संस्कृतशिक्षणे पारम्परिकाधुनिकशिक्षणविधयः
प्रो. रजनीकान्तशुक्लः, शिक्षासङ्कायः
राष्ट्रियसंस्कृतविद्यापीठम्
(मानितविश्वविद्यालयः)
तिरुपतिः
संस्कृतिमाश्रित्य संस्कृतं प्रवर्तते। अस्य शिक्षणे कालानुरूपं नूतनविधीनां प्रयोगः करणीयः । वस्तुतः पुरातनज्ञानस्योपरि नूतनज्ञानं तिष्ठति । एवमेव संस्कृतशिक्षणस्य प्राचीनविधयः एव नूतनविधीनामाधारः । एतेषां प्रयोगः कक्षाकक्षे छात्राणां कृते सरलरीत्या ज्ञानसम्पादनार्थमावश्यकमनुभूयते । नूतनता सर्वदा प्रयोगे भवति, शिक्षणे तिष्ठति, पाठप्रस्तुतीकरणे च दृश्यते। अतएव अधोलिखितरूपेण संस्कृतशिक्षणविधीनां सन्दर्भे विमर्शः करणीयः-
संस्कृतशिक्षणस्य पारम्परिकविधयः- संस्कृतशिक्षणस्य पारम्परिकविधिषु निम्नोक्तविधीनां परिगण्यन्ते –
१. पाठशालाविधिः– अयं विधिः संस्कृतशिक्षणस्य पारम्परिक विधिषु अन्तर्भवति ।पण्डितप्रणाली, सूत्रपद्धतिः, प्रक्रियापद्धतिश्य अस्य विधेः पर्यायपदानि सन्ति । अस्माकं प्राचीनशिक्षणप्रणाल्याः प्रतिनिधिभूतः अयं विधिः । वैदिककालादारभ्य साम्प्रतिके कालेऽपि अयं विधिः प्रवर्तते। १७ अब्दे अस्य विधेः प्राधान्यमासीत्। तदानीन्तनकाले अयं विधिः बहुषु पाठशालासु, आश्रमेषु, मठेषु, गुरुकुलेषु च प्रवर्तते स्म । वर्तमानकाले लार्डमैकाले महोदयानाम् उक्त्यनुसारं संस्कृताध्ययने हानिर्जाता। सर्वकारेणापि अस्मिन् सन्दर्भे अधिकं बलं न दीयते । व्याकरणन्याय्यादीनां शास्त्राणां अध्ययनाध्यापने विधिरयं प्राचीनकाले प्रयुक्ता आसीत्। अद्यत्वे अपि येषु विद्यापीठेषु संस्कृतस्य परम्परारीत्या अध्ययनं प्रचलति, तत्रापि अयं विधिः शिक्षणावसरे प्रयुज्यते ।
२. व्याकरणानुवादविधिः अस्य विधेः अपरं नाम भवति भण्डारकरविधिः । पाठशालाप्रणाली यथा भारतीयपरम्परामनुसरति तथा अयं विधिः भारतीयपरम्परां नानुसरति इति समीक्षकाणां मतमस्ति । बहवः विद्वांसः अङ्गीकुर्वन्ति यत् अयं विधिः पाश्चात्यविदुषैः प्रयुक्तः वर्तते। परं व्याकरणानुवादविधिरूपेण अस्य प्रचलनमासीत् । अस्य विधेः प्रमुखोद्देश्येषु संस्कृतभाषायाः’सरलीकृतरीत्या प्रस्तुतीकरणम्, सरलव्याकरणनियमानां प्रकटीकरणम्, क्लिष्टनियमानां परित्यागः, छात्राणामवबोधनशक्तेः जागरणम्, व्याकरणानुवादमाध्यमेन संस्कृताध्यापनम् एतानि प्रमुखोद्देश्यानि अङ्गीक्रियन्ते । अस्य विधेः न्यूनता इयमस्ति यत् अत्र मौखिककार्ये, उच्चारणे शुद्धगद्यपठने च अधिकं बलं नैव दीयते’ ।
