब्रह्मणो अभावात्। प्रसक्तस्यैव खलु निषेधो भवितुमर्हति। न तु अप्रसक्तस्य इति चेत्, ब्रह्मणो जगत्सृष्टिप्रळयरूपकालभेदेन रूपभेदो दृश्यते। श्रुतिश्च प्रतिपादयति – ”अणोरणीयान् महतो महीयान्” इति। ब्रह्मणः परिमाणं  किमित्युक्ते अणुरपि भवति, बृहदपि भवतीति।  परस्परविरुद्धं अणुत्व-बृहत्त्वरूपमेकस्मिन्नेव कथं घटते इति प्रश्ने, कालभेदेन अवस्थाभेदेन च भवति। सृष्टिकाले जगत् स्थूलावस्थायां, प्रळयकाले सूक्ष्मावस्थायां च वर्तते। प्रळये परमात्मा सर्वं जगत् नामरूपविभागरहितं कृत्वा स्वस्मिन् स्थापयित्वा सर्वस्यापेक्षया बृहत्त्वेन दृश्यते। तदा स एक एवासीत्। सृष्टिकाले स्वस्मिन् सूक्ष्मतया नामरूपविभागानर्हतया च संस्थापितं सर्वं चेतनाचेतनसंमूहं स्वस्मात् बहिः संस्थाप्य, तस्य नामानि रूपाणि च यथापूर्वं कल्पयित्वा, तत्तदन्तः स्वयं प्रविश्य, तदात्मतया अवतिष्ठते। अणुपरिमाणस्य जीवस्याप्यन्तःप्रवेशाय स्वयमणोरप्यल्पपरिमाणत्वेन अणीयान् इति कीर्त्यते। तदेव बृहत्वं बृंहणत्वमिति उभयविधं ब्रह्मलक्षणम्। एवं कालभेदेन अवस्थाभेदेन च भिन्नतया वर्तमानं ब्रह्म उभय़ं वा इति संशयनिवारणार्थं श्रुतिः एकमेवेति निरूपयति। तदेवानन्तरं बहुभवनसङ्कल्प-नामरूपव्याकरण-जीवान्तःप्रवेशादि ब्रह्मणः प्रतिपाद्यते। ”बहु स्यां प्रजायेय”, ”अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि”, ”अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा” इत्यादिना । अन्ततो ब्रह्मणः चेतनाचेतनानामात्मत्वं, चेतनाचेतनसमूहस्य जगतः ब्रह्मशरीरत्वमिति शरीरशरीरिभावः जगद्ब्रह्मणोः श्रुत्या प्रत्यपादि।

”सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ऐतदात्म्यमिदं सर्वम्, तत्सत्यम्, स आत्मा, तत्त्वमसि श्वेतकेतो!”, इति श्रुत्या जगद्ब्रह्मणोः शरीरशरीरिभावेन सह शरीरिणो ब्रह्मणः सर्व शरीरशब्दवाच्यत्वमपि प्रतिपादितम्। “ऐतदात्म्यमिदं सर्वम्” इति चेतनाचेतनप्रपञ्चम् इदं सर्वमिति निर्दिश्य, तस्य प्रपञ्चस्य एष आत्मा इति प्रतिपादितः। प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं प्रतिपादितमित्यर्थः। शरीरात्मभावेन च तदात्मकत्वं श्रुत्यन्तरात् विशेषतोऽवगतम् – “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा” इति । प्रशासितृत्वरूपात्मत्वेन सर्वेषां जनानाम् अन्तः प्रविष्टः, अतः सर्वात्मा – सर्वेषां जनानामात्मा, सर्वं चास्य शरीरम् इति विशेषतो ज्ञायते ब्रह्मात्मकत्वम्। “य आत्मनि तिष्ठन् आत्मनोऽन्तरो य मात्मा न वेद, यस्यात्मा शरीरम्, य आत्मानमन्तरो यमयति, स त आत्मा अन्तर्याम्यमृतः” इत्यत्रापि अनेन जीवेनात्मना इति इदमेव ज्ञायत इत्युक्तम्।

