अध्यापकव्यक्तित्वलक्षणानि
प्रो. रजनीकान्तशुक्लः
शिक्षासङ्कायः
राष्ट्रियसंस्कृतविद्यापीठम्
(मानितविश्वविद्यालयः)
तिरुपतिः
कस्यापि राष्ट्रस्य निर्माणे समाजस्य शिक्षायाः संस्थायाश्च योगदानं भवति। प्राचीनकालादेव समाजस्य एतत्कार्यं बहवः नागरिकाः निर्वहन्ति । तेषु अध्यापकानां महत्त्वपूर्णा भूमिका वर्तते । एकस्मिन्नेव समये सामाजिकमूल्यानां, नैतिकमूल्यानां, जीवनमूल्यानां, राष्ट्रियमूल्यानां, धार्मिकमूल्यानां च स्थापनाय अध्यापकाः एव कर्तुं शक्नुवन्ति ।
वैदिककाले शिक्षाव्यवस्थायाम् आचार्यस्य प्रधानता आसीत्। उत्तरवैदिककाले शिष्यस्यच प्रधानता आसीत्, परन्तु अस्मिन्नेव काले बालकेन्द्रिता शिक्षा प्रचलति। सर्वेषु युगेषुशिक्षकस्य प्रधानता अस्त्येव ।
“ज्ञान तृतीयं मनुजस्य नेत्रम्”बुद्धिर्ज्ञानेन शुध्यति’ ‘बुद्धिर्यस्य बलं तस्य’ ‘विद्याददाति विनय’ ‘विद्या विनयेन शोभते’ ‘विद्याविहीनः पशुः’ ‘नास्ति विद्यासमं चक्षुः’ ‘सा विद्या या विमुक्तये’ इत्यादिभिः आदर्शवाक्यैः विद्यायाः सत्तां सर्वे साधयितुमिच्छन्ति ।
शिक्षाप्राप्तये सामाजिकाः जनाः शिक्षालयस्य स्थापनां कर्वन्ति। शिक्षालयसंचालकत्वेन आचार्यस्य, अध्यापकस्य, गुरोर्वा दायित्वं भवति। तत्र मानवीयोद्देश्यानां पूर्त्यर्थं शारीरिकशक्तीनां.मानसिकशक्तीनाम्, आध्यात्मिकशक्तीनां च प्राप्त्यर्थम् उत्तमनागरिकाणां निर्माणाय च भवति ।
प्राचीनकालादेव शिक्षालयस्य संचालन मन्त्रद्रष्टारः ऋषयः, महर्षयः, आचार्याः, गुरवः, उपाध्यायाः, अध्यापकाः, शिक्षकाः, प्रेरकाः आदयः बहवः कुर्वन्ति स्म। इदञ्च परम्परायाम् अस्माकं संस्कृतौ च उल्लिखितमस्ति । तेषामेव प्रेरणया मानवाः जीवनयापनार्थं, समाजरक्षार्थं, राष्ट्रस्यमार्गदर्शनार्थं, संस्कृतिसंरक्षणार्थं, विश्वबन्धुत्व-भावनायाः विकासार्थं च सक्रियाः दृश्यन्ते ।
शिक्षया अन्तर्निहितशक्तीनां विकासः भवति, इति हेतो: सर्वे जनाः स्वसन्ततिंगुरोः पार्श्वे प्रेषयन्ति स्म । सर्वगुणसम्पन्नाः आचार्याः, गुरवः, अध्यापकाः तां शिक्षयन्ति स्म । इदानीमपि इयं परम्परा प्रचलति। एते शिक्षा प्रदातारः बहुभिः गुणैः सम्पन्नाः दृश्यन्ते ।
संस्कृतवाङ्मये यथा- वैदिकसाहित्ये, सूत्रसाहित्ये, उपनिषद्सहित्ये, संहिताग्रन्थे, तन्त्रे, साहित्ये च एतेषाम् आचार्याणां गुणविषये लक्षणविषये च वर्णितम्। यथा अथर्ववेदे –
आचार्यस्ततक्षनभसी उमे इमे ।
उर्वीगम्भीरे पृथिवीं दिवं च ।। (अ.वे. ११1५1८)
रचनाज्ञानबलेन शिष्यस्य सर्वान् संशयान् दूरीकृत्य तद्व्यक्तित्वं निर्मातिस एव आचार्यः भवति इति । अथर्ववेदे आचार्यस्य व्यक्तित्वविषये वर्णितमस्ति –
“आचार्य उपनयमानोब्रह्मचारिणं कृणुते गर्भमन्तः ।
तं रात्रिस्तिस्त्रः उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ।।“