३. पाठ्यपुस्तकविधिः- विद्यालयपरिवेशे द्वितीयभाषाशिक्षणे अस्य विधेः महत् योगदानं भवति। भाषाध्यापने बहवः शिक्षाशास्त्रिणः अस्य विधेः समर्थने रताः सन्ति । भारतदेशे वैस्टमहोदयाः अस्य प्रबलसमर्थनकर्तृषु अन्यतमः भवति । अनेन विधिना छात्रेषु भाषासंरचनायाः प्रभावाः अङ्गीक्रियन्ते । विद्यालयत्यागसमयेऽपि ते अनेन विधिना पठितान् भाषांशान् नैव विस्मरन्ति । चतुर्षु भाषाकौशलेषु अस्मिन् विधौ पठने (पठनकौशले) अधिकं बलं दीयते। अनेन व्याकरणनियमाः विस्मर्यन्ते। केवलं वाचनस्य एव प्राधान्यता स्वीक्रियते । एवं रीत्या उच्चारणे दोषाः भवन्ति ।
संस्कृतशिक्षणस्य नूतनविधिषु निम्नोक्ताः विधयः सन्ति-
१. निर्बाधविधिः (Direct Method)–आंग्लभाषायाः शिक्षणार्थं बहुकालात्पूर्वं निर्बाधविधेः महत्त्वं स्वीकृतमस्ति । भण्डारकरविधिः पाठ्यपुस्तकविधिः च द्वयोः स्थाने अस्य प्रयोगः भवति । आदौ अयं विधिः बम्बईमध्ये अल्फिनस्टोन इति विद्यालये प्रो. बी. वी. बोकिलमहाशयेन संस्कृतपाठनावसरे प्रयुक्तः । तेन प्रारम्भिकस्तरे अस्य प्रयोगः सुष्ठु इति अनुभूतम् । अस्य परिष्कृतस्वरूपे मौखिकविधेः प्रयोगः भवति । निर्बाधविधेः बहवः आलोधकाः एनं शिक्षणकार्ये नाङ्गीकुर्वन्ति । अस्य प्रमुखोद्देश्यं विना मातृभाषां संस्कृताध्ययनं भवति ।
२. मौखिकविधिः (Oral Method)–अनेन विधिना शिक्षणस्य प्रक्रमे मौखिककार्येषु अधिकं बलं दीयते । अध्ययनकाले छात्राः सस्वरवाचने विषयसम्प्रेषणे च नैपुण्यं प्राप्नुवन्ति । छात्राणां वाचनक्षमतायाः विकासः अनेन विधिना सहजतया भवति। परं मनोवैज्ञानिकरीत्या न केवलं वाचनशक्तेः विकासः एव शिक्षणकार्ये करणीया अपितु लेखनकौशलस्य (Writing skills) अपि प्रतिभा आवश्यकी । विधिरयं अभिव्यक्तिकौशलसम्पादने छात्रमुपकरोति । एतेन भावप्रकाशनस्य अवसरः स्वातन्त्र्येण लभ्यते। मातृभाषायां छात्राः स्वविचारान् प्रकटने सारल्यमनुभवन्ति। शिक्षाविशारदानांमतमस्ति यत् आधुनिककाले शिक्षाव्यवस्थायां यत्र मौखिकविचाराणां कृते स्थानं नैव दीयते तत्रायं विधिः अतीवोपयुक्ता भवति ।
३. संरचनात्मकोपागमः (Structural Method)-संस्कृतशिक्षणे संरचनात्मकोपागमस्य महत्त्वं बहुषु पक्षेषु विद्यते । शिक्षणकाले शिक्षकः यदा स्वपाठं प्रति प्रवर्तते, तस्मिन् काले भाषायाः, संरचनात्मकव्यवस्थायाः सन्दर्भे छात्राः प्रबोधनीयाः । विविध-गद्य-पद्यादिषु व्याकरणांशानां परिचयप्रदाने अयं विधिः उपयुक्तः। अस्मिन् प्रसङ्गे विभिन्नपदानां शब्दानां वा रचनात्मकज्ञानं छात्राणां कृते कार्यते। भाषाया: प्रारम्भिकस्तरविषये