अयमेवार्थो वेदार्थसंग्रह-वेदान्तदीपादिग्रन्थेष भगवद्रामानुजाचार्यैः सम्यङ्न्यरूपि। ”सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात् सर्वशरीरं सर्वप्रकारं सर्वशब्दैः ब्रह्मैवाभिधीयते इति, तत् त्वम् इति सामानाधिकरण्येन जीवशरीरतया जीवप्रकारं ब्रह्मैवाभिहितम्। एवमभिहिते सति अयमर्थो ज्ञायते – त्वम् इति यः पूर्वं देहस्य अधिष्ठातृतया प्रतीतः, सः परमात्मशरीरतया परमात्मप्रकारभूतः, परमात्मपर्यन्तः, अतः त्वम् इति शब्दः तत्प्रकारविशिष्टं तदन्तर्यामिणमेवाचष्टे इति। “अनेन जीवेन आत्मनानुप्रविश्य नामरूपे व्याकरवाणि” इति ब्रह्मात्मकतयैव जीवस्य शरीरिणः स्वनामभाक्त्वात्, तत् त्वम् इति समानाधिकरणप्रवृत्तयोः द्वयोरपि पदयोः ब्रह्मैव वाच्यम्। तत्र तत्पदं जगत्कारणभूतं सर्वकल्याणगुणाकरं निरवद्यं निर्विकारमाचष्टे। त्वमिति च तदेव ब्रह्म जीवान्तर्यामिरूपं सशरीरजीवप्रकारविशिष्टमाचष्टे। तदेवं प्रवृत्तिनिमित्तभेदेन एकस्मिन् ब्रह्मण्येव तत् त्वम् इति द्वयोः पदयोः वृत्तिरुक्ता। ब्रह्मणो निरवद्यत्वं निर्विकारत्वं सर्वकल्याणगुणाकरत्वं जगत्कारणत्वं च अबाधितम्।

अश्रुतवेदान्ताः पुरुषाः, “सर्वे पदार्थाः सर्वे जीवात्मानश्च ब्रह्मात्मकाः” इति न पश्यन्ति। सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु वाच्यैकदेशेषु वाच्यपर्यवसानं मन्यन्ते। ब्रह्मकार्यतया तदन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं, सर्वशब्दानां तत्तत्प्रकारसंस्थितब्रह्मवाचित्वं च वेदान्तवाक्यश्रवणेन जानन्ति।

नन्वेवं गवादिशब्दानां तत्तत्पदार्थवाचितया व्युत्पत्तिर्बाधिता स्यात्। नैवम्। सर्वे शब्दाऽ अचिज्जीवविशिष्टपरमात्मनो वाचकाः इत्युक्तं ”नामरूपे व्याकरवाणि” इत्यत्र। तत्र लौकिकास्तु पुरुषाः शब्दं व्यवहरन्तः, शब्दवाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्यपरिच्छेद्यत्वात्, वाच्यैकदेशभूते वाच्यसमाप्तिं मन्यन्ते। वेदान्तश्रवणेन हि व्युत्पत्तिः पूर्यते। एवमेव वैदिकाः शब्दाः सर्वे परमात्मपर्यन्तान् स्वार्थान् बोधयन्ति। वैदिका एव सर्वे शब्दाः। आदौ वेदादेव उद्धृत्य उद्धृत्य, परेणैव ब्रह्मणा सर्वपदार्थान् पूर्ववत् सृष्ट्वा, तेषु परमात्मपर्यन्तेषु पूर्ववत् नामतया प्रयुक्ताः। तदाह मनुः —

सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।

वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे॥

नामरूपं च भूतानां कृत्यानां च प्रपंचनम्।

वेदशब्देभ्य एवादौ देवीदीनां चकार सः।।

श्रुतिश्च — सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्।”  इत्येवमादिना।

श्रियः कान्ताय कल्याणनिधये निधयेर्थिनाम् ।

श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गळम्।।


[1]  This paper is presented in the Samskrita Vidvadgoshti, conducted by Sri Svaminarayana Mandir, Bhuj, Gujrat, during “Sri Nara-Narayanadeva-dvisatabdi-mahotsava”, on 19-3-23.