अनेन मन्त्रेण ज्ञायते यत् आचार्यः ब्रह्मचारिणे द्वितीयं जन्म प्रददाति अत्र रात्रिशब्द तु अन्धकारवाचकः भवति । आचार्यः शास्त्रतत्वार्थयोश्च अवबोधनस्य कार्यं करोति स्म इति मनुस्मृतौ वर्णितम्-
“उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः ।
संकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।।“ इति
एवमेव पद्मपुराणेऽपि उक्तम्
“आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः।
मन्त्रज्ञो मन्त्रभक्तश्च सदामन्त्रात्मकः शुचिः ॥“
आचार्यः आचारं ग्राहयति इत्यपि निरुक्तिः निरुक्तौ उपलभ्यते । यः शिष्यचारित्रस्य आचार्यस्य संस्कर्ता भवति स एव आचार्यः ।
आधारितुं योग्यः आचार्यः इति पाणिनीयव्याकरणे अपि। एवमेव क्रमेण आचार्यगुणानां विषये आयुर्वेदस्य चरकसंहितायां वर्णितम्-
पर्यवदाश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिः,
जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिशं,
प्रतिपत्तिज्ञमनुपस्कृत विहांमनेदृकृतमनसूयम
कोपनं क्लेशक्षमं शिष्यवत्सलमध्यापकं,
मापनसमर्थं च इत्येवगुणो ध्यायाचार्यः ।
गुरोर्लक्षणविषयेऽपि आगमसारतन्त्रे एवं वर्णितम् –
“गकारोज्ञानसम्पन्नरेफः सत्वप्रकाशकः
उकारात् शिवतादात्म्यं दद्यादिति गुरुस्मृतः ।।
अपि च शब्दकल्पद्रुमे वर्णितमस्ति –
‘गकारः सिद्धिदं प्रोक्तो रेफो पापस्य हारकः ।
उकारो विष्णुरव्यक्ता जितमात्मागुरुः परः ।।‘
एवञ्च निरुक्ते निगदितम् –
‘गुरुशिष्योपकर्ता सत्पथस्य च प्रदर्शकः ।‘
बालकस्य सर्वांगीणविकासस्य कार्यं गुरुरेव करोति । इति स्मृतौ मनुना उक्तम् –
‘निषेकादीनि कर्माणि यः करोति यथाविधिः।
सम्भावयति चान्येन स विप्रो गुरुरुच्यते ।।‘
अनेन प्रकारेण एव शिवपुराणेऽपि गुरोर्लक्षणविषये स्पष्टीकृतम्-
‘शिष्यस्तु शिक्षणीयत्वात् गुरुर्गौरवकारणात्।
तस्मात् सर्वप्रयत्नेन गुरुगौरवमाचरेत्।।‘ इत्यस्ति।
श्रूयते च प्रसिद्धः श्लोकः
‘अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥‘
अनेन श्लोकेन ज्ञायते यत् गुरवः उपकारकाः भवन्ति । एवमेव शारदातिलकस्यद्वितीयपटले विद्यते ।
‘सर्वागमानां सारज्ञः सर्वशास्त्रार्थतत्त्ववित् ।
परोपकारनिरतो जयपूजादितत्परः ।।
अमोघवचनः शान्तो वेदवेदार्थपारगः ।
योगमार्गानुसन्धायी देवताहृदयसंगमः ।।‘
‘इत्यादिगुणसम्पन्नो गुरुरागमसम्मतः ।‘ (१४२-१४४ – इति)
अद्वैताख्यकोपनिषदि एवं वर्णितम् –
‘गुरुशब्दस्त्वन्धकारो: रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ।।
एवमेव कुलार्णवतन्त्रेऽपि सप्तदशे उल्लासे एवमेव वर्णितमस्ति।
सर्वेषु तन्त्रेषु वैष्णवशैवशाक्तपरम्परासु च गुरूणां कृते बहूक्तम् । अत्र प्रपञ्चसारसंग्रहस्य षत्रिंशत्पटले गुरोर्विषये वर्णितस्य अंशस्य संक्षेपेण प्रदर्शनं क्रियते-
स्वच्छः स्वच्छन्दसहितोऽतुच्छधीः सक्तहृच्छयः