ज्ञापनार्थमस्य प्रयोगः कर्तुं शक्यते । अनेन छात्राणां निश्चयेनैव भाषाज्ञानं प्रवर्धते । ते सन्धि- समास- प्रत्ययादीनां प्रयोगे अवगमने च प्रबुद्धाः सञ्जायन्ते । अस्य विधेः न्यूनतेयमस्ति यत् अस्मिन् केवलं रचनात्मकज्ञानस्योपरि एव अधिकं बलं दीयते, मौखिकाभिव्यक्त्यर्थं प्रायशः अवकाश: नैव कल्प्यते। अतएव मनोवैज्ञानिकरीत्या अपवादाः अस्मिन् विधौ दृश्यन्ते ।
४. नियोजिताध्ययनम् (Programmed Learning)-अध्यापनकाले शिक्षणप्रक्रियायां वा शिक्षकछात्रयोर्मध्ये अन्तःक्रियायाः आवश्यकता अनुभूयते । अनेन सुनियोजितरीत्या शिक्षणकर्म प्रचलति । यदि अन्तःक्रियाः उपयुक्तरूपेण न भवन्ति तर्हि शिक्षकेण पाठनावसरे कक्षाकक्षे साफल्यं नैव प्राप्यते । कक्षायां छात्रसंख्यायाः आधिक्यमपि नियोजिताध्ययने बाधां प्रकटीकरोति । एतेन विधिना लघु- लघु- अंशाः छात्राणां कृते प्रस्तूय क्लिष्टतरं विषयमपि सरलं सुग्राह्यं वा कर्तुं शक्यते। विधिरयं छात्राणां योग्यताक्षमतादिषु आत्ममूल्याङ्कनस्य अवसरं प्रददाति। अत्र पुष्टि- प्रतिपुष्टि द्वारा पाठ्यांशाः बोधनीयाः भवन्ति परमस्मिन्दोषोऽयं विद्यते यत् छात्रेषु वैयक्तिकवैभिन्यस्य कारणं प्रबलं भवति। अतएव सर्वेषु तीव्रगत्या बोधः नैव जायते। अथापि अयं शिक्षणस्य एकोत्कृष्टा प्रविधिः उच्यते ।
५. टीकाविधिः– व्याकरणसाहित्यादिषु शास्त्रेषु, एतेषां प्रसङ्गे वा अध्यापनसमये टीकाविधेः प्रयोगः कर्तुं शक्यते । बहूनां टीकाग्रन्थानां टीकाः अद्यत्वे उपलभ्यन्ते। टीकाविधिना शिक्षणकार्ये विविधसन्धि-समासादीनां व्युत्पत्तियुक्तक्लिष्टपदानां च सरलीकरणं कृत्वा छात्राणां कृते बोध्यते । कुत्रचित् टीकाकाराणां पाण्डित्यप्रदर्शनभावेन टीका क्लिष्टतरा अनवगम्या च भाति परंतादृशीटीका अनुपयुक्ता भवति । या टीकाविधिः सरलसंस्कृतसरणिमनुसरति स एव विधिः अध्यापनकाले प्रयोक्तव्यः। अनेन विधिना पाठनेन छात्राः संस्कृतभाषया प्रवाहरूपेण वक्तुं शक्नुवन्ति छात्राणां व्यवहारे अपि संस्कृतं प्रति रुचि जागृता भवति।
६. आगमननिगमनविधिः (Deductive & Inductive Method)–व्याकरणशिक्षणे अस्य विधेः महती उपादेयता विद्यते। व्याकरणस्य प्रमुखं लक्ष्यमेव शब्दज्ञानस्य परिचयः विविधध्वनितत्त्वानाञ्च ज्ञापनं भवति । अस्मिन् सन्दर्भे आगमननिगमनविधेः वैशिष्ट्यां सर्वैरङ्गीक्रियते। अनेन विधिना निगमनमार्गे आदौ नियमाः उच्यन्ते, तदनन्तरं नियमानां विविधोदाहरणानुसारं पुष्टिः क्रियते। अर्थात् सिद्धान्तरीत्या व्यवहारे प्रयोगकरणमेव निगमनसरणेः प्रधानमुद्देश्यं भवति । अयं सामान्यात् विशेषं प्रति इति सिद्धान्तं परिपालयति । यथा-‘सह, सार्क सार्धञ्च इति योगे तृतीया विभक्तिः विद्यते, तथैव प्रयोगरूपेण ‘रामेण सह सीता वनं अगच्छत्’ इति उदाह्रियते। अपरस्मिन् कोणे आगमनप्रणाल्यां पूर्वोदाहरणानि प्रस्तूय तदनन्तरं नियमानां कथनं क्रियते । व्याकरणशिक्षणस्य संस्कृते अयं प्रणाली अतीवोत्कृष्टा मन्यते शिक्षाविशारदैः ।
७. संश्लेषण- विश्लेषणविधिः – विधिरयं ‘पूर्णात् अंशं प्रति’ इति शिक्षणसूत्रम् अनुसरति । संस्कृतपाठनावसरे विविधांशानां विश्लेषणं संश्लेषणञ्च कृत्वा छात्राः बोधनीयाः भवन्ति- अयमेव अस्य विधेः अभिप्रायः भवति । यथा- सन्धिविच्छेदः समासविग्रहः पदानां व्युत्पत्यादयः अंशानां शिक्षणे अयं उपयुक्तः विधिः मन्यते। एवमेव मातृभाषायां बहुनि पदानि भवन्ति तेषां संस्कृतानुवादकाले अस्योपादेयत्वं प्रतीयते । अत्र रीतिद्वयं परिपालनीय भवति, एकं तु पदानां पृथक्करणम् अन्यच्च पदानां संयोजनम् (संश्लेषणमिति) सर्वस्मिन् सर्वविधःवा शिक्षणकार्ये अयं विधिः उपयुक्तः न भवति । तथापि आधुनिकशिक्षणविधीषु अस्य बहु महत्त्वं प्राधान्येनाङ्गीक्रियते ।
८. दण्डान्वयखण्डान्वयविधिः– काव्यशिक्षणे प्रयुज्यते विधिरयम् । पद्यानां अध्यापनकालेश्लोकस्यार्थमवबोधनार्थं श्लोकस्यमुख्यवाक्यस्य अन्वेषणं तदनुसारञ्च क्रमशः कर्ता- कर्म- क्रियादीनां संयोजनं यत्र क्रियते तदेव दण्डान्वयः भवति। संस्कृतकविताशिक्षणे अन्वयस्य अधिकं महत्त्वं वर्तते । अन्वयेन श्लोकस्थ- भावावगमने छात्रैः सारल्यमनुभूयते ।
अन्वयप्रबोधानुसारम् अन्वयस्य रूपद्वयं विद्यते ‘दण्डवत् खण्डवच्चैव द्विभेदोऽन्ययोच्यते।’ अस्मिन् सन्दर्भे दण्डान्वयस्य परिभाषा ‘आद्ये विशेषं योज्य विशेष्यं तदनन्तरम् । क्त्वा-ण्मुल्- प्रभृत्येवं पूर्वं दण्डान्वये भवेत्’ इति । दण्डान्वये प्रधानवाक्यस्योपरि बलं दीयते। अपि च वाक्यान्चेषणे विभक्ति- प्रत्ययादीनामपि ज्ञानमपेक्ष्यते । अनेन प्रकारेण दण्डान्वयविधिः प्राथमिकस्तरीयाणां छात्राणां कृते अपि उपयुक्तः भवति परमस्मिन् विधौ प्रश्नकरणं कदाचित् अरुचिकरं प्रतीयते, यतो हि सर्वेऽपि प्रश्नाः प्रायशः नीरसतां जनयति । व्याकरणसम्बद्धप्रश्नाः यदा क्रियन्ते तर्हि पद्यानां रसानुभूतिप्रसङ्गे विरसता जायते। शिक्षायाः उच्चस्तरे नायं समीचीनः विधिः एवमेव खण्डान्वयविधि माध्यमेनापि आदौप्रधानवाक्यस्य गवेषणं क्रियते । अन्वयप्रबोधे खण्डान्वयस्य प्रसङ्गे परिभाषा उक्ता अस्ति –