देशकालादिविद् देशे देशे देशिक उच्यते ।।
अग्रगण्यः समग्रज्ञो निग्रहानुग्रहक्षमः ।
षड्वर्गविजयव्यग्रो विगतविग्रहः ।।
शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः ।
वेदवेदाङ्गविद्वादी वेदिता विदितागमः ।।
इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः ।
रतोऽविरतमर्चासु परं पुरमुरद्विषोः ।।
शान्तोदान्तः शान्तमना नितान्तं कान्तविग्रहः ।
स्वदुःखकरणेनाऽपि परं परसुखोद्यतः ।
ऊहापोहविदव्यग्रोलोभमोहविवर्जितः ।
अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः।
निरशशांशवित्सर्वं संशयाच्छेदसंशयः ।
नयाविद्विनयोपेतो विनीतो नचिरात्मवान् ।।
व्याधिरप्रापितव्याधिः समाधिविधिसंयुतः ।
श्रुतिधीरोऽतिधीरश्च वीरोवाक्यविशारदः ।।
वर्गोपेतसमारम्भो गम्भीरो दम्भवर्जितः ।
आदर्शः इव विद्यानां न तु दर्शनदूषकः ।।
गुरोर्लक्षणविषये शब्दकल्पद्रुमे वाचस्पत्ये च इत्थं दृश्यते –
शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् ।
शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ।।
आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः ।
निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ।।
एवमेव महाभारते अपि अध्यापकलक्षणविषये वर्णितम् –
प्रवृत्तवाक् चित्रकथः, ऊहावान् प्रतिभानवान् ।
आशुग्रन्थस्य वक्ता च यः स पण्डित उच्यते ।।
मनुस्मृतावपि-
नारून्तुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।
ययास्योद्विजाते वाचा नालोक्यां तामुदीरयेत्।।
अनेन श्लोकेन ज्ञायते यत् दुःखी सन्नपि इतरेषां मनः दुःखितं यथा न स्यात्, द्वेषभावेन यः गर्हितं न वदेत्। स एव अध्यापकः इति । यः स्वयम् अध्ययनं करोति, तदनुसारम् अध्यापनं करोति स एव उत्तमाध्यापकः भवति इत्यपि ग्रन्थेषु प्राप्यते।महाकविकालिदासेन शिक्षकगुणविषये संक्षेपेण ‘मालविकाग्निमित्रम्‘ इत्यस्मिन् ग्रन्थे वर्णितम् –
श्लिष्टा क्रिया कस्यचिदात्मसंस्था,
संक्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु स शिक्षकाणां,
धुरिप्रतिष्ठापयितव्य एव ।।
श्लोकेन अनेन ज्ञायते यत् स एव शिक्षकः साधुर्भवति यः अधिगतविद्यादिग्दर्शकरूपेणकार्यं करोति ।वर्तमान शिक्षाप्रणाल्यां शिक्षकाः दिग्दर्शकरूपेण कार्यं कुर्वन्ति ।
आचार्यः गुरवः शिक्षकः, इति एतेषां शब्दानां कृते आंग्लभाषायां (टीचर)Teacher इति शब्दस्य प्रयोगो भवति अस्मिन् पदे सप्ताक्षराणि सन्ति। प्रत्यक्षरं च तानि अस्मच्छास्त्रोक्तं व्यक्तित्वं सम्यक् रीत्या बोधयन्ति –
T- Tactful – (टेक्टफुल) – वाक्चतुरः शिक्षणविधिषु निपुणता।
E- Enthusiasm- (एन्थ्यूजिज्म) – उत्साहः अभ्युत्साहकः ।
A- Attentiveness- (अटेन्टिवनेस्) – ध्यानकेन्द्रितः ।
Address (अड्रेस्) – सम्बोधनम् ।
C- Capacity of- (कैपेसिटि ऑफ – नेतृत्वक्षमता ।