कर्तृकर्मक्रियास्तावच्छ्लोके योज्यास्ततः परम्।
किमो रूपं पुरस्कृत्य तृतीयादि नियोजयेत् ।।
ल्यबन्तं चतुमन्तञ्च क्त्वान्तं कर्मविभूषितम् ।
खण्डान्वये पुनः प्रश्नपूर्वमन्ते प्रयोजयेत्।।
खण्डान्चयविधेः वैशिष्ट्यमिदमस्ति यत् अस्मिन् पाठ्यविभागमधिकृत्य प्रश्नाः क्रियन्ते। इमे प्रश्नाः व्याकरणसम्बद्धाः नैव भवन्ति परं साहित्यशास्त्रसम्बद्धाः भवन्ति । अस्य विधेः अपरं नाम ‘प्रश्नोत्तर प्रणाली’ इति उच्यते। खण्डान्ययविधिः प्राधान्येन कविताशिक्षणे प्रयोक्तुं सुष्ठुविधिः वर्तते। अनेन श्लोकस्थसूक्ष्मभावानां ग्रहणे सारल्यमनुभूयते। छात्राः अपि काव्यसौन्दर्यस्य रसास्वादने रताः भवन्ति ।
९. प्रयोगविधिः- विधावस्मिन् व्याकरणांशानामध्यापने साहाय्यं प्राप्यते । व्याकरणशिक्षणकाले शिक्षकः विविधवाक्यानां, सन्धीनां, समासानां उपसर्गप्रत्ययादीनाञ्च स्वरूपं सोदाहरणं छात्राणां पुरतः प्रकटीकरोति । तदनुगुणं छात्राः वाक्यसंरचनां कर्तुं प्रदत्तोदाहरणानामनुसारं प्रयोगरीत्या विविधांशानां प्रायशः अभ्यासकार्ये रताः भवन्ति। छात्रैः कृताः प्रयोगाः शिक्षकेण आलोच्यन्ते । तदनन्तरं दिशानिर्देशनकार्यं संशोधनञ्च गम्भीरतया क्रियते, नोचेत् उदाहरणं दृष्ट्वा छात्राः स्वप्रयोगं पश्यन्ति यत् तत्प्रयोगं समीचीनमस्ति न वा । उच्चस्तरीयाणां छात्राणां कृते अयं विधिः उपयोगाय नैव भवति ।
१०. अनुवादविधिः (Translation Method)-अनुवादविधिसन्दर्भे शिक्षाविशारदानां मतेषु प्रायः वैषम्यं लक्ष्यते। वस्तुतः मातृभाषातिरिच्य यदा इतरभाषायाः अध्ययनं कर्तुमिच्छामः तदा अनुवादविधेः आवश्यकता प्रतीयते। केचन विद्वांसः प्रवदन्ति यत् कस्यामपि भाषायामस्य विधेः प्रयोगः अनावश्यकः भाति। परं सत्यमिदमप्यस्ति यत् बालकः यत्किमपि पठति तत्सर्वं यदि मातृभाषायामेव भवति तर्हि तस्य कृते ज्ञानार्जनं सुकरं सुग्राह्यञ्च अनुभूयते अनेन विषयग्रहणमपि सरलतया भवति। अतएव अस्मिन् विधौ यदा शिक्षणकार्यं प्रवर्तते तदानीं संस्कृतभाषायाः पदानां सूक्तीनां विविधशैलीनाञ्च ज्ञाने वृद्धिर्भवति। इतोऽपि शब्दकोशे वृद्धिर्जायते। शिक्षणसिद्धान्तानां सन्दर्भे ज्ञाताद् अज्ञानं प्रति, सरलात् कठिनं प्रति च द्वयोः सिद्धान्तयोः परिपालनं भवति । वाक्यानां रचनाप्रक्रमे विधिरयमवश्यमेव छात्रान् उपकरोति । तुलना निरीक्षणादिषु कार्येष्वपि सरलतायाः अनुभवः भवति वस्तुतस्तु भाषा अभ्यासजन्या भवति, वारं वारम् अनुवादक्रियाद्वारा लेखनपटनकौशलयोः विकासे बाधा उत्पद्यते । अनेन भाषायाः मूलभावानां हानिर्जायते। अनुवादस्तु प्रतिकृतिस्वरूपः प्रतिफलत्वेन अस्माभिः वक्तुंशक्यते यत् अनुवादविधेः प्रयोगः अनिवार्यः परं चत्वारिभाषाकौशलानि नैव विस्मरणीयानि इति।
११. हरबर्टविधिः– प्रसिद्धदार्शनिकेन हरबर्टमहाशयैन प्रणीतः अयं विधिः । हरबर्टमहोदयस्य अनुकर्तारः अस्मिन् सन्दर्भे हरबर्टमहाशयस्य सिद्धान्तान् अङ्गीकृत्य शिक्षणप्रक्रमे एकां नूतनां प्रयोगात्मकसंरचनां प्रतिपादितवन्तः । अस्य विधेः वैशिष्ट्यं पञ्चसु सोपानेषु प्रतिपाद्यते । तानि सोपानानि निम्नोक्तानि सन्ति –
१. प्रस्तावना
२. विषयोपस्थापनम्
३. तुलना
४. सामान्यीकरणम्
५. प्रयोगः ।
प्रस्तावनादानादौ प्रश्नकरणद्वारा कवेः लेखकस्य वा विषये वार्तालापद्वारा छात्राः सन्नद्धाः क्रियन्ते । पाठस्य पूर्वसन्नाहः अस्मिन् प्रकरणे निर्धार्यते । प्रस्तावस्य साफल्येन एव पाठस्य विकासो भवति। यदि प्रस्तावः नास्ति समीचीनः तर्हि पाठस्य शिक्षणे साफल्यं नैव प्राप्यते । कदाचित् प्रसङ्गविशेषं वर्णयित्वा अपि प्रस्तावना बोध्यते । परं प्रश्नकरणद्वारा प्रस्तावना सुष्ठु भवतीति शिक्षाविशारदानां मतम् ।
विषयोपस्थापने पाठस्य विभाजनं क्रियते प्रामुख्येन केन्द्रभूतं भावमङ्गीकृत्यविषयोपस्थापनं क्रियते । अनेन पाठस्य प्रमुखस्थलं छात्राणां पुरतः प्रकटीभवति । अस्मिन्नेवक्रमे शिक्षकैः आदर्शवाचनं, छात्रैः अनुकरणवाचनं, पदच्छेदः समासविग्रहश्च क्रियन्ते ।
शिक्षणमार्गे यः पाठः प्रवर्तते यस्य तुलना (तौलनिकमध्ययनं वा) छात्राणां सञ्चितज्ञानेन सह क्रियते। भाषाशिक्षणसन्दर्भे काठिन्यनिवारणं पदानां विविधांशानाञ्च विस्तृतव्याख्या चअस्मिन् सोपाने एव अन्तर्भवन्ति ।
व्याकरणपाठानां शिक्षणे सामान्यीकरणस्य महत्त्वं भवति । सञ्चितज्ञानस्य पाठेनसह तुलना माध्यमेन छात्राः सामान्यसिद्धान्तान् अवगच्छन्ति। पुनरावृत्तिप्रश्नानां कृते अपि अस्मिन् सोपाने एव स्थानं कल्प्यते।
प्रयोगे नवार्जितज्ञानस्य व्यावहारिकस्वरूपे विचारः क्रियते। प्रस्तुतस्य पाठस्य उपस्थापनायाः तुलनायाः च अनन्तरं यदा छात्रैः सामान्यसिद्धान्ताः निर्धार्यन्ते तदा इदमावश्यकंभवति यत् ते नूतनप्रयोगस्य माध्यमेन नूतनरचनां कर्तुं सन्नद्धाः भवेयुः । इयं प्रयोगस्यावस्थेतिउच्यते। संस्कृतशिक्षणावसरे अस्मिन् सोपाने छात्राणां कृते अभ्यासकार्यस्य केचन प्रश्नाः दीयन्ते। गृहकार्यस्य कक्षाकार्यस्य च स्थानमपि प्रयोगसोपानमेव अनुसरति ।