Leadership लीडरशिप)
H- Honesty -(ऑनेसटि) – सत्यनिष्ठा, विश्वासपात्रता ।
E- Emotional Stability- (इमोशनल् स्टेबिलिटि) – संवेगात्मक सन्तुलनम् ।
R- Respectful – (रेस्पेक्टफुल्) आदरणीयः ।
Reserved – (रिजर्व्ड्) आत्मसंयमः, गाम्भीर्यम्।
Responsible – (रेस्पान्सिबुल्) उत्तरदायित्वम् ।
उपर्युक्तैः गुणैः युक्ताः शिक्षणपदवीं प्राप्तुं योग्याः इति पाश्चात्यानां मतम् । वस्तुतः प्रकृत्या सर्वे अध्यापकाः भवन्ति, परन्तु शिक्षणप्रशिक्षणमाध्यमेन अध्यापनव्यवसाये कुशलताप्राप्तये च बहूनां जनानाम् आवश्यकता भवति । अतः प्रशिक्षणेन शक्तिसंचारः अपि क्रियते इति ।
भारतीयशिक्षादार्शनिकेषु प्रमुखाः आचार्याः स्वामीविवेकानन्दः, स्वामीदयानन्दः, महात्मागान्धिप्रभृतयः। एते स्वशैक्षिकविचारावसरे अध्यापकगुणानां सम्यकृतयावर्णनं कृतवन्तः ।तथैव पाश्चात्यशिक्षादार्शनिकेषु – रूसो, अरस्तू, ब्राउन, पेस्टॉलॉजी, पल्प, मॉहसेन्, मॉर्गन्, कीथ् प्रभृतयः परीक्षणैः शिक्षक गुणानां निर्धारणं कृतवन्तः ।
भारतीयशिक्षाविकासार्थं विभिन्नैः आयोगैः राष्ट्रस्य शिक्षासमुन्नत्यर्थम् अध्यापकशिक्षाविषयेऽपि गुणवत्ताविषये च बहुसंस्तुति प्रदत्ता, अस्मिन्नेव प्रसङ्गे राष्ट्रिय अध्यापक – शिक्षा परिषद् (N.C.T.E.)इत्यनया संस्थया आदर्श- अध्यापकनिर्माणार्थं दशछात्राध्यापकानां कृते एकप्रशिक्षकस्य व्यवस्था सम्पूर्णदेशे कल्पिता। अध्यापकानां गुणरक्षणाय संवर्धनाय आदर्शसंस्थापनाय च विश्वविद्यालयानुदानायोगः U.G.C. राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषद् (N.C.E.R.T) प्रभृतयः संस्था प्रतिस्तरेषु अध्यापकानां कृते अभिनवपाठ्यक्रमः (Orientation Course) पुनश्चर्या- पाठ्यक्रमः(Refresher Course) अपि च विविधानां शैक्षिककार्यक्रमाणां कार्यान्वयनं कुर्वन्ति।
राष्ट्रनिर्माणे अध्यापकाः एव सूत्रधारिणः भवन्ति । अतः अध्यापकानां गौरवेण राष्ट्रं सुरक्षितं भवति। सर्वत्र शिक्षाक्षेत्रे अध्यापकानां गुणसंवर्धनाय, कार्यकुशलतायाः विकासाय च योजनाः कल्पनीयाः । अनेन प्रकारेण भारतस्य प्राचीनं विश्वगुरुत्वमिति गौरवं पुन स्थापितं भविष्यति ।
सन्दर्भ ग्रन्थसूची –
१. वैदिक शिक्षा- पद्धति और आधुनिक शिक्षापद्धति- डॉ. नागेन्द्र झा
२. शिक्षा एवं संस्कृति नए सन्दर्भ – डॉ. भास्कर मिश्र
३. अध्यापन भारतीय दृष्टि – विद्यानिवास मिश्र
४. प्राचीन भारतीय शिक्षण – पद्धति – डॉ. ए. एस्. अल्तेकर
५. भारतीय संस्कृति के तत्त्व – आचार्य उमेश शास्त्री
६. प्राचीन भारतीय शिक्षा – डॉ. राधा मुकुद मुखर्जी
७. अध्यापक शिक्षा का पाठ्यचर्या प्रारूप (परिचर्या प्रलेख)-
राष्ट्रिय अध्यापक शिक्षापरिषद् (N.C.E.T.)
८. शब्दकल्पद्रुम – राजा राधाकान्त देव
९. अध्यापक शिक्षा – डॉ. आर. ए. शर्मा ।