अयं विधिः मनोविज्ञानसिद्धान्तेष्वाधारितः सामान्यतार्किकविचाराणां क्रममनुसरति अयं विधिः अस्य विधेः न्यूनता इयमस्ति यत् अयं विधिः सर्वेषु विषयेषु नैवोपयुज्यते । यथा ‘विज्ञान (Science)’ विषयस्य शिक्षणे अयं विधिः विफलः सञ्जातः । भाषाशिक्षणस्य स्तरे अपि सर्वप्रकारकेषु पाठेषु अयम् अनुपयुक्तः एव प्रतीयते। अथापि अनिवार्यसंशोधनप्रक्रियया अयं विधिः अद्यत्वे शिक्षणव्यवस्थायां व्यवहारे विद्यते। प्रशिक्षणमहाविद्यालयेषु अस्य विधे अपूर्वं महत्त्वं गीयते, यतो हि पाठ- योजनानां (Lesson- Plans) निर्माणे अस्य उपयोगिता सर्वत्र एव परिलक्ष्यते । इतोऽपि ‘मूल्याङ्कनप्रविधिः’ इति शब्दः श्रूयते विश्लेषणरीत्या अयमपि हरबर्टमहाशयानां विधौ (हरबर्टविधिः) एव अन्तर्भवति ।
१२. सूक्ष्मशिक्षणविधिः (Micro Teaching Method)-प्रशिक्षणस्तरे अयं विधिःमहत् प्रामुख्यं भजते । सूक्ष्मशिक्षणस्य चर्चा प्राथम्येन अमेरिकानगरस्थ स्टेनफोर्ड विश्वविद्यालये कृता । अस्य विधेः प्रमुखप्रवर्तकेषु कथएचीसन् (Kaith Acheson) डॉ. डी. डब्ल्यू. एलेन, डॉ. रॉबर्ट बुश (Dr. Robert Bush) हेरी गैरीसन्, कैलेन बैकत्रादयः प्रमुखाः सन्ति । छात्राध्यापकानां (Pupil’s Teacher) शिक्षणकौशलेषु नैपुण्यप्रदानार्थमस्य विधेः प्रयोगः क्रियते । प्राक्तनानां विभिन्नकौशलानां (Difference types of Skills) विकासे अस्य महत्त्वं भवति। सामान्यकक्ष्याशिक्षणकार्ये विद्यमानसमस्यानां समाधानार्थं शिक्षाशास्त्रिणः अस्योपरि बलं ददाति । अस्मिन् प्रक्रमे ध्वनिग्राहकयन्त्रः छायाग्राहकसूत्रं वा प्रयुज्यते। छात्राध्यापकाः सूक्ष्मशिक्षणविधिमाध्यमेन यज्ज्ञानमर्जयन्ति तत्सर्वं भाषादिस्तरेषु विद्यालये छात्राणामुपकराय कल्पते । सूक्ष्णशिक्षणस्य सोपानानि अधोलिखितानि सन्ति-
क. शिक्षणकौशलानां सैद्धान्तिकरीत्या विवेचनम् ।
ख. विशिष्टशिक्षणकौशलम् ।
ग. आदर्शपाठस्य प्रस्तुतीकरणम् ।
घ. पाठयोजनायाः संरचना ।
ङ. शिक्षणकार्यम्
च. पृष्ठपोषणम्।
छ. पुनः पाठयोजनायाः संरचना ।
ज. पुनः शिक्षणम्।
झ. पुनः पृष्ठपोषणम् ।
सूक्ष्मशिक्षणविधेः प्रमुखं लक्ष्यं भवति‘कौशलेषु विशेषावधानम्।’ छात्रसंख्यायाः न्यूनता यदि भवेत् तर्हि कक्षानुशासने बाधा नानुभूयते । दुष्टत्वरहितं समीचीनं ज्ञानम् विधिना प्राप्तुं शक्यते । परमस्मिन् विधौ यदा शिक्षणं प्रवर्तते तदा धनव्ययमाधिक्येन भवति। बहवः छात्राः अपि तीव्रगत्या ज्ञानसञ्चये सक्षमाः सन्नद्धाश्च नैव भवन्ति । तथापि आधुनिककाले अस्य विधेः प्राचुर्यं सर्वत्र द्रष्टुं शक्यते।
संस्कृतशिक्षणस्य नूतनविधीनां प्रसङ्गे इमे विधयः प्रयोक्तव्याः व्यवहारे कार्यव्यापारेच अद्यत्वे एतेषां बहुमहत्त्वं विद्यते । इतोऽपि बहवः विधयः प्रसंगवशात् विषयवैविध्यवशात् वा संस्कृतशिक्षणे वर्तन्ते यथा – प्रत्यक्षविधिः, अभिनयविधिः, संरचनाविधिः, परिभाषाविधिः, वाक्यप्रयोगविधिः, समीक्षाविधिः, सहयोगविधिः, व्यासविधिः, कथाविधिः, प्रसङ्गविधिः, शब्दकोशविधिः चादयः । सर्वेषु विधिषु सिद्धान्तरीत्या व्यवहारेप्रयोगरीत्या च शिक्षाविशारदेषु मैं शिक्षाशास्त्रपण्डितेषु च ऐकमत्यं नास्ति इति कृत्वा प्रमुखानां विधीनां वर्णनमत्र कृतमस्ति । आधुनिककाले संस्कृतशिक्षणे ये विधयः कक्षायामध्यापनावसरे प्रयुज्यन्ते तेषु इमे प्रामुख्यं निर्वहन्ति । अस्मिन् सन्दर्भे इदं ध्यातव्यं भवति यत् येन विधिना छात्रेषु अधिगमः तीव्रगत्या सञ्जायते अपि च येन ते प्रबुद्धाः भवन्ति ते एव विधयः नूतनतायाः संवरणं कुर्वन्ति । संस्कृतभाषाशिक्षणे अस्माकं प्रमुखं लक्ष्यं भवति- चतुर्षुभाषाकौशलेषु (LSRW) छात्राणां कृते नैपुण्यप्रदानम् इदमेकस्य कुशलशिक्षकस्य प्रधानं दायित्वमस्ति यत् सः केन मार्गेण स्वछात्रान् सफलीकरोति तेषां ज्ञानार्जने साहाय्यं वा प्रकटीकरोति। अरस्तू महोदयानां मतमस्ति यत् शिक्षकेषु शुद्धज्ञानस्याधारः तेषां प्रबोधनशक्तिरेव भवति नान्यत् किमपि । अनेन मार्गेण यथाविधिः शिक्षणं कार्यं प्रवर्तते तथाविधिः प्रयासः करणीयः यतो हि छात्राणां संस्कृताध्ययने चिन्तने भावप्रकाशने च भाषाशिक्षकत्वेन अस्माकं परममोद्देश्यं भवति ।
शिक्षा कस्यापि राष्ट्रस्य प्रगतेः आधारस्तम्भः सञ्जायते। व्यक्तेः विकासः, व्यक्तेःउन्नतिः च समाजस्य प्रगति सङ्केतयतः । आदर्शचरित्राणां निर्माणे शिक्षायाः संकल्पना एव सर्वोपरि दृश्यते। अधुना विश्वकक्षाकक्षे तादृशानि मूल्यानि स्थापनीयानि यैः छात्राणां बौद्धिकविकासः, शारीरिकविकासः, सामाजिकविकासश्च भवेत्। यतो हि भाविनागरिकाणां निर्माणं समाजस्य कृते सभ्यतायाः कृते च अनिवार्यत्वेनाङ्गीक्रियते । शिक्षायाः प्रधानोद्देश्येषु अस्माकं भारतीयसंस्कृतिमाधारीकृत्य विश्वं भवत्येकनीडम्’सा विद्या या विमुक्तये’, ‘वसुधैव कुटुम्बकम्’ च एतादृशानां मौलिकसिद्धान्तनामावश्यकता सुराष्ट्रस्योन्नत्यर्थमपेक्ष्यते। शिक्षकाः राष्ट्रनिर्मातारः । तेषां महत्प्रयत्नेन एव राष्ट्रोऽयं विश्वशिक्षासन्दर्भेषु उन्नतिं लभेत् इति । तथा च विश्वसम्भताया संरक्षणे विकासे च संस्कृतवाङ्मयस्याध्ययनं नूतनदृष्ट्या अवश्यमनिवर्त्यं भवेदिति ।